१२६

षड्विंशत्यधिकशततमः सर्गः १२६

श्रीराम उवाच ।

सप्तानां योगभूमीनामभ्यासः क्रियते कथम् ।
कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः ॥ १ ॥

उच्येते योगभूमीनामभ्यासक्रमलक्षणे ।
अन्तराले मृतौ भोगास्ततो जन्मान्तरे जयः ॥

जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि राघव इति चतुर्थभूमिकारूढं रामं प्रति
पञ्चमादिभूमिकास्थितिः सम्पाद्येत्युक्तम् । तत्सम्पादनकामो रामः
स्वजितजेतव्यभूमिकाविभागज्ञानाय तल्लक्षणानि तदभ्यासक्रमं च पृच्छति ##-
वीप्सायां प्रतेः कर्मप्रवचनीयसञ्ज्ञायां द्विर्वचनस्याव्ययीभावस्य वा
आवश्यकत्वात्तदकरनं छान्दसम् ॥ १ ॥

श्रीवसिष्ठ उवाच ।

प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान् ।
स्वर्गापवर्गोन्मुखयोः शृणु लक्षणमेतयोः ॥ २ ॥

पृष्टं भूमिकाभ्यासक्रमं कथयिष्यन्वसिष्ठस्तदधिकारिणं
प्रवृत्तिशास्त्राधिकारिव्यावृत्तं दर्शयितुं तौ विभज्य तयोर्लक्षणभेदोक्तिं
प्रतिजानीते - प्रवृत्तश्चेति । पुमान् वेदमार्गस्थः पुरुषः ॥ २ ॥

कियत्तन्नाम निर्वाणं वरं संसृतिरेव मे ।
इतिकर्तव्यकर्ता यः स प्रवृत्त इति स्मृतः ॥ ३ ॥

तत्रादौ रागादिदोषैर्विपरीतबुद्धेः प्रवृत्तस्य लक्षणमाह - कियदिति । तत्
सर्वविषयशून्यत्वेन प्रसिद्धं निर्वाणं कियन्नाम । न भोगरागिणां
बहुमतमित्यर्थः । उच्चावचभोगसम्पन्ना संसृतिरेव मे वरन् । यथाहुः अपि
वृन्दावने शून्ये शृगालत्वं स वाञ्छति । न तु निर्विषयं मोक्षं कदाचिदपि
गौतम् ॥ इति । एवं प्रकारेण निश्चित्य कर्तव्यस्य नित्यनैमित्तिककाम्यकर्मजातस्य यः
कर्ता ॥ ३ ॥

चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् ।
अनेकजन्मनामते विवेकी जायते पुमान् ॥ ४ ॥

निवृत्तं लक्षयिष्यन् निवृत्तिहेतुं विवेकं वर्णयितुं तद्दौर्लभ्यमाह - चलेति ।
यथा यादोगणकोटिभिः
प्रचण्डपवनैर्वडवानलक्कथनादिभिश्चात्यन्तचञ्चलपूर्वापरार्णवद्वयोदरे
विहरतां कूर्माणां ग्रीवाणामल्पतरेऽपि तरङ्गचलनादिप्रयुक्तभये
झटित्येवान्तःप्रवेशाः पुनर्निर्गमाश्चासङ्ख्येयास्तद्वदसङ्ख्येयानां
मृत्युमुखप्रवेशपुनर्निर्गमनलक्षणानां जन्मनामन्ते कश्चिदेव पुमान्
विवेकी जायत इत्यर्थः । अथवा क्षारार्णवस्थमहाकूर्मग्रीवा यथा अनेकशः
कण्ठच्छिद्रे प्रविश्य निर्गतापि क्षारार्णवरसमेवास्वादयन्ती तमेव
बहुमन्यमाना आप्रलयं न क्षीरार्णवरसं जानाति । अन्ते कल्पान्ते तु चलयोः
क्षारक्षीरार्णवयोर्मिलनावसरे तदुभयोदरलक्षणच्छिद्रे ग्रीवाप्रवेशे
क्षीररसमास्वाद्य क्षाररसात्क्षीररसस्य विवेकिनी भूत्वा तदासक्ता जायते तद्वज्जीवोऽपि
प्राग्विषयरसानेव बहुमन्यमानोऽनेकजन्मनामन्ते
भाग्योदयादध्यात्मशास्त्ररसमास्वाद्य विवेकी तदासक्तो जायत इत्यर्थः । अथवा
अमृतोत्पादनाय देवासुरैः समुद्रमथने क्रियमाणे यथा मन्थाचलाधारस्य
कूर्मभूतस्य भगवतः समस्तभुवनाधारोदरत्वादन्तर्बहिश्च
मथ्यमानचलार्णवयुगस्य च्छिद्रे क्व प्रथमममृतमुत्पद्यते इत्यास्वादनेन
परीक्षार्थं प्रवृत्ता ग्रीवा अनेकेषामन्तःप्रवेशबहिर्निर्गमनजन्मनामन्ते
अन्तर्बहिर्वा यत्रैव प्रथमममृतमुत्पन्नं तत्रैव पायेन
बहिर्मनननिदिध्यासनाभ्यामन्तश्च ब्रह्मात्मतत्त्वविवेकाय प्रवृत्तः
पुमाननेकजन्माभ्यासवशादन्ते अन्तरेव बहिः श्रवणावसरे वा साक्षाद्विवेकेन
निरतिशयानन्दमास्वादयतीत्यर्थः । अथवा चलयोरर्णवयोर्युगस्य युग्मस्य च्छिद्रे
मध्यवर्तितीरविवरे कूर्मस्य ग्रीवया साधनभूतया प्रवेशे सति यथा परतो
निर्गमने पश्चान्निवर्तने तथैव च्छिद्रावस्थाने वा न क्वापि विश्रान्तिस्तथा
प्राक्तनं भवसागरं परित्यज्य भवान्तरं प्रति विविक्षोर्जीवस्य न क्वापि विश्रान्तिःइ
। तथाहि । प्राक्तने जन्मनि जरामरणादिदुःखपरम्पराभाविनि
बाल्यादिदुःखसन्ततिर्मध्यवर्तिनि यातनादेहे गर्भवासे वा महद्दुःखमिति । इत्थं
दुःखमयानामनेकेषां जन्मनामन्ते पुमान्कुतश्चित्पुण्यपरिपाकाद्विवेकी जायते ॥
४ ॥

असारा बत संसारव्यवस्थालं ममैतया ।
किं कर्मभिः पर्युषितैर्दिनं तैरेव नीयते ॥ ५ ॥

कीदृशो विवेकोऽस्य जायते तमाह - असारेत्यादिना । विविधा विरुद्धा
चावस्थितिर्व्यवस्था असारा विश्रान्तिसुखहीना । पर्युषितैरनुचितपरिणामैः
[अशुचिपरिणामैः इति पाठः ।] ॥ ५ ॥

