अष्टोत्तरशततमः सर्गः १०८
श्रीवसिष्ठ उवाच ।
तां मायां शममानीय चूडाला समचिन्तयत् ।
दिष्ट्या भोगेच्छया नायं ह्रियते वसुधाधिपः ॥ १ ॥
इह क्रोधपरीक्षार्थं षिङ्गसङ्गश्च मायया ।
राज्ञ्या प्रदर्श्यते राज्ञे निजरूपं च पाकतः ॥
तामिन्द्रागमनरूपां मायां शममानीय उपसंहृत्य । ह्रियते वशीक्रियते ॥ १ ॥
शान्तः [ज्ञातः इति पाठः ।] समसमाभोग एवं शक्रसमागमे ।
असंरम्भमहेलं च कृतवान्व्यावहारिकम् ॥ २ ॥
सदा विक्रियाशून्यत्वात् समेन आकाशादिना सम आभोगो मुखाद्यवयवस्थितिर्यस्य ।
असंरम्भमसाध्वसमहेलं च व्यावहारिकमर्घ्यपाद्यादिना पूजनमुचितोक्त्यादि
च कृतवान् ॥ २ ॥
भूय एव प्रपञ्चेन विमृशाम्येव सादरम् ।
रागद्वेषप्रधानेन केनचिद्बुद्धिहारिणा ॥ ३ ॥
अप्यर्थे एवकारः । केनचिद्रागद्वेषप्रधानप्रपञ्चेन बुद्धिहारिणा
बुद्धिक्षोभकेण ॥ ३ ॥
इति सञ्चिन्त्य सा रात्राविन्दावभ्युदिते वने ।
गृहीतमङ्गनारूपं कान्ता मदनिका सती ॥ ४ ॥
गृहीतमङ्गनारूपमिति पदयोः कण्ठे सङ्कल्पितं कान्तमिति चतुर्थे सम्बन्धः ॥
४ ॥
वाते वहति फुल्लाढ्ये मधुरामोदमांसले ।
सन्ध्याजप्यपरे नद्यास्तीरसंस्थे शिखिध्वजे ॥ ५ ॥
फुल्लाढ्ये पुष्पिततरुलतासम्पन्ने वाते मलयानिले वहति सति नीरन्ध्रैः
पुष्पगुच्छकैरुपलक्षितं वनदेवीनां शुद्धान्तं सन्तानकलतागेहं प्रविवेशेति
परेणान्वयः ॥ ५ ॥
सन्तानकलतागेहं नीरन्ध्रैः पुष्पगुच्छकैः ।
शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता ॥ ६ ॥
तत्र सङ्कल्पिते पुष्पशयने माल्यमालिता ।
कण्ठे सङ्कल्पितं कान्तं खिङ्गमादाय संस्थिता ॥ ७ ॥
तत्र माल्यैर्मालिता अलङ्कृता सती मायया सङ्कल्पितमनुरूपं
युवानमङ्गनारूपमङ्गनानामिवानुद्गतश्मश्र्वादिव्यञ्जनं
षोडशवर्षाकृतिरूपं यस्य तथाविधमत एव श्मश्रुलाच्छिखिध्वजात्कान्तं
मनोहरतमं खिङ्गं विटं कण्ठे गृहीतमादाय संस्थितेत्यन्वयः ॥ ७ ॥
आगत्यान्विष्य कुञ्जात्स प्रददर्श शिखिध्वजः ।
लतागेहे मदनिकां कण्ठे खिङ्गं मनोहरम् ॥ ८ ॥
जप्यान्ते शिखिध्वजः सन्ध्याजप्यस्थानात् कुञ्जादागत्य मदनिकामन्विष्य
कल्पलतागेहे मदनिकां तत्कण्ठे मनोरमं खिङ्गं च ददर्श ॥ ८ ॥
कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः ।
शयनावृतिनिक्षेपपर्याकुलितशेखरम् ॥ ९ ॥
खिङ्गं विशिनष्टि - कुन्तलेत्यादिना । मदनिकाकुन्तलैः
स्वकुन्तलैश्चान्नलितस्कन्धम् । समालब्धं लिप्तम् । शयने आवृत्या परिवर्तनेन
[निष्पेषेणेति पाठः ।] निक्षेपेण च पर्याकुलितः शेखरचूडाबन्धो यस्य
तम् ॥ ९ ॥
हेमाभे द्विगुणाकारबालाबाहूपधानके ।
संसक्तश्रवणापाङ्गकपोलतलकुन्तलम् ॥ १० ॥
आकुञ्चनाद्द्विगुणाकारे बालाबाहुलक्षणे उपधानके उपबर्हे संसक्तं
श्रवणादिचतुष्टयं यस्य ॥ १० ॥
मिथुनं तद्ददर्शार्थ मिथः प्रहसिताननम् ।
अन्योन्यवदनासक्तं छन्नं कल्पलतांशुकैः ॥ ११ ॥
मिथुनं स्त्रीपुंसद्वन्द्वम् ॥ ११ ॥
आलोलमाल्यशयनं मदनातुरमाकुलम् ।
अङ्गलग्नच्छलेनात्मरागमन्योन्यमर्पयत् ॥ १२ ॥
अङ्गानां लग्नं संश्लेषस्तच्छलेन । अर्पयत् आसञ्जयत् ॥ १२ ॥
अभ्युन्मुखं समानन्दमुद्दाममदमन्थरम् ।
परस्पराहतं पुष्पैर्वक्षोभ्यां पीडितस्तनम् ॥ १३ ॥
परस्पराभ्युन्मुखम् ॥ १३ ॥
