चतुर्दशाधिकशततमः सर्गः ११४
श्रीवसिष्ठ उवाच ।
परस्माद्ब्रह्मणः पूर्वं मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ॥ १ ॥
विविच्य सदसद्रूपे दृष्टान्तैरिह भूरिशः ।
असद्रूपनिरासेन सद्रूपे स्थैर्यमीर्यते ॥
जगतः सर्वस्य मनोविकल्पमात्रत्वादविकल्पवस्तुप्रदर्शनेन सुकरो निरास इति
व्युत्पादयितुं प्रथमं परे ब्रह्मणि मनःकल्पनामाह - परस्मादिति । पूर्वं
सर्गादिकाले प्रथमं सर्वकल्पनाभ्यः पूर्वं तच्च मनस्तत्र परे ब्रह्मणि
अपृथक्सत्तया स्थितमेव सत्कल्पनान्तरनिमित्ततया अद्ययावत्स्थितिं गतमित्यर्थः ॥ १
॥
पुष्पकोश इवामोदो महोर्मिरिव सागरे ।
रश्मिजालमिवादित्ये मनो ब्रह्मणि राघव ॥ २ ॥
अपृथक्सत्तया स्थितौ दृष्टान्तानाह - पुष्पकोशे इति ॥ २ ॥
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् ।
नान्यस्मादागतं राम जगद्रज्जुभुजङ्गवत् ॥ ३ ॥
तत्स्थमेवेत्यंशं दृष्टान्तैर्विशदीकृत्य स्थितिं गतमित्यंशं विवृणोति -
तस्येति । विस्मृत्या अप्रतिसन्धानात्मकेनाज्ञानेनैव सर्वजगत्कल्पनामूलतया
स्थितिं गतम् ॥ ३ ॥
आदित्यव्यतिरेकेण यो भावयति राघव ।
रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः ॥ ४ ॥
तथा च जगत्सन्मात्रादन्यतया भावने अन्यत् सन्मात्रतया विभावने तु सद्रूपं
ब्रह्मैवेति दृष्टान्तैरुपपादयति - आदित्येत्यादिना । इदं रश्मिजालं य
आदित्यव्यतिरेकेण भावयति तस्य ह्येतद्भास्वत आदित्यादन्यदिव स्यादित्यन्वयः ॥ ४ ॥
कनकव्यतिरेकेण केयूरं येन भावितम् ।
केयूरमेव तत्तस्य न तस्य कनकं हि तत् ॥ ५ ॥
न तस्येति । वस्त्वैक्यबुद्धेः केयूरेणैवावरोधादिति भावः ॥ ५ ॥
आदित्याव्यतिरेकेण रश्मयो येन भाविताः ।
आदित्य एव ते तस्य निर्विकल्पः स उच्यते ॥ ६ ॥
आदित्याव्यतिरेकेण निर्विकल्पो रश्मिभेदविकल्पशून्यः ॥ ६ ॥
सलिलव्यतिरेकेण तरङ्गो येन भावितः ।
तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः ॥ ७ ॥
कल्पिताकल्पितरूपाभ्यामर्थ इव कल्पनाकल्पनबुद्धिभ्यां पुरुषोऽपि सविकल्पो
निर्विकल्पश्च भवतीत्याह - सलिलेत्यादिना ॥ ७ ॥
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।
अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते ॥ ८ ॥
कनकाव्यतिरेकण केयूरं येन भाव्यते ।
कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते ॥ ९ ॥
पावकव्यतिरेकेण ज्वालली येन भाविता ।
तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति ॥ १० ॥
