१२८

अष्टाविंशत्यधिकशततमः सर्गः १२८

श्रीवाल्मीकिरुवाच ।

शान्तो दान्तश्चोपरतो निषिद्धात्काम्यकर्मणः ।
विषयेन्द्रियसंश्लेषसुखाच्च श्रद्धयान्वितः ॥ १ ॥

प्रविलापनयुक्त्यात्र भरद्वाजकृतार्थता ।
वर्ण्यन्ते ज्ञानिकर्तव्यरामव्युत्थापनक्रमाः ॥

तत्र साङ्गं साक्षात्कारान्तं प्रपञ्चप्रविलापनप्रकारं शान्तो दान्त
उपरतस्तितिक्षुः श्रद्धावित्तः समाहितो भूत्वात्मन्येवात्मानं पश्यति इति
श्रुतितात्पर्यवर्णनमुखेनैव वक्तुमारब्भते - शान्त इत्यादिना । तत्रोपरतपदं
विषयविभागेन व्याचष्टे - निषिद्धादिति ॥ १ ॥

मृद्वासने समासीनो जितचित्तेन्द्रियक्रियः ।
ओमित्युच्चारयेत्तावन्मनो यावत्प्रसीदति ॥ २ ॥

तत्र समाहितपदार्थतया आसनाद्यष्टाङ्गयोगं वर्णयन्
तितिक्षुपदमर्थाद्व्याचष्टे - मृद्वासने इत्यादिना । उच्चारयेद्दीर्घं जपेत् ।
भुशुण्डोपाख्यान्नोक्तरीत्या प्लुततमं वा ॥ २ ॥

प्राणायामं ततः कुर्यादन्तःकरणशुद्धये ।
इन्द्रियाण्याहरेत्पश्चाद्विषयेभ्यः शनैःशनैः ॥ ३ ॥

देहेन्द्रियमनोबुद्धिक्षेत्रज्ञानां च सम्भवः ।
यस्माद्भवति तज्ज्ञात्वा तेषु पश्चाद्विलापयेत् ॥ ४ ॥

यस्माद्यस्माद्यस्य यस्य सम्भवो जन्म भवति तत्तज्ज्ञात्वा श्रुत्यादिना स्मृत्वा
तेषु तेषु भूतेषु देवेषु च विलापयेत् । वाचारम्भणशृत्युक्तरीत्या तत्तद्व्यतिरेकेण
नास्तीति स्मरेदित्यर्थः ॥ ४ ॥

विराजि प्रथमं स्थित्वा तत्रात्मनि ततः परम् ।
अव्याकृते स्थितः पश्चात्स्थितः परमकारणे ॥ ५ ॥

एवमाध्यात्मिकदेहेन्द्रियादिभावं त्यक्त्वा तत्कारणभूतदेवतासमष्ट्यात्मा
अकारार्थो विराडेवाहमस्मीति भावनया प्रथमं विराजि स्थित्वा ततः परं तत्कारणे
उकारार्थे सूक्ष्मभूतलिङ्गसमष्ट्यात्मनि हिरण्यगर्भे विराजं प्रविलाप्य स्थित्वा
ततस्तत्कारणे त्रिगुणे मायोपहिते मकारार्थे अव्याकृते स्थितः संस्ततः
पश्चात्सर्वजगन्मूलकारणत्वोपलक्षिते साव्याकृतसर्वाधिष्ठाने अर्धमात्रालक्षिते
शुद्धे ब्रह्मणि अव्याकृतमपि विलाप्य स्थितो भवेदित्यर्थः ॥ ५ ॥

मांसादिपार्थिवं भागं पृथिव्यां प्रविलापयेत् ।
आप्यं रक्तादिकं चाप्सु तैजसं तेजसि क्षिपेत् ॥ ६ ॥

देहेन्द्रियादिषु यस्य यस्मात्सम्भवस्तत्र तत्प्रविलापनं यदुक्तं तद्विशिष्य
पुनर्विवृणोति - मांसादीत्यादिना । क्षिपेत् तन्मात्रताचिन्तनेन प्रविलापयेत् ॥ ६ ॥

वायव्यं च महावायौ नाभसं नभसि क्षिपेत् ।
पृथिव्यादिषु विन्यस्य चेन्द्रियाण्यात्मथोनिषु ॥ ७ ॥

नाभसं शारीराकाशम् । एवं घ्राणादीन्द्रियाण्यप्यात्मयोनिषु स्वारम्भकेषु
देवतोपाधिभूतसूक्ष्मपृथिव्यादिषु निक्षिप्य विलाप्य ॥ ७ ॥

श्रोत्रादिलक्षणोपेतां कर्तुर्भोगप्रसिद्धये ।
दिक्षु न्यस्यात्मनः श्रोत्रं त्वचं विद्युति निक्षिपेत् ॥ ८ ॥

दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् इत्यादिश्रुतेः कर्तुर्जीवस्य
शब्दादिभोगप्रसिद्धये कर्णादिगोलकानुप्रवेशेन
श्रोत्रादिलक्षणेनेन्द्रियभावेनोपेतां दिगादिदेवतां यथाक्रमं देवतास्वेव
निक्षिपेदिति शेषः । तमेव क्रमं दर्शयति - दिक्ष्वित्यादिना ॥ ८ ॥

चक्षुरादित्यबिम्बे च जिह्वामप्सु विनिक्षिपेत् ।
प्राणं वायौ वाचमग्नौ पाणिमिन्द्रे विनिक्षिपेत् ॥ ९ ॥

अप्सु वरुणदेवतायाम् ॥ ९ ॥

विष्णौ तथात्मनः पादौ पायुं मित्रे तथैव च ।
उपस्थं कश्यपे न्यस्य मनश्चन्द्रे निवेशयेत् ॥ १० ॥

बुद्धिं ब्रह्मणि संयच्छेदेताः करणदेवताः ।
इन्द्रियव्यपदेशेन व्यादिश्यन्ते च देवताः ॥ ११ ॥

ब्रह्मणि चतुर्मुखे । बुद्धिग्रहणमुपलक्षणम् । एवं मनोहङ्कारचित्तान्यपि
चन्द्ररुद्राच्युतेषु प्रविलापयेदित्युपसंहरति - एता इति । अग्निर्वाग्भूत्वा मुखं
प्राविशत् इत्यादिश्रुतिवाक्यप्रमाणमनुस्मृत्य देवता एवेन्द्रियव्यपदेशेन स्थिता न
त्विन्द्रियाणि नाम वस्त्वन्तराणि सन्तीति तत्त्वोपदेशेन प्रविलापनाय मया व्यादिश्यन्ते
न स्वतः स्वकपोलकल्पनया एतेऽर्थाः प्रकटीकृता इत्युत्तरेणान्वयः ॥ ११ ॥

श्रुतिवाक्यमनुस्मृत्य न स्वतः प्रकटीकृताः ।
एवं न्यस्यात्मनो देहं विराडस्मीति चिन्तयेत् ॥ १२ ॥

एवं देहेन्द्रियादिप्रविलापनसङ्ग्रहश्लोकं विवृत्य विराजि प्रथमं
स्थित्वेत्येतद्विशदयति - एवमिति ॥ १२ ॥

ब्रह्माण्डान्तः स्थितो योऽसावर्धनारीश्वरः प्रभुः ।
आधारः सर्वभूतानां कारणं तदुदाहृतम् ॥ १३ ॥

अव्याकृते स्थितः पश्चादित्येतद्विवरणप्रसङ्गेन मायाशबलस्य
सर्वजगदभिन्ननिमित्तोपादानस्य ब्रह्मणो ब्रह्मविद्यार्थिभिः प्रागुपास्यत्वेनोक्तां
ब्रह्माण्डात्मनो विराजो हृत्पद्मे सदा स्थितां ब्रह्मविद्याघटितार्धशरीरां
मूर्तिं दर्शयन्स एव सर्वप्राणिनां मातापितृरूपेण कारणमित्याह -
ब्रह्माण्डान्तरिति ॥ १३ ॥

