प्रथमः सर्गः १
श्रीराम उवाच ।
नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः ।
कथमेतदतो ब्रह्मन्सम्भवत्याशु जीवतः ॥ १ ॥
शिवमभयमनन्तसौख्यसिन्धुं हृदि निहितं हितमस्तमोहजालम् ।
जगदुदयनयक्षयप्रवीणं निरुपमबोधधनात्मदेवमीडे ॥
निर्ममा निरहङ्कारा निःसङ्कल्पविकल्पनाः ।
यथा जीवन्ति चेष्टन्ते मुक्ता युक्तिस्तथोच्यते ॥
पूर्वार्धे श्रीरामसमाधिप्रदर्शनव्याजेनोत्तमाधिकारिणः
श्रवणावृत्तिपरिपाकादेव साक्षात्कारज्ञानोदयेन परमपदे
सकृद्विश्रान्तिर्भवतीति दर्शितम् । तस्य दैवात्पुनर्व्युत्थानेऽपि यथा अविरतं तत्रैव
विश्रान्तिरनायासेन सिध्यति तथोत्तरोत्तरभूमिकारोपणायोत्तरार्धमिदमारभ्यते ।
अत्रादौ रामः अहम्ममेति संविदन्न दुःखतो विमुच्यते । असंविदन्विमुच्यते
यदीप्सितं तदाचर ॥ इत्यन्ते यदुक्तं तत्र सर्वकल्पनात्यागे
कल्पनाधीनदेहधारणादिव्यवहारासिद्धिं शङ्कते - नैष्कर्म्यादिति ।
देहप्राणादिष्वहन्तादिकल्पनात्यागाद्धेतोर्नैष्कर्म्यात्सर्वक्रियोपरमाद्देह##-
व्यवहारादि कथं सम्भवतीत्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
जीवतः कल्पनात्यागो युज्यते न त्वजीवतः ।
रूपमस्य यथातत्त्वं शृणु श्रवणभूषणम् ॥ २ ॥
न कल्पनाधीनं जीवनं येन तत्त्यागात्तनुपातः स्यात् किन्तु भोजकप्रारब्धाधीनम्
कल्पनात्याग एव प्रत्युत जीवनाधीनजन्मेति नोपजीवनं बाधत इत्यविरुद्धं
किन्त्वजीवनमेव विरुध्यत इत्याशयेन भगवान्वसिष्ठः समाधत्ते - जीवत इति ।
अस्य कल्पनात्यागस्य स्वरूपं यथा जीवनविरुद्धं न भवति तथा मया यथातत्त्वं
वर्ण्यमानं शृण्वित्यर्थः ॥ २ ॥
अहम्भावनमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥ ३ ॥
अहम्भावनन्न् देहादिपरिच्छेदाध्यासम् । नभः
अपरिच्चिन्नब्रह्माकाशस्तद्रूपस्यार्थस्य स्वपारमार्थिकस्वभावस्य भावनं
प्रतिसन्धानं परिच्छेदाध्यासोच्छेदित्वात्सङ्कल्पत्यागस्तैरुच्यते ॥ ३ ॥
पदार्थरसमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥ ४ ॥
इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
नभोर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥ ५ ॥
इदं देहादि सर्वं दृश्यं वस्तु परमार्थसत्यमिति संवेगमभिमानम् । तस्य
नभःकार्यभूतचतुष्टयविकारत्वात्तत्त्वतो नभोर्थ एवैकः स्फुरतीत्यर्थस्य
भावनं पर्यालोचनम् । इदं द्वयमपि भ्रान्तानुभवविरुद्धत्वेऽपि न
जीवनविरुद्धम् । जीवत एव भ्रान्तिनिवृत्तिदर्शनादिति भावः ॥ ५ ॥
स्मरणं विद्धि सङ्कल्पं शिवमस्मरणं विदुः ।
तच्च प्रागनुभूतं च नानुभूतं च भाव्यते ॥ ६ ॥
एवं स्मरणात्मकाध्यासविरोधिनस्तन्निरोधस्यापि न जीवनविरोधितेत्याशयेनाह ##-
परोक्षवृत्तिमात्रोपलक्षणम् ॥ ६ ॥
