११५

पञ्चदशाधिकशततमः सर्गः ११५

श्रीवसिष्ठ उवाच ।

महाकर्ता महाभोक्ता महात्यागी भवानघ ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ॥ १ ॥

महाकर्त्रादिशब्दानां व्याख्याभिरिह शम्भुना ।
लक्ष्माणि जीवन्मुक्तानां वर्ण्यन्ते भृङ्गिणेऽर्थिने ॥

सर्वाः पुण्यापादिशङ्काः परित्यज्य धैर्यं निर्भयन्न् कूटस्थात्मभाव्यम् ॥ १ ॥

श्रीराम उवाच ।

किमुच्यते महाकर्ता महात्यागी किमुच्यते ।
किमुच्यते महाभोक्ता सम्यक्कथय मे प्रभो ॥ २ ॥

किंलक्षणं प्राप्तो महाकर्ता उच्यते इति त्रिष्वपि ॥ २ ॥

श्रीवसिष्ठ उवाच ।

एतद्व्रतत्रयं राम पुरा चन्द्रार्धमौलिना ।
भृङ्गीशाय तु सम्प्रोक्तं येनासौ विज्वरः स्थितः ॥ ३ ॥

अभ्यासकालमपेक्ष्य व्रतत्रयमित्युच्यते फलकाले त्वमानित्य्वादिकमिवेदं
लक्षणत्रयं सम्पद्यते । असौ भृङ्गीशः ॥ ३ ॥

सुमेरावुत्तरे शृङ्गे पूर्वं शशिकलाधरः ।
अतिष्ठदग्निसङ्काशे समग्रपरिवारवान् ॥ ४ ॥

तमपृच्छन्महातेजास्तनुविज्ञानवान्स्थितः ।
भृङ्गीशः प्रणतो राम बद्धाञ्जलिरुमापतिम् ॥ ५ ॥

तनुविज्ञानवान् मन्दात्मज्ञानः । यद्यपि गाणपत्यप्राप्तिकाल एव सार्वज्ञ्यं तेन
प्राप्तमस्ति तथाप्यात्मज्ञानस्यानितरज्ञानसाधारण्याय भोगासक्त्या
मान्द्यमारोप्योक्तिः ॥ ५ ॥

भृङ्गीश उवाच ।

भगवन्देवदेवेश सर्वज्ञ परमेश्वर ।
यदहं परिपृच्छामि कृपया तद्वदाशु मे ॥ ६ ॥

संसाररचनां नाथ तरङ्गतरलामिमाम् ।
अवलोक्य विमुह्ह्यामि तत्त्वविश्रान्तिवर्जितः ॥ ७ ॥

तरङ्गतरलां नश्वरीम् । ज्ञातेऽपि तत्त्वे भोगासक्त्या विश्रान्तिवर्जितः ॥ ७ ॥

कमन्तर्निश्चयं कान्तमुररीकृत्य सुस्थितम् ।
अस्मिञ्जगज्जीर्णगृहे तिष्ठामि विगतज्वरम् ॥ ८ ॥

कान्तं विश्रान्तिसुखरम्यम् । तिष्ठामि तिष्ठेयम् ॥ ८ ॥

ईश्वर उवाच ।

सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ।
महाभोक्ता महाकर्ता महात्यागी भवानघ ॥ ९ ॥

भृङ्गीश उवाच ।

किमुच्यते महाकर्ता महाभोक्ता किमुच्यते ।
किमुच्यते महात्यागी सम्यक्कथय मे प्रभो ॥ १० ॥

ईश्वर उवाच ।

धर्माधर्मौ महाभाग शङ्काविरहिताक्षयः ।
यः करोति यथाप्राप्तौ महाकर्ता स उच्यते ॥ ११ ॥

तत्र सर्वाः शङ्काः परित्यज्य इत्यंशं विवृणोति - धर्माधर्माविति ।
अकर्त्रभोक्त्रात्मनिश्चयात् कर्तृत्वादिशङ्काविरहिताकृतिः । हत्वापि स इमाṁल्लोकान्
इतिवज्ज्ञानप्रभावोक्तिरियं न तु यथेष्टाचरणाभ्यनुज्ञेति बोध्यम् ॥ ११ ॥

रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।
यः करोत्यनपेक्षेण महाकर्ता स उच्यते ॥ १२ ॥

