१२७

सप्तविंशत्यधिकशततमः सर्गः १२७

भरद्वाज उवाच ।

इति वरमुनिनोक्तं ज्ञानसारं पुराणं सकलमनुनिशम्य श्रीरघूणां
कुलाग्र्यः ।
विमलमतिरपृच्छत्किञ्चिदन्यत्स्वयं वा समसुखपरिपूर्णः
पूर्णबोधस्थितोऽसौ ॥ १ ॥

इह रामस्य विश्रान्तिर्भरद्वाजोत्सुकोक्तयः ।
लक्षणं जाग्रदादीनां तुरीयं चोपवर्ण्यते ॥

एतावत्पर्यन्तं श्रीवसिष्ठरामसंवादं श्रावयित्वा
रामविश्रान्तिस्मरणसन्निधापिते निरतिशयानन्दपूर्णात्मनि विश्रान्तं
तूष्णीम्भूतं गुरुं श्रीवाल्मीकिं दृष्ट्वाद्यापि स्वयं तत्र विश्रान्त्यलाभादग्रेऽपि
श्रवणोत्सुको भरद्वाजः पृच्छति - इतीत्यादि । हे रुतो विमलमतिः श्रीरघूणां
कुलाग्र्योऽसौ श्रीरामः वरमुनिना श्रीवसिष्ठेन इति वर्णितैर्बहुभिः
प्रकारैरुक्तमुपदिष्टं पुराणं चिरन्तनं ब्रह्मादिमहर्षिसम्प्रदायागतं
ज्ञानसारं निशम्य श्रुत्वा अग्रेऽपि जिज्ञासुः किञ्चिदपृच्छत् । अथवा
एतावतैवोपदेशेन शान्तसर्वसन्देहमोहः स्वयं समेन
विषयवैचित्र्यप्रयुक्ततारतम्यरहितेन साक्षात्कृतेनात्मसुखेन परिपूर्णः सन्
पूर्णबोधात्मैव भूत्वा स्थितस्तद्वदेति शेषः ॥ १ ॥

स खलु परमयोगी विश्ववन्द्यः सुरेशो जननमरणहीनः
शुद्धबोधस्वभावः ।
सकलगुणनिधानं सन्निधानं
रमायास्त्रिजगदुदयरक्षानुग्रहाणामधीशः ॥ २ ॥

ननु समाने ग्रन्थश्रवणे त्वया स्वसन्देहमोहनिवृत्त्यनिवृत्तिभ्यामेव
रामस्यापि ते कुतो नावधार्येते इति तु नाशङ्क्यम् । यतो मम रामस्य च
महदन्तरमस्तीत्याह - स खल्विति । स
नित्यसिद्धज्ञानयोगैश्वर्यानावृतचित्स्वभावः सर्वस्य वशी सर्वस्येशानः
इत्यादिश्रुतिप्रसिद्ध ईश्वरो जगत्पालनायावतीर्णो जगद्गुरुरपि सर्वलोकानुग्रहाय
ज्ञानशास्त्रप्रवृत्त्यर्थं स्वेच्छया स्वस्याज्ञानमिव परिकल्प्य श्रोतुं
प्रवृत्तः । अहं त्वनाद्यज्ञ एव मुमुक्षुरल्पतरसाधनसम्पन्न इति महदन्तरमिति
भावः ॥ २ ॥

श्रीवाल्मीकिरुवाच ।

इति श्रुत्वा वसिष्ठस्य वाक्यं वेदान्तसङ्ग्रहम् ।
विदिताखिलविज्ञानो रामः कमललोचनः ॥ ३ ॥

एवं पृष्टो वाल्मीकिः प्रश्नद्वितीयकोटिमेव कथाशेषेण समर्थयन्नुत्तरमाह

  • इति श्रुत्वेत्यादिना ॥ ३ ॥

शक्तिपातवशोन्मेषप्रकटामलचिद्घनः ।
मुहूर्तमासीदुद्बुद्धश्चैतन्यानन्दसागरः ॥ ४ ॥

शक्तिपातः अखण्डाकार्वाक्यजन्यचित्तवृत्तौ
नित्यनिरतिशयानन्दात्मतत्त्वाविर्भावस्तद्वशादविद्यासम्पुटोद्घाटनलक्षणोन्मेषे
ण प्रकटामल्चिद्घनः कुण्डलिन्याः सुषुम्नामार्गे षट्चक्राणि भित्त्वा
ब्रह्मरन्ध्रप्रवेशेन शिवशक्तिसंयोगलक्षणो योगशास्त्रप्रसिद्धो वा । यस्तु
मन्त्रशास्त्रप्रसिद्धो गुरोः शिष्यानुग्रहातिशयेन स्वदेहं त्यक्त्वा शिष्यदेहे
प्रविश्य तदीयनाडीपरिशोधनद्वारा तत्कुण्डलिन्याःसप्तचक्रेषु सञ्चारणेन
सर्वभुवनसमाचारापरोक्षप्रदर्शनरूपः शक्तिपातः स नेह विवक्षितः ।
श्रीरामस्य स्वयमीश्वरस्य सार्वज्ञ्यादेः स्वतःसिद्धतया तदनपेक्षणात्तेन
लोकोपकारासिद्धेश्चेति । उद्बुद्धः स्वस्वरूपे जागरितो विकसितश्च ॥ ४ ॥

