१२२

द्वाविंशत्यधिकशततमः सर्गः १२२

मनुरुवाच ।

येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्रक्वचनशायी च स सम्राडिव राजते ॥ १ ॥

निरूढस्यात्मबोधस्य तुर्यातीतपदस्थितेः ।
मुक्तस्येह यतेश्चर्या लक्षणैर्मनुनेर्यते ॥

निरस्तनिःशेषविकल्पविप्लवः समः सुखं तिष्ठति इति या योगिनः स्थितिरुक्ता तामेव
प्रपञ्चयति - येन केनचिदित्यादिना । आच्छन्नो वस्त्रैराच्छादितः । आशितो भोजितः ।
स योगी सम्राट् मानुषानन्दपरावधिं प्राप्तो राजेवेति पापरदृशेयमुपमा ।
तत्त्वदृशा तु न तदानन्दस्योपमास्ति । यतो वाचो निवर्तन्ते इत्यादिश्रुत्या
हैरण्यगर्भानन्दान्तविषयानन्दसीकरमहार्णवतया निरवधित्वप्रतिपादनात् ॥ १ ॥

वर्णधर्माश्रमाचारशास्त्रयन्त्रणयोज्झितः ।
निर्गच्छति जगज्जालात्पञ्जरादिव केसरी ॥ २ ॥

तस्यार्थसिद्धं विद्वत्सन्न्यासमाह - वर्णेति । शास्त्रेण यन्त्रणा
किङ्करवन्नियमनं तया वर्जितः । जगति
जालवद्बन्धहेतोरैहिकामुष्मिकक्रियातत्फलकर्तृत्वभोक्तुत्वादिवासनासङ्घादित्यर्
थः ॥ २ ॥

वाचामतीतविषयो विषयाशादशोज्झितः ।
कामप्युपगतः शोभां शरदीव नभस्तलम् ॥ ३ ॥

वाचामतीतस्य निरतिशयानन्दस्यानुभवस्यैव विषयः । अत एव विषयाशादशोज्झितः ॥
३ ॥

गम्भीरश्च प्रसन्नश्च गिराविव महाह्लदः ।
परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ॥ ४ ॥

परस्यानन्दस्य रसनं रसो निरन्तरमास्वादनं तस्मादक्षुब्धोऽप्रच्युतः ॥ ४ ॥

सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः ।
न पुण्येन न पापेन लिप्यते नेतरेण च ॥ ५ ॥

इतरेण हर्षविषादादिना च ॥ ५ ॥

स्फटिकः प्रतिबिम्बेन यथा याति न रञ्जनम् ।
तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥ ६ ॥

कर्मफलेन प्रारब्धोपनीतसुखदुःखादिना । रञ्जनं रूपान्तरापत्तिम् ॥ ६ ॥

विहरञ्जनतावृन्दे देहकर्तनपूजनैः ।
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥ ७ ॥

तदेव स्पष्टमाह - विहरन्निति । देहस्य कर्तनैश्छेदनैः पूजनैश्च
देहप्रतिबिम्बमिव मिथ्येति पश्यतीति प्रतिबिम्बगतैरिवेत्युच्यते ॥ ७ ॥

निःस्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः ।
संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ॥ ८ ॥

पूज्यः पूजितोऽपि निःस्तोत्रः अप्रशंसमानः । पूजाविवर्जितोऽपि निर्विकार इति कर्मधारये
क्रमेण विशेषणान्वयः । संयुक्तश्चेत्यादिरस्यैव प्रपञ्चः ॥ ८ ॥

तस्मान्नोद्विजते लोको लोकान्नोद्विजते च सः ।
रागद्वेषभयानन्दैस्त्यज्यतेऽपि च युज्यते ॥ ९ ॥

उद्विजते बिभेति । रागद्वेषादिपदैस्तन्निमित्तविषया लक्ष्यन्ते ।
कदाचित्प्रारब्धबलाद्युज्यते त्यज्यते च ॥ ९ ॥