स यज्ञसृष्टिरूपोऽसौ जगद्वृत्तौ व्यवस्थितः ।
द्विगुणाण्डाद्बहिः पृथ्वी पृथिव्या द्विगुणं जलम् ॥ १४ ॥

सोऽसौ पितृत्वादेव स्वसृष्टस्य देवमनुष्यादिजगतो वृत्तावन्नपानादिजीवनोपाये
व्यवस्थितः सन् हविर्वृष्ट्यादिना सर्वपोषकश्रौतस्मार्तयज्ञसृष्टिरूपो
ब्रह्माण्डान्तः स्थितः । प्रासङ्गिकमुक्त्वा प्रस्तुतं प्रविलापनं वक्तुं
ब्रह्माण्डावरणान्याह - द्विगुणेति । यद्यपि एभिरावरणैरण्डं व्याप्तं
दशगुणोत्तरैः इति पुराणेषु दशगुणोत्तरत्वं श्रूयते तथापि द्विगुणमेव परितो
वेष्टने पञ्चक्रोशप्रदक्षिणे पञ्चविंशतिक्रोऽसवदेकगुणस्य पञ्चगुणत्वे
द्विगुणस्य दशगुणत्वमित्यभिप्रायेण तद्बोध्यम् । अथवा
तदपञ्चीकृतभूतावरणाभिप्रायमिदं तु पञ्चीकृताभिप्रायमित्यविरोधः ॥ १४ ॥

सलिलाद्द्विगुणं तेजस्तेजसो द्विगुणोऽनिलः ।
वायोर्द्विगुणमाकाशमूर्ध्वमेकैकशः क्रमात् ॥ १५ ॥

एकैकश एकैकस्मादूर्ध्वमुत्तरोत्तरम् ॥ १५ ॥

व्यस्तेन च समस्तेन व्यापिना ग्रथितं जगत् ।
क्षितिं चाप्सु समावेश्य सलिलं चानले क्षिपेत् ॥ १६ ॥

व्यस्तेन अपञ्चीकृतेन । समस्तेन पञ्चीकृतेन । अत एवान्तरमान्तरं बाह्ये
प्रविलापयेदित्याह - क्षितिमिति ॥ १६ ॥

अग्निं वायौ समावेश्य वायुं च नभसि क्षिपेत् ।
नभश्च महदाकाशे समस्तोत्पत्तिकारणे ॥ १७ ॥

समावेश्य प्रविलाप्य । समस्तस्थूलप्रपञ्चोत्पत्तिकारणे महदाकाशे
हिरण्यगर्भाकाशे ॥ १७ ॥

स्थित्वा तस्मिन्क्षनं यगोई लिङ्गमात्रशरीरधृक् ।
वासना भूतसूक्ष्माश्च कर्माविद्ये तथैव च ॥ १८ ॥

किं तल्लिङ्गशरीरं तदाह - वासना इति ॥ १८ ॥

दशेन्द्रियमनोबुद्धिरेतलिङ्गं विदुर्बुधाः ।
ततोऽर्धोण्डाद्बहिर्यातस्तत्रात्मास्मीति चिन्तयेत् ॥ १९ ॥

लिङ्गं लिङ्गशरीरम् । एवं स्थूलोपाधिप्रविलापनेनार्ध इव सम्पन्नो
ब्रह्माण्डात्मताभिमानत्यागात्ततो बहिर्भूतः संस्तत्र
सूक्ष्मभूतात्मकलिङ्गसमष्टिदेहे अहमात्माधिष्ठाता हिरण्यगर्भ एवास्मीति
चिन्तयेदित्यर्थः ॥ १९ ॥

चतुर्मुखोऽग्रके चायं भूतसूक्ष्मव्यवस्थितः ।
लिङ्गमव्याकृते सूक्ष्मे न्यस्याव्यक्ते च बुद्धिमान् ॥ २० ॥

ननु चतुर्मुखः पद्मसम्भवो देहो लोके हिरण्यगर्भ इति प्रसिद्धः । अयं तु
भूतसूक्ष्मसमष्ट्यात्मा न चतुर्मुख इति कथं हिरण्यगर्भस्तत्राह -
चतुर्मुख इति । भूतसूक्ष्मे अभिमानितया व्यवस्थितोऽयमेव अग्रके
ब्रह्माण्डप्रविलापनात्पूर्वं ब्रह्माण्डैश्वर्यभोगार्थं पद्मोद्भवं देहं
कल्पयित्वा चतुर्मुख आसीदित्यर्थः । ईदृशहिरण्यगर्भात्मभावनानन्तरं
यत्कर्तव्यं तदाह - लिङ्गमिति । अपञ्चीकृतभूतेभ्योऽपि सूक्ष्मे
उपाध्याकारेणाव्याकृते मायांशे उपहितचिदाकारेणाव्यक्ते च । जडांशस्य जडे
चिदाभासांशस्य चिति प्रविलापनमिति सूचनाय द्विधाकृत्वोक्तिः ॥ २० ॥

नामरूपविनिर्मुक्तं यस्मिन्सन्तिष्ठते जगत् ।
तमाहुः प्रकृतिं केचिन्मायामेके परे त्वणून् ॥ २१ ॥

अथवा व्याकरणफलमभिव्यक्तिरिति क्रियाफलरूपप्रवृत्तिनिमित्तभेदकल्पनया
एकत्रैव व्यपदेशभेद इत्याशयेनाह - नामेति । प्रकृतिं साङ्ख्याः । मायां
वेदान्तिनः ॥ २१ ॥

अविद्यामपरे प्राद्गुस्तर्कविभ्रान्तचेतसः ।
तत्र सर्वे लयं गत्वा तिष्ठन्त्यव्यक्तरूपिणः ॥ २२ ॥

अपरे बौद्धाः संवृतिरूपामविद्याम् । तत्र तस्मिन्नव्याकृते प्रलयकाले सर्वे
पदार्था लयं षष्ठभावविकारं गत्वा अनभिव्यक्तरूपिणः सन्तस्तत्सत्तयैव
तिष्ठन्ति ॥ २२ ॥

निःसम्बन्धा निरास्वादाः सम्भवन्ति ततः पुनः ।
तत्स्वरूपा हि तिष्ठन्ति यावत्सृष्टिः प्रवर्तते ॥ २३ ॥

कथं तिष्ठन्ति तदाह - निःसम्बन्धा इति ।
परस्परसंसर्गशून्याश्चिद्भोग्यतालक्षणास्वादशून्याश्चेत्यर्थः । कुतः ।
प्रलयानन्तरं सर्गकाले ततः अव्याकृतादेव प्रकृतिभूताच्च ॥ २३ ॥

आनुलोम्यात्स्मृता सृष्टिः प्रातिलोम्येन संहृतिः ।
अतः स्थानत्रयं त्यक्त्वा तुरीयं पदमव्ययम् ॥ २४ ॥

आनुलोम्यादाकाशादिक्रमात् । प्रातिलोम्येन सृष्टिविपरीतक्रमेण पश्चात्स्थितः
परमकारणे इत्येतद्विवृणोति - अत इति । स्थानत्रयं
विराड्ढिरण्यगर्भाव्याकृताख्यं स्थूलसूक्ष्मकारणरूपं
समष्टिजाग्रदाद्यवस्थात्रयं नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनम् इतिश्रुत्युपदर्शितदिशा त्यकत्वा
तदधिष्ठानं परिशिष्टचिन्मात्रैकरसं
अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म##-
श्रुत्युपदर्शितं तस्य प्राप्तये साक्षाल्लाभावधि ध्यायेत् ॥ २४ ॥

ध्यायेत्तत्प्राप्तये लिङ्गं प्रविलाप्य परं विशेत् ।
भूतेन्द्रियमनोबुद्धिवासनाकर्मवायवः ॥ २५ ॥

