१२४

चतुर्विंशत्यधिकशततमः सर्गः १२४

श्रीवसिष्ठ उवाच ।

यथा सत्त्वमुपेक्ष्य स्वं शनैर्विप्रो दुरीहया ।
अङ्गीकरोति शूद्रत्वं तथा जीवत्वमीश्वरः ॥ १ ॥

निष्कारणत्वं जीवानां ग्राह्यरागेण बद्धता ।
रूपाण्यवस्थास्तुर्यं च मृगव्याधीयमीर्यते ॥

इतरसिद्ध्यपेक्षया आत्मज्ञानस्योत्कर्षो नित्यनिरतिशयानन्दानुभवत्वादेव
प्रत्यगात्मनश्च नित्यनिरतिशयानन्दरूपता ब्रह्मस्वरूपत्वादेवेत्यर्थस्योपपत्तये
ब्रह्मण एव स्वस्वभावोपेक्षावशाज्जीवभावप्राप्तिमाह - यथेत्यादिना । यथा
कश्चिद्विप्रः शूद्रां कामयमानस्तत्सम्भोगसहवासादिदुरीहया स्वं स्वोचितं
सत्त्वं सात्त्विकं ब्राह्मणधर्मं शनैरुपेक्ष्य चिरकालेन शूद्रत्वमङ्गीकरोति
तथा ईश्वरो बुद्ध्यादिसङ्गत्या तत्प्रयुक्तभोगाशया स्वं
नित्यशुद्धपूर्णानन्दस्वभावमुपेक्ष्य जीवत्वमङ्गीकरोतीत्यर्थः ॥ १ ॥

भूतानि द्विविधान्येव प्रतिसर्गं स्फुरन्ति वै ।
आद्यविस्पन्दजातानि तानि निष्कारणानि वै ॥ २ ॥

उपाधिप्राधान्येन भोग्यान्युपहितप्राधान्येनभोक्तॄणीति द्विविधानि
मायागतानादिद्विविधसंस्कारपरम्परानुसारिणो
हिरण्यगर्भात्मकादाद्यविस्पन्दाज्जातानि मायागन्धर्वनगरवदाविर्भूतानि । अतो
मिथ्यात्वान्निष्कारणानि वास्तवसामग्रीनिरपेक्षाणि । न हि स्वाप्नघटादिः स्वोत्पत्तौ
दण्डचक्रादिसामग्रीसापेक्ष इत्यर्थः ॥ २ ॥

ईश्वरात्समुपागत्य पुनर्जन्मान्तराणि च ।
भूतान्यनुभवत्यङ्ग स्वकृतैरेव कर्मभिः ॥ ३ ॥

ननु साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यो वै पुण्येन कर्मणा भवति
पापः पापेन तस्माल्लोकात्पुनरेत्यान्यस्मै लोकाय कर्मणे इत्यादिश्रुतिषु
जन्मकर्मणोर्बीजाङ्कुरवदनादिः परस्परकार्यकारणभावोऽवगम्यते
तत्कथमीश्वरस्य कर्मशून्यस्य जीवभावेनाद्यसर्गे जन्मोच्यते तत्राह -
ईश्वरादिति । स्वकृतैरुपहितकृतैः । नेश्वरस्य जीवभावे कर्मापेक्षा किन्तु
जीवभावापत्त्यनन्तरं देहादिजन्मनि पूर्वपूर्वदेहादिकृतकर्मापेक्षा । यथा
सवितुर्जले प्रतिबिम्बनेन चलनादिक्रियापेक्षा प्रतिबिम्बस्य तरङ्गभेदेषु सङ्क्रमे
तत्तद्गतविक्रियानुभवे चोपाधिक्रियापेक्षा तद्वदिति भावः ॥ ३ ॥

कार्यकारणभावोऽयमीदृशो जन्मकर्मणोः ।
अकारणमुपायान्ति सर्वे जीवाः परात्पदात् ॥ ४ ॥

तदेव स्पष्टमाह - कार्यकारणभाव इति । तथा चोक्तं वार्तिके
वियद्वस्तुस्वभावानुरोधादेव न कारकात् । वियत्सम्पूर्णतोत्पत्तौ कुम्भस्यैवं
दृशाधियाम् इति ॥ ४ ॥

पश्चात्तेषां स्वकर्माणि कारणं सुखदुःखयोः ।
आत्मज्ञानात्समुत्पन्नः सङ्कल्पः कर्मकारणम् ॥ ५ ॥