क्रियातिशयनिर्मुक्तं किं स्याद्विश्रमणं परम् ।
इति निश्चयवान्योऽन्तः स निवृत्त इति स्मृतः ॥ ६ ॥

क्रियाप्रयुक्तैरतिशयैरुत्पत्त्याप्तिविकृतिसंस्कारैर्निर्मुक्तं कूटस्थमित्यर्थः । इति
विचार्य तदवश्यं सम्पादनीयमिति निश्चयवान् ॥ ६ ॥

कथं विरागवान्भूत्वा संसाराब्धिं तराम्यहम् ।
एवंविचारणपरो यदा भवति सन्मतिः ॥ ७ ॥

तस्य प्रथमभूमिकाप्राप्तिक्रममाह - कथमित्यादिना ॥ ७ ॥

विरागमुपयात्यन्तर्भावनास्वनुवासरम् ।
क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥ ८ ॥

भावनासु भोगतत्साधनचिन्तासु । विरागं वैरस्यम् । उदाररूपासु
चित्तशुद्ध्यनुकूलासु शौचसत्सङ्गेश्वरोपासनजपादिरूपासु क्रियासु क्रमते सज्जते ।
तेन चान्वहं चित्तशुद्ध्युपचयेन तृष्णाक्षयान्मोदते ॥ ८ ॥

ग्राम्यासु जडचेष्टासु सततं विचिकित्सति ।
नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ ९ ॥

विचिकित्सति जुगुप्सते । मर्माणि परेषां रहस्यदोषान्नोदाहरति न भाषते ॥ ९ ॥

मनोनुद्वेगकारीणि मृदुकर्माणि सेवते ।
पापाद्विमेति सततं न च भोगमपेक्षते ॥ १० ॥

परेषां स्वस्य च मनसः अनुद्वेगकराणि मृदून्यल्पायासमहाफलानि
यमनियमादिकर्माणि सेवते । भोगे च पापावश्यम्भावात्तं नापेक्षते ॥ १० ॥

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।
देशकालोपपन्नानि वचनान्यभिभाषते ॥ ११ ॥

पेशलान्यनुद्वेगकराणि । उचितानि सत्यप्रियहितादिरूपाणि ॥ ११ ॥

तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।
मनसा कर्मणा वाचा सज्जनानुपसेवते ॥ १२ ॥

एवङ्गुणविशिष्टपुरुषस्य सच्छास्त्रश्रवणाधिकारलक्षणायां
प्रथमभूमिकायामवतार इत्याह - तदेति । सज्जनान्
शान्तिदान्तिज्ञानविज्ञानसम्पन्नान् ॥ १२ ॥

यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते ।
एवंविचारवान्यः स्यात्संसारोत्तारणं प्रति ॥ १३ ॥

यतः कुतश्चित्तत्सेवानुकूलं धनादिसाधनमानीय
तान्सेवमानस्तन्मुखाज्ज्ञानशास्त्राणि
पुराणमोक्षधर्माध्यात्मसंहितादीन्यवेक्षते शृणोतीत्यर्थः ॥ १३ ॥

स भूमिकावानित्युक्तः शेषः स्वार्थ इति स्मृतः ।
विचारनाम्नीमितरामागतो योगभूमिकाम् ॥ १४ ॥

भूमिकावान्प्रथमभूमिकाप्रविष्ट इत्युक्तः । शेषः
उक्तसाधनचतुष्टयादिसम्पत्तिहीनस्त्वध्यात्मग्रन्थासक्तोऽपि रागादिना
अनधिकारिजनप्रतारणेनार्जनादिना उदरभरणशीलत्वात्स्वार्थो वञ्चक इत्यर्थः ।
सेयं शुभेच्छाख्या प्रथमा भूमिका । तस्य क्रमेण
द्वितीयभूमिकाप्रवेशक्रममाह - विचारेति । भूमिकामागतः
अधिकारप्राप्त्याऽवतीर्णः ॥ १४ ॥

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणाम् ।
मुख्यया व्याख्यया ख्याताञ्श्रयते श्रेष्ठपण्डितान् ॥ १५ ॥

स तत्र किं करोति तदाह - श्रुतीति । श्रुतीनां स्मृतीनां सदाचाराणां
धारनाध्यानकर्मणां साध्येन समाधिना साधनैश्च
यमनियमासनप्राणायामप्रत्याहारैः प्रतिपाद्ये यस्य योगशास्त्रस्य तस्य च
मुख्यया अनुष्ठानानुष्ठापनफलोपहितया व्याख्यया व्याख्यानेन ख्यातान् ।
आत्मतत्त्वानुभवोपदेशकुशलत्वाच्छ्रेष्ठान्पण्डितान् गुरून् श्रयते
श्रवणमननादिविचाराय शरणं गच्छतीत्यर्थः । तथा च श्रुतिः तद्विज्ञानार्थं
स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति ॥ १५ ॥

पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।
जानात्यधिगतश्रव्यो गृहं गृहपतिर्यथा ॥ १६ ॥

स्वयं व्याकरणाद्यङ्गाभिज्ञत्वात्पदानां तदर्थानां च
वाच्यलक्ष्यादिरूपाणां लक्षणादिप्रविभागज्ञः शिष्यो गुरुमुखादधिगतश्रव्यः
सन् कार्यं साध्यं कर्मकाण्डार्थस्तद्विलक्षणमकार्यं सिद्धं
ब्रह्मकाण्डार्थस्तयोर्विन्निर्णयं गृहपतिः स्वगृहकोष्ठविभागमिव स्पष्टं
जानाति ॥ १६ ॥

मदाभिमानमात्सर्यमोहलोभातिशायिताम् ।
बहिरप्याश्रितामीषत्त्यजत्यहिरिव त्वचम् ॥ १७ ॥

बहिर्लोकमर्यादानुसारेणेषदाश्रितामपि । अनेन प्रथमभूमिकायामेव
तेषामन्तर्निवृत्तता दर्शिता ॥ १७ ॥

इत्थम्भूतमतिः शास्त्रगुरुसज्जनसेवनात् ।
सरहस्यमशेषेण यथावदधिगच्छति ॥ १८ ॥

शास्त्ररहस्यं परमतात्पर्यं प्रमाणासम्भावनानिरासेनाधिगच्छति ।
गुरुसज्जनाभिमतमात्मरहस्यं प्रमेयासम्भावनानिरासेनाधिगच्छति ॥ १८ ॥

