त्रयोदशोत्तरशततमः सर्गः ११३
श्रीराम उवाच ।
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो ।
कथितोऽयं त्वया व्योमरक्षणं च किमुच्यते ॥ १ ॥
मिथ्यापुरुषशब्दादेरर्थोऽत्र स्फुटमीर्यते ।
यथैवाख्यायिकायाश्च तात्पर्यं साम्यवर्णनात् ॥
उत्तानार्थस्योन्मत्तचेष्टाप्रायस्य प्रेक्षावत्स्वसम्भवं मन्यमानो
मिथ्यापुरुषाख्यायिकाया अन्यापदेशवाक्यवदन्यार्थे तात्पर्यमिति निश्चित्य रामस्तं
पृच्छति - मिथ्येति । मिथ्यानरप्रसङ्गेन त्वया यो मायापुरुषः कथितः अयं
किमभिप्रेत्य तत्कृतं व्योमरक्षणं च किमभिप्रेत्योच्यत इत्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
शृणु राम यथाभूतमेतत्प्रकटयामि ते ।
मिथ्यापुरुषवृत्तान्तकथा या कथिताधुना ॥ २ ॥
यथाभूतं यथास्थितम् ॥ २ ॥
मायायन्त्रमयः प्रोक्तो यः पुमान्रघुनन्दन ।
एनं त्वं तमहङ्कारं विद्धि शून्याम्बरोत्थितम् ॥ ३ ॥
शून्याम्बरं मायाकाशस्तदुत्थितम् ॥ ३ ॥
यस्मिन्नाकाशकोशेऽस्मिन्साधो जगदिदं स्थितम् ।
तदनन्तमसच्छून्यं सर्गादौ भवति स्वयम् ॥ ४ ॥
सर्गादौ सृष्टेः प्राक् ॥ ४ ॥
अन्तःस्थितसुदुर्लक्ष्यब्रह्म व्योम्नोऽथ शब्दवत् ।
तस्मादुदेत्यहङ्कारः पूर्वं स्पन्द इवानिलात् ॥ ५ ॥
किं निरधिष्ठानान्मायाकाशादुत्थितं तत्र स्थितं च नेत्याह - अन्तरिति । न
तन्निरधिष्ठानं किं त्वन्तरधिष्ठानतया स्थितं सुदुर्लक्ष्यं ब्रह्म यस्य
तथाविधम् । नन्वतीन्द्रियात्कथमहङ्कारादि जगदुत्थितं तत्र दृष्टान्तमाह -
व्योम्नः शब्दवदिति । अहङ्कारो लिङ्गात्मा स च मायात्मैवेत्यभिप्रेत्य तत्र
दृष्टान्तान्तरमाह - स्पन्द इवेति ॥ ५ ॥
वृद्धिं यातः स गगने कल्पयत्यात्मतां गतः ।
अनात्मात्माभिधानेन तेनासौ यतते ततः ॥ ६ ॥
अनात्मैव भ्रान्त्या आत्मतां गतः सन् स्वकारणे गगने वृद्धिं यातः
कल्पनासहस्रैरिदं मे इष्टमिदमनिष्टमित्यादि कल्पयति । तेन
कल्पितेनैवाहमित्यात्माभिधानेन असौ इष्टानिष्टप्राप्तिपरिहाराय यतते ॥ ६ ॥
अनात्मात्मैकरक्षार्थं देहान्नानाविधानसौ ।
भूयोभूयो विनाशेऽपि सृजत्याकुलतां गतः ॥ ७ ॥
तस्यानात्मभूतस्यात्मनो रक्षार्थं प्रवृत्तः पूर्वपूर्वदेहनाशे उत्तरोत्तरं
नानाविधान्देहान्कामकर्मवासनानुसारेण सृजति ॥ ७ ॥
स एव मायापुरुषो मिथ्यापुरुष एव सः ।
असदेवोदितो व्यर्थोऽप्यहङ्कारो हि मायया ॥ ८ ॥
सः अहङ्कार एव ॥ ८ ॥
कूपकुण्डचतुःशालकुम्भादीन्देहकानसौ ।
कृत्वा रक्षित आत्मेति याति तद्व्योम्नि भावनम् ॥ ९ ॥
कूपकुम्भादिशब्दैरप्युच्चावचदेहा एव लक्षणयोक्ता इत्याह - कूपेति । तद्व्योनि
तदवच्छिन्ने मायामयात्मनि आत्मभावनां याति ॥ ९ ॥
अहङ्कारस्य तस्यास्य नामानीमानि राघव ।
शृणु यैर्जगदाकारविभ्रमैर्मोहयत्यसौ ॥ १० ॥
क्रियोपाधिभेदनिमित्तयौगिकनामानि । यैर्यैः
क्रियोपाधिभिर्जगदाकारविभ्रमैरयमहङ्कार आत्मानं मोहयतीत्यर्थः ॥ १० ॥
जीवो बुद्धिर्मनश्चित्तं माया प्रकृतिरित्यपि ।
सङ्कल्पः कलना कालः कला चेत्यपि विश्रुतैः ॥ ११ ॥
प्राणधारणाज्जीवो
बाह्यार्थाध्यवसायाद्बुद्धिस्तन्मननान्मनस्तच्चिन्तनाच्चित्तमसत्कल्पनान्माया
परिणामिस्वभावत्वात्प्रकृतिः सङ्कल्पनात् सङ्कल्पः सङ्कल्पितार्थस्याकलनात्कलना
तस्य विपरिणामादिनिमित्तत्वात्कालस्तत्रैकदेशभेदकल्पनात्कला चेत्यपि विश्रुतैः