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते ॥ ७ ॥
स्मृतिं स्मरणं सर्वमनुमित्यादिवृत्त्यन्तरं च विस्मृत्य
अपरिच्छिन्नब्रह्माकारनिलीनः काष्ठवद्दृढो निश्रलश्च तिष्ठ चिरं जीव । तथा च
ब्रह्मात्मभावेन चित्तवृत्तिनिरोधो योगिनामायुर्वृद्ध्या प्रत्युत जीवनहेतुरेवेति
भावः ॥ ७ ॥
सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु ।
अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥ ८ ॥
व्यवहारकाले तु स्मृतिमात्रनिरोधः कार्य इत्याह - सर्वेति ।
दृढाभ्यस्तव्यवहारे न पूर्वापरस्मृतिप्रयत्नाद्यपेक्षास्तीत्याशयेनाह -
अर्धेत्यादिना । अभ्यस्तोपपत्तिषु पूर्वाभ्यासमात्रेणोपपद्यमानेष्वित्यर्थः ॥ ८ ॥
निःसङ्कल्पप्रवाहेण चक्रं प्रस्पन्दते यथा ।
स्पन्दस्वकर्मस्वनघप्रक्संस्कारवशात्तथा ॥ ९ ॥
विनाप्रयोजनोद्देशं पूर्वसंस्कारमात्रेण कृतकार्यं कुलालचक्रं यथा
यावद्वेगक्षयं प्रस्पन्दते भ्रमति तथेत्यर्थः ॥ ९ ॥
अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः ।
प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु ॥ १० ॥
सत्त्वं निर्वासनं मनस्तदीयं संस्कारवेगमागतोऽनुगतः सन्
रागादिदोषक्षयान्नोच्छृङ्खलप्रवृत्तिप्रसक्तिरित्याशयेनाह - प्रवाहेति ॥ १० ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
असङ्कल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥ ११ ॥
एवं प्रश्नं समाधाय बहुकृत्वोऽपि पथ्यन्न् वदितव्यमिति न्यायेन प्रागुक्तमेव
सङ्कल्पत्यागादि श्रेयःसाधनमित्युद्घोषयन्पुनःपुनराह -
ऊर्ध्वबाहुरित्यादिना ॥ ११ ॥
अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा ।
चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः ॥ १२ ॥
अवेदनमसङ्कल्पस्तन्मयेनैव भूयताम् ।
एतावत्परमं श्रेयः स्वयमेवानुभूयताम् ॥ १३ ॥
अवेदनं दृश्यदर्शननिर्मुक्तमात्मतत्त्वं तदेव मुख्योऽसङ्कल्पः ॥ १३ ॥
किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यमपि राम तृणायते ॥ १४ ॥
तूष्णीं सङ्कल्पचेष्टां विना ॥ १४ ॥
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो विगतसङ्कल्पस्तथा स्पन्दस्व कर्मसु ॥ १५ ॥
प्राक्तनसङ्कल्पप्रयुक्तक्रियावेगवशादेव यावत्तत्क्षयं व्यवहारसिद्धौ
प्रागुक्तं दृष्टान्तान्तरं पुनराह - गम्येति ॥ १५ ॥
सर्वकर्मफलाभोगमलं विस्मृत्य सुप्तवत् ।
प्रवाहपतिते कार्ये स्पन्दस्व गतवेदनम् ॥ १६ ॥
अवेदनमसङ्कल्पः इति यदुक्तं तद्व्यवहारकालेऽप्युपपादयति - सर्वेति ॥ १६ ॥
स्पन्दस्वाकृतसङ्कल्पं सुखदुःखान्यभावयन् ।
प्रवाहपतिते कार्ये चेष्टितोन्मुक्तशष्पवत् ॥ १७ ॥
यथा स्वतश्चेष्टितोन्मुक्तं शष्पं बालतृणं वाय्वादिप्रवाहपतिते
तृणान्तरसंयोगवियोगादिकार्ये स्पन्दते तद्वत् ॥ १७ ॥
