द्वादशाधिकशततमः सर्गः ११२
श्रीवसिष्ठ उवाच ।
इति प्राप्य परं योगमुपदेशमनुत्तमम् ।
जीवन्मुक्तो बभूवासौ ततो देवगुरोः सुतः ॥ १ ॥
कचाख्यानप्रबुद्धस्य रामस्य प्रश्नतोऽत्र हि ।
मिथ्यापुरुषकाख्यानं खरक्षणमुदीर्यते ॥
युज्यते अखण्डैक्येनावधार्यते प्रत्यगात्मा परमात्मना येन स योगस्तं
तथाविधमुपदेशम् ॥ १ ॥
निर्ममो निरहङ्कारश्छिन्नग्रन्थिः प्रशान्तधीः ।
कचो यथा स्थितो राम तथा तिष्ठाविकारवान् ॥ २ ॥
तथा त्वमपि तिष्ठ ॥ २ ॥
अहङ्कारमसद्विद्धि मैनमाश्रय मा त्यज ।
असतः शशशृङ्गस्य किल त्यागग्रहौ कुतः ॥ ३ ॥
मैनमिति । मिथ्यात्वबुद्ध्या उपेक्षणमेव तत्त्यागो न स्वत्वनिवर्तकयत्नसापेक्ष इति
भावः ॥ ३ ॥
असम्भवत्यहङ्कारे क्व ते मरणजन्मनी ।
नभःक्षेत्रे तथा व्युप्तं केन सङ्गृह्यते फलम् ॥ ४ ॥
यत्नेन तदनिवारणे कथं मरणजन्मभयनिर्मोक्षस्तत्राह - असम्भवतीति ।
शत्रन्तेन नञ्समासे सप्तमी । ननु कामकर्मवासनारूपबीजबलान्मरणजन्मनी कुतो
न स्यातां तत्राह - नभ इति । अहङ्कारक्षेत्रे सत्येव तानि बीजानि प्ररोहन्ति न तु
तद्बाधे सतीति भावः ॥ ४ ॥
निरंशं शान्तसङ्कल्पं सर्वभावात्मकं ततम् ।
परमादप्यणोः सूक्ष्मं चिन्मात्रं त्वमनोमयम् ॥ ५ ॥
अहङ्कारे बाधितेऽवशिष्टः कीदृशोऽहं तत्राह - निरंशमिति ॥ ५ ॥
यथाम्भसस्तरङ्गादि यथा हेम्नोऽङ्गदादि च ।
तदेवातदिवाभासं तथाहम्भावभावितः ॥ ६ ॥
ईदृशोऽहं कथमहम्भावभावितोऽभूवं तत्राह - यथेति । तथा
अहम्भावभावितोऽप्यन्य इवाभात इत्यर्थः ॥ ६ ॥
अबोधेन जगत्सर्वं मायामयमिव स्थितम् ।
बोधेन सकलं ब्रह्मरूपं सम्पद्यतेऽनघ ॥ ७ ॥
तत्र को हेतुस्तमाह - अबोधेनेति । तन्निरासेऽपि हेतुमाह - बोधेनेति ॥ ७ ॥
द्वित्वैकत्वमती त्यक्त्वा शेषस्थः सुखितो भव ।
मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा ॥ ८ ॥
द्वित्वमतिः कार्यदर्शनम् । एकत्वमतिः कारणदर्शनम् । ते द्वे त्यक्त्वा
उभयानुस्यूतसन्मात्रं परिशेष्य तत्प्रतिष्ठितः सुखितो भवेत्यर्थः । अतद्दर्शने तु
वक्ष्यमाणपुरुषस्येव दुःखप्राप्तिस्तव दुर्वारेत्याह - मेति ॥ ८ ॥
मायेयमतिदुष्पारा सांसारी गाढतां गता ।
शरदा मिहिकेवाशु बोधेनायाति तानवम् ॥ ९ ॥
तानवमपक्षयम् ॥ ९ ॥
श्रीराम उवाच ।
परमामागतोऽस्म्यन्तस्तृप्तिं ज्ञानामृतेन ते ।
अवग्रहभयाक्रान्तः स्वसारेणेव चातकः ॥ १० ॥
अवग्रहो वर्षप्रतिबन्धस्तद्भयेनाक्रान्तश्चातको दैवादागतवृष्ट्यासारेणेव ॥ १०
॥
अमृतेनेव सिक्तोऽहमन्तर्गच्छामि शीतताम् ।
उपर्यपि समस्तानां तिष्ठाम्यतुलसम्पदाम् ॥ ११ ॥