प्रश्नोत्तरविभागादिपरिपाटीविवर्जितः ।
आनन्दामृतपूर्णासू रोमकण्टकिताङ्गकः ॥ ५ ॥

विभाग उक्तानुक्तांशविवेचनम् । आदिपदाद्बाह्यार्थपर्यालोचनमात्रं गृह्यते ।
तदर्थाभिः परिपाटीभिर्मनोबुद्धीन्द्रियादिव्यापारैर्विवर्जितः । आनन्दामृतेन
पूर्णा असवः प्राणा यस्य ॥ ५ ॥

महासामान्यरूपत्वाच्चिद्व्यापकतया स्थितः ।
नित्यमष्टगुणैश्वर्यतृणप्रायमनोरथः ॥ ६ ॥

महासामान्यन्न् सर्वाधिष्ठानसन्मात्रम् । प्रत्यक्चितस्तद्रूपत्वसम्पत्तेः ।
सर्वतश्चिद्व्यापकतया पूर्णः स्थितः । स एवास्य निरतिशयानन्दाविर्भाव
इत्याशयेनाह - नित्यमिति । अष्टगुणानामष्टसङ्ख्यानामणिमाद्यैश्वर्याणां
तृणप्राया मनोरथा लिप्सा यस्य ॥ ६ ॥

न किञ्चिदूचे सम्पन्नः शिवे परिणतः पदे ।

भरद्वाज उवाच ।

अहो खलु ममाश्चर्यन्न् रामः प्राप्तो महत्पदम् ॥ ७ ॥

शिवे पदे निरतिशयानन्दवस्तुनि परिणत एकरसभूतः सम्पन्नः ।
इत्थमुत्तमाधिकारिणो रामस्य श्रवणादेर्ब्रह्मप्राप्तिमुपवर्ण्य
मन्दमध्यमाधिकारिणां चित्तशुद्ध्यर्थमुपासनाविशेषमवस्थात्रय##-
भरद्वाजौत्सुक्यादीनरिष्टनेमये भगवान् वाल्मीकिर्वर्णयति - भरद्वाज
उवाचेत्यादिना ॥ ७ ॥

कथमेतादृशी प्राप्तिरस्माकं मुनिनायक ।
मूर्खाः स्तब्धाश्च किञ्चिज्ज्ञा मादृशाः क्व च पापिनः ।
क्व च ब्रह्मादिभिः प्रार्थ्या दुर्लभा रामसंस्थितिः ॥ ८ ॥

अहो मुनीश्वरगुरो कथं विश्राम्यते मया ।
दुष्पारस्य भवाम्भोधेस्तीर्यते तद्वदाशु मे ॥ ९ ॥

दुष्पारस्य भवाम्भोधेर्मोहवारि इति शेषः ॥ ९ ॥

श्रीवाल्मीकिरुवाच ।

श्रीरामवृत्तान्तमशेषमादितो वसिष्ठवाक्यानुगतं निरूपितम् ।
धिया विचार्यानु परामृश प्रभो मयापि तादृक्कथनीयमत्र ते ॥ १० ॥

एवं पृष्टे वाल्मीकिः श्रुतग्रन्थचिन्तनावर्तनमेव प्रथमं
आवृत्तिरसकृदुपदेशात् इति न्यायसिद्धमुपदिशति - श्रीरामेति । तादृक्
त्वदनुभवानुकूलमवस्थात्रयविवेचनादिकथनीयं कथ्यते शृण्वित्यर्थः ॥ १० ॥

अविद्यायाः प्रपञ्चोऽयं नास्ति सत्यमिहाण्वपि ।
विवेचयन्ति विबुधा विवदन्त्यविवेकिनः ॥ ११ ॥

मिथ्याभूताविद्याकार्यत्वादेव प्रपञ्चस्यासत्त्वं चिदद्वैतसाम्राज्यं च
बुद्धिमता बोद्धुन्न् शक्यमित्याह - अविद्याया इत्यादिना । ननु
प्रपञ्चस्याविद्याकार्यत्वं चेत् किमर्थं वादिनां विवादस्तत्राह - विवदन्तीति ॥ ११

नास्ति भिन्नं चितः किञ्चित्किं प्रपञ्चेन रुध्यसे ।
अभ्यासेन रहस्यानां वयस्य विशदो भव ॥ १२ ॥

