तृतीयः सर्गः ३
श्रीराम उवाच ।
अवेदनं वेदनस्य मुनीन्द्र क्रियते कथम् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥ १ ॥
अत्यन्तं मार्जिते वेद्ये यथातत्त्वमवेदनम् ।
निष्क्रियं चापि विदुषां तथोपाय इहोच्यते ॥
अवेदनं विदुर्मोक्षं चित्तक्षयमकृत्रिमम् इति यदुक्तं तत्र रामः शङ्कते -
अवेदनमिति । यद्यपि वेद्योन्मुखत्वं सन्त्यज्य रूपं यद्वेदनस्य वै । न वेदनं
तन्नो कर्म तच्छान्तं ब्रह्म कथ्यते ॥ इति प्रागुक्तत्वान्नास्याः शङ्काया उत्थानं
सम्भवति । तथाप्यन्ते संविदसंवित्त्या निकृन्त्यते इत्युक्त्या तन्नाश एवोक्तः स च
तच्छान्तं ब्रह्म कथ्यत इति प्रागुक्त्या सह विरुद्धः सतोऽसत्त्वायोगादिति
सम्भवत्येव प्रश्नः । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य
सञ्ज्ञास्तीत्युक्ते अत्रैव माभगवानमूमुहत् न प्रेत्य सञ्ज्ञास्ति इति
मैत्रेयीप्रश्नवदिति ॥ १ ॥
श्रीवसिष्ठ उवाच ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
यदा तदैव सुकरं वेदनावेदनं स्वयम् ॥ २ ॥
अत एव न वा अरे मोहं ब्रवीम्यविनाशी वारेऽयमात्मा अनुच्छित्तिधर्मा
मात्रासंस्पर्शस्त्वस्य भवति इति याज्ञवल्क्यवद्वसिष्ठोऽपि समाधत्ते - नासत इति
॥ २ ॥
एतौ वेदनशब्दार्थौ रज्जुसर्पभ्रमोपमौ ।
असत्यावुदितौ विद्धि मृगतृष्णाम्भसा समौ ॥ ३ ॥
कथं सुकरं तदाह - एताविति । एतौ संसारदशाप्रसिद्धौ । यत्र हि द्वैतमिव
भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् यत्र
नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इत्यादिश्रुतिषु
एतयोर्निषिद्धत्वादिति भावः ॥ ३ ॥
अबोधस्त्वनयोः श्रेयान्बोधो दुःखाय [दुःखायते तयोः इति पाठः ।]
चैतयोः ।
तस्मात्सदेव बुद्ध्यस्व माऽसद्बुद्ध्यस्व राघव ॥ ४ ॥
अत एव वेदनघटितत्रिपुटीसाक्षिणस्त्रिपुटीनिवृत्तिरेव मोक्ष इत्याशयेनाह -
अबोधस्त्विति । सदविनाशिकूटस्थात्मरूपमेव बुध्यस्व । असत्
त्रिपुट्यन्तर्गतवृत्त्याद्युपहितचिदाभासं मा आत्मेति बुध्यस्व ॥ ४ ॥
जन्तोर्वेदनशब्दार्थबोधो दुःखकरः परः ।
निष्कृत्य ज्ञप्तिशब्दार्थबोधं तिष्ठ यथास्थितम् ॥ ५ ॥
परिच्छिन्ने तस्मिन्नात्मताबुद्धिरेव सर्वेषामनर्थहेतुरित्याह - जन्तोरिति ।
निष्कृत्य समूलं छित्त्वा ॥ ५ ॥
सर्वावबोधावसरे ज्ञप्तिशब्दार्थयोरिह ।
