१२५

पञ्चविंशत्यधिकशततमः सर्गः १२५

श्रीवसिष्ठ उवाच ।

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्रमम् ॥ १ ॥

सर्वापह्नवसिद्धान्ते वादिनां यत्र विभ्रमाः ।
तुर्ये तथाविधे स्थैर्यं सोपायमुपदिश्यते ॥

अविद्यया सहजैवास्यावस्थात्रयप्रपञ्चस्य मायया ऐश्वरस्य वियदादिप्रपञ्चस्य
वेति सर्वस्य द्वैतजातस्यापह्नव आत्मानमधिकृत्य प्रवृत्तानां
श्रुतिस्मृतीतिहासपुराणादिशास्त्राणां परमसिद्धान्तो न वस्तुप्रकाशनम् ।
स्वप्रकाशस्यात्मवस्तुनः स्वतःसिद्धतया तत्सिद्धौ प्रमाणाप्रसरादित्याह -
सिद्धान्त इति । शान्तं सर्वोपप्लवरहितमिदं नित्यापरोक्षं ब्रह्म शास्त्रैर्न
क्रम्यत इत्यक्रममवगाढुमशक्यमित्यर्थः । तथा च श्रुतिः यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह इति । तथा च द्रविडाचार्यैरप्युक्तम् यद्यप्रमेयं ब्रह्म
किमर्थं शास्त्रमिति चेत्सिद्धं तु न्निवर्तकत्वात् इति ॥ १ ॥

शान्त एव चिदाभासे स्वच्छे समसमात्मनि ।
समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे ॥ २ ॥

श्रुत्यादिसिद्धान्तापरिज्ञानादेव स्वबुद्धिवैभवेन जगन्मूलान्वेषिणां वादिनां
ब्रह्मशब्दवाच्ये सर्वशक्त्यात्मकमायाशबले ब्रह्मणि
बुद्धिदोषवैचित्र्यान्नानाविधाः कल्पनाः प्रवृत्ता इत्याह - शान्त इति द्वाभ्याम्
॥ २ ॥

निर्णीय केचिच्छून्यत्वं केचिद्विज्ञानमात्रताम् ।
केचिदीश्वररूपत्वं विवदन्ते परस्परम् ॥ ३ ॥

निर्णीय स्वस्वबुद्ध्यनुसारेण सिद्धान्तभेदान्कल्पयित्वा ॥ ३ ॥

सर्वमेव परित्यज्य महामौनी भवानघ ।
निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः ॥ ४ ॥

सर्वं मायान्तं दृश्यजातं परित्यज्य ।
समनस्कसर्वेन्द्रियव्यापारोपरमान्महामौनी । पूर्णानन्दचिदात्मनि निर्वाणवान्सन्
आत्मन्येवास्स्वेति परेणान्वयः ॥ ४ ॥

आत्मन्येवास्स्व शान्तात्मा मूकान्धबधिरोपमः ।
नित्यमन्तर्मुखो भूत्वा स्वात्मनान्तः प्रपूर्णधीः ॥ ५ ॥

जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि राघव ।
अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् ॥ ६ ॥

पञ्चमादिभूमिकाजयाज्जाग्रदवस्थोपि सुषुप्त इव स्थितः ॥ ६ ॥

चित्तसत्ता परं दुःखं चित्तासत्ता परं सुखम् ।
अतश्चित्तं चिदेकात्मा नय क्षयमवेदनात् ॥ ७ ॥

अवेदनात्प्रियद्वेष्यत्वाननुसन्धानात् ॥ ७ ॥

दृष्टा रम्यमरम्यं वा स्थेयं पाषाणवत्समम् ।
एतावतात्मयत्नेन जिता भवति संसृतिः ॥ ८ ॥

अवेदनादित्येतदेव स्पष्टयति - दृष्ट्वेति ॥ ८ ॥

संवेदनीयं न सुखं नासुखं न च मध्यमम् ।
एतावतात्मयत्नेन दुःखान्तोऽनन्त आप्यते ॥ ९ ॥

संवेदनीयं चिन्तनीयम् । असुखं दुःखम् । मध्यमं तदुभयसाधनम् ॥ ९ ॥

आपीनमण्डलशशाङ्कवदन्तरेव श्रीमद्रसायनमयः सुखमेति तज्ज्ञः ।
विज्ञातसर्वभुवनत्रयवस्तुसारः कुर्वन्न नाम कुरुते परमभ्युपेतः ॥ १० ॥

विज्ञातः सर्वेषां भुवनत्रयवस्तूनां सारो येन । अत एव श्रीमत् स्वतः सर्वतः
प्रकाशेन शोभमानं यद्रसायनं निरतिशयसुखममृतं च तन्मयः । अत एव
च आसमन्तात्पीनं पुष्टं मण्डलं यस्य तादृशो यः शशाङ्कः
पूर्णचन्द्रस्तत्कल्पः परं परमात्मानमभ्युपेतस्तज्ज्ञो जीवन्मुक्तिसुखमेति ।
कुर्वन्नपि प्रारब्धोपनीतं व्यवहारं न कुरुते । प्रतिबिम्बचेष्टायामिव न स्वस्य
कर्तृत्वं पश्यतीत्यर्थः ॥ १० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० तुर्ये
स्थैर्योपायकथनं नाम पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे तुर्ये
स्थैर्योपायकथनं नाम पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