असंसङ्गाभिधामन्यां तृतीयां योगभूमिकाम् ।
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥ १९ ॥

एवं द्वितीयभूमिकां जितवतस्तृतीयभूमिकाप्रवेशमाह - असंसङ्गेति ।
ततस्तृतीयां भूमिकां पतति प्रविशति ॥ १९ ॥

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलम् ।
तापसाश्रमविश्रामैरध्यात्मकथनक्रमैः ॥ २० ॥

यथावदिति श्लोकद्वयन्न् यथायोगं पूर्वभूमिकाद्वयानुवादः ॥ २० ॥

संसारनिन्दकैस्तद्वद्वैराग्यकरणक्रमैः ।
शिलाशय्यासमासीनो जरयत्यायुराततम् ॥ २१ ॥

वनवासविहारेण चित्तोपशमशोभिना ।
असङ्गसुखसौम्येन कालं नयति नीतिमान् ॥ २२ ॥

ग्रामवासे विक्षेपबाहुल्येन समाध्यभ्यासानिर्वाहाद्वनवासविहारेण ॥ २२ ॥

अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ २३ ॥

तत्र चित्तप्रसादे व्युत्थानकाले पूर्वभूमिकाद्वयधर्मानुवृत्तिरप्यावश्यकीति
दर्शयति - अभ्यासादिति ॥ २३ ॥

तृतीयां भूमिकां प्राप्य बुधोऽनुभवति स्वयम् ।
द्विःप्रकारमसंसङ्गं तस्य भेदमिमं शृणु ॥ २४ ॥

असङ्गसुखसौम्येनेत्युक्तिं विभज्य व्याचष्टे - तृतीयामिति ॥ २४ ॥

द्विविधोऽयमसंसङ्गः सामान्यः श्रेष्ठ एव च ।
नाहन्न् कर्ता न भोक्ता च न बाध्यो न च बाधकः ॥ २५ ॥

सामान्यः पूर्वभूमिकासाधारणः । स्वदेहक्रियाफलयोर्न कर्ता न भोक्ता
चेत्युदासीनः । परक्रियाफलानां च न बाध्यो बाधकश्चेत्यसङ्गः ॥ २५ ॥

इत्यसञ्जनमर्थेषु सामान्यासङ्गनामकम् ।
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव च ॥ २६ ॥

इति निश्चयेन । अर्थेषु दृश्येष्वसञ्जनमनभिष्वङ्गः । सामान्यासंसङ्गमेव
दृढीकर्तुं प्रपञ्चयति - प्राक्कर्मेति सार्धत्रिभिः । सुखं वा प्राप्यमाणं
यदि वा दुःखं प्राप्यमाणं सर्वं प्राक्कर्मनिर्मितं कर्मस्वातन्त्र्यपक्षे ।
ईश्वरस्वातन्त्र्यपक्षे त्वीश्वराधीनमेव । वाशब्द उत्तरपक्षस्य
प्रामाणिकत्वद्योतनार्थः ॥ २६ ॥

सुखं वा यदि वा दुःखं कैवात्र मम कर्तृता ।
भोगाभोगा महारोगाः सम्पदः परमापदः ॥ २७ ॥

पक्षद्वयेऽपि ममास्वातन्त्र्यात्स्वतन्त्रः कर्तेत्यानुशासनिकी कर्तृता कैव न
काचिदपीत्यर्थः । असंसङ्गोपयुक्तानन्यानप्यनास्थाहेतून्भावेषु दर्शयति -
भोगा इति ॥ २७ ॥

वियोगायैव संयोगा आधयो व्याधयो धियः ।
कालः कवलनोद्युक्तः सर्वभावाननारतम् ॥ २८ ॥

अनास्थयेति भावानां यदभावनमान्तरम् ।
वाक्यार्थलग्नमनसः सामान्योऽसावसङ्गमः ॥ २९ ॥

इयमनास्थापि श्रवणादिसाहाय्येन वाक्यार्थज्ञानासक्तस्यैवासंसङ्गसुखाय
नान्यस्येत्याह - वाक्यार्थेति ॥ २९ ॥

अनेकक्रमयोगेन संयोगेन महात्मनाम् ।
वियोगेनासतामन्तः प्रयोगेणात्मसंविदाम् ॥ ३० ॥

अयं चासंसङ्गः पूर्वभूमिकयोरेव सत्सङ्गाद्युपायैः सम्यगभ्यसनीय इत्याह

  • अनेनेति । श्रवणमननात्मिकानामात्मसंविदां प्रयोगेण आवर्तनेन । तथा च
    भगवतो बादरायणस्य सूत्रं आवृत्तिरसकृदुपदेशात् इति ॥ ३० ॥

पौरुषेण प्रयत्नेन सन्तताभ्यासयोगः ।
करामलकवद्वस्तुन्यागते स्फुटतां दृढम् ॥ ३१ ॥

आत्मवस्तुनि प्रमाणप्रमेयासम्भावनाद्वयनिरासेन स्फुटतां इत्थमेवात्मवस्त्विति
विश्वासगोचरतामागते सति ॥ ३१ ॥

संसाराम्बुनिधेः पारे सारे परमकारणे ।
नाहन्न् कर्तेश्वरः कर्ता कर्म वा प्राकृतं मम ॥ ३२ ॥

सप्तम्यन्तत्रयन्न् पूर्वान्वयि वस्तुनीत्यस्य विशेषणम् । श्रेष्ठासंसङ्गं
दर्शयति - नाहमित्यादिना । नाहं कर्ता किन्त्वीश्वर एव कर्ता । मम
प्राक्कृतमिदानीं क्रियमाणं वा कर्म
नास्तीत्यादिनिरासतत्प्रतियोग्यादिविकल्पशब्दार्थवेदनामपि दूरतरे कृत्वा
यन्मौनमासनमिति परेणान्वयः ॥ ३२ ॥

कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥ ३३ ॥

मौनं वाङ्मनश्चक्षुरादिचेष्टाशून्यन्न्
निदिध्यासनपरिपाकफलनिर्विकल्पसमाधिना यत् आसनमवस्थानम् ॥ ३३ ॥

यन्नान्तर्न बहिर्नाधो नोर्ध्वं नाशासु नाम्बरे ।
न पदार्थे नापदार्थे न जडे न च चेतने ॥ ३४ ॥

यद्ब्रह्मैकरस्यविलीनचित्तवृत्त्यात्मकमासितम् ।
अन्तर्बाह्यादिसर्ववस्त्वालम्बनशून्यमित्यर्थः । चेतने चिदाभासे । सर्वा
विषयसप्तम्यः ॥ ३४ ॥

आसितं भासनं शान्तमभासं नभसा समम् ।
अनाद्यन्तमजं कान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥ ३५ ॥

