एकादशाधिकशततमः सर्गः १११
श्रीवसिष्ठ उवाच ।
एतत्ते सर्वमाख्यातं शिखिध्वजकथानकम् ।
अनेन गच्छन्मार्गेण न कदाचन खिद्यसे ॥ १ ॥
राज्ञ्या राजेव पित्रात्र सर्वस्वं त्याजितः कचः ।
अन्तेऽहङ्कारसन्त्यागात्पूर्णोऽभूदिति वर्ण्यते ॥
अनेन मार्गेण गच्छन्न खिद्यसे निवृत्तसर्वखेदो भविष्यसि ॥ १ ॥
एतां दृष्टिमवष्टभ्य रागद्वेषविनाशिनीम् ।
नित्यं नीरागया बुद्ध्या तिष्ठावष्टब्धतत्पदः ॥ २ ॥
बुद्ध्या अवष्टब्धं परमार्थतया दृष्टमवलम्बितं तत्पूर्णानन्दपदं येन ।
भोगमोक्षमयस्तत्प्रचुरः ॥ २ ॥
यथा शिखिध्वजो राज्यं कृतवानेवमीदृशम् ।
राम व्यवहरन्राज्ये भोगमोक्षमयो भव ॥ ३ ॥
शिखिध्वजक्रमेणैव यथा बोधमवाप्तवान् ।
कचो बृहस्पतेः पुत्रस्तथा बुध्यस्व राघव ॥ ४ ॥
शिखिध्वजस्य प्रसिद्धेन सर्वत्यागक्रमेणैव कचोऽपि यथा बोधमवाप्तवांस्तथा
त्वमपि बुध्यस्व ॥ ४ ॥
श्रीराम उवाच ।
बृहस्पतेर्भगवतः पुत्रोऽसौ भगवान्कचः ।
यथा प्रबुद्धो भगवन्समासेन तथा वद ॥ ५ ॥
समासेन साकल्येन ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
शृणु राजन्कथां श्रीमाञ्छिखिध्वजवदेव सः ।
प्रबोधं परमं यातो देवदेशिकजः कचः ॥ ६ ॥
बालभावात्समुत्तीर्णः संसारोत्तरणोन्मुखः ।
कचः पदपदार्थज्ञो बृहस्पतिमभाषत ॥ ७ ॥
बालभावात्समुत्तीर्णो निर्गतः । यौवनं प्राप्तमात्र इति यावत् । पदपदार्थज्ञः
सर्वविद्यास्थानेषु निष्णातस्तत्त्वमसिवाक्यगोचरपदपदार्थज्ञश्च ॥ ७ ॥
कच उवाच ।
भगवन्सर्वधर्मज्ञ कथं संसृतिपञ्जरात् ।
अस्मान्निर्गम्यते ब्रूहि जन्तुना जीवतन्तुना ॥ ८ ॥
जीव एव तन्तुरिव स्वबन्धसहस्रकरो यस्य तथाविधेन जन्तुना मादृशेन ॥ ८ ॥
बृहस्पतिरुवाच ।
अनर्थमकरागारादस्मात्संसारसागरात् ।
उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ॥ ९ ॥
उड्डीयते शीघ्रं निर्गम्यत इति यावत् । अतिवैराग्यदार्ढ्यात्त्यक्तविषये
पश्चात्तापोद्वेगरहितं यथा स्यात्तथा कृतेन सर्वत्यागेन ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
इत्याकर्ण्य कचो वाक्यं पितुः परमपावनम् ।
सर्वमेव परित्यज्य जगामैकान्तकाननम् ॥ १० ॥
बृहस्पतेस्तद्गमनं नोद्वेगाय बभूव ह ।
संयोगे च वियोगे च महान्तो हि महाशयाः ॥ ११ ॥
महाशयाः मेरुवत्स्थिराशयाः ॥ ११ ॥
अथ वर्षेषु जातेषु त्रिषु पञ्चसु सोऽनघ ।
पुनः प्राप महारण्ये कस्मिंश्चित्पितरं कचः ॥ १२ ॥
त्रिषु पञ्चसु च वर्षेषु । अष्टस्वित्यर्थः । तच्चित्तपरिपाकतारतम्यं विज्ञाय शेषं