प्रसिद्धैः ॥ ११ ॥
एवमाद्यैस्तथान्यैश्च नामभिर्बहुतां गतैः ।
सहस्ररूपोऽहङ्कारः कल्पितार्थैर्विजृम्भते ॥ १२ ॥
आदिपदादुत्पत्तिप्रकरणोक्तमनोनामानि सर्वाण्यपि गृह्यन्ते । अन्यैः कामः सङ्कल्पो
विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीः
इत्यादिश्रुतिस्मृत्यादिप्रसिद्धवृत्तिभेदनामभिश्च वृत्तिबाहुल्येन बहुतां गतैः
॥ १२ ॥
भूताकाशे तते शून्ये जगन्निर्भित्ति निश्चितम् ।
सुखदुःखान्यनुभवन्मिथ्यैव पुरुषः स्थितः ॥ १३ ॥
तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तदिति यदुक्तं तदनुभवमारोपयति -
भूतेति । पूर्णे ब्रह्मणि स्वेन प्रथमं शून्यरूपे भूताकाशे तते विस्तृते सति तत्र
वाय्वादिकल्पनाक्रमेण कल्पितं जगद्गन्धर्वनगरमिव
निर्भित्तिकुड्याद्यावरणशून्यमेव युक्त्या विमर्शे निश्चितम् । न ह्यच्छिद्रे ब्रह्मणि
च्छिद्र आकाशः प्रथममुपपद्यते । स च शून्यात्मा अतिविस्तृतोऽचलश्चलनात्मा
वायुः कथं सम्पद्यते । स च वायुर्नीरूपोऽनुष्णस्तद्विरुद्धस्वभावं तेजः कथं
सम्पद्यते । तच्चोष्णं दाहस्वभावं कथं तद्विरुद्धशैत्याप्यायनस्वभावं
वारि सम्पद्यते । तच्च द्रवशोषाकाठिन्यस्वभावं कथं तद्विरुद्धस्वभावं
पृथिवीभावमापद्यते । अतो निर्भित्त्येव जगदिति निश्चितम् । तत्र च स पुरुषो मिथ्यैव
सुखदुःखान्यनुभवन् स्थित इत्यर्थः ॥ १३ ॥
यथैव मिथ्यापुरुषो रक्षन्व्योमात्मशङ्कया ।
घटाकाशादिषु क्लिष्ट एवं मा क्लेशवान्भव ॥ १४ ॥
न च पश्यति दुर्मतिरिति वर्णिताज्ञमिथ्यापुरुषो यथा मिथ्याक्लेशमनुभूय
स्थितस्तथा त्वं माभूरित्याह - यथैवेति ॥ १४ ॥
आकाशादपि विस्तीर्णः शुद्धः सूक्ष्मः शिवः शुभः ।
य आत्मा स कथं केन गृह्यते रक्ष्यतेऽथवा ॥ १५ ॥
हृदयाकाशमात्रस्य शरीरक्षयसङ्क्षये ।
व्यर्थं भूतानि शोचन्ति नष्ट आत्मेति शङ्कया ॥ १६ ॥
शरीरलक्षणस्य क्षयस्यनिवासस्य सङ्क्षये ॥ १६ ॥
घटादिषु प्रणष्टेषु यथाकाशाद्यखण्डितम् ।
तथा देहेषु नष्टेषु देही नित्यमलेपकः ॥ १७ ॥
शुद्धश्चिन्मात्र आत्मायमाकाशादप्यणोरणुः ।
स्वानुभूत्यंशमात्रं हि खवद्राम न नश्यति ॥ १८ ॥
स्वानुभूत्यंशः अहङ्कारनिष्कृष्टस्वप्रकाशचित् तावन्मात्रं हि ॥ १८ ॥
न जायते न म्रियते क्वचित्किञ्चित्कदाचन ।
जगद्विवर्तरूपेण केवलं ब्रह्म जृम्भते ॥ १९ ॥
सत्यमेकं पदं शान्तमादिमध्यान्तवर्जितम् ।
भावाभावविनिर्मुक्तमिति मत्वा सुखी भव ॥ २० ॥
सर्वापदां निलयमध्रुवमस्वतन्त्रमासन्नपातमविवेकमनार्यमज्ञम् ।
बोधादहङ्कृतिपदं सकलं विमुच्य शेषे सुबद्धपदमुत्तमतां प्रयासि ॥
२१ ॥
वर्णितमिथ्यापुरुषरूपमहङ्कारं त्याजयन् परिशिष्टचिन्मात्रे
स्थैर्योपदेशेनोपसंहरति - सर्वापदामिति । अस्वातन्त्र्यापादकत्वादस्वतन्त्रम् ।
आसन्नो नरकादिपातो यस्मात्तथाविधं सर्वविवेकविरोधि । अनार्यं
निन्द्यमहङ्कृतिपदम् । सकलमभिमन्तव्यदेहेन्द्रियविषयलक्षणकलासहितं
बोधान्मूलोच्छेदेन विमुच्य शेषे निष्कृष्टचिन्मात्रे सुबद्धपदं दृढं
स्थितश्चेत् सर्वोत्तमतां प्रयासीत्यर्थः ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू०
मिथ्यापुरुषोपाख्यानं नाम त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मिथ्यापुरुषोपाख्यानं नाम त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