निर्वाणोदय इत्येव परमोमिति शाम्यताम् ॥ ६ ॥
व्यवहारकाले तय कथमुच्छेदः कार्यस्तत्राह - सर्वेति ।
सर्वत्रिपुटीबोधलक्षणव्यवहारावसरेऽपि व्यावहारिकज्ञप्तिशब्दार्थयोः परमन्यत्
तत्र यथायोगं सर्वार्थपरं कूटस्थचिन्मात्रं सर्वशब्दपरेण ओमित्यनेन
लक्षयित्वा स एवात्मा निर्वाणोदय इत्येव शाम्यतां निर्विक्षेपं व्यवह्रियतामित्यर्थः
॥ ६ ॥
शुभाशुभात्मकर्म स्वं नाशनीयं विवेकिना ।
तन्नास्तीत्यवबोधेन तत्त्वज्ञानेन सिध्यति ॥ ७ ॥
ईदृशबोधव्यवहारादेवोत्तरपूर्वयोः शुभाशुभयोरश्लेषविनाशौ सिद्ध्यत
इत्याह - शुभेति ॥ ७ ॥
कर्ममूलनिकाषेण संसारः परिशाम्यति ।
सुविचारितमन्विष्टं यावत्कर्म न विद्यते ॥ ८ ॥
कूटस्थात्मदर्शनमेव सर्वकर्ममूलवेदनोच्छेदेन सर्वकर्मबाध इत्याह -
कर्मेति । यावत्समूलं सफलं सशाखोपशाखपत्रपुष्पं च सर्वं कर्म न
विद्यते ॥ ८ ॥
चिद्रूपो बिल्वमज्जान्तश्चित्तसञ्ज्ञां यदात्मनि ।
करोति तद्यथा बिल्वान्न स्वल्पमपि भिद्यते ॥ ९ ॥
यथा बिल्वमज्जा स्वान्तर्यद्बीजादि करोति तद्बिल्वाद्यथा न भिद्यते तथा
चिद्रूपोऽप्यात्मनि यच्चित्तसञ्ज्ञां क्रियाकारकादित्रिपुटीं करोति तत्स्वल्पं मनागपि न
भिद्यत इत्यन्वयः ॥ ९ ॥
न यथा सन्निवेशान्तः सन्निवेशस्ततः पृथक् ।
तथा नभोर्थादि पृथङ् न परस्मान्मनागपि ॥ १० ॥
भूलोकसन्निवेशान्तर्गतो जम्बूद्वीपादिसन्निवेशो यथा भुवो न पृथक् । नभो
व्योम तदन्तर्गतभूतभुवनार्थादि च परस्मात्सन्मात्रान्न पृथक् ॥ १० ॥
यदेवाम्भस्तदेवान्तर्द्रवत्वमपृथग्यथा ।
चित्त्वमेव तथा चित्तं तद्रूपत्वात्तदर्थयोः ॥ ११ ॥
तदर्थयोश्चित्त्वचित्तशब्दार्थयोस्तदर्थत्वाच्चिन्मात्रार्थकचितिधात्वर्थत्वात् ॥ ११ ॥
यथा द्रवत्वं पयसि यथाऽऽलोकश्च तेजसि ।
तथा ब्रह्मण्यतद्भावं चित्त्वं चित्तं च विद्यते ॥ १२ ॥
अतद्भावं ग्राहकत्वस्मर्तृत्वधर्मद्वयशून्यम् ॥ १२ ॥
चेतनं कर्म तत्स्वान्तर्न्निर्मूलं भ्रमयक्षवत् ।
उदेत्यहेतुकं तच्चेन्नोदितं तन्न विद्यते ॥ १३ ॥
कुतस्तच्छून्यं तदाह - चेतनमिति । चेतयतीति चिदिति व्युत्पत्त्या हि
चेतनमर्थप्रकाशनं चितः कर्म क्रियेत्यवगम्यते । तच्च कूटस्थायाश्चितो
निर्मूलं भ्रमयक्षवन्मिथ्यैव यदहेतुकं मिथ्यारूपमुदेति तन्नोदितमेव । अतो न
क्रियारूपमन्यत्तत्र विद्यत इति विकल्पमात्रं तथा व्युत्पादनमित्यर्थः ॥ १३ ॥