तदालोक्याविकारेण चेतसालं तुतोष सः ।
अहो सुखं स्थितौ खिङ्गावित्याह स शिखिध्वजः ॥ १४ ॥
अविकारेण क्रोधविकाररहितेन ॥ १४ ॥
तिष्ठताङ्ग यथाकामं सुखं खिङ्गौ यथास्थितम् ।
विघ्नं माकरवं भीतावित्युक्त्वा निर्जगाम सः ॥ १५ ॥
स्वदर्शनाद्भीतौ तौ प्रति हे अङ्ग यथाकामं तिष्ठत तिष्ठतम् । अहं विघ्नं
माकरवं इत्युक्त्वा निर्जगाम ॥ १५ ॥
ततो मुहूर्तमात्रेण प्रपञ्चं तमुपेक्ष्य सा ।
निर्ययौ दर्शयन्ती स्वं रतिफुल्लाकुलं वपुः ॥ १६ ॥
तं मायाप्रपञ्चमुपेक्ष्य उपसंहृत्येति यावत् । रत्या विटसम्भोगेन फुल्लं
विकसितमाकुलं च ॥ १६ ॥
उपविष्टं ददर्शैनं नृपं हेमशिलातले ।
समाधिसंस्थमेकान्ते मनाग्विकसितेक्षणम् ॥ १७ ॥
तं प्रदेशमुपागम्य लज्जावनमितानना ।
तूष्णीमासीत्क्षणं खिन्ना म्लाना मदनिकाङ्गना ॥ १८ ॥
क्षणाच्छिखिध्वजो ध्यानाद्विरतस्तामुवाच ।
अत्यन्तमधुरं वाक्यमिदमक्षुब्धया धिया ॥ १९ ॥
तन्वि किं शीघ्रमेव त्वं विघ्नितानन्दमागता ।
आनन्दायैव भूतानि यतन्ते यानि कानिचित् ॥ २० ॥
यानि कानिचित् सर्वाणीत्यर्थः ॥ २० ॥
भूयस्तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः ।
परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये ॥ २१ ॥
परस्परमीप्सितः अकृत्रिम इति यावत् ॥ २१ ॥
अहमेतेन चार्थेन नोद्वेगं यामि मानिनि ।
यद्यदिष्टतमं लोके तत्तदेवं विजानता ॥ २२ ॥
विजानता पुंसा यद्यदिष्टतमं तत्तदेवं त्वादृशमेव परोपभोग्यमिति ज्ञेयमिति
शेषः ॥ २२ ॥
अहं कुम्भश्च तन्वङ्गि वीतरागाविहेतरा ।
दुर्वासःशापजा बाला त्वं यदिच्छसि तत्कुरु ॥ २३ ॥
न च त्वदपराधेन मम कुम्भे अविस्रम्भ इत्याशयेनाह - अहमिति । त्वं
कुम्भादितरैवेति शेषः । अतो यदिच्छसि तन्निःशङ्कं कुरु ॥ २३ ॥
मदनिकोवाच ।
एवमेष महाभाग स्त्रीस्वभावो हि चञ्चलः ।
कामो ह्यष्टगुणः स्त्रीणां न कोपं कर्तुमर्हसि ॥ २४ ॥
अवलाहमनेनास्मि रात्रौ गहनकानने ।
त्वयि सन्ध्याजपपरे किं करोमि वराकिका ॥ २५ ॥
अनेन अस्मि प्रार्थितेति शेषः ॥ २५ ॥
अबला वा कुमारी वा जारं न रतिरोधनम् ।
करोति परिखिङ्गेन नाङ्गे स्वे विनिवेशितम् ॥ २६ ॥
अबला पत्या ऊढा तत्पारतन्त्र्यात्स्वातन्त्र्यबलहीना । कुमारी अनूढा वा तरुणी एकान्ते
जारं प्राप्य रतेः रोधनं प्रतिबन्धं न करोत्येव । अयं स्त्रीस्वभाव इत्यर्थः ।
परिखिङ्गेन परिहृतजारेण तु दैवात्सम्पन्नरतिविघ्नेन स्वे अङ्गे देहे
मनःप्राणादीनां विनिवेशितम् । भावे क्तः । स्थैर्यं न करोति । तरलतरमनःप्राणा
भूत्वा सन्तप्यत इत्यर्थः ॥ २६ ॥
स्त्रियः सुन्दरतां याताः पुरःपुंसामसङ्गमे ।
मन्युर्निषेध आक्रान्दः सतीत्वं किं करिष्यति ॥ २७ ॥
स्त्रीणां हि पुंवशीकारसमर्थसौन्दर्यालाभ एवैकः पुंसामसमागमे
हेतुर्नान्यः । यदि स्त्रियः पुंवशीकारसमर्थां सुन्दरतां सुन्दरतां याताः
प्राप्ता एकान्ते च पुंसां पुरो भवन्ति तदा तासामसङ्गमे न कश्चिद्धेतुः ।
नन्वग्निसाक्षिकतया विवाहितस्य भर्तुर्मन्युः शास्त्रीयः परपुरुषसङ्गमनिषेधो
जनापवादलक्षण आक्रन्दः स्वपातिव्रत्यभङ्गश्च विवेकदृशा पर्यालोच्यमाना
जारासङ्गमे हेतवः किं न स्युस्तत्राह - मन्युरिति । प्रबलतररतिरागबाधितास्ते न
जारसङ्गं निरोद्धुं समर्था इति भावः ॥ २७ ॥