मिथ्याद्वैतेन च वास्तवाद्वैतहानिरित्याह - नास्तीति । हे वयस्य सखे इति प्रीत्या
सम्बोधनम् । रहस्यानां प्रणवमहावाक्याद्यर्थानां वक्ष्यमाणोपासनानां च
। विशदो विशुद्धचित्तो भव ॥ १२ ॥

प्रपञ्चविषया वृत्तिर्जाग्रन्निद्रेति कीर्तिता ।
सम्प्रबुद्धस्तु यस्यान्तश्चित्प्रदीपो निरञ्जनः ॥ १३ ॥

तत्रादौ प्रणवप्रथममात्रार्थं जाग्रत्प्रपञ्चं स्फुटं तत्साक्षिविवेकाय
मिथ्यात्वेनोपपादयति - प्रपञ्चेत्यादिना । तस्य त्रय अवस्थान्नयः स्वप्नाः इति
श्रुतौ जाग्रदपि निद्रैवेति कीर्तिता ॥ १३ ॥

शून्यमूलः प्रपञ्चोऽयं शून्यताशिखरः सखे ।
सारशून्यतया मध्येऽप्यनास्था सन्मनीषिणाम् ॥ १४ ॥

शून्यमूलो मिथ्याभूताज्ञाननिदानः । शून्यतारूपमज्ञानमेव
शिखरमग्रमन्तो यस्य तथाविधः मध्येऽपि त्रिवृत्करणपृथक्क्रियाद्युपायेन
पर्यालोचने सारः सत्ता तच्छून्यतया प्रातिभासिकमात्रः प्रथते । अतस्तत्रानास्थैव
युक्तेति शेषः ॥ १४ ॥

अनादिवासनादोषादसन्नेवायमीक्ष्यते ।
गन्धर्वनगराकारः संसारो बहुविभ्रमः ॥ १५ ॥

असतोऽपि सवासनाविद्यया दर्शनं गन्धर्वनगरादेः प्रसिद्धमित्याह - अनादीति ॥
१५ ॥

त्वमनभ्यस्य कल्याणीं चैतन्यामृतकन्दलीम् ।
सम्मुह्यसि किमध्यास्य वासनाविषवीरुधः ॥ १६ ॥

वासनाविषवीरुधो विषवल्लीरध्यास्य आश्रित्य किं सम्मुह्यसि ॥ १६ ॥

जाग्रदेतन्न पतितं ज्ञानालम्बग्रहादधः ।
न सन्त्युपरि सर्वेषां ये निरालम्बसंविदः ॥ १७ ॥

तत्त्वदर्शनेन निरालम्बज्ञानरूपस्यालम्बस्य चित्तस्थैर्यहेतोरवष्टम्भस्य
परिग्रहादधः पूर्वमज्ञावस्थायामेव एतज्जाग्रन्निपतितम् उपरि तुर्यदशायां तु
तिस्रोऽप्यवस्था न सन्ति । ये योगिनो निरालम्बसंविदस्तेषां
सर्वेषामनुभवसिद्धमित्यर्थः ॥ १७ ॥

तावद्रूढा सुधाकाररसा संविन्महानदी ।
न यावदात्मरूपेण निपुणैरवगाह्यते ॥ १८ ॥

यावदज्ञानं तावत्कालमेव चिन्नद्या जगद्दुस्तरङ्गविक्षेपप्ररोह इत्याह -
तावदिति । रूढा दुस्तराङ्गप्रादुर्भाववती ॥ १८ ॥

प्राङ्नास्ति चरमे नास्ति वस्तु सर्वमिदं सखे ।
विद्धि मध्येऽपि तन्नाति स्वप्नवृत्तमिदं जगत् ॥ १९ ॥

आद्यन्तकालासत्त्वेन मध्येऽप्यसत्त्वमेव
स्वभाववैपरीत्याघटनात्स्वप्नवदनुमेयमित्याह - प्रागिति । स्वप्नस्य
वृत्तमिव वृत्तं यस्य तत् ॥ १९ ॥

अविद्यायोनयो भेदाः सर्वेऽमी बुद्बुदा इव ।
क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥ २० ॥

सुशीतलोदकनदीं विदित्वाथ विगाह्य ताम् ।
बहिर्भ्रान्तिनिदाघास्ते निर्यान्तु कलितासुखम् ॥ २१ ॥

कलितमसुखं दुःखं यस्मिन्कर्मणि तत्तथा निर्यान्तु । अचेतनेष्वपि निदाधेषु
चेतनत्वमारोप्योक्तिः ॥ २१ ॥

एकश्चाज्ञानजलधिर्जगदाप्लाव्य तिष्ठति ।
ज्येष्ठोऽयमहमित्यूर्मिरविद्यावातसम्भवः ॥ २२ ॥

इदानीं भगवान्शिष्यस्य मज्जनं न्निवारयिष्यन्नज्ञानं क्षारसमुद्रत्वेन
वर्णयति - एकश्चेत्यादिना । स्वविकारभूतं जगदाप्लाव्य अभिव्याप्य । तस्य
महोर्मिप्रथमजं दर्शयति - ज्येष्ठ इति । अविद्याप्रवाहोऽनादिभ्रान्तिवासना स एव
वातस्तत्सम्भवः ॥ २२ ॥

