द्वितीयः सर्गः २
श्रीवसिष्ठ उवाच ।
अद्वैतैक्यं विमननं शान्तमात्मन्यवस्थितम् ।
यथा पङ्कमयं सैन्यं तथा शिवमयं जगत् ॥ १ ॥
निरूप्यतेऽत्र प्रथमं सर्वं शिवमयं जगत् ।
कर्मबीजं तथान्विष्य समूलं विनिवार्यते ॥
सर्वं शिवमयं शान्तमनन्तं प्राग्वदास्यताम् इति यदुक्तं तदत्र
प्रथममुपपादयितुं प्रतिजानीते - अद्वैतैक्यमिति । आत्मनि पारमार्थिकस्वभावे
तत्त्वदृष्ट्या अवस्थितम् ॥ १ ॥
मनोहङ्कारबुद्ध्यादिचित्तमेव च तन्मयम् ।
कालाकारक्रियाशब्दशक्तिसन्दर्भसंयुतम् ॥ २ ॥
यद्यद्धि चिद्भास्यं तत्तच्चिद्विवर्तत्वाच्चिन्मयमित्यन्तःकरणचतुष्टये क्रमेण
दर्शयति - मन इति । प्रथमं हि चितश्चेत्योन्मुखत्वलक्षणं मननं
चिद्व्याप्तमेव ततस्तदभिमानाध्यवसायस्मरणकामसङ्कल्पादिवृत्तयस्तथैव
चिद्व्याप्ताः सर्वानुभवसिद्धाः । तथा चिच्चेत्यसम्बन्धलक्षणः
कालश्चेत्याकारस्तत्क्रियाणामसंस्थानसहितं सर्वमन्तःकरणसंसरणं
साक्षात्साक्षिवेद्यत्वाच्छिवमयमिति बोद्धुं शक्यमित्यर्थः ॥ २ ॥
शिवपङ्कमया एव रूपालोकमनःक्रमाः ।
तन्मयत्वादनन्तत्वादतः किं केन चेत्यते ॥ ३ ॥
एवं बहिरिन्द्रियतद्द्वारकबाह्यदर्शनतद्विषयेष्वपि
चिद्व्याप्तिप्रयुक्तैवापरोक्षप्रथेति तत्रापि शिवमयत्वमेव विवेकिभिर्द्रष्टुं
शक्यमित्याशयेनाह - शिवेति । रूपालोकग्रहणं
शब्दाद्यालोचनानामप्युपलक्षणम् । मनःक्रमा
बाह्यसविकल्पकहानोपादानादिबुद्धयस्तद्विषयाश्च । एवं शिवमयत्वदर्शने शिव
एव सर्वत्रिपुटीरूपेण प्रथते न ततो वस्त्वन्तरमस्तीत्याह - तन्मयत्वादिति ॥ ३ ॥
मातृमेयप्रमाणादिदेशकालौ दिगादि च ।
भावाभावविवर्तादिशिवपङ्कमयात्मकम् ॥ ४ ॥
तदेव विशदयति - मात्रिति ॥ ४ ॥
अहम्ममेत्यतः सारान्नेतरत्परमेश्वरात् ।
असंसक्तमतिस्तिष्ठ हा शिलोदरमौनवत् ॥ ५ ॥
सर्वविवर्तानहम्ममेति द्वैरूप्येणैव सङ्गृह्य तत्र चिद्व्याप्तत्वपर्यालोचने
तत्सारतन्मात्रत्वपरिशेषात्तत्र स्थितिः सुलभेत्याशयेनाह - अहमिति । शिलोदरे
यत्प्रसिद्धं वागादिचेष्टाशून्यत्वलक्षणं मौनं तद्वत् । नामरूपकर्मात्मके
प्रपञ्चे नामरूपयोरपरोक्षचिद्व्याप्त्यैव स्फुरणाच्छिवमयत्वं निर्णीय तत्र
बाधेन तत्स्वरूपेऽवस्थानं सुकरम् ॥ ५ ॥
श्रीराम उवाच ।
अहम्ममेत्यसद्रूपं ज्ञस्याभावयतः प्रभो ।
अशुभं कर्मणां त्यागादनुष्ठानाच्च किं शुभम् ॥ ६ ॥
कर्मणां तु पुण्यपापलक्षणानामनन्तकोटिजन्मसञ्चितानामपरोक्षतया
भानादर्शनान्न शिवमयत्वदर्शनेन बाधसिद्धिरिति तन्निवारणे
परिशेषादामरणं निश्चेष्टावस्थानलक्षणस्तत्त्याग एवोपायः । न हि ज्ञानिनः
कर्मकरणेन किञ्चित् फलमपेक्षितं न वा नित्यनैमित्तिकत्यागे प्रत्यवायप्रसक्तिरस्ति
येन तूष्णीमव-
प्।१०७२ अन्द् १०७३ नोत् च्लेअर्
प्द्फ़् १५९, प्। १०७४
सूक्ष्मसंविदसंवित्त्या स्वयत्नेन निकृन्त्यते ।
येन संविदसंवित्त्या स्वयत्नेन विचार्यते ॥ ४५ ॥
तस्मान्मदुक्त एव कर्मत्यागोपाय इत्याशयेनोपसंहरति - सूक्ष्मेति । येन
चिदाभासरूपा संवित् असंवित्त्या मूलाज्ञानेन सह स्वयत्नेन तत्त्वं बुद्ध्वा
विचार्यते रलयोरभेदाद्विचाल्यते स्वरूपात्प्रच्याव्यते । तेन तन्मूला
तत्तद्दृश्यदर्शनरूपा वृत्त्यवच्छिन्नचिदाभासात्मिकापि
मूलबाधकस्वयत्नेनैव असंवित्त्या अप्रतिसन्धानेन निकृन्त्यते । न तन्निकृन्तने
पृथक्प्रयत्नापेक्षास्तीति भावः । क्वचित्पुस्तके येनेत्याद्युत्तरार्धं न पठ्यत एव
तदा तेन संसृतिवृक्षस्य तत्त्वज्ञानेन सर्वबाधलक्षणो मूलकाषो वितन्यते येन
निकृन्त्यत इति परेण [परेण इत्यत्र पूर्वेण इत्यपेक्षितम् ।] योज्यम् ॥ ४५ ॥
तेन संसृतिवृक्षस्य मूलकाषो वितन्यते ॥ ४६ ॥
अचेतनाकाशमनन्यदेकं तदेवमस्ति त्विदमर्थहीनम् ।
तद्व्योमरूपं यत एतदेवं निरामयं चेतनसारमाहुः ॥ ४७ ॥
न विद्यते चेतनं चिदाभासो यत्र
तथाविधमाकाशमेकमनन्यत्सजातीयभेदैरिदमर्थैर्दृश्यैर्हीनं
तद्ब्रह्मैवैवमुक्तदृशा अस्ति तदेव सर्वेषामस्मदादिचेतनानां सारं
पारमार्थिकं रूपमाहुर्ब्रह्मविद इत्यर्थः ॥ ४७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उत्तरार्धे
कर्मबीजदाहयोगोपदेशो नाम द्वितीयः सर्गः ॥ २ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कर्मबीजदाहयोगोपदेशो नाम द्वितीयः सर्गः ॥ २ ॥
प्द्फ़् १५९, प्। १०७४