अबला स्त्री तथा बाला मूढाहमपराधिनी ।
क्षन्तुमर्हसि नाथ त्वं क्षमावन्तो हि साधवः ॥ २८ ॥
अत एव क्षमापयामीत्याशयेनाह - अबलेति ॥ २८ ॥
शिखिध्वज उवाच ।
मन्युर्मम न बालेऽन्तर्विद्यते ख इव द्रुमः ।
केवलं साधुनिन्द्यत्वान्नेच्छामि त्वामहं वधूम् ॥ २९ ॥
स्वे आकाशे द्रुम इव । वधूं भार्यां नेच्छामि ॥ २९ ॥
सुहृत्त्वेन वनान्तेषु पूर्ववत्सुखमङ्गने ।
वीतरागतया नित्यं सममेव रमावहे ॥ ३० ॥
श्रीवसिष्ठ उवाच ।
एवं समतया तत्र स्थिते तस्मिञ्छिखिध्वजे ।
चूडाला चिन्तयामास तत्सत्त्वेनोदिताशया ॥ ३१ ॥
तस्य सत्त्वेन रागद्वेषवासनाशून्यतया परीक्षितचित्तेन । उदिताशया हृष्टा ॥ ३१ ॥
अहो बत परं साम्यं भगवानयमागतः ।
वीतरागतयाऽक्रोधो जीवन्मुक्तोऽवतिष्ठते ॥ ३२ ॥
अक्रोध इति च्छेदः ॥ ३२ ॥
नैनं हरन्ति ते भोगा न महत्योऽपि सिद्धयः ।
न सुखानि न दुःखानि नापदो न च सम्पदः ॥ ३३ ॥
ते इन्द्रप्रार्थिता भोगाः सिद्धयश्च ॥ ३३ ॥
चिन्तिताः सकला एकं प्रयान्त्येनमनिन्दिताः ।
मन्ये महर्द्धयः कान्ता नारायणमिवापरम् ॥ ३४ ॥
चिन्तिता मदभिप्रेताः सकला जीवन्मुक्तलक्षणभूताः शान्ति
क्षमाधैर्यतृप्त्यादिरूपा अनिन्दिता महर्द्धय एकमेनं प्रयान्ति प्राप्नुवन्ति ।
आश्रयन्तीति यावत् ॥ ३४ ॥
आत्मवृत्तान्तमखिलं तमेनं स्मारयाम्यहम् ।
कुम्भरूपमिदं त्यक्त्वा चूडालैव भवाम्यहम् ॥ ३५ ॥
तमेवङ्गुणविशिष्टत्वात्स्ववृत्तान्तस्मारणयोग्यभूतमेनं प्रति स्मारयामि ॥ ३५ ॥
इति सञ्चिन्त्य चूडाला चूडालावपुरक्षता ।
दर्शयामास तत्राशु त्यक्त्वा मदनिकावपुः ॥ ३६ ॥
तस्मान्मदनिकादेहाच्चूडाला निर्गतेव सा ।
बभावस्य पुरो युक्ता निर्गतेव समुद्गकात् ॥ ३७ ॥
युक्ता योगधारणावती समुद्गकात्सम्पुटकान्निर्गतेव ॥ ३७ ॥
तां ददर्शानवद्याङ्गीं पुनः प्रणयपेशलाम् ।
कान्तां मदनिकामेव चूडालां दयितां स्थिताम् ॥ ३८ ॥
प्रणये भर्तृचित्तानुरञ्जने पेशलां चतुराम् । दयितां पूर्वदयिताम् ॥ ३८ ॥
समुदितामिव माधवपद्मिनीमुपगतामिव भूमितलाच्छ्रियम् ।
प्रकटितामिव रत्नसमुद्गकात्परिददर्श निजां दयितां नृपः ॥ ३९ ॥
माधवे वसन्ते समुदितां पद्मिनीं कमलिनीमिव । अथवा समुदितां
समृद्धामाविर्भूतां वा माधवस्य विष्णोः पद्मिनीं पद्महस्तां श्रियमिव ।
रामावतारावसाने रामस्य विष्णुभावे प्राक्सीतात्वेन भूमितलप्रविष्टां ततो
भूमितलात्पुनरुपगतां श्रियमिव रत्नसम्पुटकात्प्रकटितां रत्नश्रियमिव च
नृपो निजां दयितां चूडालां परिददर्श । पुरो ददर्शेत्यर्थः ॥ ३९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० चूडालास्वरूपदर्शनं नामाष्टोत्तरशततमः सर्गः १०८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चूडालास्वरूपदर्शनं नामाष्टोत्तरशततमः सर्गः ॥ १०८ ॥
नवाधिकशततमः सर्गः १०९ ॥
श्रीवसिष्ठ उवाच ।
अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
शिखिध्वज उवाचेदमाश्चर्याकुलया गिरा ॥ १ ॥
दृष्ट्वा दृष्ट्वा नृपो ध्यानाद्बुद्ध्वा सर्वं सुविस्मितः ।
तुष्टः प्रशस्य चूडालामालिङ्ग्यात्रानयन्निशाम् ॥
इदं वक्ष्यमाणम् ॥ १ ॥
का त्वमुत्पलपत्राक्षि कुतः प्राप्तासि सुन्दरि ।
किमिहासि कियत्कालं किमर्थमिह तिष्ठसि ॥ २ ॥