रागद्वेषादिपदैस्तद्व्यञ्जकचेष्टा उच्यन्ते । फलाफले इष्टानिष्टे योऽनपेक्षेण
निष्कामेन मनसा लोकसङ्ग्रहमात्रप्रयोजनेन करोति ॥ १२ ॥

मौनवान्निरहम्भावो निर्मलो मुक्तमत्सरः ।
यः करोति गतोद्वेगं महाकर्ता स उच्यते ॥ १३ ॥

मौनं मुनिकर्म मननयोगादि । गत उद्वेगः फलासिद्ध्यन्यथात्वप्रयुक्त उद्वेगो
यस्मिन्कर्मणि ॥ १३ ॥

शुभाशुभेषु कार्येषु धर्माधर्मैः कुशङ्कया ।
मतिर्न लिप्यते यस्य महाकर्ता स उच्यते ॥ १४ ॥

दैवात्सम्पन्नेष्वश्वमेधकलञ्जभक्षणादिकार्येषु धार्मिकोऽहं पापोऽहमिति वा
कुशङ्कया कल्पितैर्धर्माधर्मैः ॥ १४ ॥

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः ।
निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते ॥ १५ ॥

उद्वेगानन्दरहितः समया स्वच्छया धिया ।
न शोचते यो नोदेति महाकर्ता स उच्यते ॥ १६ ॥

शोकनिमित्तेषु न शोचते उदयनिमित्तेषु च नोदेति ॥ १६ ॥

यथार्थकाले मतिमानसंसक्तमना मुनिः ।
कार्यानुरूपवृत्तस्थो महाकर्ता स उच्यते ॥ १७ ॥

प्रारब्धोपनीतयथोचितप्रयोजनकाले
कार्यानुरूपवृत्तस्थस्तत्प्रयोजनानुकूलचेष्टावान् ॥ १७ ॥

उदासीनः कर्तृतां च कर्माकर्माचरंश्च यः ।
समं यात्यन्तरत्यन्तं महाकर्ता स उच्यते ॥ १८ ॥

कर्माकर्म विहितनिषिद्धकर्मणी स्वयं दैवाच्चरंस्तत्कर्तृतामन्यप्रेरणेन
हेतुकर्तृतामापद्यमानश्चान्तर्मनस्यकर्त्रात्मदृढनिश्चयेनोभयत्र यः
समं भावं याति ॥ १८ ॥

स्वभावेनैव यः शान्तः समतां न जहाति वै ।
शुभाशुभं ह्याचरन्यो महाकर्ता स उच्यते ॥ १९ ॥

यो मित्रेषु शुभममित्रेष्वशुभमाचरन्नपि समतां न जहाति । हि यस्माद्धेतोर्यः
स्वभावेनैव शान्तः । न ह्यस्य चन्द्राह्लादकतासदृशः स्वभावोऽन्यथा
भवतीत्यर्थः ॥ १९ ॥

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।
सममेव मनो यस्य महाकर्ता स उच्यते ॥ २० ॥

जन्मादिषु पञ्चसु भावविकारेषु उदयो वृद्धिरस्तमयोऽपक्षयस्तत्सहितेषु शरीरेषु
निर्विकारसन्मात्रात्मदर्शनात्सममेव मनो यस्य ॥ २० ॥

न किञ्चन द्वेष्टि तथा न किञ्चिदभिकाङ्क्षति ।
भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते ॥ २१ ॥

महाभोक्तुर्लक्षणान्याह - न किञ्चिदित्यादिना । प्रकृतं प्रस्तुतं
प्रारब्धोपनीतम् ॥ २१ ॥

नादत्तेऽप्याददानश्च नाचरत्याचरन्नपि ।
भुञ्जानोऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते ॥ २२ ॥

इन्द्रियैर्विषयानाददानोऽप्यद्वयासङ्गपूर्णात्मप्रतिष्ठत्वान्नादत्ते । हस्तपादादिना
आदानगमनाद्याचरन्नपि निष्क्रियात्मबुद्ध्या नाचरति ।
एवमशनायाद्यतीतन्नित्यतृप्तात्मदर्शनान्नभुङ्क्ते ॥ २२ ॥