ध्यानेद्धया चरमसाक्षात्कारवृत्त्या ध्यानकर्तृकरणरूपं लिङ्गमपि
मूलाज्ञानबाधेन प्रविलाप्य घटभङ्गे घटाकाशो महाकाशमिव परं
निरतिशयानन्दं ब्रह्म विशेत्सैवास्य लिङ्गनिगडमुक्त्या कृतार्थतेत्यर्थः । ननु
नान्तःप्रज्ञम् इत्यादिश्रुतौ लिङ्गबाधो न दृश्यते तत्कथं तन्निवृत्तिरिति चेत्
स्थानत्रयबाधे लिङ्गबाधोऽर्थसिद्धः । स्थूलसूक्ष्मभूतेन्द्रियादिष्वेव लिङ्गस्य
प्रतिष्ठितत्वादिति दर्शयति - भूतेन्द्रियेति ॥ २५ ॥

अज्ञानं च प्रतिष्ठाः स्युर्लिङ्गमव्याकृते सति ।

भरद्वाज उवाच ।

इदानीं लिङ्गनिगडान्मुक्तोऽहं सर्वथा यतः ॥ २६ ॥

नन्वज्ञानं कथं प्रतिष्ठा तत्राह - लिङ्गमिति । शुद्धे
ब्रह्मण्यज्ञानवरणे नाव्याकृते हि सति सूक्ष्मभूतद्वारा लिङ्गमुत्पद्यते
नाज्ञानं विनेति तदेव लिङ्गस्य मूलप्रतिष्ठेति तन्निवृत्तौ
लिङ्गनिगडभङ्गसिद्धिरिति भावः । एवं वाल्मीकिना प्रणवार्थप्रपञ्चनोपायेन
प्रतिबोधितः प्रबुद्धो भरद्वाजः स्वानुभवं गुर्वनुभवसंवादेन परीक्षणाय
प्रकटयन्नुवाच - इदानीमित्यादिना ॥ २६ ॥

चिदंशत्वात्प्रविष्टोऽहं चैतन्यानन्दसागरे ।
अभेदात्परमात्मास्मि सर्वोपाधिविवर्जितः ॥ २७ ॥

कूटस्थः केवलो व्यापी चिदचिच्छक्तिमानहम् ।
घटाभावे घटाकाशकलशाकाशयोर्यथा ॥ २८ ॥

चिदहं न तु चिच्छक्तिमान् । कीदृशादभेदात्परमात्मासि तत्राह - घटाभावे
इति । घटभङ्गे सतीत्यर्थः । यथा एकस्यैव घटस्य घटकलशनामभेदकल्पना
तदुपहिते आकाशे च घटाकाशः कलशाकाश इति व्यपदेशभेदकल्पना
तद्वदेकस्यैवाज्ञानस्य जगन्नामभेदकल्पना तदुपहिते च मयि जीव ईश्वरो देवो
नरः कुञ्जर इत्यादिव्यपदेशभेदकल्पना चासीत् । तत्रैकेन घटभङ्गेन यथा
उभयनिवृत्त्या शुद्धाकाशलक्षणैक्यं तद्वदेकस्याज्ञानस्य निवृत्त्या
सर्वनामादिभेदनिवृत्त्या चिदैक्यसाम्राज्यमित्यर्थः ॥ २८ ॥

तमाहुः श्रुतयो बह्व्य एवमेवैक्यमादरात् ।
यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत् ॥ २९ ॥

एवमैक्यमभिप्रेत्य तं ब्रह्मभूतं मां यत्र नन्यत्पश्यति नान्यच्छृणोति
नान्यद्विजानाति स भूमायत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।
एकात्मप्रत्ययसारं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते नेह नानास्ति किञ्चन
इत्यादयो बह्व्यः श्रुतय आहुरित्यर्थः । एवं यथा जले जलं क्षिप्तं क्षीरे क्षीरं
घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मा परमात्मनि
इत्यादिश्रुतिभिरीदृशमेवैक्यं दर्शितमित्याशयेनोदाहरति - यथेति ।
समानत्वमैक्यम् ॥ २९ ॥

तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ।
यथा तृणादिकं क्षिप्तं रुमायां लवणं भवेत् ॥ ३० ॥

एवमचेतनप्रपञ्चस्यापि चिति विलापनेन तद्भावापत्तौ दृष्टान्तमाह - यथेति ॥
३० ॥

अचेतनं जगन्न्यस्तं चैतन्ये चेतनी भवेत् ।
यथा वै लवणग्रन्थिः समुद्रे सैन्धवो यथा ॥ ३१ ॥

न्यस्तं प्रविलापितम् ॥ ३१ ॥

नामरूपाद्विनिर्मुक्तः प्रविश्यैति समुद्रताम् ।
यथा जले जलं न्यस्तं क्षीरे क्षीरं घृते घृतम् ॥ ३२ ॥

अविनष्टा भवन्त्येते गृह्यन्ते न विशेषतः ।
तथाहं सर्वभावेन प्रविष्टश्चेतने सति ॥ ३३ ॥

उपाधिनाशे उपहितजीवनाशशङ्कापि मे गतेत्याशयेनाह - अविनष्टा इति । चेतने
चिदेकरसे सति ब्रह्मणि ॥ ३३ ॥

नित्यानन्दे समस्तज्ञे परे परमकारणे ।
नित्यं सर्वगतं शान्तं निरवद्यं निरञ्जनम् ॥ ३४ ॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादिश्रुत्यापि स्वानुभवं
संवादयति - नित्यमित्यादिना ॥ ३४ ॥

निष्कलं निष्क्रियं शुद्धं तद्ब्रह्मास्मि परं परम् ।
हेयोपादेयनिर्मुक्तं सत्यरूपं निरिन्द्रियम् ॥ ३५ ॥

केवलं सत्यसङ्कल्पं शुद्धं ब्रह्मास्म्यहं परम् ।
पुण्यपापविनिर्मुक्तं कारणं जगतः परम् ॥ ३६ ॥

सत्यसङ्कल्पं सङ्कल्पमात्रेणासतोऽपि जगतः सत्तासम्पादनसमर्थसद्रूपम् ॥ ३६ ॥

अद्वितीयं परं ज्योतिर्ब्रह्मास्म्यानन्दमव्ययम् ।
एवमादिगुणैर्युक्तं सत्त्वादिगुणवर्जितम् ॥ ३७ ॥

सत्त्वादिभिर्मायागुणैर्वर्जितम् ॥ ३७ ॥

प्रविष्टं सकलं ब्रह्म सदा ध्यायेत्स्वकर्मकृत् ।
एवमभ्यसतः पुंसो मनोऽस्तं याति तत्र वै ॥ ३८ ॥

अभ्यासकालेऽपि त्वया अस्यैव ध्यानं मह्यमुपदिष्टमित्याशयेनाह -
प्रविष्टमित्यादिना । स्वकर्मकृच्छ्रवणगुरुशुश्रूषादिपरः
स्ववर्णाश्रमधर्मनिष्ठश्च ॥ ३८ ॥

मनस्यस्तं गते तस्य स्वयमात्मा प्रकाशते ।
प्रकाशे सर्वदुःखानां हानिः स्यात्सुखमात्मनि ॥ ३९ ॥

स्वयमेवात्मनात्मानमानन्दं प्रतिपद्यते ।
न मत्तोऽस्त्यपरः कश्चिच्चिदानन्दमयः प्रभुः ॥ ४० ॥