कुम्भादिरूपेण त्वमेव किमिहासि । कियत्कालं किमर्थं वा इह मत्सन्निधौ तिष्ठसि ।
यद्यपि कुम्भः स्थितिकालप्रमाणं जानात्येव तथाप्यस्या वेषान्तरेण
कुम्भागमनात्प्रागपि स्थितिसम्भावनात्कियत्कालमिति प्रश्नः ॥ २ ॥
अङ्गेन व्यवहारेण स्मितेनानुनयेन च ।
मम जायाविलासेन तत्कलेवोपलक्ष्यसे ॥ ३ ॥
अङ्गेन अवयवसंस्थानेन तच्चेष्टालक्षणव्यवहारेण अनुनयेन
प्रेमवाक्प्रबन्धशैल्या मम जायायाश्चूडालायाः प्रसिद्धेन विलासेन तस्याः कला
मूर्तिरिव उपलक्ष्यसे दृश्यसे ॥ ३ ॥
चूडालोवाच ।
एवमेव प्रभो विद्धि चूडालास्मि न संशयः ।
अकृत्रिमेण देहेन लब्धोऽस्यद्य मया स्वयम् ॥ ४ ॥
अकृत्रिमेण सहजेन ॥ ४ ॥
कुम्भादिदेहनिर्माणैस्त्वां बोधयितुमेव मे ।
प्रपञ्चः शतशाखत्वमिह यातो वनान्तरे ॥ ५ ॥
यदा राज्यन्न् परित्यज्य मोहेन तपसे वनम् ।
त्वमागास्तत्प्रभृत्येव त्वद्बोधायाहमुद्यता ॥ ६ ॥
तत्प्रभृति तदाप्रभृत्येव ॥ ६ ॥
अनेन कुम्भदेहेन मयैव त्वं विबोधितः ।
कुम्भादिदेहनिर्माणं त्वां बोधयितुमेव मे ॥ ७ ॥
मायया न तु कुम्भादि किञ्चित्सत्यं महीपते ।
अथो विदितवेद्यस्त्वं ध्यानेनैतदखण्डितम् ॥ ८ ॥
सत्यमकाल्पनिकम् । ध्यायेन प्रागुक्तयोगधारणया ॥ ८ ॥
सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्ववलोकय ।
अथ चूडालयेत्युक्तो बद्ध्वा परिकरं नृपः ॥ ९ ॥
पश्यसि द्रक्ष्यसि । परिकरं तादृशधारणानुकूलासनादि ॥ ९ ॥
आत्मोदन्तं विशेषेण ध्यानेनामलमैक्षत ।
अभिराज्यपरित्यागाच्चूडालादर्शनावधि [आस्स्व राज्य इति पाठः ।] ॥ १० ॥
अभि उपरि ॥ १० ॥
सर्वं मुहूर्तध्यानेन चात्मोदन्तं ददर्श सः ।
आराज्यसम्परित्यागाद्वर्तमानक्षणक्रमम् ॥ ११ ॥
आवर्तमानक्षणक्रममिति अत्राप्याङ्नूकृष्यते ॥ ११ ॥
सर्वमालोक्य भूपालो विरराम समाधितः ।
समाधिविरतो हर्षविकासिनयनाम्बुजः ॥ १२ ॥
विसार्य तरसा बाहू पुलकोज्ज्वलतां गतौ ।
गलदङ्गं घनस्नेहन्न् मुञ्चद्बाष्पं स्फुरत्स्पृहम् ॥ १३ ॥
पुलकोज्ज्वलतां गतौ बाहू विसार्य प्रसार्य आलिलिङ्गेति परेणान्वयः ॥ गलदङ्गं
छिन्नावयवम् । चत्वारि क्रियाविशेषणानि ॥ १३ ॥
आलिलिङ्ग चिरं कान्तां नकुलो नकुलीमिव ।
तयोरालिङ्गने तस्मिंस्तत्र भावो बभूव यः ॥ १४ ॥
भावशब्देनात्राभिव्यक्तः परस्परानुरागलक्षणः स्थायिभावः । यो यादृशो
वाचामगोचरः परमानन्दरूपः शृङ्गाररसो बभूव स वासुकिजिह्वाभिरपि
वक्तुं न शक्यत इत्यन्वयः ॥ १४ ॥
न स वासुकिजिह्वाभिर्वक्तुं हर्षेण शक्यते ।
दिविस्थाविव पङ्केन कृताविअ मिलत्तनू ॥ १५ ॥
दिविस्थौ चन्द्रसूर्यावमायामिव मिलत्तनू पङ्केनार्द्रमृदा कृताविव ॥ १५ ॥
शैलाविव समुत्कीर्णौ श्लिष्टावास्तां चिरं प्रियौ ।
मुहूर्तेन गलद्धर्मजलौ पुलकपीवरौ ॥ १६ ॥
शैलौ एकशिलासमुत्कीर्णपरस्परालिङ्गितमूर्ती इव श्लिष्टौ मिलितौ चिरमास्ताम् ॥ १६ ॥
बाहू विश्लथतामीषन्निन्यतुस्तौ शनैः प्रियौ ।
अमृतापूर्णहृदयौ संशून्यहृदयोपमौ ॥ १७ ॥
आनन्दातिशयेन मनसो जडीभावेन
तत्सद्भावव्यञ्जकलिङ्गादर्शनात्संशून्यहृदयोपमौ ॥ १७ ॥
उन्मुक्तभुजमास्तां तावलक्षस्थितलोचनम् ।
घनानन्दक्षणं स्थित्वा तूष्णीं प्रणयपेशलम् ॥ १८ ॥
लक्ष्ये लोचनस्थैर्यहेतोर्मनसो जडीभावादेवालक्षस्थितलोचनं यथा स्यात्तथा