चित्तस्खलनभेदाली रागाद्याश्च प्रकल्पिताः ।
ममतोत्कलितावर्तः स्वतः स्वैरं प्रवर्तते ॥ २३ ॥

अल्पतरङ्गान्दर्शयति - चित्तेति । चित्तस्य तत्तद्विषयेषु ये स्खलनभेदास्तेषामालिः
पङ्क्तिस्तद्धेतवो रागाद्याश्च प्रकल्पिताः क्षुद्रतरङ्गा इति शेषः । तस्यावर्तं
दर्शयति - ममतेति ॥ २३ ॥

रागद्वेषावतिग्राहौ गृहीतसमनन्तरः ।
ततश्चानर्थपातालप्रवेशः केन वार्यते ॥ २४ ॥

ग्राहौ प्रवर्तेते इति विपरिणामेनानुषज्यते । ताभ्यां गृहीतस्य तव समनन्तरः
सन्निहितः अनर्थपाताले मृत्युमुखे प्रवेशः केन वार्यते ।
गृहीतपदस्यासमर्थस्य समासश्छान्दसः ॥ २४ ॥

प्रशान्तामृतकल्लोले केवलामृतवारिधौ ।
मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ॥ २५ ॥

यदि तु समुद्रमज्जनं तवावश्यकं तर्ह्यानन्दसमुद्रे मज्जेत्याह - प्रशान्तेति
॥ २५ ॥

कस्तिष्ठति गतः को वा कस्य केन किमागतम् ।
किं नु मज्जसि मायायां पत मा त्वमतन्द्रितः ॥ २६ ॥

संसारस्तिष्ठति स च रामस्य तत्त्वबोधाद्गतो मम तु न गत इति शोकहेतुं मोहं
वारयति - कस्तिष्ठतीति । अतन्द्रितो विवेकी त्वं मा पत ॥ २६ ॥

तत्त्वमेकं यदात्मेति जगदेतत्प्रचक्षते ।
ततोऽन्यः कस्तवातीतो यस्तात विषयः शुचाम् ॥ २७ ॥

यदा प्रचक्षते व्यक्तं प्रतिपादयन्ति इदं सर्वं यदयमात्मा इत्यादि वेदान्ता
इत्यर्थः ॥ २७ ॥

बालान्प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत् ।
अविवर्तितमानन्दमास्थिताः कृतिनः सदा ॥२८ ॥

येषामज्ञानमस्ति तान्बालान्प्रति ब्रह्मणो जगदाकारविवर्तः ॥ २८ ॥

अविविक्तो जनः शोचत्यकस्माच्च प्रहृष्यति ।
तत्त्ववित्तु हसन्नास्ते तस्य मोहो विडम्बनम् ॥ २९ ॥

अविविक्तः अविवेकी । ननु तत्त्वविदामपि कदाचिद्व्यामोहः कथं दृश्यते तत्राह -
तस्येति । विडम्बनमज्ञचेष्टानुकरणमात्रम् ॥ २९ ॥

तच्च सूक्ष्ममिदं तत्त्वं तिरोहितमविद्यया ।
यथा स्थलेषु लोकानां जलेष्वात्मसु संशयः ॥ ३० ॥

अन्येषां तु न तथा । तेषामविद्याच्छादितात्मनां जलेषु
स्थलबुद्धिवदनात्मस्वात्मताभ्रान्तेरित्याह - तच्चेति । यथा अज्ञलोकानां जलेषु
स्थलमिति संशयो मरुस्थलेषु च जलमिति संशयस्तथा कल्पितभेदेष्वात्मस्वपि
संशयो भ्रम इत्यर्थः ॥ ३० ॥

पृथिव्यादिमहाभूतपरमाणुमयं जगत् ।
स्थितं यदा तदापीह को गतो योऽनुशोच्यते ॥ ३१ ॥

यदा परमाण्वादिमयजगद्वादिरीत्यापि विवेकेऽपि शोकप्रसक्तिर्नास्ति तदा
मायामयजगद्वादे दूरापास्तैव सेत्याशयेनाह - पृथिव्यादीति । को गतो नष्टः ।
तन्मतेऽपि देहादेरनात्मत्वेन तन्नाशे आत्मनाशाभावादित्यर्थः ॥ ३१ ॥

असतः सम्भवो नास्ति नास्त्यभावः सतः सखे ।
आविर्भावतिरोभावाः संस्थानानाममी परम् ॥ ३२ ॥

प्रियनाशाद्धि शोकप्रसक्तिः । स प्रियो यदि संस्तदा न नश्यत्येव यद्यसंस्तर्हि न
स्थित एवेत्युभयथापि तन्नाशासिद्धेर्न शोकहेतुरस्तीत्याशयेनाह - असत इति ।
संस्थानानां मायिकसन्निवेशविशेषाणाम् ॥ ३२ ॥

