११०

दशाधिकशततमः सर्गः ११०

श्रीवसिष्ठ उवाच ।

ततः समुदिते सूर्ये वितमस्यम्बरे स्थिते ।
समुद्गकादिव जगन्मणौ तस्मिन्विनिर्गते ॥ १ ॥

सहसङ्कल्पसैन्येन गजेन स्वपुरं गतौ ।
तौ कृत्वा सुचिरं राज्यं विमुक्ताविति वर्ण्यते ॥

समुद्गकात्समुद्गते जगत्प्रकाशकमणाविव समुदिते सूर्ये वितमस्यम्बरे स्थिते सति ॥
१ ॥

विकसत्यरुणोपान्ते चक्षुषीवाम्बुजाकरे ।
आचारेष्विव लोकेषु प्रसृतेष्वर्करश्मिषु ॥ २ ॥

जनानामरुणोपान्ते चक्षुषीवाम्बुजाकरे विकसति सति ॥ २ ॥

दम्पती तौ समुत्थाय कृतसन्ध्याक्रमौ स्थितौ ।
पत्रासने मृदुस्निग्धे कान्तौ काञ्चनकन्दरे ॥ ३ ॥

अथोत्थायात्र चूडाला रत्नकुम्भं पुरःस्थितम् ।
कान्ता सङ्कल्पयामास पूर्णं सप्ताब्धिवारिभिः ॥ ४ ॥

सप्ताब्धिवारिभिः पूर्णं पुरःस्थितं रत्नकुम्भं राज्याभिषेकाय सङ्कल्पयामास
॥ ४ ॥

तेन मङ्गलकुम्भेन तं पूर्वाभिमुखं स्थितम् ।
भार्या भर्तारमेकान्ते स्वराज्येऽभिषिषेच सा ॥ ५ ॥

तं राजानम् ॥ ५ ॥

सङ्कल्पोपगते हैमे स्वभिषिक्तं स्वविष्टरे ।
स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी ॥ ६ ॥

सङ्कल्पमात्रेणोपगते स्वयोग्यविष्टरे सिंहासने ॥ ६ ॥

केवलं मौनमुत्सृज्य तेजः शान्तमिदं प्रभो ।
अष्टानां लोकपालानां तेजस्त्वं भर्तुमर्हसि ॥ ७ ॥

मौनं मुनियोग्यमिदं शान्तं तेज उत्सृज्य शासनयोग्यमिन्द्रादीनां तेजो
भर्तुमर्हसि ॥ ७ ॥

चूडालयेति सम्प्रोक्तो वने राजा शिखिध्वजः ।
वदन्नेवं करोमीति महाराजत्वमाययौ ॥ ८ ॥

अथ प्रतीहारपदे तिष्ठन्तीमाह मानिनीम् ।
अद्य देवीपदे राज्ञीं त्वां करोम्यभिषेकिनीम् ॥ ९ ॥

पट्टाभिषेकाभावात्प्रतीहारपदं द्वारपालस्थानं तत्र विनयात्तिष्ठन्तीम् ।
देवीपदे कृताभिषेकास्थाने ॥ ९ ॥

इत्युक्त्वा सरसि स्नाप्य महादेवीपदे तथा ।
अभिषिक्तां नृपः कृत्वा स तामाह निजां प्रियाम् ॥ १० ॥

प्रिये कमलपत्राक्षि क्षणात्सङ्कल्पसम्भवम् ।
महाविभवमुद्दामं सन्यमाहर्तुमर्हसि ॥ ११ ॥

योगसिद्ध्या तव सत्यसङ्कल्पात्सम्भवम् ।
भूषणालङ्कारशस्त्रास्त्रादिभिर्महाविभवं बह्वक्षौहिणीपरिमाणैरुद्दामम् ॥ ११

इति कान्तवचः श्रुत्वा चूडाला वरवर्णिनी ।
सैन्यं सङ्कल्पयामास प्रावृड्घनमिवोद्भटम् ॥ १२ ॥

सैन्यं ददृशतुस्तत्तौ वाजिवारणसङ्कुलम् ।
पताकापूरिताकाशं नीरन्ध्रीकृतकाननम् ॥ १३ ॥

नीरन्ध्रीकृतं निरवकाशीकृतं काननं येन ॥ १३ ॥

तूर्यारवध्वनच्छैलगुहागहनकोटरम् ।
मौलिरत्नमहोद्द्योतविचूर्णिततमःपटम् ॥ १४ ॥

तूर्यारवैः प्रतिध्वनन्तः शैलगुहागहनकोटरा यस्य ॥ १४ ॥

तत्र गन्धद्विपवरे कृतपार्थिवमण्डले ।
रक्षिते हृष्टसामन्तैरारूढो नृपदम्पती ॥ १५ ॥

यन्मदगन्धमन्ये द्विपा न सहन्ते स गन्धद्विपः ॥ १५ ॥

ततः शिखिध्वजो राजा महिष्या सममिष्टया ।
पदातिरथसम्बाधं कर्षन्नतिबलो बलम् ॥ १६ ॥

वलं सैन्यम् ॥ १६ ॥

चचालाचलचालिन्या सेनया स ततो वनात् ।
भिन्दन्निव रसाशैलं वात्ययेवाशु भौमया ॥ १७ ॥

भौमया भूत्थया ॥ १७ ॥

तस्मान्महेन्द्रशैलेन्द्राच्चलितः स महीपतिः ।
पथि पश्यन्गिरीन्देशान्नदीर्ग्रामान्सजङ्गलान् ॥ १८ ॥