त्याजयितुमागतं पितरं प्रापेत्यर्थः ॥ १२ ॥
परिपूज्याभिवाद्यैनं समालिङ्गितपुत्रकम् ।
अपृच्छद्वाक्पतिं भूयः स कचः कान्तया गिरा ॥ १३ ॥
कच उवाच ।
अद्येदमष्टमं वर्षं सर्वत्यागः कृतो मया ।
तथापि तात विश्रान्तिं नाधिगच्छाम्यनिन्दिताम् ॥ १४ ॥
श्रीवसिष्ठ उवाच ।
एवमार्तवचस्तस्मिन्कचे वदति कानने ।
सर्वमेव त्यजेत्युक्त्वा वाक्पतिर्दिवमुद्ययौ ॥ १५ ॥
दिवमाकाशम् ॥ १५ ॥
गते तस्मिन्कचो देहाद्वल्कलाद्यप्यथात्यजत् ।
गतेन्द्वभ्रार्कतारेण शरद्व्योम्ना समोऽभवत् ॥ १६ ॥
गतेन्द्विति । सन्निहितसूर्योदयकालिकशरद्व्योम्नेति यावत् ॥ १६ ॥
पुनर्वर्षत्रयेणैव कस्मिंश्चित्काननान्तरे ।
तत्याजाम्बुदवर्षादि शरदीव नभस्तलम् ॥ १७ ॥
पुनरित्याद्यर्धमुत्तरश्लोके दूयमानमना इत्यतः प्राग्योज्यम् । कथं च
शरद्व्योम्ना समोऽभवत्तत्राह - तत्याजेति । क्वचिद्गिरिगुहाश्रयेणाम्बुदवर्षादि
तत्याज परिजहार ॥ १७ ॥
उपासैको दिगन्तेषु शान्तशून्यवपुः श्वसन् ।
दूयमानमनाः प्राप तमेव पितरं गुरुम् ॥ १८ ॥
शरदादौ तु क्वचिद्दिगन्तेषूवास । एवं दूयमानमना एष पुनर्वर्षत्रयेण
कस्मिंश्चित्काननान्तरे तमेव पितरं गुरुमागतं प्राप ॥ १८ ॥
कृतपूजाक्रमो भक्त्या समालिङ्गितपुत्रकम् ।
अपृच्छत्स कचो भूयः खेदगद्गदया गिरा ॥ १९ ॥
कच उवाच ।
तात सर्वं परित्यक्तं कन्थां वेणुलताद्यपि ।
तथापि नास्ति विश्रान्तिः स्वपदे किं करोम्यहम् ॥ २० ॥
वेणुलता दण्डः । आदिपदात्कमण्डलुबृस्यजिनाद्यपि ॥ २० ॥
बृहस्पतिरुवाच ।
चित्तं सर्वमिति प्राहुस्तत्त्यक्त्वा पुत्र राजसे ।
चित्तत्यागं विदुः सर्वत्यागं सर्वविदो जनाः ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा वाक्पतिः पुत्रं पुप्लुवे तरसा नभः ।
अन्वियेष कचश्चित्तं परित्यक्तुमखिन्नधीः ॥ २२ ॥
अन्वियेष अन्विष्टवान् ॥ २२ ॥
चिन्तयन्नप्यसौ चित्तं न यदा वेद कानने ।
तदा सञ्चिन्तयामास धियैव पितरं ययौ ॥ २३ ॥
यदा न वेद न दृष्टवान् । चित्तस्य स्वान्वेषणविशरारुतायाः प्राक् चित्ताख्याने
प्रपञ्चनादिति भावः । पितरं धिया ययौ । चिन्तितवानिति यावत् ॥ २३ ॥
पदार्थवृन्दं देहादि न चित्तमिति कथ्यते ।
तदेतत्किं क्व वा व्यर्थं निरागस्कं त्यजाम्यहम् ॥ २४ ॥
ननु त्रिपुरदाहादसुराणामिव देहेन्द्रियविषयत्यागादेव चित्तत्यागः सेत्स्यति तत्राह ##-
स्यादित्यनिर्णयादनागस्कं चित्तनिलयनापराधशून्यदेहादि व्यर्थं किं त्यजामि ।