किन्त्वनेकपुरोत्साहाद्विषतामुपगच्छति ।
भज सम्भरिताभोगं परमेशं जगद्गुरुम् ॥ ३३ ॥

ननु यदि मायिकमेव देहादिसंस्थानं तर्हि
तदैन्द्रजालिकोपदर्शितमायावदुदासीनं तटस्थं भासतां
शोकमोहदुःखाद्यनर्थसहस्रदाने त्वस्य को हेतुस्तत्राह - किन्त्विति । सत्यम् ।
आधुनिको न कश्चिद्धेतुरस्ति किन्त्वनेकः पुरा सञ्चितः पुण्यपापप्रवृत्तिलक्षण
उत्साहः पुरुषप्रयत्नः पुण्यपापाख्यस्तद्धेतुरस्ति । तस्मादेवायं मायिको
देहादिस्तद्भोगाय विषतां विषवन्मरणमूर्च्छाद्यनर्थसहस्रहेतुतामुपगच्छति
अध्यात्मज्ञानशास्त्रार्थश्च शतशोऽप्युपदिष्टः पापवशादेव हृदि नारोहति
अतस्तत्पापक्षयाय सगुणेश्वरोपासनं कुर्वित्याह - भजेति । भक्तानुग्रहाय
सम्भरितः सम्यग्धृत आभोगो वक्ष्यमाणार्धनारीश्वरादिवेषो येन तम् ॥ ३३ ॥

दुरितानि समस्तानि पच्यन्तेऽद्यापि न ध्रुवम् ।
कृतमेवास्य देवस्य पाशा विश्रवतां गताः ॥ ३४ ॥

अद्यापि न पच्यन्ते न क्षीणानि तवेति शेषः । ध्रुवमिति वितर्के । प्राणिकृतं
पुण्यपापात्मकं कर्मैवास्य पशुपतेर्देवस्य प्राणिपशुबन्धनपाशाः
विश्रवतां विविधश्रुत्यादिप्रमाणप्रसिद्धताम् ॥ ३४ ॥

साकारं भज तावत्त्वं यावत्सत्त्वं प्रसीदति ।
निराकारे परे तत्त्वे ततः स्थितिरकृत्रिमा ॥ ३५ ॥

सत्त्वं चित्तं प्रसीदति विशुद्ध्यति । ततस्तस्माद्भजनादकृत्रिमा
विघ्नैरबाध्यत्वात्सहजा भविष्यतीति शेषः । तथा च श्रुतिः उमासहायं
परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति
भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इति ॥ ३५ ॥

इमामुद्दामतमसो जित्वा सत्त्वबलाद्ध्रुवम् ।
यमस्यानुसराध्वानं विश्वस्तेनान्तरात्मना ॥ ३६ ॥

ईश्वरोपासनशुद्धसत्त्वबलाद्व्यामोहसहस्रैरुद्दामस्य तमस इमां प्रसिद्धां
व्यामोहशक्तिं जित्वा गुरुशास्त्रोपदेशविश्वासवता मनसा यमस्य
सेन्द्रियमनोनियमनात्मकस्य योगस्याध्वानमनुसर ॥ ३६ ॥

समाधाय क्षणं पश्य प्रत्यगात्मानमात्मना ।
इयं विभातु सा व्यक्तं प्राग्बुद्धिरजनी तव ॥ ३७ ॥

ततः क्षणं मुहूर्तद्वादशतमभागमपि समाधाय समाधिमाश्रित्य
तेनात्मदर्शनेन तव प्राक्तमोवृता बुद्धिरूपा रजनी रात्रिर्विभातु प्रभातभावं
गच्छतु ॥ ३७ ॥

कृतं पुरुषकारेण केवलेन च कर्मणा ।
महेशानुग्रहादेव प्राप्तव्यं प्राप्यते नरैः ॥ ३८ ॥

ननु सत्कर्मानुष्ठानैरेव चित्तशुद्धिसिद्धेः किमर्थमीश्वरोपासनं तत्राह -
महेशेति ॥ ३८ ॥

नाभिजात्यं न चारित्र्यन्न् न नयो न च विक्रमः ।
बलवन्ति पुराणानि सखे कर्माणि केवलम् ॥ ३९ ॥

नन्वाभिजात्यसदाचारतपःकर्माद्यद्यतनपुरुषप्रयत्नानां प्राक्तनकर्मापेक्षया
प्राबल्यं प्राक्साधितं तत्कथमिदानीमीश्वरानुग्रहापेक्षोच्यते तत्राह -
नाभिजात्यमिति ।
पुरातनकर्मणामनन्तत्वादिदानीन्तनपुरुषप्रयत्नानामल्पतरत्वान्नेश्वरानु##-
प्रागैहिकप्रयत्नप्राबल्यं साधितं न तद्विहायेति भावः ॥ ३९ ॥