कथन्न् प्रतिपद्यते तत्राह - न मत्त इति ॥ ४० ॥

अहमेकः परं ब्रह्म इत्यात्मान्तः प्रकाशते ।

श्रीवाल्मीकिरुवाच ।

सखे सन्न्यस्य कर्माणि ब्रह्मणः प्रणयी भव ॥ ४१ ॥

प्रतिपत्तिशब्दार्थमाह - इत्यात्मेति । एवं भरद्वाजोक्तमनुभवं निशम्य
सन्तुष्टो वाल्मीकिस्तदुक्तानुभवस्थैर्याय त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं
पदम् इत्यादिश्रुतिसिद्धं सन्न्यासमवश्यकर्तव्यतयोपदिशति - सखे इति ॥ ४१ ॥

नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ।

भरद्वाज उवाच ।

त्वयोक्तं सर्वमेवेदं ज्ञानं बुद्धं मया गुरो ॥ ४२ ॥

संसारचक्रावर्तेषु भ्रमतीति भ्रमः त्वं यदि शमं विश्रान्तिसुखं गार्हस्थ्ये
नेष्यसे न प्राप्नोषि तर्हि कर्माणि सन्न्यस्य ब्रह्मणः प्रणयी ब्रह्मण्येव
निर्विक्षेपमासक्तो भव । ब्रह्मसंस्थोऽमृतत्वमेति इति श्रुतेरनन्यव्यापारतया
ब्रह्मण्यासक्तय सन्न्यासिन एव सबीजभ्रान्तिशान्तिसम्भवादित्यर्थः । सर्वं
समग्रं साङ्गमिति यावत् ॥ ४२ ॥

बुद्धिश्च निर्मला जाता संसारो न विलम्बते ।
इदानीं ज्ञातुमिच्छामि ज्ञानिनः कर्म कीदृशम् ॥ ४३ ॥

न विलम्बनेन चिरं स्थास्यति । तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये इति
श्रुतेरिति भावः । ज्ञानिनो जीवन्मुक्तस्य कर्म कर्तव्यं न वेति प्रथमः प्रश्नः ।
यदा कर्तव्यन्न् तदा प्रवृत्तिरूपं नित्यनैमित्तिककाम्यकर्म सर्वमेव यथापूर्वं
कर्तव्यं अथवा कामनाभ्यो निवृत्तं स्वस्वाश्रमोचितकर्ममात्रं कर्तव्यमिति
द्वितीयः प्रश्नः पाठक्रमादार्थक्रमस्य वलीयस्त्वाद्बोध्यः । ननु सखे सन्न्यस्य
कर्माणि ब्रह्मणः प्रणयी भव इति सर्वकर्मसन्न्यासं श्रुतवतो भरद्वाजस्य
द्वावपि प्रश्रावनुपपन्नौ । सत्यम् । तथापि यावज्जीवमग्निहोत्रं जुहोति कुर्वन्नेवेह
कर्माणि जिजीविषेच्छतं समाः इत्यादिश्रुतिभिर्यावज्जीवं कर्तव्यतया निबद्धानां
दीक्षितो न ददाति न जुहोति इत्यादिवाक्यैर्दीक्षाकाले त्यक्तानामपि दीक्षापगमे पुनः
परिग्रहवत् । त्यजतैव हि तज्ज्ञेयं एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति
इत्यादिश्रुतिभिर्ब्रह्मजिज्ञासानिमित्तेन त्यक्तानां ज्ञानसिद्ध्या निमित्तापगमे पुनः
परिग्रहो न्यायसिद्धः । न च विद्वत्सन्न्यासविधानात्पुनरपरिग्रहः । तस्य
जन्मान्तरानुष्ठितविविदिषासन्न्यासवशाद्गृहस्थाद्याश्रमेष्वेव
तत्त्वज्ञानोदयेन कृतार्थान्पुरुषविशेषान्प्रति अप्राप्तसन्न्यासान्तरविधानपरस्य
प्राप्तविविदिषासन्न्यासपरिपालनविधानाशक्तेरित्याशयेन प्रश्नावुपपन्नौ बोध्यौ
॥ ४३ ॥

प्रवृत्तं वा निवृत्तं वा कर्तव्यं च न वा प्रभो ।

श्रीवाल्मीकिरुवाच ।

तस्माद्यन्न कृते दोषस्तत्कर्तव्यं मुमुक्षुभिः ॥ ४४ ॥

एवं पृष्टो वाल्मीकिस्त्वया प्रथमं काम्यनिषिद्धकर्मणां
ज्ञानविरोधिविक्षेपादिदोषहेतुभूतकर्मणां च त्यागेन ज्ञानित्वं शास्त्राभ्यासेन
सम्पादनीयम् । तदुत्तरं तस्य कर्म कीदृशम् इति त्वत्प्रश्नोत्तरं त्वं स्वयमेव
ज्ञास्यसि । तत्तद्भूमिकापरिपाकक्रमेण तत्तत्कर्मोपरमस्य तदा तदैव
त्वयानुभवितुं शक्यत्वाज्ज्ञानिनां च प्रारब्धवैचित्र्येणैकरूपस्थित्यदर्शनेन
तत्कर्मणां प्रवृत्तमेव निवृत्तमेव वेति नियन्तुमशक्यत्वादित्याशयेनोत्तरमाह

  • तस्मादिति । तस्मात्सर्वकर्मसन्न्याससहितब्रह्मप्रणयित्वमेव
    संसारभ्रमनिवर्तकज्ञानोपाय इति मदुपदिष्टार्थस्य
    बुद्धत्वात्त्वादृशैर्मुमुक्षुभिर्यद्यस्मिन्कर्मणि कृते सति
    श्रवणादिविघ्नदोषश्चित्तविक्षेपमालिन्यपातकादिदोषश्च न भवति तदेव कर्तव्यम् ।
    काम्यं निषिद्धं चकाराद्दृष्टविक्षेपसाधनं च कर्म न कर्तव्यमित्यर्थः ।
    विविदिषासन्न्यासपरिपालनं तु विधिना त्यक्तस्य पुनर्विधिं विना परिग्रहासम्भवात्
    आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन
    शुद्ध्येत्स आत्महा । इत्यादिपरावृत्तौ दोषश्रवणात्पुनः परिग्रहे
    प्रयोजनाभावाच्छिष्टविगर्हितत्वाच्च सेत्स्यतीति भावः ॥ ४४ ॥

काम्यं कर्म निषिद्धं च न कर्तव्यं विशेषतः ।
यदा ब्रह्मगुणैर्जीवो युक्तस्त्यक्त्वा मनोगुणान् ॥ ४५ ॥

ज्ञानित्वं त्वस्य सर्वमनोगुणत्यागेन
पूर्णानन्दाद्वयविशुद्धासङ्गचिदेकरसत्वादिब्रह्मगुणप्राप्तावेव
स्यान्नान्यथेत्याह - यदेत्यादिना ॥ ४५ ॥

संशान्तकरणग्रामस्तदा स्यात्सर्वगः प्रभुः ।
देहेन्द्रियमनोबुद्धेः परस्तस्माच्च यः परः ॥ ४६ ॥

देहादिकोशचतुष्टयात्पर आनन्दमयकोशात्मा तस्मात्परस्तदधिष्ठानं ब्रह्म ॥
४६ ॥

सोऽहमस्मि यदा ध्यायेत्तदा जीवो विमुच्यते ।
कर्तृभोक्त्रादिनिर्मुक्तः सर्वोपाधिविवर्जितः ॥ ४७ ॥

आदिपदात् कर्ता कार्यं करणं भोक्ता भोग्यं भोगः ज्ञाता ज्ञानं ज्ञेयमिति
तिस्रोऽपि त्रिपुट्यः परिगृह्यन्ते । तत्प्रयोजकैः सर्वैर्देहाद्युपाधिभिस्तत्फलाभ्यां
सुखदुःखाभ्यान्न् च विनिर्मुक्तो यदा भविष्यसि तदानीम् ॥ ४७ ॥

सुखदुःखविनिर्मुक्तस्तदानीं विप्रमुच्यते ।
सर्वभूतेषु चात्मानन्न् सर्वभूतानि चात्मनि ॥ ४८ ॥