त्यागोऽस्य नोचित इत्यर्थः ॥ २४ ॥
पितुः सकाशं गच्छामि ज्ञातुं चित्तं महारिपुम् ।
ज्ञात्वा तत्सन्त्यजाम्याशु ततस्तिष्ठामि विज्वरः ॥ २५ ॥
श्रीवसिष्ठ उवाच ।
इति सञ्चिन्त्य स कच उज्जगाम त्रिविष्टपम् ।
वाक्पतिं प्राप्य सस्नेहं ववन्दे प्रणनाम च ॥ २६ ॥
अपृच्छच्चैनमेकान्ते किं चित्तं भगवन्वद ।
स्वरूपं ब्रूहि चित्तस्य येन तत्सन्त्यजाम्यहम् ॥ २७ ॥
बृहस्पतिरुवाच ।
चित्तं निजमहङ्कारं विदुश्चित्तविदो जनाः ।
अन्तर्योऽयमहम्भावो जन्तोस्तच्चित्तमुच्यते ॥ २८ ॥
चित्तविदः साक्षिणा [साक्षिणश्चित्तं पृथक्कृत्येत्यपेक्षितम् (अपेक्षितुः
अपेक्षैवानपेक्षितात्र यतो यथावस्थमेव सूक्तं सुसङ्गतं चेति वयम् ।)]
चित्तं पृथक्कृत्य जानन्तो जीवन्मुक्तजनाः ॥ २८ ॥
कच उवाच ।
त्रयस्त्रिंशन्महाकोटिप्रमाणस्य महामते ।
गुरो गीर्वाणवृन्दस्य कथमेतद्वदेति मे ॥ २९ ॥
हे त्रयस्त्रिंशन्महाकोटिप्रमाणस्य गीर्वाणवृन्दस्य गुरो हे महामते बृहस्पते
अहम्भाव एव चित्तमित्येतत्कथं तन्मे वद । अहङ्कारस्य लोके आत्मतयैव
प्रसिद्धेस्तत्त्यागे आत्मत्यागापत्त्या नैराम्यापत्तेरिति भावः ॥ २९ ॥
मन्येऽस्य दुष्करस्त्यागो न सिद्धिमुपगच्छति ।
कथमेष किल त्यक्तुं शक्यते योगिनां वर ॥ ३० ॥
नाप्यात्मनस्त्यागो वा सम्भवति अहेयस्वभावत्वादित्याशयेनाह - मन्ये इति ॥ ३० ॥
बृहस्पतिरुवाच ।
अपि पुष्पावदलनादपि लोचनमीलनात् ।
सुकरोऽहङ्कृतेस्त्यागो न क्लेशोऽत्र मनागपि ॥ ३१ ॥
सत्यं तत्साक्ष्यपरिचये तत्त्यागो दुष्करः परिचिते तु साक्षिणि पुष्पावदलनादपि सुकर
इत्याशयेन बृहस्पतिरुत्तरमाह - अपीति ॥ ३१ ॥
यथैतदेवं तनय तथा शृणु वदामि ते ।
अज्ञानमात्रसंसिद्धं वस्तु ज्ञानेन नश्यति ॥ ३२ ॥
अज्ञानं शुद्धसाक्ष्यपरिचयलक्षणो मोहस्तन्मात्रसंसिद्धमहङ्कारादिवस्तु ।
तच्च ज्ञानेन तत्परिचयमात्रेण ॥ ३२ ॥
वस्तुतो नास्त्यहङ्कारः पुत्र मिथ्याभ्रमो यथा ।
असन्सन्निव सम्पन्नो बालवेतालवत्स्थितः ॥ ३३ ॥
बालकल्पितवेतालवद्वस्तु असन्नेव सन्निव सम्पन्नोऽज्ञदृष्ट्या स्थितः ॥ ३३ ॥
यथा रज्ज्वां भुजङ्गत्वं मरावम्बुमतिर्यथा ।
मिथ्यावभासः स्फुरति तथा मिथ्याप्यहङ्कृतिः ॥ ३४ ॥
तथाहङ्कृतिरपि मिथ्या स्फुरतीत्यन्वयः ॥ ३४ ॥
असदेव यथा द्वित्वं मोहादिन्दौ विलोक्यते ।
तथा स्फुरत्यहङ्कारो न सत्यो वाप्यसन्न च ॥ ३५ ॥
न च सदसन्निति शेषः ॥ ३५ ॥