अपीति पूर्ववाक्यार्थसमुच्चये । हैरण्यगर्भसम्पदन्तानामतुलसम्पदामुपरि
निरतिशयानन्दलक्षणे तिष्ठामि ॥ ११ ॥
न तृप्तिमनुगच्छाअमि वचांसि वदतस्तव ।
ऐन्दवीनां मरीचीनां चकोरस्तृषितो यथा ॥ १२ ॥
तव उक्तीनामास्वादनेनेति शेषः ॥ १२ ॥
तृप्तोऽपि भूयः पृच्छामि त्वां प्रश्नमिममीश्वर ।
को नाम तृप्तोऽप्यग्रस्तं न पिबत्यमृतासवम् ॥ १३ ॥
ज्ञातव्यतत्त्वस्य सम्यगनुभवात्तृप्तोऽपि । अमृतरूपमासवं पेयम् ॥ १३ ॥
किमुच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् ।
वस्त्ववस्तु कृतं जगद्वस्तुजातं वदाशु मे ॥ १४ ॥
एवं प्रशंसयोन्मुखीकृतं गुरुं प्रति मा दुःखितो भव व्यर्थं त्वं
मिथ्यापुरुषो यथेति प्राक्सूचितं मिथ्यापुरुषाख्यानं कौतुकाद्रामः पृच्छति ##-
कृतं तं वदेत्यर्थः ॥ १४ ॥
श्रीवसिष्ठ उवाच ।
मिथ्यापुरुषबोधाय शृणु राघव शोभनाम् ।
इमामाख्यायिकां हासजननीं मदुदीरिताम् ॥ १५ ॥
तत्त्वदृशां हासजननीम् ॥ १५ ॥
अस्ति कश्चिन्महाबाहो मायायन्त्रमयः पुमान् ।
बालपेलवधीमूढो गूढो मौर्ख्येण केवलम् ॥ १६ ॥
बाल इव पेलवया धिया मूढो विक्षिप्तः । मौर्ख्येणाज्ञानेन च गूढः संवृतः
॥ १६ ॥
स एकान्ते क्वचिज्जातः शून्ये तत्रैव तिष्ठति ।
केशोण्ड्रकमिव व्योम्नि मृगतृष्णेव वा मरौ ॥ १७ ॥
एकान्ते जनदृष्ट्यगोचरे स्थाने तस्य स्वरूपेणापि मिथ्यात्वमाह -
केशोण्ड्रकमिवेति ॥ १७ ॥
तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तत् ।
यच्चान्यत्तत्तदाभासं न च पश्यति दुर्मतिः ॥ १८ ॥
तत्र तदाश्रयस्थाने तस्मान्मिथ्यापुरुषादन्यत्किमपि नास्ति । यत्किञ्चिदस्तीति प्रतीयते
तत्स एव न तद्व्यतिरिक्तम् । यच्चान्यत्सपश्यति तत्तस्यैव भ्रान्त्याभासमिति स
एवेत्युक्तिरित्यर्थः । अहमेवेदमदृश्यं सर्वमिति स न पश्यति । यतो दुर्मतिरित्यर्थः
॥ १८ ॥
सङ्कल्पस्तस्य सञ्जातस्तत्र वृद्धिमुपेयुषः ।
खस्याहं खमहं खं मे खं रक्षामीति निश्चलः ॥ १९ ॥
खस्याहमुपजीवकः । खं मे उपजीव्यम् । अतः खमेवाहं ईदृशं च
खमावृत्य रक्षामि ॥ १९ ॥
खं स्थापयित्वा रक्षामि वस्त्विष्टं स्वयमादरात् ।
इति सञ्चिन्तयन्व्योमरक्षार्थं सोऽकरोद्गृहम् ॥ २० ॥
स्वस्य इष्टं वस्तु खं तत्स्वयन्न् कस्मिंश्चिदुपाधौ स्थापयित्वा
स्वयमादराद्रक्षामि ॥ २० ॥
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्यसौ ।
गृहाकाशेन सन्तुष्टस्ततः स रघुनन्दन ॥ २१ ॥
तस्य गृहस्य कोशे अन्तर्भागे । आस्थां मदीयमिदमेतावत् खमित्यभिमानम् ।
सन्तुष्टः अभूदिति शेषः ॥ २१ ॥
अथ कालेन तत्तस्य गृहं नाशमुपाययौ ।
ऋत्वन्तरेणाब्द इव वातेनेव तरङ्गकः ॥ २२ ॥