अप्रतर्क्यात्प्रतीकारात्किमेवमवसीदसि ।
न लुम्पति ललाटस्थामीश्वरोऽप्यक्षरावलिम् ॥ ४० ॥

तर्हीश्वरोपास्तिरेव कार्या किं यमनियमज्ञानादिभिस्तत्राह - अप्रतर्क्यादिति ।
एवमीश्वरप्रपन्नोऽपि
त्वमप्रतर्क्यात्पौरुषतर्कागम्याच्छ्रुत्येकसमधिगम्याद्धर्मादि##-
किमर्थमुद्विजसि । यत उपासनाप्रसादित ईश्वरोऽपि ललाटस्थामक्षरावलिं न
साक्षात्स्वकरेण मार्जयति किन्तु ज्ञानकृतमूलोच्छेदोपायेनैवेत्यर्थः ॥ ४० ॥

क्व चिद्वक्ता क्व वैदग्ध्यं क्व चेयं मोहवल्लरी ।
अचिन्तनीया नियतिर्यदियं द्वन्द्वमाहिता [द्वन्द्वमागता इति पाठश्चेत्
व्याख्यानुगुणः स्यात् ।] ॥ ४१ ॥

गुरुशास्त्रयोः शिष्यबोधनशक्तिः शिष्यस्य च चित्तशुद्ध्या ऊहापोहकुशलतया
बोद्धृताशक्तिः रागादीनां च समूलोच्छेदयोग्यताप्राप्तिलक्षणपरिपाक इति
सर्वसामग्रीमिलनमपीश्वरेच्छालक्षणनियतिवशादेवेत्याह - क्वेति ।
वाङ्मनसागम्ययाय अखण्डब्रह्मात्मचित्तो वक्ता गुरुः क्व शिष्यस्य च
तद्बोधयोग्यतालक्षणं वैदग्ध्यं कौशलं क्व इयमेवं शमदमादिक्रमेण
स्वविनाशाय परिणता मोहवल्लरीक्व । यद्यस्याः सकाशादियं सर्वा सामग्री
द्वन्द्वं परस्परमिलनमागता सा नियतिरीश्वरेच्छा अचिन्तनीया
प्रभावेयत्तापरिच्छेदेन चिन्तयितुमशक्येत्यर्थः ॥ ४१ ॥

हे भरद्वाज मोहं त्वं विवेकेन जहि स्फुटम् ।
असामान्यमिदानीं त्वं ज्ञानं प्राप्त्यस्यसंशयम् ॥ ४२ ॥

अत एवेदृशसामग्रीप्राप्तौ मोहजयोत्साह एव युक्तो न त्वन्तराले शोक इत्याह - हे
भरद्वाजेति । असामान्यमसाधारणम् ॥ ४२ ॥

दूरमुत्सहते राजा महासत्त्वो महापदि ।
अल्पसत्त्वो जनः शोचत्यल्पेऽपि हि परिक्षते ॥ ४३ ॥

किं च महत्यपि कार्ये शोकः सामग्रीहीनस्य युक्तो न तु महाराजस्येव
सर्वसामग्रीसम्पन्नस्य तवेत्याशयेनाह - दूरमिति । महासत्त्वो राजा
युद्धादिमहापदि निमग्नोऽपि धनभृत्यादिसामग्रीसम्पन्नत्वादन्येषां
मनोरथदूरमपि
पृथ्वीपरिपालनदुष्टनिग्रहशिष्टपरिपालनादिकार्यमाज्ञामात्रेण कर्तुमुत्सहते ।
परिक्षते धनादिक्षतिरूपायामापदि तदुत्तरणे हेतुधैर्यादिसामग्रीविरहादित्यर्थः ॥
४३ ॥

बोधः पुण्यपराधीनः प्रथते बहुजन्मभिः ।
अनुमीयेत धीरेषु जीवन्मुक्तेषु कार्यतः ॥ ४४ ॥

जीवन्मुक्तान्निदर्शनीकृत्य पुण्यसामग्र्यां सत्यां मम बोधो
भविष्यत्येवेत्यनुमाय सोत्साहः पुण्यसामग्र्यर्जने प्रथमं प्रवर्तेतेत्याशयेनाह

  • बोध इति ॥ ४४ ॥

द्विषद्भूतेन येनैव कर्मणा बन्ध ईदृशः ।
सुहृद्भूतेन तेनैव मोक्षमाप्स्यसि पुत्रक ॥ ४५ ॥

ननु पावत्पुण्यस्यापि बन्धकत्वाद्द्विषद्भूतं पुण्यं कथमर्जनीयं तत्राह -
द्विषद्भूतेनेति । सति रागे पुण्यं बन्धकं भवेत्तदभावे तु सुहृद्भूतं
मोक्षोपयुक्तमेवेति भावः ॥ ४५ ॥