चेतनं कर्म तच्चेतद्भाति स्पन्द इवानिलः ।
अहेतुकं यदात्मैतद्बहिरन्तऽस्च सार्थधीः ॥ १४ ॥
एवं चेतनक्रियाया अपृथक्त्वे तद्विषयाणामपि तत्सिद्धमित्याह - चेतनमिति ।
यदा चेतनं कर्म अहेतुकमिति अनिलतत्स्पन्दवदपृथक् तदा बहिर्जाग्रति
अन्तःस्वप्नसुषुप्त्योश्च सैवार्थधीरित्यर्था अप्यात्मैव न पृथगित्यर्थः ॥ १४ ॥
विस्तारः कर्मणां देहः सोऽहन्तात्मा ससंसृतिः ।
अचेतनानहन्त्वेन शाम्यस्यस्पन्दवातवत् ॥ १५ ॥
सर्वकर्मविस्तारो देह एव । अथ कर्मणामात्मेत्येतत् इति श्रुतेः । स एव मूलतः
अहन्तात्मा शाखातः संसृतिः अचेतनं
चिदाभासात्मकक्रियाबाधस्तल्लक्षणेनानहन्त्वेन मूलोच्छेदेन सशाखः स
शाम्यतीत्यर्थः ॥ १५ ॥
अचेतनादनन्तात्मा भूत्वा ज्ञोऽप्युपलोपमः ।
संसारमूलकषणं कुरु क्रोडमुखाग्रवत् ॥ १६ ॥
चिदाभासोच्छेदेन जीवस्यात्मनाशो वृत्त इति न मन्तव्यं किन्तु स
ब्रह्मभावेनानन्तात्मा भूत्वा स्वानर्थसंसारमूलोच्छेदं परमपुरुषार्थं
सम्पादितवानित्याह - अचेतनादिति । क्रोडो वराहस्तन्मुखाग्रं यथा
मुस्तादिमूलकषणं करोति तद्वत् ॥ १६ ॥
कर्मबीजकलाकोशत्याग एवं कृतो भवेत् ।
नान्यथा राघवान्तस्ते शान्तमस्तु सदा स्थितम् ॥ १७ ॥
नान्यथा हे राघव अतः कारणात् ते अन्तः सदा स्थितं वेदनात्मकं कर्ममूलं
शान्तमस्तु ॥ १७ ॥
कर्मबीजकलात्यागे त्वेतस्मादितरात्मनि ।
अविद्यमाने जीवस्य तज्ज्ञैर्विदितवस्तुभिः ॥ १८ ॥
एतस्मिन्कर्मबीजकलात्यागे कृते जीवस्य इतरात्मनि ब्रह्मात्मत्वातिरिक्ते चिदाभासात्मनि
तद्दृश्यप्रपञ्चात्मनि च अविद्यमाने जाते तज्ज्ञैः शान्तैः किञ्चिन्न गृह्यते न
त्यज्यते चेति परेणान्वयः । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति श्रुतेरिति
भावः ॥ १८ ॥
शान्तैर्न गृह्यते किञ्चिन्न च सन्त्यज्यतेऽपि च ।
त्यागादानेन जानन्ति ततस्तैः शान्तमानसम् ॥ १९ ॥
आकाशशून्यहृदयैर्ज्ञैर्यथास्थितमास्यते ।
क्रियते च यथाप्राप्तं नाप्येतैः क्रियतेपि च ॥ २० ॥
प्रवाहपतितं सर्वं स्पन्दते शान्तमानसम् ।
तेषां कर्मेन्द्रियाण्येवमर्धसंसुप्तबालवत् ॥ २१ ॥
यथा नदीप्रवाहपतितं तृणकाष्ठादि सर्वं स्पन्दते एवं तेषां कर्मेन्द्रियाणि
शान्तमानसं विनापि मनोविकारं स्पन्दते इति विपरिणम्यते ॥ २१ ॥
रसे निर्वासने लब्धे रसा अप्यतिनीरसाः ।
नान्तस्तिष्ठन्ति न बहिरज्ञाननिपुणा इव ॥ २२ ॥