ऋत्वन्तरेण शरदा ॥ २२ ॥
हा गृहाकाश नष्टं त्वं हा क्व यातमसि क्षणात् ।
हा हा भग्नमसि स्वच्छमित्येवैतच्छुशोच सः ॥ २३ ॥
एतत् आकाशम् ॥ २३ ॥
इति शोकशतं कृत्वा पुनस्तत्रैव दुर्मतिः ।
कूपं चक्रे खरक्षार्थं कूपाकाशपरोऽभवत् ॥ २४ ॥
कूपाकाशे परो ममतया आसक्तः ॥ २४ ॥
ततो नाशं स कालेन नीतः कूपोऽपि तस्य वै ।
कूपाकाशे गते शोकनिमग्नोऽसौ ततोऽभवत् ॥ २५ ॥
नाशं पांसुमृत्तिकादिपूरणेन तिरोभावम् ॥ २५ ॥
कूपाकाशप्रलापान्ते कुम्भं शीघ्रमथाकरोत् ।
कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिमाययौ ॥ २६ ॥
निर्वृतिं तदभिमानसुखम् ॥ २६ ॥
कुम्भोऽपि तस्य कालेन नाशं नीतो रघूद्वह ।
यामेव दिशमादत्ते दुर्भगः सा हि नश्यति ॥ २७ ॥
यामेवेति सामान्योक्त्या तदुपपत्तिः ॥ २७ ॥
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः ।
कुण्डं तथैव तेनासौ कुण्डाकाशपरोऽभवत् ॥ २८ ॥
कुण्डमप्यस्य कालेन केनचिन्नाशमाययौ ।
तेजसेव तमस्तेन कुण्डाकाशं शुशोच सः ॥ २९ ॥
केनचिद्वनगजमहिषास्कन्दनादिनिमित्तेन ॥ २९ ॥
कुण्डाकाशस्य शोकान्ते खरक्षार्थं चकार सः ।
चतुःशालं महाशालं तदाकाशमयोऽभवत् ॥ ३० ॥
चतुःशालं चतुर्दिक्षु शाला यस्य तथाविधम् । मध्ये महाशालं सभाकारं
गृहम् । तदाकाशासक्त्या तदाकाशमयः । स्त्रीमयो जाल्म इतिवत् ॥ ३० ॥
तदप्यस्य जहाराशु कालः कवलितप्रजः ।
जीर्णपर्णं यथा वातस्ततः शोकपरोऽभवत् ॥ ३१ ॥
स चतुःशालशोकान्ते खरक्षार्थं चकार ह ।
कुसूलमम्बुदाकारं तदाकाशपरः स्थितः ॥ ३२ ॥
कुसूलं धान्यावपनम् ॥ ३२ ॥
तदप्यस्य जहाराशु कालो वात इवाम्बुदम् ।
कुसूलनाशशोकेन तेनासौ पर्यतप्यत ॥ ३३ ॥
एवं गृहचतुःशालकुम्भकुण्डसुकूलकैः ।
तस्यापर्यवसानात्मा कालोऽयमतिवर्तते ॥ ३४ ॥
तस्य मिथ्यापुरुषस्य ॥ ३४ ॥
एवं स्थितः स विवशो गगनं गुहायान्न् गृह्णान्गृहेण गहनेन
किलात्मबुद्ध्या ।
दुःखान्तराद्घनतराद्घनदुःखजातमायाति याति च गतागतिसङ्गमूढः ॥
३५ ॥
उपसंहरति - एवमिति । हे राम स मिथ्यापुरुष एवंरीत्या गृहेण गहनेन
दुष्प्रवेशेन कूपकुम्भाद्युपाधिना च गगनं गुहायां तत्तद्गर्भे गृह्णन्
स्थितस्तद्गतागतिसङ्गमूढस्तत्तदभिमानात्तत्तन्निर्माणरक्षणविनाशेषु
घनतराद्दुःखान्तरादपि घनं दुःखजातमायाति ततो याति निर्गच्छति चेत्यर्थः ॥
३५ ॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० निर्वाणप्रकरणे पू० चू०
मिथ्यापुरुषोपाख्याने आकाशरक्षणं नाम द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
आकाशरक्षणं नाम द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