पश्चात्तेषां कर्माणीति कुतो ज्ञायते तत्राह - आत्मज्ञानादिति ।
यादृशमात्मानं यो जानति स तदनुरूपं सङ्कल्पयति सङ्कल्पानुरूपं च करोति ।
न हि मनुष्यादिदेहात्मताबुद्धिं विना पुण्यपापे सङ्कल्पयति करोति वा । तथा चोक्तं
भगवद्भिर्भाष्यकृद्भिः न ह्यनध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते इति ।
देहाध्यासोऽपि सङ्कल्पद्वारैव पुण्यपापप्रवृत्तिहेतुरित्याह - सङ्कल्प इति ॥ ५ ॥

सङ्कल्पित्वं हि बन्धस्य कारणं तत्परित्यज ।
मोक्षस्तु निःसङ्कल्पित्वं तदभ्यासपरो भव ॥ ६ ॥

सङ्कल्पोऽस्यास्तीति सङ्कल्पी तथाविधत्वं
पुण्यापुण्यप्रवृत्तिभोगवासनादिसन्तानेन बन्धस्य कारणम् ॥ ६ ॥

सावधानो भव त्वं च ग्राह्यग्राहकसम्भ्रमे ।
अजस्रमेव सङ्कल्पदशाः परिहरञ्छनैः ॥ ७ ॥

सङ्कल्पत्यागे उपायमाह - सावधान इति । ग्राह्यग्राहकभेदभ्रमे हि सति
ग्राहकस्य ग्राह्ये
अनुकूलताप्रतिकूलताद्यनुसन्धानाद्धानोपादानानुकूलप्रवृत्तिसङ्कल्पो भवति ।
ग्राह्यग्राहकविभ्रमत्यागेन तत्साक्षिण्यैकाग्र्यलक्षणसावधानत्वाभ्यासे तु
सङ्कल्पमूलमेवाच्छिद्यत इति भावः ॥ ७ ॥

मा भव ग्राह्यभावात्मा ग्राह्यकात्मा च मा भव ।
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ ८ ॥

अमुमेवार्थं कण्ठोक्त्याह - मा भवेति । यत् शिष्टं साक्षिस्वरूपं
तन्मयस्तदेकरसः ॥ ८ ॥

अजस्रं यं यमेवार्थं पतत्यक्षगणोऽनघ ।
बध्यते तत्र रागेण तत्रारागेण मुच्यते ॥ ९ ॥

असावधानत्वे तु ग्राह्येऽनुकूले रागोऽवर्जनीय इति
दर्शयन्वैराग्याभ्यासस्याप्यावश्यकतां दर्शयति - अजस्रमिति ॥ ९ ॥

किञ्चिद्यद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ ।
न किञ्चिद्रोचते चित्ते तन्मुक्तोऽसि भवस्थितौ ॥ १० ॥

रागवैराग्ययोः स्वरूपं विविच्य दर्शयंस्तयोर्बन्धमोक्षलिङ्गतां दर्शयति ##-

तस्मात्पदार्थनिचयात्सह स्थावरजङ्गमात् ।
तृणादेर्देवकायान्तान्मा किञ्चित्तव रोचताम् ॥ ११ ॥

अपकर्षावधौ तृणशरीरादेरुत्कर्षावधौ देवो
हिरण्यगर्भस्तत्कायान्तात्तद्भोग्यविषयरूपाच्च पदार्थनिचयान्निर्धारितं किञ्चिदपि
तव न रोचताम् ॥ ११ ॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि [जहासि यदित्यपि पाठः ।] यत् ।
न कर्तासि न भोक्तासि तत्र मुक्तमतिः शमी ॥ १२ ॥

नन्वेवं परवैराग्येण भोक्तृताबन्धजयेऽपि जीवता स्नानभोजनादिक्रियाणां
दुस्त्यजत्वात्तत्कृतो बन्धः स्यादेवेत्याशङ्क्याह - यदिति । तत्र तासु क्रियासु
मुक्तमतिः कूटस्थात्मनिविष्टमतिः । तथा चोक्तं भगवता नैव किञ्चित्करोमीति युक्तो
मन्येत तत्त्ववित् इति ॥ १२ ॥

सन्तोऽतीतं न शोचन्ति भविष्यच्चिन्तयन्ति नो ।
वर्तमानं च गृह्णन्ति कर्म प्राप्तमखण्डितम् ॥ १३ ॥

इष्टवियोगानिष्टसम्भावनादिप्रयुक्तशोकेन बन्धप्रसक्तिमाशङ्क्याह - सन्त
इति ॥ १३ ॥

मनसि ग्रथिता भावास्तृष्णामोहमदादयः ।
मनसैव मनो राम च्छेदनीयं विजानता ॥ १४ ॥

सर्वबन्धजये मनोजय एवोपायः स च मनसैव नान्येनेत्याह - मनसीति ॥ १४ ॥

विवेकेनातितीक्ष्णेन बलादय इवायसा ।
मनसैव मनश्छिन्धि सर्वभ्रमस्य शान्तये ॥ १५ ॥

यदुपायेन मनसा मनोजयस्तमाह - विवेकेनेति ॥ १५ ॥

क्षालयन्ति मलेनैव मलं क्षालनकोविदाः ।
वारयन्त्यस्त्रमस्त्रेण विषं प्रति विषेण च ॥ १६ ॥