यदा पश्यत्यभेदेन तदा जीवो विमुच्यते ।
जाग्रत्स्वप्नसुषुप्ताख्यन्न् हित्वा स्थानत्रयन्न् यदा ॥ ४९ ॥

विशेत्तुरीयमानन्दं तदा जीवो विमुच्यते ।
जीवस्य च तुरीयाख्या स्थितिर्या परमात्मनि ॥ ५० ॥

अवस्थाबीजनिद्रादिनिर्मुक्ता चित्सुखात्मिका ।
योगस्य सेयं वा निष्ठा सुखं संवेदनं महत् ॥ ५१ ॥

जाग्रत्स्वप्नावस्थयोर्बीजं सवासनाकर्माज्ञानम् । निद्रा तदवस्थाविशेषः । सेयं
तुर्याख्या जीवस्य स्थितिर्योगस्य
निदिध्यासनपरिपाकजन्यनिर्विकल्पसमाधेर्वाशब्दान्मुख्याधिकारिणो
विचारमात्रजन्यसाक्षात्कारज्ञानस्य वा निष्ठा परिसमाप्तिः ॥ ५१ ॥

मनस्यस्तं गते पुंसां तदन्यन्नोपलभ्यते ।
प्रशान्तामृतकल्लोले केवलामृतवारिधौ ॥ ५२ ॥

तस्मिन्विश्रान्तस्य तव द्वैतदर्शनप्रसक्तिरेव नास्ति दूरे
कर्मक्षाराब्धिवीचिमज्जनप्रसक्तिरित्याशयेनाह - प्रशान्तेति ॥ ५२ ॥

मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ।
भज सम्भरिताभोगं परमेशं जगद्गुरुम् ॥ ५३ ॥

प्रागुक्तमीश्वरमुपास्य तत्प्रसादेन ते वसिष्ठोक्तज्ञानमार्गेण योगमार्गेण वा
तत्त्वज्ञाने सत्येकविज्ञानेन सर्वविज्ञानात्सर्वसंशयमूलाज्ञाननाशाच्च
सर्वसंशयोच्छेदेन विश्रान्तिर्भविष्यतीत्युपसंहरति - भजेत्यादिना ॥ ५३ ॥

इति ते वर्णितं सर्वं वसिष्ठस्योपदेशनम् ।
अनेन ज्ञानमार्गेण योगमार्गेण पुत्रक ॥ ५४ ॥

भरद्वाज महाप्राज्ञ सर्वं ज्ञास्यसि निश्चितम् ।
परामर्शेन शास्त्रस्य गुरुवाक्यार्थबोधनात् ॥ ५५ ॥

तत्र शास्त्राचार्योपदेशस्वानुभवानामेकार्थनिष्ठतानिश्चयायार्थ##-
कार्य इत्याह - परामर्शेनेति ॥ ५५ ॥

अभ्यासात्सर्वसिद्धिः स्यादिति वेदानुशासनम् ।
तस्मात्त्वं सर्वमुत्सृज्य कुर्वभ्यासे स्थिरं मनः ॥ ५६ ॥

भरद्वाज उवाच ।

रामः प्राप्तः परं योगं स्वात्मनात्मनि हे मुने ।
कथं वसिष्ठदेवेन व्यवहारपरः कृतः ॥ ५७ ॥

योगमुपाधित्यागेनैक्यम् । स्वात्मना शोधितप्रतीचा । आत्मनि ब्रह्मणि ॥ ५७ ॥

इति ज्ञात्वाहमप्येवमभ्यासार्थं यते यथा ।
तथैव व्यवहारोऽपि व्युत्थाने मे भविष्यति ॥ ५८ ॥

श्रीवाल्मीकिरुवाच ।

यदा परिणतः साधुः स्वस्वरूपे महामनाः ।
विश्वामित्रस्तदोवाच वसिष्ठमृषिसत्तमम् ॥ ५९ ॥

महामना अपरिच्छिन्नब्रह्माकारचित्तो रामः ॥ ५९ ॥

विश्वामित्र उवाच ।

हे वसिष्ठ महाभाग ब्रह्मपुत्र महानसि ।
गुरुत्वं शक्तिपातेन तत्क्षणादेव दर्शितम् ॥ ६० ॥

अनुग्रहदृष्टिमात्रप्रयुक्तेन प्रागुक्तशक्तिपातेन त्वया शिष्यस्य
ब्रह्मीकरणात्स्वस्य गुरुत्वं शिष्योद्धारसामर्थ्यलक्षणं तत्क्षणात्सद्य एव
दर्शितमस्मभ्यमित्यर्थः ॥ ६० ॥

दर्शनात्स्पर्शनाच्छब्दात्कृपया शिष्यदेहके ।
जनयेद्यः समावेशं शाम्भवं स हि देशिकः ॥ ६१ ॥

ननु मया स्वशरीरं त्यक्त्वा रामदेहं प्रविश्य कुण्डलिनीसञ्चारादिकं न
कृतमेव तत्कथं त्वया शक्तिपातो ज्ञातस्तत्राह - दर्शनादिति ।
सत्यसङ्कल्पानां त्वादृशां कृपादृष्ट्यापि सच्छिष्यस्य कुण्डलिन्याः
षट्चक्रभेदेन ब्रह्मरन्ध्रस्थितपरशिवसमावेशलक्षणो जीवस्योपाधिपरित्यागेन
शुद्धब्रह्मसमावेशलक्षणश्च शक्तिपातः सिद्ध्यतीति भावः । देशिको गुरुः ॥ ६१ ॥

रामोऽप्ययन्न् विशुद्धात्मा विरक्तः स्वात्मनैव हि ।
विश्रान्तिमात्राकाङ्क्षी च संवादात्प्राप्तवान्पदम् ॥ ६२ ॥

तत्र रामस्य सच्छिष्यतां दर्शयति - राम इति ॥ ६२ ॥

शिष्यप्रज्ञैव बोधस्य कारणं गुरुवाक्यतः ।
मलत्रयमपक्वं चेत्कथं बुद्ध्यति पक्वत् ॥ ६३ ॥

मलत्रयं शैवशास्त्रप्रसिद्धमाणवादिकामकर्मवासनालक्षणं वा । कथं
बुद्ध्यति शिष्य इति शेषः ॥ ६३ ॥

ज्ञानं प्रत्यक्षमेवेदं गुरुशिष्यप्रयोजनम् ।
उभावपि यतो योग्यौ सर्वेषामीदृशामपि ॥ ६४ ॥

सच्छिष्येषु शास्त्रस्य दृष्टफलतैवेत्याह - ज्ञानमिति । यत उभौ गुरुशिष्यौ
योग्यौ चेत्सर्वेषां पुरुषार्थानामीदृशां कैवल्यलक्षणानामपि भाजनं
स्तामित्यर्थः ॥ ६४ ॥

इदानीं कृपया रामव्युत्थानं कर्तुमर्हसि ।
पदे परिणतस्त्वं हि कार्याविष्टा वयं यतः ॥ ६५ ॥

इत्थं वसिष्ठं प्रशस्य प्रस्तुतं कर्तव्यमाह - इदानीमिति । अस्मदादिषु
कृपया । त्वं पदे परिणतः । कृतकृत्य इति यावत् ॥ ६५ ॥

स्मरन्कार्यं मम विभो यदुद्दिश्याहमागतः ।
प्रार्थितश्चातिकष्टेन राजा दशरथः स्वयम् ॥ ६६ ॥

मम कार्यं निर्विघ्नयज्ञसिद्धिं त्वं स्मरन्सन् रामव्युत्थानं कर्तुमर्हसीति
पूर्वत्र वृथा मा कृथा इत्युत्तरत्र वा सम्बन्धः ॥ ६६ ॥

तद्वृथा मा कृथाः सर्वं शुद्धेन मनसा मुने ।
देवकार्यं चरामान्यदवतारप्रयोजनम् ॥ ६७ ॥