दर्शयन्स्वप्रियायास्तमात्मवृत्तान्तसञ्चयम् ।
प्रागल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम् ॥ १९ ॥

तं प्राक्तनमात्मनः स्वस्य प्राङ्गरान्निर्गतस्य मार्गे जानपदैः सह वृत्तं
वृत्तान्तसञ्चयम् ॥ १९ ॥

तत्र ते तस्य सामन्तास्तदागमनमादृताः ।
विविदुर्जयशब्देन निर्जग्मुश्चोदिताशयाः ॥ २० ॥

सामन्तास्तत्तद्देशाधिपत्ये निरूपिता मन्त्रिणः । उदिताशयाः सोत्कण्ठाः ॥ २० ॥

एकतां सम्प्रयातेन तारतूर्यनिनादिना ।
बलद्वयेन तेनासौ विवेश नगरं नृपः ॥ २१ ॥

लाजपुष्पाञ्जलिव्रातैरावृष्टः पौरयोषिताम् ।
वणिङ्मार्गमसौ पश्यन्परम्परमनुत्तमम् ॥ २२ ॥

लाजाञ्जलीनां पुष्पाञ्जलीनां च व्रातैः । परम्परमुत्तरोत्तरम् ॥ २२ ॥

पताकाध्वजसम्बाधं मुक्ताजालमनोरमम् ।
नृत्यगेयपरस्त्रीकं स्वभूमावचलं स्थितम् ॥ २३ ॥

स्वभूमौ स्वस्थाने अचलं कैलासमिवोच्छ्रितं स्थितम् ॥ २३ ॥

प्रविश्याथ गृहं तैस्तैः संयुतं नृपमङ्गलैः ।
सम्यक्सम्मानयामास प्रणतं प्रकृतिव्रजम् ॥ २४ ॥

तैस्तैर्लोकशास्त्रप्रसिद्धैर्दधिदूर्वाक्षतशङ्खवीणाछत्रचामरादिभिर्नृप##-

पुरोत्सवं भृशं कृत्वा दिनसप्तकमुत्तमम् ।
अकरोद्राजकार्याणि स्वानि स्वान्तःपुरे नृपः ॥ २५ ॥

अन्तःपुरे स्वानि स्वाभिमतसमाधिभोगादीनि ॥ २५ ॥

दशवर्षसहस्राणि राज्यं कृत्वा महीतले ।
सहचूडालया राम विरतो देहधारणात् ॥ २६ ॥

देहधारणाद्विरतो विदेहकैवल्यसुखे प्रतिष्ठितोऽभूदित्यर्थः ॥ २६ ॥

देहमुत्सृज्य निर्वाणमस्नेह इव दीपकः ।
अपुनर्जन्मने राम जगामेति महामतिः ॥ २७ ॥

तदेव स्पष्टमाह - देहमिति । इति अनया प्रागुक्तरीत्या ॥ २७ ॥

दशवर्षसहस्राणि समदृष्टितया तया ।
राज्यं तयाऽऽरमय्यापि निर्वाणं पदमाप्तवान् ॥ २८ ॥

राज्यं कृत्वा तया चूडालया सह आरमय्य आसमन्तात् क्रीडयित्वापि ॥ २८ ॥

विगतभयविषादो मानमात्सर्यमुक्तः प्रकृतसहजकर्मा
भुक्तनीरागबुद्धिः ।
इति समसमदृष्टिर्मृत्युमार्योऽथ जित्वा दशशिशिरसहस्राण्येकराज्यं
चकार ॥ २९ ॥

भुक्तेषु भोगेषु नीरागा बुद्धिर्यस्य । समेभ्योऽपि समा दृष्टिर्यस्य । स आर्यः
शिखिध्वज इति वर्णितप्रकारेण बोधेन कामलक्षणं मृत्युं जित्वा
दशशिशिरर्तूपलक्षितवर्षसहस्राणि जम्बूद्वीपे एकराजस्य भाव ऐकराज्यं चकार ॥
२९ ॥

भुक्त्वा भोगाननेकान्भुवि सकलमहीपालचूडामणित्वे स्थित्वा वै दीर्घकालं
परममृतपदं प्राप्तवान्सत्त्वशेषः ।
एवं रामागतं त्वं प्रकृतमनुसरन्कार्यजातं विशोकस्तिष्ठोत्तिष्ठ
स्वयन्न् वा प्रसभमनुभवन्भोगमोक्षादिलक्ष्मीः ॥ ३० ॥

पूर्वार्धेन शिखिध्वजस्थितिमनूद्य तां रामाय कर्तव्यतयोत्तरार्धेनोपदिशति ##-
अनेकान्भोगान्भुक्त्वा अमृतमजरं परं पदं सत्त्वं सन्मात्रं तच्छेषः सन्
प्राप्तवान् । हे राम त्वमपि आगतं प्रारब्धप्राप्तं प्रकृतं कार्यजातमनुसरन्
विशोकः समाधौ तिष्ठ । अथवा स्वयं प्रसभं
भोगमोक्षज्ञानलक्ष्मीरनुसरन्नुत्तिष्ठ व्युत्थितस्तिष्ठ । तव समाधिव्युत्थानयोर्न
फलभेदोऽस्तीत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजनिर्वाणं नाम दशोत्तरशततमः सर्गः ॥ ११० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजनिर्वाणं नाम दशोत्तरशततमः सर्गः ॥ ११० ॥

चूडालोपाख्यानं [अस्य शिखिध्वजाख्यानत्वेनापि व्यवहारः ।] समाप्तम् ।