यत आसितं भासनं स्वप्रकाशचिद्रूपम् । अभासं प्रकाशकान्तरशून्यम् ॥ ३५ ॥

सन्तोषामोदमधुरः सत्कार्यामलपल्लवः ।
चित्तनालाग्रसंलीनो विघ्नकण्टकसङ्कटः ॥ ३६ ॥

स चायं समाधिः सदाचारोपबृंहितविवेकस्य फलमिति वक्तुं विवेकं पद्मत्वेन
रूपयति - सन्तोषेति । सत्कार्याणि निष्कामकर्माणि
उपासनगुरुशुश्रूषाश्रवणादीन्येव पल्लवा यस्य । चित्तलक्षणनालाग्रे संलीनै
रागादिवासनाप्रभवैर्बहुतरविघ्नकण्टकैः सङ्कटो निबिडितः ॥ ३६ ॥

विवेकपद्मो रूढोऽन्तर्विचारार्कविलासितः ।
फलं फलत्यसंसङ्गां तृतीयां भूमिकामिमाम् ॥ ३७ ॥

सोऽयमसंसङ्ग एव तृतीया भूमिकेत्याह - फलमिति ॥ ३७ ॥

समवायाद्विशुद्धानां सञ्चयात्पुण्यकर्मणाम् ।
काकतालीययोगेन प्रथमोदेति भूमिका ॥ ३८ ॥

प्रथमभूमिकैवानेकजन्मसञ्चितसुकृतपरिपाकैरैहिकपुण्यसञ्चयैश्च
दैवादङ्कुरिता चेत्सैव सत्सङ्गमादिना महता यत्नेन रक्षणीया सा चेद्रक्षिता
अनायासेनैव द्वितीयादिभूमिकाः सेत्स्यन्तीति तत्रैव यत्नाधिक्यमुपदिशति -
समवायादिति । विशुद्धानां तत्त्वविदां
समवायाद्दानमानभजनाद्युपायैर्मेलनात् ॥ ३८ ॥

भूमिः प्रोदितमात्रा तैरमृताङ्कुरिकेव सा ।
विवेकेनाम्बुसेकेन रक्ष्या पाल्या प्रयत्नतः ॥ ३९ ॥

समवेतैस्तैः किं कार्यं तदाह - भूमिरिति । यतस्तैर्विशुद्धैः सा
शुभेच्छालक्षणा भूमिरीषच्छ्रुभप्रवृत्त्युन्मुखतया प्रोदिता मेघैरङ्कुरिता
भूमिरिव प्रतिदिनं विवेकोपदेशलक्षणेनाम्बुसेकेन यथा अमृता अम्लाना भवति
तथा रक्ष्या वर्धनीया दुष्प्रवृत्त्यादिविघ्ननिवारणयत्नेन पालनीया चेत्यर्थः ॥ ३९

येनांशेनोल्लसत्येषा विचारेणोदयं नयेत् ।
तमेवानुदिनं यत्नात्कृषीवल इवाङ्कुरम् ॥ ४० ॥

एषा शुभेच्छा साधनचतुष्टयमध्ये वैराग्यलक्षणेन वा येनैवांशेन
प्रथममङ्कुरितोल्लसति तमेवांशं विचारेणोदयमभिवृद्धिं नयेत् ॥ ४० ॥

एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः ।
द्वितीयां भूमिकां यत्नात्तृतीयां प्राप्नुयात्ततः ॥ ४१ ॥

एक्ॐशोऽभिवर्धितोऽन्या उत्तरभूमिकाश्च स्वयमेव साधयिष्यतीत्याह - एषेति ॥ ४१ ॥

श्रेष्ठा संसङ्गता ह्येषा तृतीया भूमिकात्र हि ।
भवति प्रोज्झिताशेषसङ्कल्पकलनः पुमान् ॥ ४२ ॥

सोपायं वर्णितां तृतीयभूमिकां सफलामुपसंहरति - श्रेष्ठेति ॥ ४२ ॥

श्रीराम उवाच ।

मूढस्यासत्कुलोत्थस्य प्रवृत्तस्याधमस्य च ।
अप्राप्तयोगिसङ्गस्य कथमुत्तरणं भवेत् ॥ ४३ ॥

प्रसङ्गादन्तराले मूढेषु दयया रामः पृच्छति - मूढस्येति ।
आभिजात्याद्यधिकारिविशेषणहीनस्याध्यात्मकथाविमुखस्य कामभोगार्थमेव
प्रवृत्तस्याधमस्य चोपायान्तरेण मोक्षोऽस्ति वा न वेति प्रथमप्रश्नार्थः ॥ ४३ ॥

एकामथ द्वितीयान्न् वा तृतीयां चेतरां च वा ।
आरूढस्य मृतस्याथ कीदृशी भगवन्गतिः ॥ ४४ ॥

आद्यभूमिकात्रये अपरोक्षज्ञानोदयाभावादेकद्वित्र्यादिरूढदशायां मृतस्य
कीदृशी गतिरिति द्वितीयस्य ॥ ४४ ॥

श्रीवसिष्ठ उवाच ।

मूढस्यारूढदोषस्य [मूढस्येत्यारभ्य सङ्ग्रह
इत्यन्तसार्धश्लोकद्वयस्थानेऽयन्न् पाठ उपलभ्यते मूढस्यारूढदोषस्य
तावत्संसृतिरातता । यावज्जन्मान्तरशतैर्नोदिता प्रथमात्र भूः ॥ १ ॥ अथवा
साधुसङ्गत्या काकतालीययोगतः । संसारस्य परामर्शाद्वैराग्यं नाभ्युदेति
हि ॥ २ ॥ वैराग्येऽभ्युदिते जन्तोरवश्यन्न् भूमिकोदयः इति ।]
तावत्संसृतिरातता ।
यावज्जन्मान्तरशतैः काकतालीययोगतः ॥ ४५ ॥

आद्यप्रश्नस्योत्तरमाह - मूढस्येत्यादिसार्धद्वयेन । काकतालीययोगतः
स्वविचारत एव वा साधुसङ्गत्या वा वैराग्यं यावन्नाभ्युदेतीति परेणान्वयः ॥ ४५ ॥

अथवा साधुसङ्गत्या वैराग्यन्न् नाभ्युदेति हि ।
वैराग्येऽभ्युदिते जन्तोरवश्यं भूमिकोदयः ॥ ४६ ॥

ततो नश्यति संसार इति शास्त्रार्थसङ्ग्रहः ।
योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः ॥ ४७ ॥

द्वितीयस्योत्तरमाह - योगभूमिकयेत्यादिना ॥ ४७ ॥

भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ।
ततः सुरविमानेषु लोकपालपुरेषु च ॥ ४८ ॥