मनसा मनोजये आत्माश्रयदोषं परिहरति - क्षालयन्तीति । मलेन क्षारादिना ॥ १६ ॥

जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि च ।
तत्रास्य यत्परं रूपं तद्भज द्वे परित्यज ॥ १७ ॥

मनःसंवलितो जीवस्तत्र कियानंशः पृथक्कृत्य मनसा च्छेदनीय इति दर्शयितुं
जीवरूपाणि विभजते - जीवस्येति । परित्यज मनसा छिन्धि ॥ १७ ॥

पाणिपादमयो योऽयं देहो भोगाय वल्गति ।
भोगार्थमेतज्जीवस्य रूपं स्थूलमिहास्थितम् ॥ १८ ॥

तानि दर्शयति - पाणीत्यादिना ॥ १८ ॥

स्वसङ्कल्पमयाकारं यावत्संसारभावि यत् ।
चित्तं तद्विद्धि जीवस्य रूपं रामातिवाहिकम् ॥ १९ ॥

आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम् ।
यत्तद्विद्धि परं रूपं तृतीयं विश्वरूपकम् ॥ २० ॥

विश्वस्य रूपकं निरूपकम् । सत्तास्फूर्तिप्रदमित्यर्थः ॥ २० ॥

एतत्तुर्यपदं शुद्धमत्र बद्धपदो भव ।
सम्परित्यज्य पूर्वे द्वे मा तत्रात्ममतिर्भव ॥ २१ ॥

श्रीराम उवाच ।

जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्वप्यलक्षितम् ।
तुर्यं ब्रूहि विशेषेण विविच्य मुनिनायक ॥ २२ ॥

स्थूलसूक्ष्मरूपे जीवस्य जाग्रत्स्वप्नयोः प्रसिद्धे । तावन्मात्रपरित्यागेऽपि न सम्यक्
तस्य परिशुद्धिरित्यवस्थात्रयतीतं जिज्ञासमानो रामः पृच्छति - जाग्रदिति ।
स्थितं सङ्कीर्णमत एव स्पष्टमलक्षितम् । विशेषेण तत्सङ्करव्यावर्तनेन ॥ २२ ॥

श्रीवसिष्ठ उवाच ।

अहम्भावानहम्भावौ त्यक्त्वा सदसती तथा ।
यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥ २३ ॥

अहम्भावो जाग्रत्स्वप्नयोर्विक्षेपः । अनहम्भावः सुषुप्तौ तन्मूलमावरणं
तावुभौ व्यष्टिरूपौ जीवोपाधी समष्टिरूपौ तु असद्वा इदमग्र आसीत्ततो वै सदजायत
इत्यादिश्रुतिप्रसिद्धे सदसती ते च त्यक्त्वा ॥ २३ ॥

या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः ।
साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते ॥ २४ ॥

जीवन्मुक्तेषु व्यवस्थितिर्निकृष्टस्थितिर्यस्याः । व्यवहृतौ व्यवहारकाले
साक्ष्यवस्थेति प्रसिद्धा ॥ २४ ॥

नैतज्जाग्रन्न च स्वप्नं सङ्कल्पानामसम्भवात् ।
सुषुप्तभावो नाप्येतदभावाज्जडता स्थितेः ॥ २५ ॥

तस्या जाग्रदादिसङ्करं वारयति - नैतदिति । जडता आवरणं तत्स्थितेरज्ञानस्य ॥
२५ ॥

शान्तं सम्यक्प्रबुद्धानां यथास्थितमिदं जगत् ।
विलीनं तुर्यमेवाहुरबुद्धानां स्थिरं स्थितम् ॥ २६ ॥

नन्वद्वितीयं तुरीयं जाग्रदादि द्वैतकाले जीवन्मुक्तानामपि कथं स्यात्तत्राह -
शान्तमिति । विलीनं ज्ञानबाधितम् ॥ २६ ॥

अहङ्कारकलात्यागे समतायाः समुद्भवे ।
विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥ २७ ॥

जलविलीनसैन्धववद्विशरारौ कृते सति ॥ २७ ॥

अथेमं शृणु दृष्टान्तं कथ्यमानं मयाधुना ।
प्रबुद्धोऽपि यथा बोधमुपैषि विबुधोपम ॥ २८ ॥