आस्ताम् । प्रणयपेशलं यथा स्यात्तथा कान्तां प्रति उवाचेति परेणान्वयः ॥ १८ ॥
कान्तां चिबुकसंलग्नकरः प्रोवाच भूपतिः ।
अत्यन्तमधुरस्निग्धः कान्तः स्वकुलयोषिताम् ॥ १९ ॥
पुण्यश्च रतिनिष्पन्दः स्वादुर्नामामृतादपि ।
कियत्प्रमाणस्तन्वङ्ग्या त्वया बालेन्दुमुग्धया ॥ २० ॥
रतिनिष्पन्दोऽनुरागरसोऽत्यन्तमाधुर्यादिविशेषणचतुष्टयविशिष्टः कियत्प्रमाणो
विस्तीर्ण इति यावत् ॥ २० ॥
अनुभूतश्चिरं क्लेशो भर्तुरर्थेन दारुणः ।
एवं दुरुत्तरात्तस्मात्संसारकुहरादहम् ॥ २१ ॥
भर्तुरर्थेन पुरुषार्थसिद्धिप्रयोजनेन हेतुना ॥ २१ ॥
उत्तारितो यया बुद्ध्या सा हि केनोपमीयते ।
अरुन्धती शची गौरी गायत्री श्रीः सरस्वती ॥ २२ ॥
यया भर्तृस्नेहबुद्ध्या । सा बुद्धिः ॥ २२ ॥
समस्ताः पेलवायन्ते तव तन्व्या गुणश्रिया ।
धीः श्रीः कान्तिः क्षमा मैत्री करुणाद्यास्तु सुन्दरि ॥ २३ ॥
धीः श्रीरित्याद्या दक्षकन्या आकारेण सौन्दर्येण कान्तासु स्त्री श्रेष्ठाः
प्रसिद्धास्तास्वपि त्वं प्रथमा श्रेष्ठा सतीवाभिलक्ष्यसे इति परेणान्वयः ॥ २३ ॥
कान्तास्वाकारकान्तासु प्रथमेवाभिलक्ष्यसे ।
परेणाध्यवसायेन त्वयाहमवबोधितः ॥ २४ ॥
केन प्रत्युपकारेण परितुष्यति ते मनः ।
मोहादनादिगहनादनन्तगहनादपि ॥ २५ ॥
कृतार्थायास्ते मनः केन प्रत्युपकारेण परितुष्यति । येन तुष्यति तादृशः
प्रत्युपकारो दुर्लभ इति भावः ॥ २५ ॥
पतितं व्यवसायिन्यस्तारयन्ति कुलस्त्रियः ।
शास्त्रार्थगुरुमन्त्रादि तथा नोत्तारणक्षमम् ॥ २६ ॥
शास्त्रार्थेत्यादिरतिशयोक्तिः प्रशंसार्था ॥ २६ ॥
यथैताः स्नेहशालिन्यो भर्तॄणां कुलयोषितः ।
सखा भ्राता सुहृद्भृत्यो गुरुर्मित्रं धनं सुखम् ॥ २७ ॥
शास्त्रमायतनं दासः सर्वं भर्तुः कुलाङ्गनाः ।
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः ॥ २८ ॥
लोलद्वयसुखं सम्यक्सर्वं यासु प्रतिष्ठितम् ।
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः ॥ २९ ॥
निरिच्छायाः कृतकृत्यायास्ते प्रत्युपकारेऽहमसमर्थ इत्याह - निरिच्छाया इति ॥
२९ ॥
कथमस्योपकारस्य करिष्ये ते प्रतिक्रियाः ।
मन्ये कुलाङ्गनां लोके लोके सर्वास्त्वयाधुना ॥ ३० ॥
कुलाङ्गनां मन्ये त्वामिति शेषः । लोके प्रसिद्धाः सर्वाः कुलाङ्गनास्त्वयाऽधुना
जिता इति शेषः ॥ ३० ॥
नारीसौजन्यचर्चासु व्यपदेश्या भविष्यसि ।
त्वां निर्मितवतो धातुर्गुणजालातिशायिनीम् ॥ ३१ ॥
नारीणां सौजन्यादिगुणोत्कर्षचर्चासु प्रथमव्यपदेश्या भविष्यसि ॥ ३१ ॥
मन्ये प्रकुपिता नूनमरुन्धत्यादिकाः स्त्रियः ।
सती त्वं रूपसौजन्यगुणरत्नसमुद्गिके ॥ ३२ ॥
स्वापेक्षया गुणजालैरतिशायिनीं त्वां निर्मितवतो धातुर्विषये प्रकुपिता इत्यन्वयः ।
त्वमेव सती पतिव्रता ॥ ३२ ॥
एहि मे त्वद्गुणोत्कस्य पुनरालिङ्गनं कुरु ।
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा मृगशावाक्षीं चूडालां तां शिखिध्वजः ॥ ३३ ॥
आलिलिङ्ग पुनर्गाढं नकुलो नकुलीमिव ।
चूडालोवाच ।
देव शुष्कक्रियाजालपरे त्वय्याकुलात्मनि ॥ ३४ ॥
भूयोभूयो भृशमहं त्वदर्थं दुःखिताभवम् ।
तेन त्वदवबोधात्मा स्वार्थ एवोपपादितः ॥ ३५ ॥
मया तदत्र किं देव करोषि मम गौरवम् ।
शिखिध्वज उवाच ।