सतां सत्कर्मसंवेगः पुराणं प्रणुदन्नयम् ।
सर्वौघ इव भूतानां दवानलमसेचयत् ॥ ४६ ॥

पुण्यातिशयेन प्राक्तनपापनाशे शमदमाद्यमृताप्यायितानां
त्रिविधतापशान्तिर्भवतीत्याह - सतामिति । असेचयदिति भूतकालो न विवक्षितः ॥ ४६ ॥

सखे सन्न्यस्य कर्माणि ब्रह्मणः प्रणयी भव ।
नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ॥ ४७ ॥

पुण्यार्जनोत्तरं वैराग्यदार्ढ्ये यत्कार्यं तदुपदिशति - सखे इति । ब्रह्मणः
प्रणयी श्रवणाद्युपायैर्ब्रह्मण्यासक्तः ॥ ४७ ॥

तावदेतद्विकल्पोत्थमिदं यावद्बहिर्ग्रहः ।
प्रतिकूलोऽब्धिरुल्लोले केवलं निश्चले जले ॥ ४८ ॥

यावद्बहिर्ग्रहोऽब्रह्मप्रणयिता । उल्लोले जले पयसि अब्धिः प्रतिकूलः कूलोपसर्पी
विक्षिप्तः । निश्चले तु पयसि केवलं पय एव यथेत्यर्थः ॥ ४८ ॥

अयन्न् किमन्धकरणस्त्वया शोकोऽवलम्ब्यते ।
निर्वाहयतु सैव त्वां प्रज्ञायष्टिरभङ्गुरा ॥ ४९ ॥

अन्धकरणो विवेकदृष्टिपिधायकः । एवं शोकान्धं त्वां
यावद्विवेकदृष्ट्युद्घाटनं तावत्प्रज्ञायष्टिरेकैव निर्वाहयतु ॥ ४९ ॥

न जातु ते विगण्यन्ते गणनासु गरीयसाम् ।
ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः ॥ ५० ॥

हर्षशोकयोस्तरङ्गैः शुभोत्साहभङ्गैः ॥ ५० ॥

समारूढं दशादोलामहोरात्रमिदं जगत् ।
क्रीड्यते षड्विधैः प्रेङ्खैः सखे किमिति खिद्यते ॥ ५१ ॥

हर्षविषादादिदशालक्षणां दोलाम् । इदं जगत् जीवजातम् ।
षडूर्मिभेदात्षडृतुभेदात्कामाद्यरिषट्कभेदाद्वा षड्विधैः
प्रेङ्खैर्दोलायन्त्रैः क्रीड्यते कालेन । क्रीडतेरकर्मकाद्धेतुमण्णिचि गतिबुद्धि -
इत्यादिना कर्तुः कर्मत्वे कर्मणि लः । न हि क्रीडाकौतुककल्पितेषु
पदार्थसंयोगवियोगेषु खेदो युक्त इत्यर्थः ॥ ५१ ॥

सूते संहरति क्षिप्रं पुनः सृजति हन्ति च ।
जगन्ति बहुपर्यायैः काल एव कुतूहली ॥ ५२ ॥

कुतूहली क्रीडाकौतुकी ॥ ५२ ॥

न विशेषग्रहः कश्चिन्न च कश्चिन्न कश्चन ।
जन्तुष्वभ्यवहार्येषु प्राक्रम्य कालभोगिनः ॥ ५३ ॥

स्वशरीरादेः सर्वप्राणिशरीरादिवत्कालाशनत्वाद्यद्यदीयमन्नं तेन तदवश्यं
भोक्तव्यमेवेति निश्चित्य तत्राहन्ताद्यभिमानत्यागेन शोकप्रसक्तिरित्याशयेनाह ##-
न प्रसिद्ध इत्यर्थः । काललक्षणस्य भोगिनः सर्पस्य प्राक्रम्य
बलादाक्रम्याऽभ्यवहारो भक्षणं तत्कर्मभूतेषु जन्तुषुमध्ये ॥ ५३ ॥

का कथा मर्त्यपिण्डानां निमेषान्तरवासिनाम् ।
अपि देवनिकाया ये तेऽपि दुष्कालगोचराः ॥ ५४ ॥

दुष्टस्य कालस्य गोचराः । अन्नभूता इति यावत् ॥ ५४ ॥

स्वयं नृत्यसि किं प्रीतो विपत्तौ विकलेन्द्रियः ।
क्षणं निश्चलमासीनः पश्य संसारनाटकम् ॥ ५५ ॥

अपि च साक्षिणस्तव संसारनर्तनकौतुकदर्शनमेव युक्तं न तु
शोकमोहादिविकारैः स्वयं नर्तनमित्याह - स्वयमिति । विपत्तौ धनचित्तादिनाशे
विकलानि विवेकदर्शनासमर्थानि रोदनादिविकृतानि च इन्द्रियाणि चक्षुरादीनि यस्य
तथाविधः सन् ॥ ५५ ॥