निर्वासने निर्विषये रसे न्निरतिशयानन्दे । रसा भोगप्रवणाः करणवृत्तयो नीरसा
रागशून्याः सन्तोऽज्ञाननिपुणाः स्वस्वविषयप्रकाशे असमर्था ओव भूत्वा ॥ २२ ॥
कर्मणो वेदनं त्यागः स च सिद्धः प्रबोधतः ।
अवस्तु नेतरेणार्थः किं कृतेनाकृतेन वा ॥ २३ ॥
प्रागुक्तवेदनमेव कर्मणस्त्यागः । इतरेण जीवनादृष्टाक्षिप्तदेहादिस्पन्दरूपेण
कर्मणा ॥ २३ ॥
अवेदनमसंवेद्यं यदवासनमासितम् ।
शान्तं सममनुल्लेखं स कर्मत्याग उच्यते ॥ २४ ॥
अनुल्लेखं कृताकृतप्रतिसन्धानशून्यम् ॥ २४ ॥
अपुनःस्मरणं सम्यक् चिरविस्मृतकर्म [कर्मवदिति पाठः ।] तत् ।
स्थितं स्तम्भोदरसमं स कर्मत्याग उच्यते ॥ २५ ॥
अत्यागं त्यागमिति ये कुर्वते व्यर्थबोधिनः ।
सा भुङ्क्ते तान्पशूनज्ञान्कर्मत्यागपिशाचिका ॥ २६ ॥
अत्यागन्न् मूलत्यागरहितं कर्मेन्द्रियसंयममात्ररूपम् । तथा चोक्तं भगवता
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा
मिथ्याचारः स उच्यते ॥ इति ॥ २६ ॥
समूलकर्मसन्त्यागेनैव ये शान्तिमास्थिताः ।
नैव तेषां कृतेनार्थो नाकृतेनेह कश्चन ॥ २७ ॥
समूलमलमुद्धृत्य कर्मबीजकलामिति ।
नित्यमेकसमाधानास्तज्ज्ञास्तिष्ठन्त्यतः सुखम् ॥ २८ ॥
इति प्रागुक्तरीत्या समूलमुत्सृज्य ॥ २८ ॥
प्रवाहपतिते कार्ये ईषत्स्पन्दा अतन्मयाः ।
घूर्णमाना इव क्षीबा यन्त्रसञ्चारिता इव ॥ २९ ॥
अतन्मयास्तदभिमानलक्षणविकारशून्याः । क्षीबा मदिरोन्मत्ता इव । यन्त्रेण
सञ्चारिताः काष्ठादिप्रतिमा इव च ॥ २९ ॥
मोक्षलक्ष्म्या विलासिन्या व्यसनोपहता इव ।
अर्धसुप्तप्रबुद्धाभाः कामप्यवनिमागताः ॥ ३० ॥
व्यसनेन आसक्त्यतिशयेन उपहताः स्वदेहाद्यप्रतिसन्धानं प्राप्ता इवेत्युत्प्रेक्षा ।
कामप्यवनिं पञ्चम्यादिभूमिकाम् ॥ ३० ॥
यत्समूलं परित्यक्तं तत्त्यक्तमिति कथ्यते ।
अमूलकाषस्त्यागो यः स शाखालवनोपमः ॥ ३१ ॥
प्द्फ़् १६०, प्। १०७६
अकृष्टमूलशाखाग्रलवनः कर्मपादपः ।
पुनः शाखासहस्रेण दुःखाय परिवर्धते ॥ ३२ ॥
न कृष्टमुन्मूलितं मूलं यत्र तथाविधं शाखाग्रलवनं यस्य ॥ ३२ ॥
अवेदनात्मना तेन कर्मत्यागोऽङ्ग सिध्यति ।
क्रमेण नेतरेणात एतदेवाहरन्भव ॥ ३३ ॥
तेन प्रागुक्तेन क्रमेणाहरन्नभ्यस्यन्भव तिष्ठ ॥ ३३ ॥
ये त्वेवं कर्मसन्त्यागमकृत्वान्यत्प्रकुर्वते ।
अत्यागं त्यागरूपात्म गगनं मारयन्ति ते ॥ ३४ ॥