गलति नोद्भवति ॥ १० ॥
ज्वालाजालाभ्रलेखेव रञ्जिता सा तथा स्थितिः ।
तामेवास्थां समादत्ते तद्गतान्याकुला मतिः ॥ ११ ॥
कल्पिताकारानुविद्धा बुद्धिस्तत्रैवास्थां बद्ध्वा तन्मूलानि कल्पनान्तराणि च
करोतीत्याह - ज्वालेति । अभ्रलेखेव ज्वालाजालं ज्वालाजालाभ्रलेखा सेव रञ्जिता ।
तदाकारतापन्नेति यावत् । स्थितिर्बुद्धिवृत्तिः । तद्गतानि ज्वालाजालगतानि
चलनोर्ध्वगमनऋजिवक्रतादीनि च आदत्ते कल्पयति ॥ ११ ॥
पावकाव्यतिरेकेण ज्वालाली येन भाव्यते ।
तस्याग्निबुद्धिरेकास्ति निर्विकल्पः स उच्यते ॥ १२ ॥
यो निर्विकल्पः सुमहान्सोऽसङ्क्षीणमहामतिः ।
प्राप्तव्यं तेन सम्प्राप्तं नासौ वस्तुषु मज्जति ॥ १३ ॥
निर्विकल्पः उक्तग्राह्यग्राहकद्विविधविकल्परहितः । वस्तुषु वैकल्पिकपदार्थेषु ।
मज्जति सत्यबुद्ध्या आसज्जते ॥ १३ ॥
नानातामखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे ।
संवेद्येन विनिर्मुक्ते संवित्तत्त्वे स्थितो भव ॥ १४ ॥
दृष्टान्ते उपपादितविकल्पत्यागप्रकारं दार्ष्टान्तिके उपदिशति - नानातामिति ।
कोटरशब्द आन्तरप्रत्यग्वस्तुपरः ॥ १४ ॥
स्वयमेवात्मनैवात्मा शक्तिं सङ्कल्पनामिकाम् ।
यदा करोति स्फुरता स्पन्दशक्तिमिवानिलः ॥ १५ ॥
स्फुरता स्वप्रकाशेनात्मनैव सङ्कल्पनामिकां शक्तिं यदा करोति तदा मनो
भवतीति परेणान्वयः ॥ १५ ॥
तदा पृथगिवाभासं सङ्कल्पकलनामयम् ।
मनो भवति विश्वात्मा भावयन्स्वाकृतिं स्वयम् ॥ १६ ॥
विश्वाकारां स्वाकृतिं भावयन् विश्वात्मा समष्टिमनो भवति ॥ १६ ॥
तत्सङ्कल्पात्मकं चेतो यथेदमखिलं जगत् ।
सङ्कल्पयति सङ्कल्पैस्तथैव भवति क्षणात् ॥ १७ ॥
तद्विश्वाकारसङ्कल्पात्मकं समष्टिचेतो हिरण्यगर्भात्मकम् ॥ १७ ॥
कीटत्वमब्जजत्वं च मेरुत्वं मरुतां तथा ।
मनो जीवमहङ्कारबुद्धिचित्तादिनामकम् ॥ १८ ॥
यथा यथा भावयति तदवयुत्य प्रपञ्चयति - कीटत्वमिति ॥ १८ ॥
सङ्कल्पतो द्वितैकत्वमेत्य चेतो जगत्स्थितिम् ।
तनोति तस्यां तदनु नानातां गच्छति स्वयम् ॥ १९ ॥
सङ्कल्पमयमेवेदं जगदाभोगि दृश्यते ।
न सत्यं न च मिथ्यैव स्वप्नजालमिवोत्थितम् ॥ २० ॥
मिथ्याशब्दोऽलीकपरः । स्वप्नजालमिवानिर्वचनीयमित्यर्थः ॥ २० ॥
जन्तोर्यथा मनोराज्यं विविधारम्भभासुरम् ।
ब्राह्मं तथेदं विततं मनोराज्यन्न् विराजते ॥ २१ ॥
ब्रह्मणो हिरण्यगर्भस्येदं ब्राह्मम् ॥ २१ ॥
यथाभूतार्थभावित्वात्तदेतत्प्रविलीयते ।
परमार्थेन दृष्टं चेत्तदिदं नैव किञ्चन ॥ २२ ॥
मिथ्यात्वादेव तत्त्वज्ञानेन यथास्थितब्रह्मात्मनैव भावित्वान्मायिकरूपेण