अस्यानेकतरङ्गस्य जगतः क्षणभङ्गिनः ।
न विषीदति मनस्वी भरद्वाज मनागपि ॥ ५६ ॥

क्षणभङ्गिनो दर्शनादिति शेषः । मनस्वी विवेकी ॥ ५६ ॥

त्यज शोकममङ्गल्यं मङ्गलानि विचिन्तय ।
चिदानन्दघनं स्वच्छमात्मानं च विभावय ॥ ५७ ॥

अमङ्गल्यममङ्गलार्हम् ॥ ५७ ॥

देवद्विजगुरुश्रद्धाभरबन्धुरचेतसाम् ।
सदागमप्रमाणानां महेशानुग्रहो भवेत् ॥ ५८ ॥

कानि मङ्गलानि तान्याह - देवेति । देवद्विजादिश्रद्धाप्रभृतय
ईश्वरानुग्रहसाधनत्वान्मङ्गलानि । ईश्वरानुग्रहस्तु
साक्षाज्ज्ञानसाधनत्वात्परममङ्गलमिति भावः । तथा चोक्तम् -
ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महाभयपरित्राणाद्द्वित्राणामेव जायते ॥
इति ॥ ५८ ॥

भरद्वाज उवाच ।

ज्ञातं तव प्रसादेन सर्वमेतदशेषतः ।
न वैराग्यात्परो बन्धुर्न संसारात्परो रिपुः ॥ ५९ ॥

इदानीं भरद्वाजः सर्वसाधनरहस्यं मया पिण्डीकृत्य ज्ञातम्
दृश्यप्रपञ्चप्रविलापनोपायरहस्यमीश्वरानुग्रहसाधनरहस्यं च
वसिष्ठस्य विस्तरोक्तिषु विशकलितं तत्र तत्रोक्तं पिण्डीकृत्य न ज्ञातमिति
कण्ठोक्त्यार्थाच्च दर्शयंस्तज्जिज्ञासुः पृच्छति - ज्ञातमित्यादिना ॥ ५९ ॥

इदानीं श्रोतुमिच्छामि वसिष्ठेनोपपादितम् ।
ज्ञानसारमशेषेण ग्रन्थेनोक्तं पदात्मना ॥ ६० ॥

श्रीवाल्मीकिरुवाच ।

भरद्वाज शृणुष्वेदं महाज्ञानं विमुक्तिदम् ।
यस्य श्रवणमात्रेण भवाब्धौ न निमज्जसि ॥ ६१ ॥

अनेकवाक्यात्मना अशेषेण ग्रन्थेनोक्तं रहस्यमेकपदात्मना पिण्डीकृतं
निष्कृष्टं श्रोतुमिच्छामीत्यर्थः । यदात्मना इति पाठे यत्तात्पर्यकेणेति
ग्रन्थविशेषणम् ॥ ६० ॥ ६१ ॥

संहृतिस्थितिसम्भूतिभेदैर्योऽनेकधा स्थितः ।
एकोऽपि सन्नमस्तस्मै सच्चिदानन्दमूर्तये ॥ ६२ ॥

प्रविलापनोपायमपवादं वक्तुमध्यारोपेणैकमेवानेकधा स्थितं देवं
मङ्गलार्थं नमस्यति - संहृतीति ॥ ६२ ॥

कृते प्रपञ्चविलये यथा तत्त्वं प्रकाशते ।
तवोपायं प्रवक्ष्यामि सङ्क्षेपाच्छ्रुतिशासनात् ॥ ६३ ॥

प्रश्नाभिप्रायानुरूपमुत्तरं वक्तुं प्रतिजानीते - कृते इति । श्रुतिशासनात्
माण्डूक्योपनिषदादिश्रुत्युक्तक्रमात् ॥ ६३ ॥

पूर्वापरविचारार्हा कथं नष्टा तव स्मृतिः ।
तयैव ज्ञायते सर्वं करामलकवत्स्वयम् ॥ ६४ ॥

(स्वयं [क्वाचित्कमिदं पद्यम् ।] विचार्यं स्वयमेव चेतसा
तत्प्राप्यते येन न शोचते पुनः ।
सत्सङ्गसच्छास्त्रविवेकतः पुनर्वैराग्ययुक्तेन विभाव्यमेतत् ॥) ॥ ६५ ॥

विशकलितोक्तं सूक्ष्ममतिभिः स्वयमेव पूर्वापरविचारेण निष्कृष्य ज्ञातुं
शक्यं तत्ते सौबुद्ध्यं प्राक् प्रख्यातमिदानीं कथं नष्टमिति
वक्ष्यमाणग्रहणावधानार्थमधिक्षिपति - पूर्वापरेति ॥ ६४ ॥ ६५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० पू०
भरद्वाजानुशासनं नाम सप्तविंशत्यधिकशततमः सर्गः ॥ १२७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भरद्वाजानुशासनं नाम सप्तविंशत्यधिकशततमः सर्गः ॥ १२७ ॥