मेरूपवनकुञ्जेषु रमते रमणीसखः ।
ततः सुकृतसम्भारे दुष्कृते च पुरा कृते ॥ ४९ ॥

दुष्कृतक्षयानुसारेण रमते इत्यर्थाद्गम्यते । दुष्कृते चेति प्राक्तनानुवादः । न हि
तस्य नरकादिभोगोऽस्ति न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति इति भगवद्वचनात्
। आनुषङ्गिकं दुःखभोगाभिप्रायं वा । स्वर्गिणामपि
शारीरमानसादिदुःखसहस्रसत्त्वात् ॥ ४९ ॥

भोगजाले परिक्षीणे जायन्ते योगिनो भुवि ।
शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ॥ ५० ॥

भोगजाले भुज्यमाने सुकृतसम्भारे दुष्कृते च परिक्षीणे सतीत्यन्वयः । योगिन इति
जात्याख्यायां बहुवचनम् ॥ ५० ॥

जनित्वा योगमेवैते सेवन्ते योगवासिताः ।
तत्र प्राग्भावनाभ्यस्तयोगभूमिक्रमं बुधाः ।
स्मृत्वा परिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम् ॥ ५१ ॥

योगमेवेति । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः इति भगवद्वचनात् । तदेवाह

  • योगवासिता इति । परिपतन्त्यारोहन्ति ॥ ५१ ॥

भूमिकात्रितयन्न् त्वेतद्राम जाग्रदिति स्मृतम् ।
यथावद्भेदबुद्ध्येदं तज्जाग्रदिति दृश्यते ॥ ५२ ॥

प्रश्नयोरुत्तरमुक्त्वा प्रकृतमनुसरति - भूमिकात्रितयमित्यादिना ।
आद्यभूमिकात्रये जाग्रच्छब्दप्रवृत्तिनिमित्तमाह - यथावदिति ।
भेददर्शनगुणेन प्रसिद्धजाग्रत्साम्यादित्यर्थः ॥ ५२ ॥

उदेति योगयुक्तानामत्र केवलमार्यता ।
यां दृष्ट्वा मूढबुद्धीनामभ्युदेति मुमुक्षुता ॥ ५३ ॥

निमित्तान्तरमप्याह - उदेतीति । आर्यता पूज्यता प्रयोजकसद्गुणोकर्षः । यां
दृष्ट्वेति । यद्यदाचरति श्रेष्ठः इति न्यायादित्यर्थः ॥ ५३ ॥

कर्तव्यमाचरन्काममकर्तव्यमनाचरन् ।
तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः ॥ ५४ ॥

तामेवार्यतामनार्यजनव्यावृत्तां प्रथमं लक्षयति - कर्तव्यमिति । कामं
पर्याप्तं सर्वं नित्यनैमित्तिकं कर्मेत्यर्थः ॥ ५४ ॥

यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् ।
व्यवहारमुपादत्ते यः स आर्य इति स्मृतः ॥ ५५ ॥

यथाचारं वृद्धाचारानुसारि । तत्रापि यथाशास्त्रम् । तत्रापि यथाचित्तं स्वचित्तं
यत्कृत्वा प्रसीदति न पश्चात्तप्यते तादृशमेव । व्यवहारं लौकिकमपि ॥ ५५ ॥

प्रथमायामङ्कुरितं द्वितीयायां विकासितम् ।
फलीभूतं तृतीयायामार्यत्वं योगिनो भवेत् ॥ ५६ ॥

तदेवार्यत्वं प्रथमभूमिकायां शुभेच्छायामङ्कुरितम् । द्वितीयभूमिकायां
श्रवणादिप्रवृत्त्या विकासितम् । तृतीयभूमिकायां चित्तैकाग्र्यफलेन
फलितमित्यर्थः ॥ ५६ ॥

आर्यतायां मृतो योगी शुभसङ्कल्पसम्भृतान् ।
भोगान्भुक्त्वा चिरं कालं योगवाञ्जायते पुनः ॥ ५७ ॥

ततान्तराले मृतानां निष्कामकर्मानुष्ठानक्षीणपापानां कर्मणा पितृलोको
विद्यया देवलोकः इत्यादिश्रुतिप्रसिद्धो देवलोकादिभोगोऽपि
शुभसङ्कल्पाहितसद्वासनासम्भृतत्वान्न काम्यकर्मानुष्ठायिनामिव
रागादिदुर्वासनासम्भरणेनाधःपातहेतुरित्याशयेनाह - आर्यतायामिति ॥ ५७ ॥

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।
सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे ॥ ५८ ॥

अज्ञाने ज्ञानविरोधिद्वैतवासनाजाले असम्भावनाविपरीतभावनादोषे च
क्षयमागते सति निष्प्रत्यूहान्महावाक्यादपरिक्षाखण्डाकारज्ञानोदये सति
मूलाज्ञानक्षयाद्योगिनश्चतुर्थी भूमिकामिता गताः सन्तः सर्वं
जगत्सममानन्दैकरसं पश्यन्तीति परेणान्वयः ॥ ५८ ॥

निर्विभागमनद्यन्तं योगिनो युक्तचेतसः ।
समं सर्वं प्रपश्यन्ति चतुर्थी भूमिकामिताः ॥ ५९ ॥

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकांश्चतुर्थीं भूमिकामिताः ॥ ६० ॥

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।
विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ॥ ६१ ॥

व्यावहारिकसत्तया जगद्भानसाम्याज्जाग्रत् । प्रातिभासिकसत्तया
तद्भानसाम्यात्स्वप्न उच्यते । पञ्चम्यां भूमिकायां सुषुप्तिपदप्रवृत्तिनिमित्तं
तत्साम्यं दर्शयति - विच्छिन्नेति । सुषुप्तिकाले सकले विलीने तमोभिभूतः
सुखरूपमेति इति श्रुतौ सुषुप्तौ सर्वविलयप्रसिद्धेरत्रापि
प्रातिभासिकत्रिपुटीपरिशेषस्यापि विलयेन तत्साम्यादिति भावः । विच्छिन्नस्य
शरदभ्रखण्डस्य केवलाकाशमात्रपरिशेषलक्षणं विलयमिव
शुद्धचिन्मात्रपरिशेषलक्षणं स्वभावं प्रविलीयते प्रविलयेन प्राप्नोतीत्यर्थः ।
लिङर्थफलव्यापारांशयोर्मध्ये फलांशस्य विलयशब्देन
निष्कृष्यानुवादात्तस्य च व्यापारांशं प्रति कर्मत्वान्मृदुपचतीति
क्रियाविशेषणेष्विवात्रापि द्वितीया । अवशिष्टव्यापारांशमात्रं प्रविलीयते इति
तिङन्तप्रकृत्योच्यते उदपेषं पिनष्टीत्यत्रेव ॥ ६१ ॥

सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः ।
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ॥ ६२ ॥

सत्ता चित्सत्ता तदवशेषः । सुषुप्तमिति पदं गौणं नाम यस्यास्ताम् ॥ ६२ ॥

शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ।
गलितद्वैतनिर्भासमुदितोऽन्तः प्रबुद्धवान् ॥ ६३ ॥

उदित आविर्भूतस्वरूपः ॥ ६३ ॥

सुषुप्तघन एवास्ते पञ्चमीं भूमिकामितः ।
अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन् ॥ ६४ ॥

सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवेति श्रुत्युक्तप्रज्ञानघनतासाम्याद्वा
तस्यां सुषुप्तपदनामतेत्याशयेनाह - सुषुप्तेति । आनन्दमयो ह्यानन्दभुगिति
श्रुतिप्रसिद्धान्तर्मुखस्यानन्दास्वादनसाम्यादपि तन्नामतेत्याशयेनाह -
अन्तर्मुखतयेति ॥ ६४ ॥

परिशान्ततया नित्यं निद्रालुरिव लक्ष्यते ।
कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ॥ ६५ ॥

विवासनः अत्यन्तोच्छिन्नस्वतोव्युत्थानवासनः सन्नित्यर्थः ॥ ६५ ॥

षष्ठीं तुर्याभिधामन्यां क्रमात्क्रमति भूमिकाम् ।
यत्र नासन्न सद्रूपो नाहं नाप्यनहङ्कृतिः ॥ ६६ ॥

उक्तसुषुप्तमपेक्ष्य तुर्याभिधानाम् । तल्लक्षणान्याह - यत्रेत्यादिना ॥ ६६ ॥

केवलं क्षीणमननमास्ते द्वैतैक्यनिर्गतः ।
निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः ॥ ६७ ॥

द्वैतवदैक्यस्यापि सङ्ख्यान्तरव्यावर्तकसङ्ख्यात्वात्तदुभयवर्जितः ।
तत्रात्यन्तिकहृदयग्रन्थिसर्वसन्देहभेदमाह - निर्ग्रन्थिरिति । भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयः इति श्रुतेरिति भावः ॥ ६७ ॥

अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ।
अन्तःशून्यो बहिःशून्यः शून्यः कुम्भ इवाम्बरे ॥ ६८ ॥

अनिर्वाणः प्रारब्धधृतशरीरोऽपि निर्वाणो मुक्तः । यथा चित्रदीपः अनुपक्षीणोऽपि न
ज्वलतीति निर्वाणः जडजगत्स्वभावेनान्तर्बहिश्च शून्यः ॥ ६८ ॥

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
किञ्चिदेवैष सम्पन्नस्त्वथ वैष न किञ्चन ॥ ६९ ॥

अनावृतानन्दस्वभावेन त्वन्तर्बहिश्च पूर्णः । तस्याद्वितीयरूपस्य
संसारदशायां कदाप्यप्रसिद्धत्वेन किञ्चिदपूर्वेण परमाश्चर्यरूपेण
सम्पन्नः । वास्तवदृष्ट्या नित्यसिद्धत्वान्न किञ्चन सम्पन्नः ॥ ६९ ॥

षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ।
विदेहमुक्तता तूक्ता सप्तमी योगभूमिका [न तु जीवताम् इति पाठः ।] ॥ ७०

सप्तमी भूमिका परिप्रौढा चेत्सैव मुक्ततेति सप्तमी सा परिप्रौढा विषयः स्यान्न
जीवताम् इति प्रागुक्तेत्यर्थः ॥ ७० ॥

अगम्या वचसां शान्ता सा सीमा भवभूमिषु ।
कैश्चित्सा शिवमित्युक्ता कैश्चिद्ब्रह्मेत्युदाहृता ॥ ७१ ॥

वचसामगम्या । योगिमानसानुभवैकगम्येत्यर्थः । न च जीवतः सप्तमी भूमिकैव
नास्तीति योगिमानसानुभवगम्यतापि तस्या नास्तीति भ्रमितव्यम् । सा सीमा भवभूमिषु
इति तस्या भवभूमिमध्यपातसीमात्वोक्तिविरोधापत्तेः । आसामभ्यासयोगेन
इत्युत्तरत्राभ्यसनीयत्वोक्तिविरोधाच्च । शिवमिति शैवैरुक्ता । शिवमद्वैतं चतुर्थं
मन्यन्ते इति श्रुत्यनुरोधादिति भावः । ब्रह्मेति वेदान्तिभिः ॥ ७१ ॥

कैश्चित्प्रकृतिपुम्भावविवेक इति भाविता ।
अन्यैरप्यन्यथा नानाभेदैरात्मविकल्पितैः ॥ ७२ ॥

प्रकृतिपुंसोर्भावः अविविक्तावस्थितिस्तस्य विवेक इति साङ्ख्ययोगिभिः ।
अन्यैर्जैमिनिसात्त्वतमाहेश्वरबुद्धार्हदादिभिः स्वर्गो वासुदेवः
महेश्वरोऽनुपप्लवं विज्ञानमनुपप्लवसुखमित्यादिस्वस्वबुद्ध्यनुसारि##-

नित्यमव्यपदेश्यापि कथञ्चिदुपदिश्यते ।
सप्तैता भूमिकाः प्रोक्ता मया तव रघूद्वह ॥ ७३ ॥

यदि वचसामगम्यं तर्हि कथमुपदिश्यते तत्राह - नित्यमिति ।
कथञ्चिद्भागत्यागलक्षणाभ्युपायैरित्यर्थः ॥ ७३ ॥

आसामभ्यासयोगेन न दुःखमनुभूयते ।
अस्त्यत्यन्तमदोन्मत्ता मृदुमन्थरचारिणी ॥ ७४ ॥

परवैराग्यदार्ढ्ये सत्येव भूमिकासु प्रवेशो भवति नान्यथेति
मत्तकरिण्याख्यायिकाच्छलेन वर्णयितुमारभते - अस्तीत्यादिना ॥ ७४ ॥

करिणी विग्रहव्यग्रा महादशनशंसिनी ।
सा चेन्निहन्यते नूनमनन्तानर्थकारिणी ॥ ७५ ॥

विग्रहव्यग्रा सदा समरोद्युक्ता महद्भ्यां दशनाभ्यां शंसनं शंसः
प्रख्यातिस्तद्वती । अस्तु सा किं ततस्तत्राह - सा चेदिति ॥ ७५ ॥