एकमाद्यन्तरहितं चिन्मात्रममलान्तरम् ।
खादप्यतितरामच्छं विद्यते सर्ववेदनम् ॥ ३६ ॥
सर्वप्रपञ्चमिथ्यात्वे किं विद्यते तदाह - एकमिति । सर्वमिथ्यात्वेऽपि तद्वेदनं
विद्यते । तदविद्यमानतायाः साधकाभावादेवासिद्धेरिति भावः ॥ ३६ ॥
सर्वत्र सर्वदा सर्वप्रकाशं सर्वजन्तुषु ।
तदेवैकं कचत्यम्बु विलोलास्वब्धिवीचिषु ॥ ३७ ॥
तदसत्त्वे जगत्प्रथानुपपत्तेरपि तदस्तीत्याह - सर्वत्रेति । अम्ब्विवेति शेषः ॥ ३७ ॥
अत्र कोऽयमहम्भावः कुतो वा कथमुत्थितः ।
क्वाप्सु जातो रजोराशिः क्वानलादुत्थितं जलम् ॥ ३८ ॥
तत्र दृग्दृश्ययोर्मध्ये अयमहङ्कारः कः कुतो निमित्तात्कथं
दृग्दृश्यमेलनात्प्रकारान्तरेण वा उत्थितः उभयविलक्षणस्वभावस्यास्योद्भव
एव दुर्वच इत्याह - क्वेति । रजोराशिः शुष्कपांसुनिचयः ॥ ३८ ॥
अयन्न् सोऽहमिति व्यर्थं प्रत्ययं त्यज पुत्रक ।
तुच्छं परिमिताकारं दिक्कालविवशीकृतम् ॥ ३९ ॥
अयं देहादिः स पित्रादितो जातोऽहम् । दिक्कालाभ्यां विवशीकृतं
वृद्ध्यपक्षयादिना परिणमितम् ॥ ३९ ॥
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।
सर्वार्थमयमेकार्थचिन्मात्रममलं भवान् ॥ ४० ॥
तर्ह्यहं कस्तत्राह - दिगिति । सर्वार्थमयं सर्वपदार्थविकारात्मना
भासमानं वस्तुतस्त्वपारार्थ्यादद्वयत्वाच्चैकार्थम् ॥ ४० ॥
फलकुसुमदलानां सर्वदिक्संस्थितानां रस इव जगतां त्वं संस्थितः
सर्वदैव ।
विमलतरचिदात्मा नित्यमेवास्यनन्तः क इव कच तवाहन्निश्चयो भावमूर्तेः ॥
४१ ॥
सर्वार्थमयमित्यस्य सर्वपदार्थसारभूतमित्यर्थान्तरं सदृष्टान्तं
दर्शयन्प्रकृतं निगमयति - फलेति । सर्वदिक्षु संस्थितानां फलानां
कुसुमानां दलानां पर्णानां च कारणीभूतः सारभूतश्च तरोरन्तर्गतो रस इव
त्वं सर्वजगतां कारणीभूतः सारभूतश्चान्तः सर्वदैव संस्थितो
विमलतरोऽनन्तश्चिदात्मैव नित्यमसि । हे कच
भावमूर्तेरखण्डाद्वयसन्मात्रस्वरूपस्य तवायन्न् परिच्छिन्नोऽहन्निश्चयः क
इव । न कश्चिदित्यर्थः । अथवा सर्वदिक्संस्थितानां
फलकुसुमादीनामैकरस्यमापन्नो रसो मध्विव सर्वजगतां
सारभूतनिरतिशयानन्दरूपः संस्थित इत्यर्थः । अतः सर्वदैव त्वमनन्तो
विगतमायामलश्चिदात्मैवासीत्यादि प्राग्वत् ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० कचोपाख्याने
कचप्रबोधो नामैकादशोत्तरशततमः सर्गः ॥ १११ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
कचप्रबोधो नामैकादशोत्तरशततमः सर्गः ॥ १११ ॥