अष्टादशाधिकशततमः सर्गः ११८
मनुरुवाच ।
सङ्कल्पोन्मुखतां याताः सत्यश्चिन्मात्रसंविदः ।
आपस्तरङ्गत्वमिव यान्ति भूमिप जीवताम् ॥ १ ॥
कुतः सर्गः कदा कस्य केनेत्येषामिहोत्तरम् ।
तथात्मदर्शनोपाया मनुनात्र प्रकीर्तिताः ॥
तत्रादौ शुद्धसंविदो जीवभावे निमित्तमाह - सङ्कल्पेति । चिन्मात्रस्य
शुद्धचैतन्यस्याविद्यायां तत्तत्संस्कारविचित्रायां प्रतिबिम्बरूपाः संविदः
संस्काराणामन्तःकरणतया परिणामे तदवच्छिन्नतया जीवतां यान्ति ॥ १ ॥
ते जीवाः संसरन्तीह संसारे पूर्वमुत्थिते ।
सुखदुःखदशामोहो मनस्येवास्ति नात्मनि ॥ २ ॥
पूर्वमुत्थिते उपाधितया आविर्भूते संसारे समष्टिव्यष्टिमनसः कार्ये । एवं सति
यत्फलितं तदाह - सुखदुःखेति ॥ २ ॥
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना ।
तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते ॥ ३ ॥
नन्वदृश्य आत्मा कथं दृश्ये मनसि संसारदुःखि तद्विमुक्तो वा अविवेके विवेके
वा दृश्यते तत्राह - अदृश्य इति । दृश्येनान्तःकरणेन
चरमसाक्षात्काररूपतत्परिणामेन च निमित्तेन ॥ ३ ॥
न शास्त्रैर्नापि गुरुणा दृश्यते परमेश्वरः ।
दृश्यते स्वात्मनैवात्मा स्वया सत्त्वस्थया धिया ॥ ४ ॥
सत्त्वस्थया निरहम्ममतावस्थया ॥ ४ ॥
पथिकाः पथि दृश्यन्ते रागद्वेषविमुक्तया ।
यथा धिया तथवते द्रष्टव्याः स्वेन्द्रियादयः ॥ ५ ॥
निरहम्ममता देहेन्द्रियादिषु कथं द्रष्टव्येति दृष्टान्तेन स्पष्टयति -
पथिका इति ॥ ५ ॥
एतेषु नादरः कार्यः सता नैवावधीरणम् ।
पदार्थमात्रताविष्टास्तिष्ठन्त्वेते यथासुखम् ॥ ६ ॥
अवधीरणमुपवासादिना पीडनम् ॥ ६ ॥
पदार्थमात्रं देहादि धिया सन्त्यज्य दूरतः ।
आशीतलान्तःकरणो नित्यमात्ममयो भव ॥ ७ ॥
पदार्थमात्रं उदासीनपदार्थसाधारणं सन्त्यज्य आत्ममयः
शुद्धात्मदृष्ट्या तद्भावप्रचुरः ॥ ७ ॥
देहोऽहमिति या बुद्धिः सा संसारनिबन्धनी ।
न कदाचिदियं बुद्धिरादेया हि मुमुक्षुभिः ॥ ८ ॥
नकिञ्चिन्मात्रचिन्मात्ररूपोऽस्मि गगनादणुः ।
इति या शाश्वती बुद्धिः सा न संसारबन्धनी ॥ ९ ॥
न विद्यते किञ्चिन्मात्रमपि यत्र तथाविधन्न् यच्चिन्मात्रं तद्रूपो गगनादप्यणुः
सूक्ष्मः । संसारबन्धनी न मुक्तिहेतुरिति यावत् ॥ ९ ॥
यथा विमलतोयानां बहिरन्तश्च भावनम् ।
तेजस्तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु ॥ १० ॥
जडजगतोऽन्तर्बहिश्चासङ्गचित्प्रवेशेन स्फुरणेऽनुरूपं दृष्टान्तमाह -
यथेति ॥ १० ॥
सन्निवेशांशवैचित्र्यं यथा हेम्नोऽङ्गदादिता ।
आत्मनस्तदतद्रूपा तथैव जगदादिता ॥ ११ ॥
यथा अङ्गदाद्याकारता हेम्न एव सन्निवेशावयवविन्यासवैचित्र्यं तद्वदात्मनोऽपि
जगत्तन्मूलमायारूपे इत्यर्थः ॥ ११ ॥
विनाशवाडवाक्रान्तं भीमं काममहार्णवम् ।
जगज्जालतरङ्गिण्यो यान्ति भूततरङ्गिकाः ॥ १२ ॥
आत्मनः कालार्णवागस्त्यतां रूपयितुं कालस्य
जगन्नद्युपसंहारस्थानसमुद्रतामाह - विनाशेति । विनाश एव वाडवो
वडवाग्निस्तेनाक्रान्तं विशिष्टम् । भूतानि प्राणिनिकायास्तरङ्गा यासाम् ॥ १२ ॥
तथाप्यद्याप्यपूर्णस्य यः पाता कालवारिधेः ।
तमात्मानं महागस्त्यं राजन्भावय सर्वदा ॥ १३ ॥
यथा सर्वजगज्जालभक्षणेऽप्यद्याप्यपूर्णस्यातृप्तस्य कालवारिधेर्यः पाता
पानकर्ता ॥ १३ ॥
अनात्मन्यात्मतामस्मिन्देहादौ दृश्यजालके ।
त्यक्त्वा सत्त्वमुपारूढो गूढस्तिष्ठ यथासुखम् ॥ १४ ॥
सत्त्वं निर्वासनीभावम् ॥ १४ ॥
कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् ।
यथा रोदिति पुत्रार्थं तथात्मार्थमयं जनः ॥ १५ ॥
नित्यलब्धेऽप्यात्मन्यलब्धताभ्रान्त्या शोक इत्याह - कुचकोटरेति ॥ १५ ॥
अजरामरमात्मानमबुद्ध्वा परिरोदिति ।
हा हतोऽहमनाथोऽहं नष्टोऽस्मीति वपुर्व्यये ॥ १६ ॥
वपुर्व्यये देहनाशे ॥ १६ ॥
यथा वारि परिस्पन्दान्नानाकारं विलोक्यते ।
तथा सङ्कल्पवशतश्चिद्ब्रह्म परिबृंहति ॥ १७ ॥
परितो बृंहति कार्यपरम्परया वर्धते ॥ १७ ॥
संस्थाप्य सङ्कल्पकलङ्कमुक्तं चित्तं त्वमात्मन्युपशान्तकल्पः ।
स्पन्देऽप्यसंस्पन्दमिवेह तिष्ठ स्वस्थः सुखी राज्यमिदं प्रशाधि ॥ १८ ॥
हे पुत्र त्वं सङ्कल्पकलङ्कैर्मुक्तं चित्तमात्मनि संस्थाप्य
समूलसर्वसंसारोपशमे प्रारब्धभोगोपयोगितत्प्रतिभासावशेषादुपशान्तकल्पः
सन् व्यवहाराय देहेन्द्रियादिस्पन्देऽपि तस्याभासमात्रत्वादसंस्पन्दं ब्रह्मेवेह
व्यवहारभूमौ स्वस्थः सुखी तिष्ठ । इदं राज्यं च शाधि पालय । शासः
शादेशस्याभीयत्वेनासिद्धत्वाद्धेर्धिः ॥ १८ ॥
इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
इक्ष्वाकुमनुसंवादेऽष्टादशाधिकशततमः सर्गः ॥ ११८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे
पूर्वार्धेऽष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