साक्षिवत्सकलं लोकव्यवहारमखिन्नधीः ।
पश्यत्यपगतेच्छं यो महाभोक्ता स उच्यते ॥ २३ ॥

उदासीनः साक्षाद्द्रष्टा साक्षी तद्वत् ॥ २३ ॥

सुखैर्दुःखैः क्रियायोगैर्भावाभावैर्भ्रमप्रदैः ।
यस्य नोत्क्रामति मतिर्महाभोक्ता स उच्यते ॥ २४ ॥

जयापजयादिक्रियायोगैः । भावाभावैर्लाभव्ययैः । भ्रमा विक्षेपास्तत्प्रदैः ।
नोत्क्रामति न विक्षिपति ॥ २४ ॥

जरा मरणमापच्च राज्यं दारिद्र्यमेव च ।
रम्यमित्येव यो वेत्ति महाभोक्ता स उच्यते ॥ २५ ॥

रम्यं ब्रह्मदृष्ट्या रम्यम् । यथा स्वर्णमयो व्याघ्रो रम्यस्वर्णदृष्ट्या
रम्यस्तथेति भावः ॥ २५ ॥

महान्ति सुखदुःखानि यः पयांसीव सागरः ।
समं समुपगृह्णाति महाभोक्ता स उच्यते ॥ २६ ॥

समं तुल्यवृत्त्या भोगाय समुपगृह्णाति ॥ २६ ॥

अहिंसा समता तुष्टिश्चन्द्रबिम्बादिवांशवः ।
नोप यस्माच्चोपयाता महाभोक्ता स उच्यते ॥ २७ ॥

यस्मादुपयाता नोपयाताः । चकारः प्रागुक्तगुणकदम्बसमुच्चयार्थः ॥ २७ ॥

कट्वम्ललवणं तिक्तममृष्टं मृष्टमुत्तमम् ।
अधमं योऽत्ति साम्येन महाभोक्ता स उच्यते ॥ २८ ॥

अधमं अस्वादु निकृष्टमप्यन्नम् ॥ २८ ॥

सरसं नीरसं चैव सुरतं विरतं तथा ।
यः पश्यति समं सौम्यो महाभोक्ता स उच्यते ॥ २९ ॥

विरतं रतिविघातम् ॥ २९ ॥

क्षारे खण्डप्रकारे च शुभे वाप्यशुभे तथा ।
समता सुस्थिरा यस्य महाभोक्ता स उच्यते ॥ ३० ॥

खण्डप्रकारे शर्करापरिष्कृतभक्ष्यभेदे ॥ ३० ॥

इदं भोज्यमभोज्यन्न् चेत्येवं त्यक्त्वा विकल्पितम् ।
गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते ॥ ३१ ॥

अभोज्यन्न् भोक्तुमशक्यम् अस्वादुतिक्तादि । विकल्पितं विकल्पनम् ॥ ३१ ॥

आपदं सम्पदं मोहमानन्दमपरं परम् ।
यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते ॥ ३२ ॥

अपरममृष्टं कोद्रवान्नकदाच्छादनादि । परं उत्कृष्टं
दिव्यान्नाच्छादनादि ॥ ३२ ॥

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।
धिया येनेति सन्त्यक्तं महात्यागी स उच्यते ॥ ३३ ॥

इति प्रागुक्तलक्षणया । धिया निरतिशयानन्दपूर्णाद्वयात्मधियामिथ्येति सन्त्यक्तमिति
वा ॥ ३३ ॥

सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।
धिया येन परित्यक्ता महात्यागी स उच्यते ॥ ३४ ॥

सर्वा ईहा वाङ्मनःकाय । चेष्टाः । धिया विषयबाधादेव परितस्त्यक्ताः ॥ ३४ ॥

देहस्य मनसो दुःखैरिन्द्रियाणां मनःस्थितेः ।
नूनं येनोज्झिता सत्ता महात्यागी स उच्यते ॥ ३५ ॥

देहादीनां सत्ता तत्तद्दुःखैः सह येन मिथ्यात्वबुद्ध्या उज्झिता त्यक्ता ॥ ३५ ॥

न मे देहो न जन्मापि युक्तायुक्ते न कर्मणी ।
इति निश्चयवानन्तर्महात्यागी स उच्यते ॥ ३६ ॥