किञ्चान्यद्देवकार्यमपि रामव्युत्थापनेन चराम सम्पादयामो वयम् ॥ ६७ ॥

सिद्धाश्रमं मया नीतो रामो राक्षसमर्दनम् ।
करिष्यति ततोऽहल्यामुक्तिं च जनकात्मजाम् ॥ ६८ ॥

कार्यान्तराण्यपि दर्शयन्देवकार्यं विशदयति - सिद्धाश्रमेत्यादिना । अहल्याया
मुक्तिं शापमोक्षं च करिष्यतीत्यनुषङ्गः ॥ ६८ ॥

परिणेष्यति कोदण्डभङ्गेन कृतनिश्चयः ।
रामस्य जामदग्न्यस्य कर्ता नष्टां गतिं ध्रुवम् ॥ ६९ ॥

निश्चयो वाग्निश्चयः । गतिं परलोकमार्गम् ॥ ६९ ॥

पितृपैतामहं राज्यं विगतोऽभयनिस्पृहः ।
वनवासच्छलेनेह दण्डकारण्यवासिनः ॥ ७० ॥

राज्यं विमुच्य गतो विगतः । जीवन्मुक्तत्वादेवाभयो निस्पृहश्च ।
दण्डकारण्यवासिनो मुनीन् राक्षसवधेन भयादुद्धरिष्यतीति परेणान्वयः ॥ ७० ॥

उद्धरिष्यति तीर्थानि प्राणिनो विविधानि हि ।
सीताहरणदौर्गत्यच्छलेन भुवि शोच्यताम् ॥ ७१ ॥

विविधानि तीर्थानि प्राणिनश्च उद्धरिष्यति पावयिष्यतीत्यर्थः । सीताहरणप्रयुक्तं
यद्दौर्गत्यं शोकमोहादिविडम्बनं तच्छलेन रावणादीनां वधादपि सर्वेषां
स्त्रीसङ्गिनां भुवि शोच्यतामस्वास्थ्यं च दर्शयिष्यतीति परेणान्वयः ॥ ७१ ॥

दर्शयिष्यति सर्वेषां रावणादिवधादपि ।
स्त्रीसङ्गिनामथास्वास्थ्यं वानरादेः परावृतिम् ॥ ७२ ॥

अथ इन्द्रवरदानेन युद्धेः मृतस्य वानरर्क्षादेः परावृत्तिं परावर्तनं
पुनः सञ्जीवनं दर्शयिष्यति ॥ ७२ ॥

सीताविशुद्धिमन्विच्छṁल्लोकानुमतिमात्मनः ।
जीवन्मुक्तो निस्पृहोपि क्रियाकाण्डपरायणः ॥ ७३ ॥

अग्निप्रवेशेन सीताविऽसुद्धिमन्विच्छन्सन्नात्मनः स्वस्य लोकानुमतिं
शिष्टजनमाननीयचरित्रतां दर्शयिष्यति । ततो राज्येऽभिषिक्तः स्वयं जीवन्मुक्तो
निस्पृहोऽपि सन् कर्माधिकृतजनानां कर्मानुष्ठानेनैव गतिं द्रष्टुं
दर्शयितुं क्रियाकाण्डपरायणो भविष्यतीति परेणान्वयः ॥ ७३ ॥

भविष्यति गतिं द्रष्टुं ज्ञानकर्मसमुच्चयौ ।
यैर्दृष्टो यैः स्मृतो वापि यैः श्रुतो बोधितस्तु यैः ॥ ७४ ॥

ज्ञानकर्मसमुच्चयाधिकारिणां ब्रह्मलोकादिगतिं दर्शयितुं
ज्ञानकर्मसमुच्चयौ च करिष्यतीति शेषः । ज्ञानमत्रोपासनम् । न केवलं
कर्ममार्गप्रवर्तनेन वर्तमानजनमात्रोपकारी किन्तूत्तरकालमपि
स्मरणकीर्तनस्वचरित्रप्रबोधनादिना स्वानुगतानां भक्तानां जीवन्मुक्तिसुखप्रद
इत्याह - यैरिति ॥ ७४ ॥

सर्वावस्थागतानां तु जीवन्मुक्तिं प्रदास्यति ।
इति कार्यमशेषेण त्रैलोक्यस्य ममापि हि ॥ ७५ ॥

सर्वावस्थासु गतानां भक्त्या अनुगतानाम् ॥ ७५ ॥

अनेन रामचन्द्रेण पुरुषेण महात्मना ।
नमोऽस्मै जितमेवैते कोऽप्येवं चिरमेधताम् ॥ ७६ ॥

अनेन महात्मना रामचन्द्रेण इति वर्णितप्रकारेण त्रैलोक्यस्य ममापि हितं कार्यमिति
पूर्वत्रान्वयः । इदानीं श्रीविश्वामित्रः सामाजिकानां रामभक्तिं वर्धयन्नाह

  • नम इति । हे जनाः एते यूयमस्मै रामाय नमस्कुरुत । तन्नमस्कारमात्रेण
    भवद्भिः सर्वं जेतव्यं जितमेव न साधनान्तरमपेक्षणीयमित्यर्थः । युष्माकं
    मध्ये कोऽपि पुरुषधौरेय एवं श्रीराम इव जीवन्मुक्तश्चिरं
    निर्विकल्पसमाधिविश्रान्तिं प्राप्तः । सुखमेधतां वर्धताम् ॥ ७६ ॥

श्रीवाल्मीकिरुवाच ।

इति श्रुत्वा च ते सर्वे विश्वामित्रेण भाषितम् ।
सिद्धाश्च वरयोगीन्द्रा वसिष्ठप्रमुखाः पुनः ॥ ७७ ॥

रामाङ्घ्रिपद्मरजसामादरस्मरणास्थिताः ।
दूरश्रुतोत्तरकथाः कथया मैथिलीपतेः ॥ ७८ ॥

दूराद्दुर्लभा श्रुता उत्तरचरित्ररूपा रामकथा यैस्तथाविधाः सन्तो
रामाङ्घ्रिपद्मरजसामादरे । नमस्कारे इति यावत् । सदा रामस्मरणे च आस्थिता
आस्थावन्तो बभूवुरिति शेषः । वसिष्ठो मैथिलीपतेः कथया श्रुतया न सन्तुतोष न
तृप्तो बभूव ॥ ७८ ॥

न सन्तुतोष भगवान्वसिष्ठोऽन्ये महर्षयः ।
गुणान्गुणनिधेस्तस्य ब्रुवन्नाकर्णयञ्छ्रुतम् ॥ ७९ ॥

एवमन्ये महर्षयश्च न सन्तुतुषुः । भूयः श्रोतुमुत्कण्ठिताः सर्वे
बभूवुरित्यर्थः । अत एव ते तस्य गुणान्परोक्तानाकर्णयन् स्वयं श्रुतं चान्यान्प्रति
ब्रुवन्नब्रुवन् । लङ्यडभावश्छान्दसः ॥ ७९ ॥

विश्वामित्रमुनिं प्राह वसिष्ठो भगवानृषिः ।

श्रीवसिष्ठ उवाच ।

ब्रूहि विश्वामित्र मुने रामो राजीवलोचनः ।
कोऽयमभूद्बुधः किं वा मनुष्यो वाथ राघवः ॥ ८० ॥

ब्रूहि श्रोतृजनं प्रति व्यक्तं वद । अयं रामो जन्मनः प्राक्कोऽभूत् किं वा बुधो
देवः अथवा मनुष्य इत्यज्ञजनाभिप्रायानुसारी प्रश्नः ॥ ८० ॥

विश्वामित्र उवाच ।

अत्रैव कुरु विश्वासमयं स पुरुषः परः ।
विश्वार्थमथिताम्भोधिर्गम्भीरागमगोचरः ॥ ८१ ॥

