११७

सप्तदशाधिकशततमः सर्गः ११७

श्रीवसिष्ठ उवाच ।

भवतामादिपुरुष इक्ष्वाकुर्नाम भूपतिः ।
इक्ष्वाकुवंऽसप्रभव यथा मुक्तस्तथा शृणु ॥ १ ॥

कोऽहं कथं जगदिति विचारेऽत्र निदर्शनम् ।
इक्ष्वाकोर्मनुना प्रोक्तो विवेकः सम्प्रकीर्त्यते ॥

आदिपुरुषो मूलपुरुषो यथा । यादृशविचारेण मुक्तः प्रागुक्तपदे विश्रान्तस्तथा
तं विचारं शृण्वित्यर्थः ॥ १ ॥

इक्ष्वाकुर्नाम भूपालः स्वराज्यं परिपालयन् ।
कदाचिदेकान्तगतो मनसा समचिन्तयत् ॥ २ ॥

जरामरणसङ्क्षोभसुखदुःखभ्रमस्थितेः ।
अस्य दृश्यप्रपञ्चस्य को हेतुः स्यादिति स्वयम् ॥ ३ ॥

इति स्वयन्न् समचिन्तयदिति पूर्वेणान्वयः ॥ ३ ॥

जगतो न विवेदासौ कारणं चिन्तयन्नपि ।
अथैकदा पृच्छदसौ ब्रह्मलोकागतं मनुम् ॥ ४ ॥

न विवेद विवेकेन वेद । ब्रह्मलोकादगतं मनुं स्वपितरम् ॥ ४ ॥

पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम् ।

इक्ष्वाकुरुवाच ।

मां योजयति धार्ष्ट्येन भगवन्करुणानिधे ॥ ५ ॥

तत्र प्रथमं मनुं प्रार्थनयाभिमुखीकरोति - मामिति ॥ ५ ॥

भवत्प्रसाद एवायं भवन्तं प्रष्टुमञ्जसा ।
कुतः सर्गोऽयमायातः स्वरूपं चास्य कीदृशम् ॥ ६ ॥

प्रष्टव्यांशं दर्शयति - कुत इत्यादिना ॥ ६ ॥

कियदेतज्जगत्कस्य कदा केनेति कथ्यते ।
अहं कथं च विषमादस्मात्संसृतिविभ्रमात् ॥ ७ ॥

सङ्ख्यया परिमाणतश्च कियत् । कस्य भोक्तुः स्वामिनश्च । कदा केन रचितमिति
श्रुत्यादिभिः कथ्यते । अनेन
श्रुत्यादिप्रमाणमूलमुपदेशपरम्परासम्प्रदायागतमेव त्वया वाच्यं न तु
तर्केण किञ्चित्कल्पयित्वेति सूचितम् ॥ ७ ॥

विमुच्येय घनास्तीर्णाज्जालादिव विहङ्गमः ।

मनुरुवाच ।

अहो नु चिरकालेन विवेके सुविकासिनि ॥ ८ ॥

विमुच्येयेति कर्मकर्तरि यक्तङौ ॥ ८ ॥

वितथानर्थविच्छेत्ता सारः प्रश्नस्त्वया कृतः ।
यदिदं दृश्यते किञ्चित्तन्नास्ति नृप किञ्चन ॥ ९ ॥

तत्र तत्त्वोपदेशयोगित्वात्स्वरूपं चास्य कीदृशमिति प्रश्नस्य प्रथममुत्तरमाह

  • यदिदमिति । तथा च मिथ्या जगतः असत्स्वरूपमसदेवेति भावः ॥ ९ ॥

यथा गन्धर्वनगरं यथा वारि मरुस्थले ।
यत्तु नो दृश्यते किञ्चित्तन्न किञ्चिदिव स्थितम् ॥ १० ॥

ननु साङ्ख्या उपादाने परमसूक्ष्मतया स्थितमेव कार्यं निमित्तैराविर्भाव्यते
इत्याहुः । वेदान्तिनस्तु सद्ब्रह्मैव जगदात्मना सर्गे सम्पद्यत इति । तत्कथं
तन्नास्तीत्युच्यते तत्राहं प्रत्याह - यत्त्विति । साक्षिणा इन्द्रियैर्वा यन्नो दृश्यते
तत्किञ्चिदपि स्वोपादाने न स्थितं प्रमाणाभावादित्यर्थः ॥ १० ॥

मनःषष्ठेन्द्रियातीतं यत्स्यादपि न किञ्चन ।
अविनाशं तदस्तीह तत्सदात्मेति कथ्यते ॥ ११ ॥

स्यादपि न । सम्भावनाप्यस्य यतो नास्तीत्यर्थः । द्वितीयं प्रत्याह - अविनाशमिति ॥
११ ॥

इयं तु सर्वदृश्याढ्या राजन्सर्गपरम्परा ।
तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता ॥ १२ ॥

प्रतिबिम्बमिति । तथा चादर्शसत्तायाः प्रतिबिम्बेष्विव
संसर्गाध्यासाद्ब्रह्मसत्तानुविद्धं जगदस्तु नाम तथापि स्वतः सत्त्वं तस्य
नास्त्येवेति तन्नास्तीत्युक्तिर्युक्तैवेति भावः ॥ १२ ॥

भाः स्वभावसमुत्पन्ना ब्रह्मस्फुरणशक्तयः ।
काश्चिद्ब्रह्माण्डतां यान्ति काश्चिद्गच्छन्ति भूतताम् ॥ १३ ॥

कस्तर्हि बहु स्यां प्रजायेय इति सङ्कल्प्य ब्रह्मण एव
जगज्जीवभावश्रुतेराशयस्तत्राह - भाः स्वभावेति ।
स्फुरणशक्तयश्चिदाभासः । ब्रह्माण्डतां स्थूलसमष्ट्यभिमानेन तद्रूपताम् ।
भूततां पृथिव्याद्यभिमानेन तद्रूपताम् ॥ १३ ॥

अन्यास्त्वन्यत्वमायान्ति भवत्येवं जगत्स्थितिः ।
न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मैवास्ति निरामयम् ।
नैक्यमस्ति न च द्वित्वं संवित्सारं विजृम्भते ॥ १४ ॥

अन्यत्वं चतुर्विधभूतग्रामताम् । तथा मिथ्योपाधिषु भ्रान्त्या चिदाभासानां
बन्धादिकल्पना न वस्तुतस्तत्प्रसक्तिरित्याह - न बन्धोऽस्तीति ॥ १४ ॥

एकं यथा स्फुरति वारि तरङ्गभङ्गैरेवं परिस्फुरति चिन्न च किञ्चिदेव ।
त्वं बन्धमोक्षकलने प्रविमुच्य दूरे स्वस्थो ब्भवाऽभवभयोऽभयसार एव
॥ १५ ॥

उक्तं द्वितीयप्रश्नोत्तरमुपसंहरति - एकमिति । यथा एकं वारि तरङ्गभेदैः
परिस्फुरति एवं चिदपि जगद्भेदैः परिस्फुरति मायामात्रत्वात्तच्च न किञ्चिदेव
अतस्त्वं बन्धमोक्षभ्रमौ दूरे प्रविमुच्य न विद्यते भवभयं यस्य तथाविधः
सन्नभयब्रह्मसार एव भवेत्यर्थः ॥ १५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
इक्ष्वाकुमनुसंवादे सप्तदशाधिकशततमः सर्गः ॥ ११७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
इक्ष्वाकुमनुसंवादो नाम सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