युक्तायुक्ते विहितनिषिद्धे इष्टानिष्टाचरणरूपे वा ॥ ३६ ॥

येन धर्ममधर्मं च मनोमननमीहितम् ।
सर्वमन्तः परित्यक्तं महात्यागी स उच्यते ॥ ३७ ॥

धर्ममधर्मं च शारीरम् । मनोमननं मानसम् । ईहितं वागादि चेष्टितम् ॥ ३७ ॥

यावती दृश्यकलना सकलेयं विलोक्यते ।
सा येन सुष्ठु सन्त्यक्ता महात्यागी स उच्यते ॥ ३८ ॥

सुष्ठु सम्यग्दर्शनेन बाधात्सन्त्यक्ता ॥ ३८ ॥

इत्युक्तं देवदेवेन भृङ्गीशाय पुनानघ ।
एतां दृष्टिमवष्टभ्य तिष्ठ राम गतज्वरः ॥ ३९ ॥

उपसंहरति - इतीति ॥ ३९ ॥

नित्योदितं विमलरूपमनन्तमाद्यं ब्रह्मास्ति नेतरकलाकलनं हि किञ्चित् ।
इत्येव भावय निरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः ॥ ४० ॥

यया भावनया महाकर्ता च महाभोक्ता महात्यागी वाऽनायासेन भवति तां
भावनां रामायोपदिशति - न्नित्योदितमिति । हे राम त्वं
देहादिपञ्चकोशानामवस्थात्रयस्य च निरासेन निरञ्जनतामुपेतः सन् परिशिष्टं
नित्योदितं विमलात्मरूपं ब्रह्मैवास्ति किञ्चित्तदितरकल्पनाकलनं नास्तीत्येव
भावय । एवं सदा भावयंस्तद्भावाभिव्यक्त्या कलनामलेभ्यः शान्ता वृत्तयो
यस्य तथाविधः सन्निर्वाणमेहि प्राप्नुहीत्यर्थः ॥ ४० ॥

अनामयं ब्रह्म समस्तकल्प कार्यैकबीजं परमात्मरूपम् ।
बृहच्च तद्बृंहितसर्वभावं खमस्ति भातीह यदङ्ग कि।चित् ॥ ४१ ॥

हे अङ्ग इह संसारे यत्किञ्चिद्भाति तत्समस्तेषु कल्पेषु द्विपरार्धावधिकालावयवेषु
प्रसिद्धानां सर्वकार्याणामेकबीजं मूलकारणभूतमनामयं स्वयन्न्
जन्मादिविकारामयशून्यं परमात्मरूपं ब्रह्मैव । तच्च
बृहत्सर्गभेदैर्बृंहितसर्वभावविकल्पमपि खमाकाशमेवास्ति ।
सर्वविकल्पशून्यमेवेत्यर्थः ॥ ४१ ॥

अन्यत्क्वचित्किञ्चिदिदं कदाचिन्न सम्भवत्येव सदप्यसच्च ।
इत्येव साधो दृढनिश्चयोऽन्तः स्थित्वा गताशङ्कविलासमास्स्व ॥ ४२ ॥

यतः क्वचित्किञ्चिदपि सत् स्थूलमसत् सूक्ष्मं अपिशब्दात्कारणं च
सदेकरसाद्ब्रह्मणोऽन्यन्न सम्भवत्येव । सतः पृथक्त्वे असत्त्वापत्तेः अपृथक्त्वे
सदैकरस्यापत्तेः प्रकारान्तरस्य च सम्भावनायोगादिति भावः । हे साधो अतस्त्वं
सद्ब्रह्मैवाहमित्येवान्तर्दृढनिश्चयः सन् प्रथमं समाध्यभ्यासबलेन
स्थित्वा सप्तमभूमिकां क्रमेणाधिरुह्य गताशङ्कविलासं तथैवास्स्वेत्यर्थः ॥
४२ ॥

अन्तर्मुखः सन्सततं समस्तं कुर्वन्बहिष्ठं खलु कार्यजातम् ।
न खेदमायासि कदाचिदेव निराकृताहङ्कृतितामुपैषि ॥ ४३ ॥

हे साधो त्वं यदि अन्तर्मुखः सन्निराकृताहङ्कृतितामुपैषि सदा बहिष्ठं
समस्तं कार्यजातं कुर्वन्नपि कदाचिदपि खेदं नायास्येवेत्यन्वयः ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
व्रतत्रयनिरूपणं नाम पञ्चदशाधिकशततमः सर्गः ॥ ११५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
व्रतत्रयनिरूपणं नाम पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