एकोनविंशाधिकशततमः सर्गः ११९
मनुरुवाच ।
सर्गात्मभिर्विभुः स्पन्दैः क्रीडते बालवत्स्वयम् ।
संहारात्मकशक्त्याथ संहृत्यात्मनि तिष्ठति ॥ १ ॥
वर्ण्यते पुरुषस्यात्र स्वातन्त्र्यं मोक्षबन्धयोः ।
विद्याविद्यात्मशक्तिभ्यां सत्यासत्यात्मनिश्चयात् ॥
स्पन्देऽप्यसंस्पन्दमिवेह तिष्ठ इत्युक्तं तत्र ब्रह्मा किमर्थं मायया स्पन्दते
कथं चासंस्पन्दन्न् तिष्ठतीतीक्ष्वाकोर्जिज्ञासां लिङ्गैरुपलक्ष्य मनुराह -
सर्गात्मभिरिति । विभुरयं परमात्मा प्रसवधर्मिण्या अविद्याशक्त्या अविदुषः
प्रतिसर्गात्मकैः स्पन्दैः क्रीडते । विदुषः प्रति तु तत्संहारात्मिकया विद्याशक्त्या
समूलं सर्गं संहृत्य बाधितत्वात्कूटस्थाद्वये आत्मनि सदैव तिष्ठतीत्यर्थः ॥
१ ॥
स्वयमस्य तथा शक्तिरुदेत्याबध्यते यया ।
स्वयमस्य तथा शक्तिरुदेत्युन्मुच्यते यया ॥ २ ॥
तत्र रागात्प्रवृत्तस्य सर्गशक्त्युदय इव वैराग्यान्निवृत्तस्य संहारशक्त्युदयोऽपि
स्वरसत एव भवतीत्याह - स्वयमिति ॥ २ ॥
चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः ।
यथा पत्रादि वृक्षाणां निर्झराणां यथा कणाः ॥ ३ ॥
तत्र ज्ञातात्मनि जीवजगत्साधारणसत्तासामान्यात्मना विभाव्यमाने
तद्विशेषात्मकबाह्याध्यात्मिकपदार्थजालकल्पने दृष्टान्तानाह - चन्द्रेति ।
अर्चिषः प्रभाज्वालाप्रभेदा यथा कल्पितास्तथा जगद्वैचित्र्यं
तद्ग्राहकबुद्ध्यादिवैचित्र्यं कल्पितमित्यन्वयः । सप्तायोग्रहणं
मायाशबलदृष्टान्तार्थम् ॥ ३ ॥
तथेदं ब्रह्मणि स्फारे जगद्बुद्ध्यादि कल्पितम् ।
दुःखप्रदमतज्ज्ञानां तदेवातदिव स्थितम् ॥ ४ ॥
अहो नु चित्रा मायेयं तात विश्वविमोहिनी ।
सर्वाङ्गप्रोतमप्यात्मा यदात्मानं न पश्यति ॥ ५ ॥
सर्वगतस्वप्रकाशस्यात्मनोऽदर्शनमसतोऽप्रकाशस्यापि जगतः स्फुटं दर्शनन्न्
चाश्चर्यमघटितघटनासमर्थमायाबलादेवेत्याह - अहो इति ।
सर्वेष्वङ्गेष्ववयवप्रायेषु बाह्याध्यात्मिकभावेषु प्रोतमन्तर्बहिश्च
व्याप्तमप्यात्मानं यद्यस्मान्न पश्यति ॥ ५ ॥
चिदादर्शमयं सर्वं जगदित्येव भावयन् ।
यस्तिष्ठत्युपशान्तेच्छं स ब्रह्मकवचः सुखी ॥ ६ ॥
कया तर्हि भावनया आत्मानं दृष्ट्वा सुखी स्यात्तामाह -
चिदादर्शमयमित्यादिना । आदर्शे नगरादिरिव ब्रह्मणि जगत्प्रातिभासिकं न
वास्तवमिति भावयन्नित्यर्थः । मोहशरैरभेद्यं ब्रह्मैव कवचं यस्य सः ॥ ६ ॥
अहमर्थविमुक्तेन भावेनाभावरूपिणा ।
सर्वं शून्यं निरालम्बं चिद्रूपमिति भावयेत् ॥ ७ ॥
इदं रम्यमिदं नेति बीजं ते दुःखसन्ततेः ।
तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥ ८ ॥
इति वैषम्यकल्पनमिति शेषः ॥ ८ ॥
राजन्नभावनास्त्रेण रम्यारम्यविभागिता ।
पौरुषातिशयेनाशु स्वेनैवान्तर्विलूयताम् ॥ ९ ॥
अभावना समाध्यभ्यासेन सर्वदृश्यविस्मृतिस्तल्लक्षणेनास्त्रेण रम्यारम्ययोः
पदार्थयोर्विभाविता प्रियाप्रियतावैषम्यकल्पना । सा हि रागद्वेषहेतुः
समदृष्टिदार्ढ्यलक्षणपुरुषप्रयत्नातिशयेन विलूयतां छिद्यताम् ॥ ९ ॥
अभावनेन भावनं विलूय कर्मकाननम् ।
परं समेत्य तानवं विशोक एव तिष्ठ भोः ॥ १० ॥
समाधिलक्षणेनाभावनेन बाह्यार्थभावनं तत्प्रयोजकं धर्माधर्मलक्षणं
कर्मकाननं च विलूय परमाकाशादप्यधिकं तानवं सौक्ष्म्यं समेत्य
तद्बलेन शोकहेत्वलेपे विशोक एव तिष्ठेत्यर्थः ॥ १० ॥
भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनाभासोल्लासो
[उल्लासः इति पदं क्वचिन्न पठ्यते ।] विवेकविलासवान् ।
अधिगतपरानन्दस्पन्दश्चिराय निरामयः शमसमसितस्वच्छाभोगो
भवाभयचिद्वपुः ॥ ११ ॥
हे पुत्र त्वं प्रथमं विवेकविलासवान् सन् समाधिना गलितबाह्यकलनाभासः
पूर्णात्मना भरितभुवनाभोगश्च भूत्वा अधिगतः
परानन्दस्याऽपरिच्छिन्नब्रह्मसुखस्य स्पन्दः सर्वत आविर्भावो यस्य
तथाविधस्तद्विभागबहिष्कृतस्तदखण्डैकतापन्नोऽत एव निरस्तसंसारामयः
पञ्चमषष्ठभूमिकासु चिराय स्थित्वान्ते
सप्तमभूमिकायामात्यन्तिकविक्षेपवैषम्यशमेन समश्चन्द्रिकापूर्णत्वात्सितः
शुभ्र आत्यन्तिकवासनाज्ञानकालुष्यक्षयात्स्वच्छ आभोग आकारो यस्य
तथाविधोऽभयचिद्वपुर्भवेत्यर्थः । अथवा चतुर्भिः पादैश्चतुर्थाद्याश्चतस्रो
भूमिकाः क्रमेण दर्शिता बोध्याः ॥ ११ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
इक्ष्वाकुमनुसंवादे एकोनविंशाधिकशततमः सर्गः ॥ ११९ ॥
इति पूर्वार्धे एकोनविंशाधिकशततमः सर्गः ॥ ११९ ॥