तदेतासु समग्रासु भूमिकासु नरो जयी ।
करिणी मदमत्ता सा यावन्न विजितौजसा ॥ ७६ ॥

तयैताः भूमिकाः निरुद्धाः अतस्तद्वधं विना नैकापि भूमिका जेतुं शक्येत्यर्थः
॥ ७६ ॥

को नाम सुभटस्तावत्सम्पत्समरभूमिषु ।

श्रीराम उवाच ।

कासौ प्रमत्ता करिणी काश्च ता रणभूमयः ॥ ७७ ॥

सा यावन्न विजिता तावत्तदाक्रान्तासु क्षुद्रसांसारिकसम्पद्रूपास्वपि समरभूमिषु
प्रवेष्टुमपि को नाम सुभटः समर्थो योद्धेत्यर्थः । प्रश्नः स्पष्टः ॥ ७७ ॥

कथं निहन्यते चैषा क्व चैषा रमते चिरम् ।

श्रीवसिष्ठ उवाच ।

रामेच्छा नाम करिणी इदं मेऽस्त्वितिरूपिणी ॥ ७८ ॥

शरीरकानने मत्ता विविधोल्लासकारिणी ।
मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी ॥ ७९ ॥

क्व चैषा रमते इत्यस्योत्तरमाह - शरीरकानने इति ।
विविधदैन्यधावनशोकमोहाद्युल्लासकरणशीला । मत्तानीन्द्रियाण्येवोग्राः कोपनाः
कलभाः शावका यस्याः । रसनाकलभाषिणी मधुरबृंहितसाधनं यस्याः ॥ ७९ ॥

मनोगहनसंलीना कर्मदन्तद्वयान्विता ।
मदोऽस्या वासनाव्यूहः सर्वतः प्रसरद्वपुः ॥ ८० ॥

प्रख्यातौ दन्तौ दर्शयति - कर्मेति । कर्म शुभाशुभरूपम् ।
मदमत्तेत्यत्रोक्तं मदं दर्शयति - मद इति । एवमग्रेऽपि योज्यम् ॥ ८० ॥

संसारदृष्टयो राम तस्याः समरभूमयः ।
भूयो यत्रानुभवति नरो जयपराजयौ ॥ ८१ ॥

इच्छानागी निहन्त्येषा कृपणाञ्जीवसञ्चयान् ।
वासनेहा मनश्चित्तं सङ्कल्पो भावनं स्पृहा ॥ ८२ ॥

नागी करिणी । जीवसञ्चयान् प्राणिनिकायान् ॥ ८२ ॥

इत्यादिनिवहो नाम्नामस्यास्त्वाशयकोशगः ।
धैर्यनाम्ना वरास्त्रेण प्रसृतामवहेलया ॥ ८३ ॥

आशयकोशगश्चित्तकोशगतः । वृत्तिवैचित्र्यप्रयुक्त इति यावत् । कथं निहन्यते चैषेति
प्रश्नस्योत्तरमाह - धैर्येति ॥ ८३ ॥

नागीं सर्वात्मिकामेतामिच्छां सर्वात्मना जयेत् ।
यावद्वस्त्विदमित्येवमियमन्तर्विजृम्भते ॥ ८४ ॥

सर्वात्मिकां ब्रह्मलोकान्तसर्वभोग्यगोचराम् । सर्वात्मना सर्वथा सर्वमहमेवेति
भावितेनात्मना वा । न हि नित्यलब्धात्मरूपतया भाविते तृष्णा भवति
किन्त्विदमित्यलब्धतया दृष्टे इत्याह - यावदिति ॥ ८४ ॥

तावदुग्रा कुसंसारमहाविषविषूचिका ।
एतावानेव संसार इदमस्त्विति यन्मनः ॥ ८५ ॥

संसारमहाविषविषूचिकारूपा तृष्णा तावदेव विजृम्भत इत्यनुकृष्यते ॥ ८५ ॥

अस्य तूपशमो मोक्ष इत्येवं ज्ञानसङ्ग्रहः ।
प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ ॥ ८६ ॥

तृष्णैव संसारस्तत्क्षय एव मोक्षभूमिकोदयहेतुत्वान्मोक्षः ।कथं वैराग्यस्य
भूमिकोदयहेतुता तद्दर्शयति - प्रसादेति ॥ ८६ ॥

तैलबिन्दुरिवादर्शे विश्राम्यत्युपदेशवाक् ।
असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः ॥ ८७ ॥

रागादिपुरुषापराधमलिने चित्ते श्रुत्याचार्याद्युपदेशवाक् पद्मपत्रे जलबिन्दुरिव न
संश्लिष्यते । वैराग्यादिसाधसम्पन्ने तु आदर्शे तैलबिन्दुरिव संश्लिष्टा सती
अविद्यामलमार्जनेन प्रसादो ब्रह्माकारप्रथनानुकूला स्वच्छता तत्कारिणी
पर्यवस्यतीत्यर्थः । रागादेरनुदये उदितस्य छेदने चोपायमाह - असंवेदनेति ।
इच्छारूपो भवाङ्कुरः संवेदनं विषयस्मरणं तत्परित्यागमात्रेण नोदेति ॥ ८७ ॥

मनागभ्युदितैवेच्छा छेत्तव्यानर्थकारिणी ।
असंवेदनशस्त्रेण विषस्येवाङ्कुरावली ॥ ८८ ॥

मनागभ्युदिताप्यसंवेदनशस्त्रेणैव छेत्तव्या ॥ ८८ ॥

इच्छाविच्छुरितो जीवो विजहाति न दीनताम् ।
स्वसंवेदनयत्नस्तु तूष्णीमेवान्तरासनम् ॥ ८९ ॥

विच्छुरितो व्याप्तः । दीनतां भोगकार्पण्यम् । असंवेदनस्वरूपं व्युत्पादयति -
स्वसंवेदनेति । सुष्ठु असंवेदनं स्वसंवेदनं तदनुकूलो निरोधयत्नः
प्रत्याहारयत्नश्च चित्तस्यान्तस्तूष्णीं निर्व्यापारतया आसनम् ॥ ८९ ॥

अवधानविनिर्मुक्तं सुप्तं शवशतं यथा ।
तां प्रत्याहारवडिशेनेच्छामत्सीं नियच्छत ॥ ९० ॥

तच्चाभ्यासकाले सावधानतारूपं परिपाककाले त्ववधानविनिर्मुक्तं
सुषुप्तिमरणावस्थयोरिव स्वत एव सम्पद्यत इत्याशयेनाह - अवधानेति ।
तामनर्थकारिणीमिच्छामत्सीं प्रत्याहारलक्षणेन बडिशेनाकृष्य नियच्छत
बध्नीतेति सर्वान् श्रोतॄन्प्रत्युक्तिः ॥ ९० ॥