प्रविलीयत इत्याह - यथाभूतेति । तथा च श्रुतिः मनसैवेदमाप्तव्यं नेह
नानास्ति किञ्चन इति ॥ २२ ॥
दृश्यं त्वपरमार्थेन प्रयाति शतशाखताम् ।
जलमूर्तितरङ्गादिकलनार्हं परिस्फुरन् ॥ २३ ॥
तत्त्वदर्शनाभावे तर्हि किं भवति तदाह - दृश्यमिति । तदा
अज्ञातपरमार्थबलेनैव शतशाखतां प्रयाति । यथा अम्बुधिर्जलमेव सन्
ऊर्मितरङ्गादिकलनार्हं रूपं परिगृह्य स्फुरन् अम्बुधिवपुर्धत्ते तथा
कर्मसहस्राणि कुर्वन् जनोऽपि अणुचितश्चिदाभासयुक्तस्य मनसः स्पन्दनादृते
कूटस्थचितोऽपूर्व किन्दिचपि विकारादि न कुरुते । अतस्त्वमपि किञ्चित्तुच्छतरं भेदं
त्यजन् सन् गमनादिसर्वव्यवहारं कुर्वन्नप्यपूर्वमभिनवं जगद्रूपं
किञ्चिद्द्वैतरूपं सत्यं न विद्यते किन्तु पूर्वसिद्धं ब्रह्मैव परमार्थसत्यं
विद्यत इति भावयेति चतुर्थार्धपर्यन्तमन्वयः ॥ २३ ॥
यथाम्बुधिर्वपुर्धत्ते स्वभावेन तथा चितः ।
कुर्वन्कर्मसहस्राणि ह्यणुचित्स्पन्दनादृते ॥ २४ ॥
नापूर्वं कुरुते किञ्चित्किञ्चिद्भेदमतस्त्यजन् ।
गच्छन्शृण्वन्स्पृशन्जिघ्रन्वदन्व्यवहरन्स्वपन् ॥ २५ ॥
नापूर्वं विद्यते किञ्चित्सत्यमित्येव भावयन् ।
यद्यत्करोषि तद्विद्धि चिन्मात्रममलं ततम् ॥ २६ ॥
ब्रह्म प्रबृंहिताकारं तस्मादन्यन्न विद्यते ।
पदार्थजाते सर्वस्मिन्संवित्सारमये स्थिते ॥ २७ ॥
प्रबृंहिताकारं विवर्तविजृम्भिताकारं तद्बाधविजृम्भिताकारं वा । ब्रह्म
स्वभावमुक्तं प्रतीचि पर्यवसाययति - पदार्थेत्यादिना ॥ २७ ॥
संविदेवेदमखिलं जगन्नान्यास्ति कल्पना ।
संवित्स्फुरणमात्रेऽस्मिञ्जगज्जालकनामनि ॥ २८ ॥
इदमन्यदिदं चान्यदिति मिथ्याग्रहः कुतः ।
सम्भवादखिलाकारेष्वेकस्या एव संविदः ।
संवेद्यमपि नास्त्येव बन्धमोक्षावतः कथम् ॥ २९ ॥
संवेद्य अपिशब्दात्तन्निदानमपि ॥ २९ ॥
मोक्षोऽयमेष खलु बन्ध इति प्रसह्य चिन्तां निरस्य सकलां विफलाभिमानाम् ।
मौनी वशी विगतमानमदो महात्मा कुर्वन्स्वकार्यमनहङ्कृतिरेव तिष्ठ ॥
३० ॥
हे राम अयं मोक्ष एष बन्ध इत्यादिकां विफलाभिमानां सकलां चिन्तां प्रसह्य
सर्वयत्नेन निरस्य वागादिसर्वेन्द्रियजयान्मौनी वशी विगतमानमदश्च सन् स्वोचितं
राज्यादिकार्यं कुर्वन्ननहङ्कृतिर्महात्मैव भूत्वा तिष्ठेत्यर्थः ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
परमार्थोपदेशो नाम चतुर्दशाधिकशततमः सर्गः ॥ ११४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमार्थोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