१२१

एकविंशत्यधिकशततमः सर्गः १२१

मनुरुवाच ।

यावद्विषयभोगाशा जीवाख्या तावदात्मनः ।
अविवेकेन सम्पन्ना साप्याशा हि न वस्तुतः ॥ १ ॥

ययाऽपकृष्यते जीवो यया चोत्कृष्य मुच्यते ।
अत्र ते भावने सम्यग्विभज्य मनुनेरिते ॥

यद्यात्मा निरतिशयानन्दं ब्रह्मैव तर्ह्यस्य कियत्कालमज्ञानाज्जीवाख्या तत्राह

  • यावदिति । सा किं सत्या नेत्याह - अविवेकेनेति ॥ १ ॥

विवेकवशतो याता क्षयमाशा यदा तदा ।
आत्मा जीवत्वमुत्सृज्य ब्रह्मतामेत्यनामयः ॥ २ ॥

अज्ञानक्षयात्क्षयं बाधम् ॥ २ ॥

ऊर्ध्वादधस्तथाधस्तात्पुनरूर्ध्वं व्रजंश्चिरम् ।
मा संसारारघट्टस्य चिन्तारज्ज्वां घटीभव ॥ ३ ॥

भोगाशैव स्वर्गनरकादौ कर्षतीति तां त्यजेत्याह - ऊर्ध्वादिति ।
भोगचिन्तारूपायां घटकण्ठरज्ज्वां मा घटीभव घटवद्बद्धो मा
भूरित्यर्थः ॥ ३ ॥

इदं ममाहमस्येति व्यवहारघनभ्रमम् ।
ये मोहात्परिसेवन्ते अधस्ताद्यान्त्यधः शठाः ॥ ४ ॥

तस्या विषयैः सह बन्धनमन्योन्यकण्ठासज्ञनलक्षणं दर्शयति - इदमिति ॥
४ ॥

अस्याहमेष मे सोऽयमहमेवं तु यैः किल ।
मोहो बुद्ध्या परित्यक्त ऊर्ध्वादूर्ध्वं प्रयान्ति ते ॥ ५ ॥

तदेवानूद्य तन्मूलं तादात्म्याध्यासमपि त्याजयंस्तत्फलं सर्वोत्कर्षमाह -
अस्येति ॥ ५ ॥

स्वप्रकाशं स्वमात्मानमवलम्ब्याविलम्बितम् ।
आस्स्व सम्पूरिताकाशं जगन्ति नृप पश्य हे ॥ ६ ॥

जगन्ति सम्पूरितं सर्वतोऽप्यव्यवधानेन भरितं चिदाकाशमेव पश्य ॥ ६ ॥

यदैवैवं चितो रूपं ततं बुद्धमखण्डितम् ।
तदैव तीर्णः संसारः परमेश्वरतां गतः ॥ ७ ॥

ततं पूर्णम् ॥ ७ ॥

ब्रह्मेन्द्रविष्णुवरुणा यद्यत्कर्तुं समुद्यताः ।
तदहं चिद्वपुः सर्वं करोमीत्येव भावयेत् ॥ ८ ॥

ननु जगत्कर्तृत्वाद्यस्य नास्ति स कथं परमेश्वरतां गतस्तत्राह -
ब्रह्मेन्द्रेति ॥ ८ ॥

येषु येषु यदा यद्यद्दर्शनेषु निगद्यते ।
सर्वमेवाङ्ग तत्सत्यं चिद्विलासो ह्यनङ्कुशः ॥ ९ ॥

नन्वसत्याः सर्वाः क्रियाः तत्त्ववित् तासु कथमात्मनः कर्तृतां भावयेदिति
चेन्नायं दोषः आत्मसत्तयैव सर्वकल्पनानां सत्यत्वसम्भवादित्याशयेनाह -
येष्विति । दर्शनेषु शास्त्रेषु ॥ ९ ॥

चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योरचेतसः ।
यो भवेत्परमानन्दः केनासावुपमीयते ॥ १० ॥

ननु संसारतरणेन को लाभस्तत्राह - चिन्मात्रत्वमिति ।
निरुपमस्वप्रकाशानन्दप्राप्तिरेव लाभ इत्यर्थः ॥ १० ॥

नाप्यशून्यन्न् न शून्यञ्च नाचिद्रूपं न चिन्मयम् ।
नात्मरूपं नान्यरूपं भुवनं भावयन्भव ॥ ११ ॥

यदि ब्रह्मसत्तया जगदशून्यं तर्हि द्वैतापत्तिः । यदि नेतिनेतीति निषेधाच्छून्यं
तर्हि सर्वकर्तृतालक्षणेश्वरताव्याघातः । तथा यदि जगदचिद्रूपमेव तर्हि चितोऽपि
भानासम्भवस्त्रिवृत्करणेन तैजसरूपानुविद्धमेव हि भासकेन तेजसा बास्यते न
नीरूपम् । यदि तु चिदनुवेधाय तस्य चिद्विकारताभ्युपेयते तर्हि चितः सविकारतापत्तिः ।
एवमनात्मरूपत्वेति जगतोऽसङ्गेनात्मना सम्बन्धाभावात्ततः सत्तास्फूर्त्यलाभः
। आत्मरूपत्वे तु न ज्ञानेन बाध इत्यादिदोषाननिर्वचनीयतालम्बनेन परिहरति -
नापीति ॥ ११ ॥

एतत्स्वरूपमासाद्य प्रकृतिः परिशाम्यति ।
न देशो मोक्षनामास्ति न कालो नेतरा स्थितिः ॥ १२ ॥

कथं तर्हि तच्छाम्यति तत्राह - एतदिति । एतस्यात्मनः स्वं पारमार्थिकं
रूपमासाद्य साक्षात्कृत्य ॥ १२ ॥

अहङ्कृतेर्विमोहस्य क्षयेणेयन्न् विलीयते ।
प्रकृतिर्भावनानाम्नी मोक्षः स्यादेष एव सः ॥ १३ ॥

प्रकृतिः स्वाभाविकात्मरूपम् । भावना अनादिविस्मृतस्वरूपप्रतिसन्धानं
चरमसाक्षात्कारवृत्तिस्तदनुप्रवेशात्तन्नाम्नी साक्षात्काराभिधा यदा भवति तदा
एष प्रसिद्धः प्रत्यगात्मैव स शास्त्रप्रसिद्धो मोक्षः स्यादित्यर्थः ॥ १३ ॥

प्रशान्तशास्त्रार्थविचारचापलो निवृत्तनानारसकाव्यकौतुकः ।
निरस्तनिःशेषविकल्पविप्लवः समः सुखं तिष्ठति शाश्वतात्मकः ॥ १४ ॥

तादृशसाक्षात्कारेण जीवन्मुक्तः कथं तिष्ठति तदाह - प्रशान्तेति ।
शास्त्रार्थजिज्ञासा काव्यनाटकाद्यर्थजिज्ञासा लौकिकप्रियाप्रियादिविकल्पविक्षेपाश्च
निवर्तन्ते इति समः ॥ १४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू०
इक्ष्वाकुमनुसंवादो नामैकविंशत्यधिकशततमः सर्गः ॥ १२१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
इक्ष्वाकुमनुसंवादो नामैकविंशत्युत्तरशततमः सर्गः ॥ १२१ ॥