त्वया यथा वरारोहे स्वार्थः सम्पाद्यते शुभः ॥ ३६ ॥
तमिदानीं तथा सर्वाः साधयन्तु कुलाङ्गनाः ।
चूडालोवाच ।
बुध्यसे कान्त विश्रान्तो जगज्जालतटे विभो ॥ ३७ ॥
साधयन्त्वित्याशीः काकुर्वा । साधयितुं न शक्नुवन्तीत्यर्थः । जगल्लक्षणस्य जालस्य
तटे परावधौ विश्रान्तः संस्तत्त्वतो बुध्यसे कच्चिदिति व्यवहितेनान्वयः ॥ ३७ ॥
अद्य तं प्राक्तनं किञ्चिन्मोहं समनुपश्यसि ।
इदं करोमि नेदं तु प्राप्नोमीदमिति स्थितिम् ॥ ३८ ॥
तं प्राक्तनं पयोव्रतोपवासादिमोहं किञ्चित्तुच्छं समनुपश्यसि कच्चित् ॥ ३८ ॥
अन्तर्हससि तां कच्चिद्दशापेलवतां धियः ।
तास्तुच्छतृष्णाकलनास्ताः सङ्कल्पकुकल्पनाः ॥ ३९ ॥
धियः अपक्वदूशया पेलवतां कोमलताम् ॥ ३९ ॥
त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः ।
किं त्वमद्याङ्ग सम्पन्नः किन्निष्ठोऽसि किमीहसे ॥ ४० ॥
कथं पश्यसि पाश्चात्यं देहचेष्टाक्रमं विभो ।
शिखिध्वज उवाच ।
सुमनःपूर्णनीलाब्जमालासारविलोचने ॥ ४१ ।
कथं कीदृशं किं सत्यमुत तुच्छमित्यर्थः । सुमनोभिः पूर्णां नीलाब्जमालां
सरतः सादृश्यादनुसरतस्तथाविधे विलोचने यस्यास्तथाविधे हे चूडाले ॥ ४१ ॥
त्वमेव यस्य यस्यान्तस्तत्तस्याहमुपास्थितः ।
निरीहोऽस्मि निरंशोऽस्मि नभःस्वच्छोऽस्मि निस्पृहः ॥ ४२ ॥
मम प्रत्यगात्मभूता त्वमेव सा त्वं मोहस्य विवेकस्य तत्त्वदर्शनस्य वा यस्य
यस्यान्तःप्रकाशकतया स्थिता तत्तस्य तस्यान्तः अहमपि उप
परमसमीपभूतप्रत्यगात्मतया आस्थितः । तथा चेदानीं त्वं यथा पश्यसि
तथैवाहं पश्यामीति स्वानुभवेनैव ममापि स्थितिर्ज्ञातव्येत्यर्थः । तामेव
प्रपञ्च्य दर्शयति - निरीह इत्यादिना ॥ ४२ ॥
शान्तोऽहमर्थरूपोऽस्मि चिरायाहमहं स्थितः ।
तां दशामुपयातोऽस्मि यतश्चित्तैकवर्त्मनि ॥ ४३ ॥
अर्थरूपः परमार्थसत्स्वरूपः अनहमि देहादौ अहम्भ्रमं त्यक्त्वा चिराय
बहुकालोत्तरं वस्तुतो योऽहं स एवाहं भूत्वा स्थित इत्यर्थः । अहं
प्रत्यक्प्रवणचित्तैकवर्त्मन्यधिष्ठितस्तां निरतिशयानन्ददशामुपयातोऽस्मि यां
प्रयत्नसहस्रैरपि प्रतिषेद्धुं प्रवृत्ता हरिहरादयो महाप्रभावा अपि न
प्रतिषेधन्ति न निरसितुं शक्नुवन्ति । तस्य ह न देवाश्च नाभूत्या ईशते आत्मा
ह्येषां स भवति इति श्रुतेः । अहेयस्यात्मनो हापनाघटनाच्चेति भावः ॥ ४३ ॥
प्रतिषेधन्ति सहसा न यां हरिहरादयः ।
न किञ्चिन्मात्रचिन्मात्रनिष्ठोऽस्मि स्वस्थ आस्थितः ॥ ४४ ॥
भ्रमेणाहं विमुक्तोऽस्मि संसारेणालिलोचने ।
न तुष्टोस्मि न खिन्नोऽस्मि नायमस्मि न चेतरत् ॥ ४५ ॥
अयं दृश्यः कार्यवर्गः । इतरत् कारणम् ॥ ४५ ॥
न स्थूलोऽस्मि न सूक्ष्मोऽस्मि सत्यमस्मि च सुन्दरि ।
तेजोबिम्बात्प्रयातेन भित्तावपतितेन च ॥ ४६ ॥
सत्यमबाधितवस्तु । तेजोबिम्बात्सूर्यादिमण्डलाद्बहिः प्रयातेन भित्तावपतितेन च
नभोमात्रविसारिणा प्रकाशेनालोकेन ॥ ४६ ॥
क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः ।
शान्तोस्मि साम्यं नेतास्मि स्वस्थोस्मि विगताशयः ॥ ४७ ॥
जगतः सर्वं वैषम्यं निरस्य साम्यं नेतास्मि । विगताशयो निर्मनस्कः ॥ ४७ ॥
परिनिर्वाण एवास्मि सदृशोऽस्मि पतिव्रते ।
यत्तदस्मि तदेवास्मि वक्तुं शक्नोमि नेतरत् ॥ ४८ ॥