रसभावनमन्तस्ते मालं भवतु कर्मसु ।
दारुयन्त्रमयस्येव परार्थमिव कुर्वतः ॥ १८ ॥
यथा परेषां कौतुकार्थं नृत्यादि कुर्वत इव स्थितस्य दारुपुत्रिकायन्त्रस्य
नटवच्छृङ्गारादिरसभावनं नास्ति तद्वत्तवापि कुर्वतो विषयसुखे मूर्खस्येव
रसभावनं कौतुकबुद्धिर्मा भूदित्यर्थः ॥ १८ ॥
नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।
आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव ॥ १९ ॥
बोधार्कपीतरसया स्पन्दन् षड्वर्गसत्तया ।
यन्त्रस्पन्दोपमस्तिष्ठ वल्ल्येव शिशिरे द्रुमः ॥ २० ॥
षड्वर्गः पञ्चकोशसंवलितचिदाभासः । समनस्कः प्राणवर्गो
ज्ञानेन्द्रियवर्गः कर्मेन्द्रियवर्गो ज्ञानकर्मेन्द्रियसहितान्तःकरणचतुष्टयम् ।
षाट्कौशिकं शरीरं चेति षट्षड्वर्गास्तेषां सत्तया । वल्ल्या वेष्टितः शिशिरे द्रुम
इव नीरसः ॥ २० ॥
चिदान्तररसान्येव प्रवृत्तान्यपि धारय ।
स्वयत्नेनेन्द्रियाण्याशु हेमन्तर्तुस्तरूनिव ॥ २१ ॥
ननु नीरसस्य षड्वर्गस्य कथं जीवनं तत्राह - चिदिति ।
अनावरणभूमानन्दरूपा चिदेवान्तरो जीवनपुष्ट्यादिहेतुरसो येषां तानि प्रवृत्तानि
स्वभावाद्बाह्यरसास्वादे प्रवृत्तान्यपि खयत्नेन निवार्य चिदान्तररसान्येव
कृत्वा धारयेत्यर्थः । इन्द्रियग्रहणं षड्वर्गोपलक्षणम् । यथा हेमन्तर्तुस्तरून्
बाह्यजलाभावेऽप्यान्तरेणैव रसेन जीवयति तद्वदित्यर्थः ॥ २१ ॥
सरसेन्द्रियवृत्तेस्ते कुर्वतोऽकुर्वतस्तथा ।
संसारानर्थसार्थोऽयं न कदाचन शाम्यति ॥ २२ ॥
इन्द्रियवृत्तीनामनिवारणे सरसत्वे च किं स्यात्तत्राह - सरसेति ॥ २२ ॥
निःसङ्कल्पमरुज्ज्वालायन्त्राम्बुस्पन्दवद्यदि ।
स्पन्दसे तदनन्ताय श्रेयसे परिकल्पसे ॥ २३ ॥
निःसङ्कल्पमेव मरुतो ज्वालाया यन्त्रस्याम्बुनश्च यथा स्पन्दस्तथा यदि स्पन्दसे ।
परिकल्पसे समर्थः स्याः ॥ २३ ॥
एतदेव परं धैर्यं जन्मज्वरनिवारणम् ।
यदवासनमभ्यस्ता निजकर्मसु कर्तृता ॥ २४ ॥
अवासनमसङ्कल्पं यथाप्राप्तानुवृत्तिमान् ।
शनैश्चक्रभ्रमाभोग इव स्पन्दस्व कर्मसु ॥ २५ ॥
चक्रे भ्रमतीति भ्रम आभोगः सन्निवेश इव शनैरुत्तरोत्तरमुपशमशीलः
स्पन्दस्व ॥ २५ ॥
मा कर्मफलबुद्धिर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।
उभयं वा त्यजैतत्त्वमुभयं वा समाश्रय ॥ २६ ॥
कर्मफले आसक्तिबुद्धिर्यस्य तथाविधो मा भूः । अकर्मणि कर्मत्यागेऽपि
तत्फलासक्तिलक्षणः सङ्गोमास्तु । फलासङ्गाभावे कर्मकरणे तत्त्यागे च न
विशेष इत्याशयेनाह - उभयमिति ॥ २६ ॥
बहुनात्र किमुक्तेन सङ्क्षेपादिदमुच्यते ।
सङ्कल्पनं मनोबन्धस्तदभावो विमुक्तता ॥ २७ ॥
नेह कार्यं न वाऽकार्यमस्ति किञ्चिन्न कुत्रचित् ।
सर्वं शिवमजं शान्तमनन्तं प्राग्वदास्यताम् ॥ २८ ॥