जाग्रतो व्यवहरतः कथं चित्तं विशरारु स्यादित्यसम्भावनां
मृगव्याधीयोदाहरणेन वारयति - अथेममित्यादिना ॥ २८ ॥

कस्मिंश्चित्काननाभोगे महामौनं व्यवस्थितम् ।
दृष्ट्वाद्भुतमिदं किञ्चिन्मुनिं पप्रच्छ लुब्धकः ॥ २९ ॥

महामौनं ज्ञानबाधितवागादिचेष्टम् । इदं वक्ष्यमाणं पप्रच्छ ॥ २९ ॥

पश्चादुपगतो बाणभिन्नं मृगमभिद्रुतम् ।
मुने मदीयबाणेन विद्धो मृग इहागतः ॥ ३० ॥

बाणभिन्नमभिद्रुतं पलायितुं मृगं पश्चाद्भागे उपगतो लुब्धक इति
पूर्वान्वयि । किं पप्रच्छ तदाह - मुने इत्यादिना ॥ ३० ॥

क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः ।
समशीला वयं साधो मुनयो वनवासिनः ॥ ३१ ॥

पुनर्मृग इत्युक्तिः सम्भ्रमात् ॥ ३१ ॥

नास्माकमस्त्यहङ्कारो व्यवहारेषु यः क्षमः ।
सर्वाणीन्द्रियकर्माणि करोति हि सखे मनः ॥ ३२ ॥

व्यवहारेष्वनभ्यस्तेष्विति शेषः ॥ ३२ ॥

अहङ्कारमयं तन्मे नूनं प्रगलितं चिरम् ।
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन ॥ ३३ ॥

अहङ्कारमयमभिमानप्रचुरम् । चिरं सदैव ॥ ३३ ॥

तुर्य एव हि तिष्ठेऽहं तत्र दृश्यं न विद्यते ।
इति तस्य वचः श्रुत्वा मुनिनाथस्य राघव ॥ ३४ ॥

लुब्धकोऽर्थमविज्ञाय जगामाभिमतां दिशम् ।
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा ॥ ३५ ॥

अतस्तादृशमुन्यनुभवश्रुत्यादिबाध्यत्वात्तुर्येतरा जाग्रदादिदशा स्थूलादिदशा
च नास्ति ॥ ३५ ॥

निर्विकल्पा हि चित्तुर्यं तदेवास्तीह नेतरत् ।
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः ॥ ३६ ॥

गुणत्रयात्मकमायामयचित्तकार्यत्वात्तिसृणामवस्थानां मायाबाधे चित्तस्य
मृतत्वादपि तदुपादेयावस्थानामसत्त्वमित्याह - जाग्रदित्यादिना ॥ ३६ ॥

घोरं शान्तं च मूढं च आत्मचित्तमिहास्थितम् ।
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् ॥ ३७ ॥

तिस्रोऽवस्था रज-आदिगुणप्राधान्येन त्रिधा विभज्य दर्शयति - घोरमिति ।
स्वर्गनरकपुनर्जन्मादिहेतुपुण्यपापोत्पादनाद्घनीभावाधिक्याच्च जाग्रन्मयं
जाग्रदवस्थं चित्तं घोरमित्याद्यूह्यम् ॥ ३७ ॥

मूढं सुषुप्तभावस्थं त्रिभिर्हीनं मृतं भवेत् ।
यच्च चित्तं मृतं तत्र सत्त्वमेकं स्थितम् समम् ।
तदेव योगिनः सर्वे यत्नात्सम्पादयन्ति हि ॥ ३८ ॥

गुणत्रयात्मकमायोच्छेदात्त्रिभिर्हीनम् । मृते चित्ते योगिनां प्रारब्धशेषभोगाय
भस्मनि शौक्ल्यमिव सत्त्वाम्श एवानुवर्तते न रजस्तर्मोशलेश इत्याह - यच्चेति ।
रजसा अक्षोभ्यमाणत्वात्समम् । तादृशे चित्ते नैर्मल्यातिशयेन स्वात्मसुखस्य
सदैवाविर्भावात्सर्वव्यापारोपरमेण समाध्यभ्यासं यत्नात्सम्पादयन्तीत्यर्थः
॥ ३८ ॥

समस्तसङ्कल्पविलासमुक्तं तुर्ये पदे तिष्ठ निरामयात्मा ।
यत्र स्थिताः साधु सदैव मुक्ताः प्रशान्तभेदा मुनयो महान्तः ॥ ३९ ॥

अतस्त्वमपि तादृशं चित्तं सम्पाद्य तुर्ये पदे विश्रान्तस्तिष्ठेत्याह - समस्तेति ।
स्पष्टम् ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
मृगव्याधीयं नाम चतुर्विंशत्यधिकशततमः सर्गः ॥ १२४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मृगन्याधीयं नाम चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