१२०

विंशाधिकशततमः सर्गः १२०

मनुरुवाच ।

शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेत् ।
प्रथमा भूमिकैषोक्ता योगस्यैव च योगिनः ॥ १ ॥

मुमुक्षुभूमिकास्तिस्रो मुच्यमानस्य तूत्तरा ।
मुक्तस्य परतस्तिस्रो भूमिकाः सप्त दर्शिताः ॥

परं समेत्य तानवमिति यद्योगभूमिकाभ्यासफलमुक्तं
तदुपायभूतान्भूमिकाभेदान्वर्णयति - शास्त्रेत्यादिना । तथा च
साधनचतुष्टयसम्पादनसहितं गुरुसतीर्थ्यादिसहायकं श्रवणं प्रथमा
भूमिकेत्यादिनिष्कर्षा उत्पत्तिप्रकरणे दर्शिता एवात्र बोध्याः ॥ १ ॥

विचारणा द्वितीया स्यात्तृतीयाऽसङ्गभावना ।
विलापनी चतुर्थी स्याद्वासनाविलयात्मिका ॥ २ ॥

विचारणा मननम् । असङ्गस्याद्वितीयान्मनोभावना निदिध्यासनम् । विलापनी
तत्त्वसाक्षात्कारेणाज्ञानादिप्रपञ्चस्य बाधस्तत्साधिनी । वासनापदेन
तदाश्रयाऽविद्या गृह्यते ॥ २ ॥

शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी ।
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ॥ ३ ॥

शुद्धः संविन्मयः समाधिपरिपाकादन्तः प्रथाप्रचुरो य आनन्दस्तद्रूपा । तां
दशां दृष्टान्तेनानुभवमारोहयति - अर्धेति । यथा निद्राशेषेणार्धन्न्
सुप्तोऽर्धन्न् च प्रबुद्धः पुरुषो बाह्यशब्दादीनाकर्णयन्नप्यन्तः स्वापसुखासक्तो
न प्रतिवचनादिव्यवहारमिच्छति तद्वद्व्युत्थानकालेऽप्यस्यां भूमिकायां योगी
तिष्ठतीत्यर्थः ॥ ३ ॥

स्वसंवेदनरूपा च षष्ठी भवति भूमिका ।
आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः ॥ ४ ॥

स्वसंवेदनं स्वरसत एवाक्षीयमाणा ब्रह्माकारानुभववृत्तिस्तद्रूपा । तदेवाह

  • आनन्देति ॥ ४ ॥

तुर्यावस्थोपशान्ताथ मुक्तिरेवेह केवलम् ।
समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥ ५ ॥

अथ यदा सा वृत्तिरपि क्षीयते तदाविष्कृतं ब्रह्मैव पूर्णस्वप्रकाशमवशिष्यते
तथा जीवतः स्थितिः सप्तमी भूमिका सैव मया शमसमसितस्वच्छाभोगः इति
प्रागुक्तेत्यर्थः । आद्यभूमिकात्रयस्य वक्ष्यमाणरीत्यैकीकारात् षष्ठी तुर्या ॥ ५ ॥

तुर्यातीता तु यावस्था परा निर्वाणरूपिणी ।
सप्तमी सा परिप्रौढा विषयः स्यान्न जीवताम् ॥ ६ ॥

सप्तम्या अष्टम्याश्च योगिजीवनाजीवनमात्रं विशेषो नान्य इत्यभेद एवेत्याशयेनाह

  • तुर्यातीतेति । सप्तमी भूमिकैव तुर्यातीताख्या परितः प्रौढा सती विदेहमुक्तिः
    सम्पद्यते सा चा जीवतां योगिनां विषयो न स्यादित्यर्थः ॥ ६ ॥

पूर्वावस्थात्रयं त्वत्र जाग्रदित्येव संस्थितम् ।
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥ ७ ॥

आनन्दैकघनीभावात्सुषुप्ताख्या तु पञ्चमी ।
असंवेदनरूपाथ षष्ठी तुर्यपदाभिधा ॥ ८ ॥

तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा ।
मनोवचोभिरग्राह्या स्वप्रकाशपदात्मिका ॥ ९ ॥

तामेव प्रशंसति - मनोवचोभिरित्यादिना ॥ ९ ॥

अन्तः प्रत्याहृतिवशाच्चेत्यं चेन्न विभावितम् ।
मुक्त एवास्य सन्देहो महासमतया तया ॥ १० ॥

तस्यामेव सर्वदृश्यानां प्रत्यगात्मनि सम्यग्विलयादात्यन्तिकी जीवन्मुक्ततेत्याह

  • अन्तरिति । तया सप्तमभूमिकाप्रसिद्धया ॥ १० ॥

यद्भोगसुखदुःखांशैरपरामृष्टपूर्णधीः ।
सशरीरोऽशरीरो वा भवत्येवम्मतिः पुमान् ॥ ११ ॥

न म्रिये न च जीवामि नाहं सन्नाप्यसन्नयम् ।
आत्मारामो नरस्तिष्ठेत्तन्मुक्तत्वमुदाहृतम् ॥ १२ ॥

तस्यां तु जीवन्मुक्तस्य कीदृशोऽनुभवस्तमाह - न म्रिये इति ॥ १२ ॥

व्यवहार्युपशान्तो वा गृहस्थो वाथवैककः ।
अहं न किञ्चिच्चिदिति मत्वा जीवो न शोचति ॥ १३ ॥