प्रमेये कस्यचिदपि न रोहति महाशयः ।
प्रमेयीक्रियते चापि बालेनाप्यदुराशयः ॥ १० ॥

कस्यचित्कुशलभतेरपि प्रमेये प्रमितिविषये स्वयन्न् तत्त्वतो नारोहति नान्तर्भवति ।
तत्त्वतस्तं कुशलमतयोऽपि न परिच्छेत्तुन्न् शक्नुवन्तीत्यर्थः । व्यवहारतस्तु
बालेनापि प्रमेयीक्रियते अल्पेनाप्यनुवर्तनेन वशीक्रियते । यतोऽयमदुराशयः
शुद्धचित्तत्वादृजुरित्यर्थः ॥ १० ॥

तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽपि वा ।
मा कदाचन वा राजन्वर्तमानेऽपि वा क्षणे ॥ ११ ॥

तस्य ज्ञानसमकालमेव मुक्त्या देहादिबाधेन च
पुनर्मुक्तिनिमित्ततीर्थादेर्देहत्यागस्य वा चिन्तैव नास्तीत्याह - तनुमिति । कदाचन
कदाचिदपि तनुं मा वा त्यजतु वर्तमानक्षणे इदानीमपि वा तनुं त्यजतु । तथाप्यसौ
ज्ञानसम्प्राप्तिसमये प्रागेव मुक्तो विदेहश्चेति परेण सम्बन्धः ॥ ११ ॥

ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः ।
अहम्भ्रान्तिर्हि बन्धाय मोक्षो ज्ञानेन तत्क्षयः ॥ १२ ॥

तदुपपादनाय बन्धमोक्षस्वरूपमाह - अहम्भ्रान्तिरिति ॥ १२ ॥

स पूजनीयः स स्तुत्यो नमस्कार्यः स यत्नतः ।
स निरीक्ष्योऽभिवाद्यश्च विभूतिविभवैषिणा ॥ १३ ॥

स पूजनीय इति । तथा च श्रुतिः यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः
कामयते यांश्च कामान् । तं तं लोकं लभते तांश्रु कामांस्तस्मादात्मज्ञं
ह्यर्चयेद्भूतिकामः इति ॥ १३ ॥

न यज्ञतीर्थैर्न तपःप्रदानैरासाद्यते तत्परमं पवित्रम् ।
आसाद्यते क्षीणभवामयानां भक्त्या सतामात्मविदां यदङ्ग ॥ १४ ॥

तत्पूजनमेव परमपुरुषार्थप्रापकज्ञानहेतुरपीत्याह - नेति । हे अङ्ग क्षीणो
भवामयो येषां तथाविधानां जीवन्मुक्तानां भक्त्या भजनेन यत्परमं पदं
ज्ञानद्वारा आसाद्यते तद्यज्ञादिभिर्नासाद्यत इत्यन्वयः ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

एवमुक्त्वा स भगवान्मनुर्ब्रह्मगृहं ययौ ।
इक्ष्वाकुरपि तां दृष्टिमवष्टभ्य स्थिरोऽभवत् ॥ १५ ॥

ब्रह्मगृहं मेरुशिखरस्थम् ॥ १५ ॥

इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मो० निर्वाणप्रकरणे पू० इक्ष्वाकुमनुसंवादे
इक्ष्वाकुप्रबोधनं नाम द्वाविंशत्यधिकशततमः सर्गः ॥ १२२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
इक्ष्वाकुप्रबोधनं नाम द्वाविंशत्यधिकशततमः सर्गः ॥ १२२ ॥

त्रयोविंशत्यधिकशततमः सर्गः १२३ ॥

श्रीराम उवाच ।

एवं स्थिते हि भगवञ्जीवन्मुक्तस्य सन्मतेः ।
अपूर्वोऽतिशयः कोऽसौ भवत्यात्मविदां वर ॥ १ ॥

ज्ञस्याज्ञेभ्योऽन्यसिद्धेभ्यः खेचरत्वाणिमादिषु ।
अनिच्छैव हि पूर्णत्वाद्विशेषोऽत्राभिधीयते ॥

वर्णितलक्षणस्य जीवन्मुक्तस्य मणिमन्त्रादिसिद्धानामिव खेचरादिसिद्धिरूपोऽपि
कश्चिदपूर्वोऽतिशयोऽस्ति न वेति सन्दिहानो रामः पृच्छति - एवमिति । एवं
त्वद्वर्णितरूपे लक्षणजाते स्थिते सति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

ज्ञस्य कस्मिंश्चिदेवांशे भवत्यतिशयेन धीः ।
नित्यतृप्तः प्रशान्तात्मा स आत्मन्येव तिष्ठति ॥ २ ॥