इदं मेऽस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
अर्थस्याभावनं यत्तत्कल्पनात्याग उच्यते ॥ ९१ ॥

ननु प्राक्कल्पनात्यागादेव मुक्तिरिति बहुशस्त्वयोक्तमिदानीमिच्छात्यागादिति
कथमुच्यते तत्राह - इदं मेऽस्त्विति । संवेगं चित्तधावनं
विषयानुसन्धानलक्षणकल्पनाफलावस्थेयमिति कल्पनमाहुरित्यर्थः । भावनं
स्मरणम् ॥ ९१ ॥

स्मरणं विद्धि सङ्कल्पं शिवमस्मरणं विदुः ।
तत्र प्रागनुभूतं च नानुभूतं च भाव्यते ॥ ९२ ॥

सङ्कल्प एव सर्वानर्थमूलमिति प्राक्तनोक्तीनामप्ययमेवाभिप्राय इत्याशयेनाह ##-

अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामतिः ॥ ९३ ॥

सङ्कल्पे अननुभूतमपि भाव्यत इति विशेषादपर्यायत्वेऽपि
भूमिकारुरुक्षुभिर्हेयत्वेन कश्चिद्विशेष इत्यभेदोऽत्र विवक्षित इत्याशयेनाह -
अनुभूतामिति ॥ ९३ ॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति तत् ।
असङ्कल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥ ९४ ॥

इदानीं परमकारुणिको वसिष्ठः सर्वजनानां विषयसङ्कल्पत्यागं विना मोक्षो न
सिध्यतीति तत्त्याग एवावश्यं कार्य इति समग्रवासिष्ठोपदेशरहस्यमाक्रोशेनापि
दृढीकरिष्यन्नाह - ऊर्ध्वबाहुरिति । विरौमि उच्चैःस्वरेण पुनःपुनराक्रोशामि ।
एवं क्रियमाणमप्याक्रोशं बधिर इव सुप्तप्रमत्त इव च कश्चिदपि जनो न शृणोति
। शृण्वत्स्वपि च श्रवणफलादर्शनादुक्तिः । अन्तर्हृदि किमर्थं न भाव्यते न
विमृश्य कृतकृत्यतापर्यवसितः क्रियते । न हि मन्दमध्यमाधिकारिणां
सम्यङ्मननमन्तरेणार्थसिद्धिरित्यर्थः ॥ ९४ ॥

प्द्फ़् १५०, प्। १०५६

किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यमपि राम तृणायते ॥ ९५ ॥

तूष्णीं सर्वव्यापारोपरमेण स्थितेनैव पुंसा तत्तादृशं परमं पदं
प्राप्यते । किलेति श्रौतप्रसिद्धौ । तथा च श्रुतिः यदा पञ्चावतिष्ठन्ते ज्ञानानि
मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् इति । परमं
हैरण्यगर्भान्तमपि साम्राज्यसुखं यत्र भूमानन्दे तृणवत्तुच्छतामापद्यत
इत्यर्थः ॥ ९५ ॥

गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो विगतसङ्कल्पस्तथा स्पन्दः स्वकर्मसु ॥ ९६ ॥

ननु सर्वथा सङ्कल्पत्यागे देहस्पन्दाद्यसिद्धेर्व्यवहारलोपे कथं जीवनं तत्राह

  • गम्येति । यथा गन्तव्ये स्वगृहादिदेश एवैकनिष्ठा अविच्छिन्नचित्तवृत्तिधारा
    यस्य तथाविधस्य पान्थस्य पादयोर्विगतसङ्कल्प एव प्रतिक्षणं स्पन्दो जायते तथा
    योगिनोऽपि विनैव सङ्कल्पं पूर्वाभ्यासजीवनादृष्टवशादेवानिषिद्धस्वकर्मसु
    स्पन्दो भविष्यतीत्यर्थः ॥ ९६ ॥

बहुनात्र किमुक्तेन सङ्क्षेपादिदमुच्यते ।
सङ्कल्पनं परो बन्धस्तदभावो विमुक्तता ॥ ९७ ॥

सर्वमेवमजं शान्तमनन्तं ध्रुवमव्ययम् ।
पश्यन्भूतार्थचिद्रूपं शान्तमास्व यथासुखम् ॥ ९८ ॥

कया दृष्ट्या असङ्कल्पनं भवेत्तामाह - सर्वमिति । भूतार्थचिद्रूपं
नित्यसिद्धपरमार्थचिद्रूपम् ॥ ९८ ॥

अवेदनं विदुर्योगं शान्तमासितमक्षयम् ।
योगस्थः कुरु कर्माणि निर्वासनोऽथ मा कुरु ॥ ९९ ॥

अवेदनं तादृशदृष्टिपरिणत्या अहम्ममेत्यध्यस्त सर्वभेदविस्मरणमेव
जीवब्रह्मैक्यलक्षणं योगं विदुर्ब्रह्मविदः । तं विद्याद्दुःखसंयोगवियोगं
योगसञ्ज्ञितम् इति भगवता तथा व्याख्यातत्त्वादिति भावः । योगस्थः कुरु कर्माणि इति
तद्वाक्यं तु लोकसङ्ग्रहेच्छं प्रत्यैच्छिकविहितानुष्ठापनार्थं न
नियमार्थमित्याशयेनाह - योगस्थ इति । अथ समाधिपरश्चेन्मा कुरु ॥ ९९ ॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भो ॥ १०० ॥

यथासि भो इति । यथास्थितस्वरूपावाप्तौ यथास्थितस्थितेरेवोचितत्वादिति भावः ॥ १०० ॥

शिवं सर्वगतं शान्तं बोधात्मकमजं शुभम् ।
तदेकभावनं राम सर्वत्याग इति स्मृतः ।
भावयञ्छश्वदन्तः स्वं कार्यं कर्म समाचर ॥ १०१ ॥

सा स्थितिरेव सर्वप्रपञ्चनिवृत्तिरूपत्वाच्चूडालोपदर्शितः सर्वत्यागोऽपीत्याह -
शिवमिति ॥ १०१ ॥

अहम्ममेति संविदन्न दुःखतो विमुच्यते ।
असंविदन्विमुच्यते यदीप्सितं समाचर ॥ १०२ ॥

विस्तरोक्तमनर्थतत्त्वं पुरुषार्थवत्त्वं च निष्कृष्य
करतलामलकवद्दर्ऽसयन्नुपसंहरति - अहम्ममेति ॥ १०२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू०
परमार्थस्वरूपवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ॥ १२६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमार्थस्वरूपवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ॥ १२६ ॥