एककः एकचरो यतिः ॥ १३ ॥

अलेपकोऽहमजरो नीरागः शान्तवासनः ।
निर्मलोऽस्मि चिदाकाश इति मत्वा न शोचति ॥ १४ ॥

अहमन्तादिरहितः शुद्धो बुद्धोऽजरामरः ।
शान्तः समासमाभास इति मत्वा न शोचति ॥ १५ ॥

तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च ।
यत्तदस्ति तदेवेति मत्वा भूयो न शोचति ॥ १६ ॥

अतिक्षुद्रेषु तृणाग्रेषु । अतिमहत्यम्बरे । अतिप्रकाशे भानौ यत्तत्प्रसिद्धतरं
सन्मात्रं तदेव प्रत्यक्चिन्मात्रमहमस्मीत्यखण्डमहावाक्यार्थं मत्वेत्यर्थः ॥
१६ ॥

तिर्यमूर्ध्वमधस्तान्मे व्यापको महिमा चितः ।
तस्यानन्तविलासस्य ज्ञात्वेति क इव क्षयी ॥ १७ ॥

चितो मे महिमा व्यापक इति तस्य परमात्मनो महिमानं ज्ञात्वा कः क्षयी
मरणादिदुःखभागित्यर्थः । तथा च श्रुतिः एष नित्यो महिमा ब्राह्मणस्य न
वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा
पापकेन इति ॥ १७ ॥

बद्धवासनमर्थो यः सेव्यते सुखयत्यसौ ।
यत्सुखाय तदेवाशु वस्तु दुःखाय नाशतः ॥ १८ ॥

जीवन्मुक्तानामपि जीवनस्य विषयभोगाधीनत्वाद्विषयनाशेऽज्ञवदेव
दुःखप्राप्तिमाशङ्क्य विशेषं वक्तुमज्ञस्य विषयनाशे
दुःखोत्पत्तिप्रकारमाह - बद्धवासनमिति सार्धेन ॥ १८ ॥

अविनाभावनिष्ठत्वं प्रसिद्धं सुखदुःखयोः ।
तनुवासनमर्थो यः सेव्यते वा विवासनम् ॥ १९ ॥

अविनाभावनिष्ठत्वं सहावस्थितिनियमः । जीवन्मुक्तानां तद्वैलक्षण्यमाह -
तनुवासनमिति । चतुर्थादिभूमिकासु तनुवासनं सप्तमभूमौ तु विवासनम् ॥ १९ ॥

नासौ सुखायते नासौ नाशकाले न दुःखदः ।
क्षीणवासनया बुद्ध्या यत्कर्मक्रियतेऽनघ ॥ २० ॥

एवं कर्मापि तेषामलेपकमित्याह - क्षीणेति ॥ २० ॥

तद्दग्धबीजवद्भूयो नाङ्कुरं प्रविमुञ्चति ।
देहेन्द्रियादिना कर्म करणौघेन कल्प्यते ॥ २१ ॥

देहेन्द्रियादिषु भिन्नेष्वेकात्मतादात्म्याध्यासेन तत्कृतकर्मस्वहमेवैकः
कर्तेत्यभिमाने हि कर्मभिर्लेपः स्यात् । न च मुक्तानां सोऽस्तीत्याशयेनाह -
देहेन्द्रियादिनेति ॥ २१ ॥

एकः कर्ता च भोक्ता च क इवाङ्गोपपद्यते ।
भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः ॥ २२ ॥

भावनामहन्ताद्यध्यासम् । सर्वेभ्यो देहेन्द्रियादिभावेभ्यः सम्यगुत्सृज्य
सम्यगुत्थितो निर्गतः ॥ २२ ॥

शशाङ्कशीतलः पूर्णो भाति भासेव भास्करः ।
क्रियमाणा कृता कर्मतूलश्रीर्देहशाल्मलेः ॥ २३ ॥

कृता सञ्चितरूपा ॥ २३ ॥

ज्ञानानिलसमुद्भूता प्रोड्डीय क्वापि गच्छति ।
सर्वैव हि कला जन्तोरनभ्यासेन नश्यति ॥ २४ ॥

कर्मेव ज्ञानकलापि कालेन नश्येदित्याशङ्क्याह - सर्वैवेति ॥ २४ ॥

एषा ज्ञानकला त्वन्तः सकृज्जाता दिने दिने ।
वृद्धिमेति बलादेव सुक्षेत्रव्युप्तशालिवत् ॥ २५ ॥

एकः स्फुरत्यखिलवस्तुषु विश्वरूप आत्मा सरःसु जलधिष्विव तोयमच्छम् ।
संशान्तसङ्कलनभूरिकलापमेकं सत्तांशमात्रमखिलं जगदङ्ग
विद्धि ॥ २६ ॥

यथा सरःसु जलधिषु समुद्रेषु चाच्छ तोयमेकमेव स्फुरति तथाखिलेषु
मायिकवस्तुषु तत्तदभेदाध्यासाद्विश्वरूपः स्वतस्तु सन्मात्रस्वभाव आत्मा एक एव
स्फुरति । अतः हे अङ्ग अखिलं जगत् तत्त्वबोधेन
संशान्तभ्रान्तिसङ्कलनप्रयुक्तभूरिवैचित्र्यकलापं
परिशिष्टसत्तांशमात्रमेवाहमिति विद्धीत्यर्थः ॥ २६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू०
सप्तभूमिकाविभागो नाम विंशत्यधिकशततमः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
सप्तभूमिकाविभागो नाम विंशत्युत्तरशततमः सर्गः ॥ १२० ॥