विश्वामित्रोऽप्यज्ञजनानुसारेणोत्तरमाह - अत्रैवेति । हे जन त्वमत्रास्मिन् राम एव
साक्षाद्भगवान्वासुदेव इति विश्वासं कुरु । स पुराणः परः पुरुषः । स कः ।
विश्वार्थं मथितोऽम्भोधिः क्षीरार्णवो येन सः । गम्भीराणान्न्
गूढाशयानामागमानामुपनिषदां तत्त्वगोचरो नान्यप्रमाणस्येत्यर्थः ॥ ८१ ॥

परिपूर्णपरानन्दः समः श्रीवत्सलाञ्छनः ।
सर्वेषां प्राणिनां रामः प्रदाता सुप्रसादितः ॥ ८२ ॥

प्रदाता सर्वपुरुषार्थानामिति शेषः । सुष्ठुभक्त्या प्रसादितः ॥ ८२ ॥

अयं निहन्ति कुपितः सृजत्ययमसत्सकान् ।
विश्वादिर्विश्वजनको धाता भर्ता महासखः ॥ ८३ ॥

असत्समाः [असतः सतः कायन्ते इति पाठः ।] कायन्ते कीर्त्यन्त इत्यसत्सका
[छान्दसः पृषोदरादिर्वायं प्रयोगः ।] मिथ्यार्थास्तान् ॥ ८३ ॥

अयं व्युत्क्रान्तनिःसारमृदुसंसारधूर्तकैः ।
आनन्दसिन्धुर्विततो वीतरागैर्विगाह्यते ॥ ८४ ॥

व्युत्क्रान्ता विचारबाधिताः निःसाराः मृदवश्च संसाराः कार्यकारणबन्धा
यैस्तथाविधैर्धूर्तकैर्जगद्वञ्चकैर्वीतरागैर्यतिभिरानन्दसिन्धुर्विगाह्यते
प्रविश्यते ॥ ८४ ॥

क्वचिन्मुक्त इवात्मस्थः क्वचित्तुर्यपदाभिधः ।
क्वचित्प्रणीतप्रकृतिः क्वचित्तत्स्थः पुमानयम् ॥ ८५ ॥

अयमेव ज्ञानमुक्तो नित्यमुक्तो मायानियन्ता मायान्तर्बद्धश्चेति चतुर्धा स्थित
इत्याह - क्वचिदिति ॥ ८५ ॥

अयं त्रयीमयो देवस्त्रैगुण्यगहनातिगः ।
जयत्यङ्गैरयं षड्भिर्वेदात्मा पुरुषोऽद्भुतः ॥ ८६ ॥

त्रयीमयो वेदशरीरः । अङ्गैः शिक्षाकल्पादिभिः । वेदानामात्मा
पारमार्थिकस्वरूपभूतः ॥ ८६ ॥

अयं चतुर्बाहुरयं विश्वस्रष्टा चतुर्मुखः ।
अयमेव महादेवः संहर्ता च त्रिलोचनः ॥ ८७ ॥

चतुर्बाहुः पालको विष्णुः ॥ ८७ ॥

अजोऽयं जायते योगाज्जागरूकः सदा महान् ।
बिभर्ति भगवानेतद्विरूपो विश्वरूपवान् ॥ ८८ ॥

योगान्मायाशक्तिसम्बन्धात् । मोहनिद्रानावृतत्वात्सदा जागरूकः ॥ ८८ ॥

विजयो विक्रमेणेव प्रकाश इव तेजसा ।
प्रज्ञोत्कर्षः श्रुतेनेव सुपर्णेनायमुह्यते ॥ ८९ ॥

यथा विक्रमेण पराक्रमेणावश्यभावी विजय उह्यते प्राप्यते तेजसा यथा प्रकाशो
भास्वररूपं उह्यते ध्रियते यथा श्रुतेन शास्त्रेण प्रज्ञोत्कर्ष उह्यते प्राप्यते
तद्वदयं सुपर्णेन गरुडेनेत्यर्थः ॥ ८९ ॥

अयं दशरथो धन्यः सुतो यस्य परः पुमान् ।
धन्यः स दशकण्ठोऽपि चिन्त्यश्चित्तेन योऽमुना ॥ ९० ॥

अमुना रामेण यश्चित्तेन ममायं प्रतियोद्धेति चिन्त्यश्चिन्तनार्हः सम्पन्नः ॥ ९० ॥

हा स्वर्गममुना शून्यं हा पातालादिहागतः ।
तस्यागमादयं लोको मध्यमः श्रेष्ठतां गतः ॥ ९१ ॥

विष्णुदेहेनामुना शून्यं स्वर्गं हा स्वर्गस्य शोच्यतेत्यर्थः ।
अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि इति षष्ठ्यर्थे द्वितीया । एवं शेषमूर्तिरयं
पातालाल्लक्ष्मणात्मना इहागतः । तथा च पातालस्यापि शोच्यतेत्यर्थः ॥ ९१ ॥

राम इत्यवतीर्णोऽयमर्णवान्तःशयः पुमान् ।
चिदानन्दघनो रामः परमात्मायमव्ययः ॥ ९२ ॥

निगृहीतेन्द्रियग्रामा रामं जानन्ति योगिनः ।
वयं त्ववरमेवास्य रूपं रूपयितुं क्षमाः ॥ ९३ ॥

रूपयितुन्न् निरूपयितुं द्रष्टुं च ॥ ९३ ॥

रघोरघोच्छेदकरो भगवानिति शुश्रुम ।
वसिष्ठ कृपया त्वं हि व्यवहारपरं कुरु ॥ ९४ ॥

वंशोऽवतारेण रघुरप्यनेन पावित इत्याह - रघोरिति । शुश्रुम इति
क्रादिनियमान्नेट् । लिटि मसो मादेशाभावश्छान्दसः ॥ ९४ ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्त्वावस्थितस्तूष्णीं विश्वामित्रो महामुनिः ।
वसिष्ठस्तु महातेजा रामचन्द्रमभाषत ॥९५ ॥

श्रीवसिष्ठ उवाच ।

राम राम महाबाहो महापुरुष चिन्मय ।
नायं विश्रान्तिकालो हि लोकानन्दकरो भव ॥ ९६ ॥

यावल्लोकपरामर्शो निरूढो नास्ति योगिनः ।
तावद्रूढसमाधित्वं न भवत्येव निर्मलम् ॥ ९७ ॥

अधिकारनिष्पादनलक्षणो लोकानां परामर्शो यावन्न निरूढो न निष्पन्नः न
भवति युक्तमिति शेषः ॥ ९७ ॥

तस्माद्राज्यादिविषयान्पर्यालोक्य विनश्वरान् ।
देवकार्यादिभारांश्च भज पुत्र सुखी भव ॥ ९८ ॥

पर्यालोक्य कञ्चित्कालमनुभूय देवकार्यादीनधिकारभारांश्च पर्यालोक्य
पश्चात्समाधिं भजेत्यर्थः ॥ ९८ ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तोऽपि यदा रामः किञ्चिन्नोचे लयं गतः ।
तदा सुषुम्नया सोऽपि विवेश हृदयं शनैः ॥ ९९ ॥

यदा राम इति गुरुणा उक्तोपि लयं ब्रह्मैक्यन्न् गतो
बाह्यार्थश्रवणाभावाद्वागादिकरणचेष्टोपरमाच्च न किञ्चिदूचे तदा स
वसिष्ठस्तच्छरीरं सङ्कल्पेन प्रविश्य तदीयसुषुम्नानाड्या
शनैर्हृदयपुण्डरीकं विवेश । प्रविश्य तदीयं विलीनं जीवोपाधिं लिङ्गं
घनीकृत्य बीजान्तः प्रविष्टो वायुस्तदन्तर्गतमङ्कुरमिव बहिराचकर्षेति यावत् ॥ ९९

