११६

षोडशाधिकशततमः सर्गः ११६

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ चित्तेऽहङ्कारनामनि ।
गलिते वा गलद्रूपे लिङ्गं सत्त्वस्य किं भवेत् ॥ १ ॥

चित्तस्य गलतो नित्यं चतुर्थादिषु भूमिषु ।
गलितस्य च लक्ष्माणि वर्ण्यन्तेऽत्र पुमाश्रयात् ॥

सत्त्वस्य क्षीणवासनस्य मनसो लिङ्गं लक्षणम् ॥ १ ॥

श्रीवसिष्ठ उवाच ।

बलादपि हि सञ्जाता न लिम्पन्त्याशयं सितम् ।
लोभमोहादयो दोषाः पयांसीव सरोरुहम् ॥ २ ॥

एवं पृष्टो वसिष्ठः प्रथमं लोभमोहादिदोषक्षय एव मुख्यं
तल्लक्षणमित्याह - बलादिति । सञ्जाताः सञ्जनिताः । परीक्षाद्यर्थं परेण
बलादपि सम्पादिता इत्यर्थः । सितं शुद्धं शुभ्रं च ॥ २ ॥

मुदिताद्याः श्रियो वक्त्रं न मुञ्चन्ति कदाचन ।
गलत्यहङ्कारमये चित्ते गलति दुष्कृते ॥ ३ ॥

सदा मुखप्रसन्नतादिरपि तल्लक्षणमित्याह - मुदिताद्या इति । दुष्कृते
विषादहेतौ पापे ज्ञानाग्निना गलति सति ॥ ३ ॥

वासनाग्रन्थयश्छिन्ना इव त्रुट्यन्त्यलं शनैः ।
कोपस्तानवमायाति मोहो मान्द्यं हि गच्छति ॥ ४ ॥

उक्तं प्रपञ्चयन् लक्षणान्तराण्यप्याह - वासनेत्यादिना ॥ ४ ॥

कामः क्लमं गच्छति च लोभः क्वापि पलायते ।
नोल्लसन्तीन्द्रियाण्युच्चैः खेदः स्फुरति नोच्चकैः ॥ ५ ॥

न दुःकान्यपबृंहन्ति न वल्गन्ति सुखानि च ।
सर्वत्र समतोदेति हृदि शैत्यप्रदायिनी ॥ ६ ॥

शैत्यं तापनिवृत्तिस्तत्प्रदायिनी ॥ ६ ॥

सुखदुःखादयस्त्वेते दृश्यन्ते यदि वा मुखे ।
दृश्यन्त एव तुच्छत्वान्नानुलिम्पन्ति ते मनः ॥ ७ ॥

ननु ज्ञानिनामपि कदाचिन्मुखे सुखदुःखादिलिङ्गानि प्रसादमालिन्यादीनि
दृश्यन्ते यथा प्राक्कुम्भस्य दुर्वासःशापश्रवणे शिखिध्वजस्य यथा वा
विश्वामित्रेण हरिश्चन्द्रच्छलने पुत्रघातेन च वसिष्ठस्य । तत्कथं मुदिताद्याः
श्रियो वक्त्रं न मुञ्चन्तीति लक्षणं घटते तत्राह - सुखदुःखादय इति ।
भोजकप्रारब्धप्राबल्येन दुःखतल्लिङ्गमालिन्याभासयोः
कदाचिदुदयेऽप्युत्तरक्षणे मिथ्यात्वबुद्धिबाधितत्वान्न तयोस्तच्चित्तलेपकत्वमिति न
स्वाभाविकसुखादिप्रसादविघात इत्यर्थः ॥ ७ ॥

चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् ।
साधुर्गच्छत्युदेत्यस्य समता शीतचन्द्रिका ॥ ८ ॥

उपशान्तं च कान्तं च सेव्यमप्रतिरोधि च ।
निभृतं चोर्जितं स्वच्छं वहतीत्थं महद्वपुः ॥ ९ ॥

अप्रतिरोधि परेष्टाविघाति । निभृतं विनीतम् ॥ ९ ॥

भावाभावविरुद्धोऽपि विचित्रोऽपि महानपि ।
नानन्दाय न खेदाय सतां संसृतिविभ्रमः ॥ १० ॥

भावैर्विभवैरभावैर्दारिद्र्यैर्विरुद्धो विषमोऽपि । सतां गलिताहङ्काराणाम् ॥ १० ॥

बुद्ध्यालोकेन साध्येऽस्मिन्वस्तुन्यस्तमितापदि ।
प्रवर्तते न यो मोहात्तं धिगस्तु नराधमम् ॥ ११ ॥

इदानीमात्मलाभस्यातिसुलभतां दर्शयंस्तदर्थमप्रवृत्तान्निन्दन्नुपसंहरति

  • बुद्ध्यालोकेनेति । बुद्धिलक्षणेनालोकेन प्रकाशेन । अथवा प्रत्यक्प्रवणया
    बुद्ध्या आलोकनमालोकस्तावन्मात्रेण साध्ये लभ्ये अस्तमिता आपदो यस्मिन् लब्धे सति
    तथाविधे परमात्मवस्तुनि यो न प्रवर्तते तं धिगस्त्वित्यर्थः ॥ ११ ॥

विश्रान्तिमाप्तुमुचितां चिरमङ्ग दुःखरत्नाकरं जननसागरमुत्तितीर्षोः ।
कोऽहं कथं जगदिदं च परं च किं स्यात्किं भोगकैरिति मतिः
परमोऽभ्युपायः ॥ १२ ॥

तत्प्रवृत्तौ तर्हि कः प्रथममुपाय इति चेद्विवेकवैराग्ये एवेत्याह - विश्रान्तिमिति ।
हे अङ्ग दुःखरत्नानामाकरभूतं जननमरणोपलक्षितं
संसारसागरमुत्तितीर्षोरुत्तरितुमिच्छोः पुरुषस्य तत्पारे निरतिशयानन्दात्मनि
चिरमुचितां विश्रान्तिं प्राप्तुमहं क इदं जगच्च किं परमात्मतत्त्वं च किं
कीदृशं स्यात् भोगकैस्तुच्छैश्च किं स्यादिति निरन्तराभ्यस्ता विचारवैराग्यात्मिका
मतिरेव प्रथमोऽभिमत उपायोऽभ्युपायः । तस्मात्तमेवाश्रयेदित्यर्थः ॥ १२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
गलितचित्तलक्षणकथनं नाम षोडशाधिकशततमः सर्गः ॥ ११६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
गलितचित्तलक्षणकथनं नाम षोडशोत्तरशततमः सर्गः ॥ ११६ ॥