हे पतिव्रते । सतीव्रते इति पाठे सतीनां व्रतमिव व्रतं यस्या इति व्युत्पत्त्या पतिव्रते
इत्येवार्थः । अथवा सत्यास्तव स्वरूपनिष्ठालक्षणे व्रते सदृशस्तुल्यशीलो
भर्तास्मीत्यर्थः ॥ ४८ ॥
तरङ्गतरलापाङ्गे गुरुस्त्वं मे नमोऽस्तु ते ।
प्रसादेन विशालाक्ष्यास्तीर्णोऽस्मि भवसागरात् ॥ ४९ ॥
पुनर्मलं न गृह्णामि शतध्मातसुवर्णवत् ।
शान्तः स्वस्थो मृदुर्यत्तो वीतरागो निरंशधीः ॥ ५० ॥
शतवारं ध्मातमग्नौ शोधितं यत्सुवर्णं तद्वत् । यत्तः
स्वरूपनिष्ठायामत्यन्तोद्युक्तः । निरंशा निर्वासना धीर्यस्य ॥ ५० ॥
सर्वातीतः सर्वगश्च खमिवायमहं स्थितः ।
चूडालोवाच ।
एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय ॥ ५१ ॥
किमिदानीं प्रभो ब्रूहि रोचते ते महामते ।
शिखिध्वज उवाच ।
प्रतिषेधं न जानामि न जानाम्यभिवाञ्छितम् ॥ ५२ ॥
इदं न रोचत इति प्रतिषिध्यत इति प्रतिषेधः कर्मणि घञ् । तं न जानामि ॥ ५२ ॥
यदाचरसि तन्वि त्वं कदाचिद्वेद्मि तत्तथा ।
यद्यन्मतं ते सकलं तथास्त्वविकलं प्रिये ॥ ५३ ॥
कदाचित् व्युत्थानकाले । मतमभिमतम् ॥ ५३ ॥
न किञ्चिदनुसन्धातुं जानाम्यम्बरसुन्दरः ।
यदेव किञ्चिज्जानासि तदेव कुरु सुन्दरि ॥ ५४ ॥
अम्बरमाकाशमिव निर्लेपौदासीन्यपूर्णतासुन्दरः । जानासि कर्तव्यतयेति शेषः ॥ ५४ ॥
तदेव धारयिष्यामि प्रतिबिम्बं यथा मणिः ।
चेतसा गलितेष्टेन यथाप्राप्तमनिन्दितम् ॥ ५५ ॥
धारयिष्यामि हृदि सम्मन्तास्मीति यावत् । गलितमिष्टं इच्छा तद्विषयजातं
यस्मात्तथाविधेन । इष्टग्रहणमनिष्टस्याप्युपलक्षणम् ॥ ५५ ॥
न स्तौमि न च निन्दामि यदिच्छसि तदाचर ।
चूडालोवाच ।
यद्येवं तन्महाबाहो समाकर्णय मन्मतम् ॥ ५६ ॥
आकर्ण्य जीवन्मुक्तात्मंस्तदेवाहर्तुमर्हसि ।
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवान्विताः ॥ ५७ ॥
आहर्तुमाचरितुम् ॥ ५७ ॥
निरिच्छास्तावदाकाशविशदाः संस्थिता वयम् ।
यादृगेषणमस्माकं तादृशं तदनेषणम् ॥ ५८ ॥
एषणं राज्यभोगाद्यपेक्षणम् ॥ ५८ ॥
यत्प्राणानैषणे कोऽत्र चिन्मात्रोऽभ्यसते हि कः ।
तस्मादाद्यन्तमध्येषु ये वयं पुरुषोत्तम ॥ ५९ ॥
तत्रोपपत्तिमाह - यदिति । यद्यस्मात्कारणात्प्राणानां चक्षुरादीनां
मुख्यप्राणस्य च स्वस्वोचितविषयानेषणे सत्यत्र परमात्मनि कोऽतिशयः । न
चाज्ञानामिव तत्त्वविदोऽन्तःकरणदेहेन्द्रियादितादात्म्याध्यासोऽस्ति येनेन्द्रियाणां
विषयभोगाभ्यासेन मालिन्ये आत्मनोऽपि मालिन्यप्रसक्तिः । निष्क्रियासङ्गचिन्मात्रभूतो
हि तत्त्ववित् को भोगानभ्यसते । न कश्चिदित्यर्थः ।
अस्यतेर्विकरणपदव्यत्ययश्छान्दसः । तस्मात्प्रारब्धभोगमात्रेण
तदभ्यासव्यसनमालिन्याप्रसक्तेस्तद्भोगादौ तद्भोगान्ते मध्ये तदन्तराले च वयं
ये यत्स्वभावास्ते तत्स्वभावा एव प्रारब्धशेषमेकं भोगेन परित्यज्य क्षपयित्वा
स्थिता न तु किञ्चिदन्यथाभूता अन्ये वा भविष्याम इत्यर्थः ॥ ५९ ॥
शेषमेकं परित्यज्य त एवेमे स्थिता वयम् ।
राज्येन साम्प्रतेनेमं कालं नीत्वा क्रमेण वै ॥ ६० ॥
इममायुःशेषरूपं कालम् ॥ ६० ॥
विदेहतां प्रयास्यामः प्रभो कालेन केनचित् ।
शिखिध्वज उवाच ।
वयमाद्यन्तमध्येषु कीदृशास्तरले वद ॥ ६१ ॥
तस्मादाद्यन्तमध्येष्वित्यस्यार्थान्तरमपि सम्भावयंस्तं जिज्ञासमानो राजा