शक्तिप्राणमनःप्रसक्तिकरणो जीवः प्रकाशात्मको
नाडीरन्ध्रसुपुष्टसर्वकरणः प्रोन्मील्य नेत्रे शनैः ।
दृष्ट्वोत्कृष्टवसिष्ठमुख्यविदुषो निर्मुक्तसर्वैषणः
कृत्याकृत्यविचारणादिरहितः सर्वान्प्रतीक्ष्य स्थितः ॥ १०० ॥

तस्य बहिराकर्षणे तदाविर्भावक्रमेण तत्र चिदाभासाभिव्यक्त्या तत्कृतं
क्षेत्रप्रकाशबाह्यार्थदर्शनादिक्रममाह - शक्तीति । प्रथमं
प्राणादिबीजभूतायामाधारशक्तौ ततः प्राणाविर्भावे तेषु ततो मनस आविर्भावे
तस्मिंश्च प्रसक्तिश्चिदाभासभावेनानुप्रवेशस्तं करोतीति
शक्तिप्राणमनःप्र्सक्तिकरणः । अत एव तत्प्रकाशात्मकस्तदुपाधिको जीवः
प्राणद्वारा सर्वनाडीरन्ध्रेष्वनुप्रविश्य सुपुष्टान्याविष्कृतानि सर्वाणि
ज्ञानकर्मेन्द्रियलक्षणानि करणानि येन तथाविधः सन् शनैर्नेत्रे प्रोन्मील्य
बहिरुत्कृष्टान् पूज्यान् वसिष्ठमुख्यान् विदुषो दृष्ट्वा स्वयं
कृतकृत्यत्वान्निर्मुक्तसर्वैषणः अत एव कृत्यस्यावश्यकर्तव्यस्य अकृत्यस्य
त्याज्यस्य च व्यवहारस्य विचारणया गुणदोषचिन्तया
आदिपदात्तत्प्रयुक्तहानोपादानादिवृत्त्या च रहितः सन्नीदृशं मामेते किं
वक्ष्यन्तीति सर्वान्प्रतीक्ष्य स्थित इत्यर्थः ॥ १०० ॥

श्रुत्वा वसिष्ठवचनं गुरुवाक्यमिति स्वयम् ।
श्रुत्वा प्रोवाच भगवान्रामचन्द्रः समाहितः ॥ १०१ ॥

तदनन्तरं इति प्रागुक्तं राम राम महाबाहो इत्यादिवसिष्ठवचनं पुनस्तेनैव
श्रावितं श्रुत्वा इदं गुरुवाक्यमनुल्लङ्घ्यमिति
पितृभ्रातृबन्ध्वादिप्रार्थनामपि श्रुत्वा भगवान्सर्वज्ञः ।
स्वावतारप्रयोजनज्ञ इति यावत् । तदभ्युपगमेन समाहितः सन् प्रोवाचेत्यर्थः ॥ १०१ ॥

श्रीराम उवाच ।

न विधेर्न निषेधस्य त्वत्प्रसादादयं प्रभुः ।
तथापि तव वाक्यं तु करणीयं हि सर्वदा ॥ १०२ ॥

वेदागमपुराणेषु स्मृतिष्वपि महामुने ।
गुरुवाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः ॥ १०३ ॥

विधिरवश्यानुष्ठेयोऽर्थः । तद्विपर्ययस्तदतिक्रमणं तु निषेधः । अवश्यहेय
इत्यर्थः … १०३ ॥

इत्युक्त्वा चरणौ तस्य वसिष्ठस्य महात्मनः ।
शिरसा धार्य सर्वात्मा सर्वान्प्राह घृणानिधिः ॥ १०४ ॥

इदानीं श्रीरामः परमपुरुषार्थदानरूपस्य गुरुकृतोपकारस्य
निष्कृतिमन्यामपश्यन् स्वशिरसि तच्चरणधारणव्याजेन स्वं गुरवे समर्प्य
सर्वजनेभ्यः सर्वोत्कृष्टं ज्ञानमाहात्म्यं गुरुमाहात्म्यं च स्वयन्न्
प्रत्यक्षमनुभूतन्न् विश्वासदार्ढ्यायोपदिष्टवानित्याह - इत्युक्त्वेति ॥ १०४ ॥

श्रीराम उवाच ।

सर्वे शृणुत भद्रं वो निश्चयेन सुनिश्चितम् ।
आत्मज्ञानात्परं नास्ति गुरोरपि च तद्विदः ॥ १०५ ॥

तद्विद आत्मविद इति गुरुविशेषणम् । तदात्मतत्त्वं गुरूपदेशाद्वेत्तीति तद्विदः
शिष्यस्य गुरोः परं नास्तीति वा ॥ १०५ ॥

सिद्धादय ऊचुः ।

रामैवमेव सर्वेषां मनसि स्थितिमागतम् ।
त्वत्प्रसादाच्च सकलं संवादेन दृढीकृतम् ॥ १०६ ॥

स्थितिं निश्चयम् । संवादेन एतद्ग्रन्थलक्षणेन त्वदुक्तिसंवादेन च ॥ १०६ ॥

सुखी भव महाराज रामचन्द्र नमोऽस्तु ते ।
वसिष्ठेनाप्यनुज्ञाता गच्छामोऽद्य यथागतम् ॥ १०७ ॥

श्रीवाल्मीकिरुवाच ।

एवमुक्त्वा गताः सर्वे रामसंस्तवने रताः ।
रामचन्द्रस्य शिरसि पौष्पी वृष्टिः पपात ह ॥ १०८ ॥

एतत्ते सर्वमाख्यातं रामचन्द्रकथानकम् ।
अनेन क्रमयोगेन भरद्वाज सुखी भव ॥ १०९ ॥

रामचन्द्रस्य जीवन्मुक्तिविश्रान्तिपर्यन्तसंवादकथालक्षणमानकं
सञ्जीवनममृतमिति यावत् ॥ १०९ ॥

इति रघुपतिसिद्धिः प्रोदिता या मया ते वरमुनिवचनालीरत्नमालाविचित्रा ।
निखिलकविकुलानां योगिनां सेव्यरूपा परमगुरुकटाक्षान्मुक्तिमार्गं ददाति
॥ ११० ॥

उपसंहरति - इतीति । वरमुनेर्वसिष्ठस्य वचनपङ्क्तिलक्षणया रत्नमालया
विचित्रा भूषिता इति उक्तरूपा रघुपतेर्जीवन्मुक्तिसिद्धिर्या मया तुभ्यं प्रोदिता प्रोक्ता
निखिलानां कविकुलानां योगिनां च सेव्यरूपा सा परमगुरुकटाक्षाच्छ्रवणादिना
सेविता सती मुक्तिमार्गं प्रागुक्तभूमिकाक्रमं ददात्यारोपयतीत्यर्थः ॥ ११० ॥

य इमं शृणुयान्नित्यं विधिं रामवसिष्ठयोः ।
सर्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म गच्छति ॥ १११ ॥

विधिं संवादप्रकारम् ।
मोहमालिन्यरागद्वेषमहापातकोपपातकादिसर्वदोषाव्स्थायुक्तोऽपि पुरुषः
श्रवणादेव सर्वैर्दोर्षैर्मुच्यते शान्त्यादिगुणप्राप्तिकमेण ब्रह्म गच्छति प्राप्नोति
किं पुनरधिकारीत्यर्थः ॥ १११ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्र्यां
संहितायां बालकाण्डे मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे ब्रह्मदर्शने
रामव्युत्थानं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
रामव्युत्थानं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥

इति
श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमत्सर्वज्ञसरस्वतीपूज्यपादशिष्यश्रीरा
मचन्द्रसरस्वतीपूज्यपादशिष्यश्रीगङ्गाधरेन्द्रसरस्वत्याख्यभिक्षोः शिष्येण
श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणस्य पूर्वार्धं
सम्पूर्णम् ॥

समाप्तमिदं निर्वाणप्रकरणस्य पूर्वार्धम् ॥