तस्यान्यसिद्धागोचरनिरतिशयानन्दात्मगोचरोऽनुभव एव विशेष इत्याशयेनोत्तरमाह

  • ज्ञस्येति । ज्ञस्य कस्मिंश्चिदितरसिद्धागम्ये परमात्मतत्त्वांशे धीरे
    वातिशयेन भवतीति योजना । अथवा अप्यर्थे एवकारः । ज्ञस्य सांसारिकसिद्ध्यंशे
    कस्मिंश्चिदप्यतिशयेऽतिशयधीर्न भवतीति योजना । तत्कुतस्तत्राह - नित्यतृप्त इति
    ॥ २ ॥

मन्त्रसिद्धैस्तपःसिद्धैस्तन्त्रसिद्धैश्च भूरिशः ।
कृतमाकाशयानादि का तत्र स्यादपूर्वता ॥ ३ ॥

मन्त्रसिद्धादिरूपेणाप्यहमेव स्थित इति सर्वात्मबुद्ध्या तैः प्राप्तानां
खेचरादिसिद्धीनां तेन प्राप्तत्वात्तासु तस्य नापूर्वतापीत्याह - मन्त्रसिद्धैरिति ।
अथवा अपूर्वशब्दो न विद्यते पूर्वं कारणं यस्येति व्युत्पत्त्या
तत्त्ववित्प्राप्तनित्यनिरतिशयानन्द एव मुख्यः । आकाशयानादिसिद्धिजातं तु
मन्त्रसिद्ध्यादिभिः कृतं स्वयत्नेनोत्पादितमिति तत्र सपूर्वतैव नापूर्वतेत्यर्थः ॥
३ ॥

अणिमाद्यपि सम्प्राप्तं तादृशैरेव भूरिशः ।
यत्नेन साधितत्वात्तैर्नेतरेणात्मदर्शिना ॥ ४ ॥

यद्यपूर्वशब्दस्यानन्यप्राप्तत्वमप्यर्थस्तथापि
बहुभिर्मन्त्रसिद्धादिभिरणिमादिसिद्धिजातं प्राप्तमेवेति न तेष्वपूर्वतेत्याह -
अणिमाद्यपीति । सर्वात्मभूतस्य ज्ञस्य सर्वसांसारिकसिद्धीनां तत्तद्यत्नेन तैरेव
साधितत्वादपि न स्वेन पुनः साधने प्रयोजनमस्तीत्याशयेनाह - यत्नेनेति ॥ ४ ॥

एष एव विशेषोऽस्य न समो मूढबुद्धिभिः ।
सर्वत्रास्थापरित्यागान्नीरागममलं मनः ।
भवेत्तस्य महाबुद्धेर्नासौ वस्तुषु मज्जति ॥ ५ ॥

तर्हि तत्त्वविदस्तेभ्यः कोऽतिशयस्तत्राह - एष एवेति । तत्त्वज्ञानमेवातिशय
इत्यर्थः । अतिशयान्तरमाह - सर्वत्रेति । वस्तुषु भोग्येषु ॥ ५ ॥

एतावदेव खलु लिङ्गमलिङ्गमूर्तेः संशान्तसंसृतिचिरभ्रमनिर्वृतस्य ।
तज्ज्ञस्य यन्मदनकोपविषादमोहलोभापदामनुदिनं निपुणं तनुत्वम् ॥ ६ ॥

नीरागत्वफलान्येव तत्त्वज्ञलक्षणतया वर्णयन्नुपसंहरति - एतावदिति ।
तत्त्वबोधे संशान्तेन चिरन्तनभ्रमेण निर्वृतस्य विश्रान्तस्य अलिङ्गा
सर्वधर्मशून्या ब्रह्मचिदेव मूर्तिः सैन्धवघनवदेकरसं स्वरूपं यस्य
तथाविधस्य एतावदेव खलु लिङ्गं लक्षणम् यन्मदनादीनामापदामनुदिनं
निपुणमत्यन्तं तनुत्वमपक्षय इत्यर्थः ॥ ६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाण० पू० अज्ञादेर्ज्ञस्य
विशेषकथनं नाम त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अज्ञादेर्ज्ञस्य विशेषकथनं नाम त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