बोधात्मकतया कर्मत्यागः सम्पद्यते स्वयम् ।
दग्धबीजा निरिच्छोच्चैरक्रियैव भवेत्क्रिया ॥ ३५ ॥
निरिच्छा जीवन्मुक्तक्रिया उचैर्गहारम्भापि दग्धबीजेत्यक्रियैव । न हि महानपि
दग्धतन्तुः पटाभासः पटो भवतीति भावः ॥ ३५ ॥
बुद्धीन्द्रियेहितं कर्म सफलं रसभावनात् ।
वेष्टितव्यन्न् कुदाम्नेव स्पन्दोऽन्यो निष्फलोऽङ्गजः ॥ ३६ ॥
बुद्धिसहितैरिन्द्रियैर्भोगासक्तिरसभावनादीहितं निष्पादितम् । यथा कुदाम्न
वेष्टितव्यं कूपकाष्ठं रसभावनाज्जलोद्धरणसेचनादिरूपात्सस्यसम्पत्त्या
सफलं न तु वृथा चेष्टामात्रात्तद्वदन्योऽङ्गजः कायचेष्टामात्ररूपः स्पन्दो
निष्फलः ॥ ३६ ॥
कर्मत्यागे स्थिते बोधाज्जीवन्मुक्तो विवासनः ।
गृहे तिष्ठत्वरण्ये वा शाम्यत्वभ्येतु वोदयम् ॥ ३७ ॥
शाम्यतु धनादिसम्पदपचयेन दरिद्रोऽस्तु । उदयं तदुपचयमभ्येतु वा । स सम
एवेति शेषः ॥ ३७ ॥
गेहमेवोपशान्तस्य विजनन्न् दूरकाननम् ।
अशान्तस्याप्यरण्यानि विजना सजना पुरी ॥ ३८ ॥
परिशान्तमतेर्ज्ञस्य स्वप्नेऽप्यप्राप्तमानवा ।
निर्मला वितता हृद्या हृद्येव वनभूमिका ॥ ३९ ॥
गेहमेवेत्येतच्छ्लोकस्य पूर्वार्धं वर्णयति - परिशान्तेति द्वाभ्याम् ॥ ३९ ॥
ज्ञस्य निर्वाणदृश्यस्य निस्पन्दार्था नभोमयी ।
शान्ताशेषविशेषार्था जगदेव महाटवी ॥ ४० ॥
निर्वाणं ज्ञानाग्निना सहोपरतं दृश्यं यस्य ॥ ४० ॥
अनन्तसङ्कल्पवतो हृदयस्थजगत्स्थितेः ।
हृद्येवावर्तते भूमिरज्ञस्याखिलसागरा ॥ ४१ ॥
तदुत्तरार्धं वर्णयति - अनन्तेति त्रिभिः ॥ ४१ ॥
जनस्याज्ञस्य दीनस्य विविधद्वन्द्वसङ्कटा ।
सारम्भा विविधाकारा हृद्येव ग्राममण्डली ॥ ४२ ॥
विविधकार्यविकारदशामयी सपुरपत्तनमण्डलपर्वता ।
मुकुरकोश इव प्रतिबिम्बिता हृदि भवत्यमला मलिने मही ॥ ४३ ॥
विविधैः कार्यैरवश्यकर्तव्यैरर्जनव्ययप्रवासकलहादिभिः सदैव
लोभमोहशोकभयासक्त्यादिविकारदशामयी [भयारत्यादीति पाठः ।] ।
पुरं शाखानगरम् । पत्तनं महानगरम् । मण्डलान्यवान्तरदेशाः । मलिने
हृदि ईदृशी स्फुटा सर्वा मही मुकुरकोशे इव प्रतिबिम्बिता भवत्येवेत्यज्ञस्य
नारण्येऽपि विश्रान्तिसुखमित्यर्थः ॥ ४३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे दृश्योपशमयोगोपदेशो नाम तृतीयः सर्गः ॥ ३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
दृश्योपशमयोगोपदेशो नाम तृतीयः सर्गः ॥ ३ ॥
प्द्फ़् १६०, प्। १०७६