अकार्यं त्याज्यम् । प्राग्वद्यथास्थितमेव आस्यतां स्थियताम् ॥ २८ ॥
पश्यन्कर्मण्यकर्मत्वमकर्मणि च कर्मताम् ।
यथाभूतार्थचिद्रूपः शान्तमास्व यथासुखम् ॥ २९ ॥
अकर्मत्वं निष्क्रियब्रह्मात्मताम् । अकर्मणि तादृशब्रह्मभावस्थितौ
कर्मतामवश्यकर्तव्यताम् ॥ २९ ॥
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः ॥ ३० ॥
अवेदनं प्राग्व्याख्यातम् ॥ ३० ॥
समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते ।
ततेऽनन्ते परे शुद्धे किं केन किल खिद्यते ॥ ३१ ॥
निस्पन्दं तूष्णीमवस्थानमामवातजडीकृतसर्वाङ्गस्येव खेदायैवेति शङ्कां
वारयति - समे इति ॥ ३१ ॥
नोदेतु त्वयि सङ्कल्पो मरुभूमाविवाङ्कुरः ।
इच्छा नोदेतु भवति लतिकेवोपलोदरे ॥ ३२ ॥
अवेदनस्य शान्तस्य जीवतो वाप्यजीवतः ।
नेह किञ्चित्कृतेनार्थो नाकृतेनापि कश्चन ॥ ३३ ॥
कृतेन अकृतेन वा लौकिकवैदिककर्मणा जीवत ऐहिकोऽजीवत आमुष्मिकोऽप्यर्थः
पुरुषार्थो नास्ति ॥ ३३ ॥
यत्कर्माकर्म शान्तेऽन्तः शाश्वताभेदरूपिणि ।
न कर्मणि च कर्माणि न कर्तर्यपि कर्तृता ॥ ३४ ॥
कुतो नास्ति तत्राह - यदिति । यद्यस्मात्कारणात्कर्माकर्मोभयबाधावधौ
तदुभयात्मभूते च शाश्वताभेदरूपिणि त्वयि प्रातिभासिककर्मात्मना
[अयमर्थो मूलस्थकर्मणीत्यस्य ।] विवर्तमानेऽपि वस्तुतः कर्मता
[अयमर्थो मूलस्थकर्मणीत्यस्य भावप्रधाननिर्देशात् ।] नास्ति
तादृशकर्त्रात्मना विवर्तमानेऽपि कर्तृता नास्ति । यस्य कर्मकर्तृतादौ
सत्यताबुद्धिस्तस्यैव कर्मफलमिति श्रद्धादिवदधिकारिविशेषणविधायकशास्त्रेण
बोधनादिति भावः ॥ ३४ ॥
अहम्ममेति संविदन्न दुःखतो विमुच्यसे ।
असंविदन्विमुच्यसे यदीप्सितं तदाचर ॥ ३५ ॥
अत एव देहादावहम्ममेति संवेदनवत एव विधिनिषेधशास्त्राधिकारात्कर्मकृतो
बन्धो नेतरस्येति प्रागुक्तमित्याह - अहम्ममेति ॥ ३५ ॥
अहं ममेति नास्त्यलं यदस्ति तच्छिवं परम् ।
परात्परं त्विदं शिवादशब्दमर्थरूपकम् ॥ ३६ ॥
पाद्भूमानन्दाख्याच्छिवात्परमन्यदिदं दृश्यमर्थरूपमिवार्थरूपकं
प्रातिभासिकं जगदशब्दमनिर्वचनीयमवस्त्वेवेत्यर्थः ॥ ३६ ॥
यद्दृश्यते जगदिदं खलु किञ्चिदेतद्धेम्नोऽङ्गदत्वमिव भाति न
विद्यमानम् ।
अस्य क्षयं विदुरवेदनमेव पश्चात्सत्यं तदेव परमार्थमथावशिष्टम् ॥
३७ ॥
एतदेव स्पष्टमाह - यदिति । किञ्चित् इत्थमीदृशं चेति निर्वचनशब्दशून्यम् ।
एतद्बाधाधिष्ठानं तु अथ तदबोधबाधानन्तरं पश्चादवशिष्टमवेदनं
वेदनाविषयमेवानुभवनिष्ठाः सत्यैकरूपं परमपुरुषार्थरूपं विदुरित्यर्थः
॥ ३७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
इच्छादिचिकित्सायोगोपदेशो नाम प्रथमः सर्गः ॥ १ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
इच्छदिचिकित्सायोगोपदेशो नाम प्रथमः सर्गः ॥ १ ॥
प्द्फ़् १५७, प्।१०७१