पृच्छति - वयमिति ॥ ६१ ॥
शेषमेकं परित्यज्य तिष्ठामः कथमेव वा ।
चूडालोवाच ।
वयमाद्यन्तमध्येषु राजानो राजसत्तम ॥ ६२ ॥
तदभिप्रायानुसारेणैव चूडालापि तदर्थं वर्णयति - वयमिति ॥ ६२ ॥
मोहमेकं परित्यज्य भवामः पुनरेव ते ।
स्व एव नगरे राजा भव त्वं स्वासने स्थितः ॥ ६३ ॥
तत्र शेषशब्दस्यार्थान्तरमाह - मोहमिति ॥ ६३ ॥
ललामो ननु कान्तानां महिषी ते भवाम्यहम् ।
सनृपा मत्तवास्तव्या नृत्यन्नवनवाङ्गना ॥ ६४ ॥
कान्तानामन्तःपुरस्त्रीणां ललामो भूषणभूतो भवामि भविष्यामि । मता हृष्टा
वास्तव्याः पुरवासिनो यस्याम् । एतदादीनि पुरीविशेषणानि
मधुमासलतालक्ष्मीसाम्योपपादकानि ॥ ६४ ॥
सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी ।
लसद्वल्लया समञ्जर्या रणत्पुष्पालिमालया ।
मधुमासलतालक्ष्म्या चिराद्भवतु सा समा ॥ ६५ ॥
श्रीवसिष्ठ उवाच ।
इति चूडालया प्रोक्तो विहस्य स शिखिध्वजः ।
प्रोवाच मधुरं वाक्यमक्षुब्धं विगतज्वरः ॥ ६६ ॥
एवं चेत्तद्विशालाक्षि स्वायत्ता नस्त्रिविष्टपे ।
सिद्धभोगश्रियस्तासु निवसामि न किं प्रिये ॥ ६७ ॥
यदि ते मया सह भोगेच्छास्ति तर्हि इन्द्रेण प्रार्थिता दिव्यभोगा एव भुज्यन्तां किं
मानुषैरिति राजाह - एवं चेदिति ॥ ६७ ॥
चूडालोवाच ।
न राजन्मम भोगेषु वाञ्छा नापि विभूतिषु ।
स्वभावस्य वशादेव यथाप्राप्तेन मे स्थितिः ॥ ६८ ॥
न सुखाय मम स्वर्गो न राज्यं नापि च क्रिया ।
यथास्थितमविक्षुब्धन्न् तिष्ठामि स्वस्थचेष्टिता ॥ ६९ ॥
इदं सुखमिदं नेति मिथुने क्षयमागते ।
सममेव पदे शान्ते तिष्ठामीह यथासुखम् ॥ ७० ॥
मिथुने द्वन्द्वे ॥ ७० ॥
शिखिध्वज उवाच ।
युक्तमुक्तं विशालाक्षि त्वयैतत्समया धिया ।
को वार्थः किल राज्यस्य ग्रहे त्यागेऽपि वा भवेत् ॥ ७१ ॥
सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् ।
यथासंस्थानमेवेमौ तिष्ठावः स्वस्थतां गतौ ॥ ७२ ॥
यथासंस्थानं यथास्थितम् ॥ ७२ ॥
इति तत्र कथालापकथनेन तयोर्द्वयोः ।
कान्तयोश्चिरदम्पत्योर्वासरस्तनुतां ययौ ॥ ७३ ॥
चिरदम्पत्योः प्राचीनजायापत्योः ॥ ७३ ॥
अथोत्थाय दिनाचारं यथाप्राप्तमनिन्दितौ ।
सोत्कण्ठावप्यनुत्कण्ठौ चक्रतुः कार्यकोविदौ ॥ ७४ ॥
दिनाचारं सायंसन्ध्याम् । सायंसन्ध्यां सभास्करा मित्युक्तेर्दिनाचारता ।
परस्परेप्सितसम्भोगाय सोत्कण्ठावपि निर्वासनत्वादनुत्कण्ठौ ॥ ७४ ॥
स्वर्गसिद्धिमनादृत्य तस्थतुः पूर्णचेतसौ ।
एकस्मिन्नेव शयने तैस्तैः प्रणयचेष्टितैः ।
सा व्यतीयाय रजनी तयोर्जीवद्विमुक्तयोः ॥ ७५ ॥
तद्भोगमोक्षसुखमुत्तमयोः स्वयं समाशंसतोः
प्रणयवाक्यविलासगर्भम् ।
उत्कण्ठतां प्रणयिनोर्धियमानयन्ती दीर्घा मुहूर्तवदसौ रजनी जगाम ॥ ७६
॥
तत्परस्परानुभवसिद्धभोगमोक्षसुखं स्वयं प्रणयवाक्यविलासगर्भं यथा
स्यात्तथा आशंसतोः कथयतोस्तयोर्धियमुत्कण्ठतां सोत्कण्ठतामानयन्ती
प्रापयन्ती रजनी दीर्घापि मुहूर्तवज्जगामेत्यर्थः ॥ ७६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० चू०
चूडालाप्रकटीकरणं नाम नवोत्तरशततमः सर्गः ॥ १०९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चूडालाप्रकटीकरणं नाम नवोत्तरशततमः सर्गः ॥ १०९ ॥