१०७

सप्ताधिकशततमः सर्गः १०७

श्रीवसिष्ठ उवाच ।

अथ सूर्याख्यरङ्गेण रञ्जिते भुवनोदरे ।
शिखिध्वजाङ्गना प्रातर्मदनी कुम्भतां ययौ ॥ १ ॥

नानागिरिविहारादि तथा मायेन्द्रदर्शनम् ।
असंसक्तिपरीक्षार्थं स्वर्गाह्वानादि वर्ण्यते ॥

रङ्गेण रञ्जकद्रव्येण ॥ १ ॥

एवं महेन्द्रदर्यां तावुभौ कुम्भशिखिध्वजौ ।
स्वयं विवाहिताविष्टौ सम्पन्नौ देवदम्पती ॥ २ ॥

देवसदृशभोगाढ्यत्वाद्देवदम्पती ॥ २ ॥

विलेसतुर्विचित्रासु प्रत्यहं वनराजिषु ।
प्रपक्वफलभारासु पुष्पपल्लविनीषु च ॥ ३ ॥

दिवा प्रीततरौ मित्रे यामिन्यामिष्टदम्पती ।
प्रभादीपाविव श्लिष्टौ न वियुक्तौ बभूवतुः ॥ ४ ॥

यामिन्यान्न् रात्रौ । श्लिष्टौ युक्तौ ॥ ४ ॥

रेमाते वनकुञ्जेषु गुहासु च महीभृताम् ।
तमालजालखण्डेषु मन्दारगहनेषु च ॥ ५ ॥

सह्यदर्दुरकैलासमहेन्द्रमलयेषु च ।
गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च ॥ ६ ॥

सह्यादयः सप्त पर्वताः ॥ ६ ॥

दिनैस्त्रिभिस्त्रिभिर्गत्वा निद्रां गतवति प्रिये ।
चूडाला राजकार्याणि कृत्वा स्वभ्याययौ पुनः ॥ ७ ॥

प्रिये निद्रां गतवति स्वनगरं गत्वेति शेषः ॥ ७ ॥

तौ दिवा सुहृदौ मित्रे दम्पती कुम्भभूमिपौ ।
नानाकुसुमसंवीतौ तस्थतुर्मुदितौ मिथः ॥ ८ ॥

मासमेकं महेन्द्राद्रौ रम्ये सरलसङ्कुले ।
रत्नकुड्ये गुहागेहे पूजितौ सुरकिन्नरैः ॥ ९ ॥

क्व क्व कियत्कियत्कालं तस्थतुस्तत्राह - मासमित्यादिना । पूजितौ प्रशस्तौ ॥ ९ ॥

हस्तलभ्योदितामोघमन्दारवनमालिते ।
एवं शुक्तिमतः पृष्ठे पक्षं कल्पलतागृहे ॥ १० ॥

हस्तलभ्यान्युदितानि उद्भूतानि क्षुत्तृषारोगजराद्यपहारित्वादमोघानि
फलकुसुमकिसलयादीनि येषां तथाविधैर्मन्दारैर्वनमालिते सञ्जातवनमाले ।
शुक्तिमतः पर्वतविशेषस्य पृष्ठे ॥ १० ॥

मासद्वयं पक्षवतो गिरेर्दक्षिणदिक्तटे ।
पारिजातवने देवपुष्पस्तबकमण्डपे ॥ ११ ॥

पक्षवतो गिरेर्मैनाकस्य । देवभोग्ये पुष्पस्तबकमण्डपे ॥ ११ ॥

जम्बूखण्डतले मेरोः पादे जम्बूनदीतटे ।
जाम्बूनदमये मासं जम्बूफलरसासवैः ॥ १२ ॥

मेरोर्दक्षिणपादे जम्बूद्वीपकेतुर्जम्बूवृक्षः प्रसिद्धस्तत्सन्ततिजे
सम्बूवनखण्डतले तस्थतुरिति सर्वत्रानुषङ्गः । जम्बूफलानां गजप्रमाणानां
रसलक्षणैरासवैः पेयैः स्वेददौर्गन्ध्यजरामयादिनिर्मुक्तस्थिरयौवनाविति
पुराणप्रसिद्ध्यनुसारेणाध्याहार्यम् ॥ १२ ॥

दशोत्तरकुरूणां च मण्डले दिवसानि तौ ।
कोसलेषूत्तरस्थेषु सप्तविंशतिवासरान् ॥ १३ ॥

उत्तरकुरूणां मण्डले दश दिवसानि तौ तस्थतुः ॥ १३ ॥

एवमन्येषु देशेषु विचित्रेषु महीभृताम् ।
स्थितवन्तौ महाभागौ सुहृदौ निशि दम्पती ॥ १४ ॥

ततो यातेषु मासेषु शनैः कतिपयेषु सा ।
चूडाला चिन्तयामास देवपुत्रकरूपिणी ॥ १५ ॥

सुरूपभोगभारेण परीक्षेऽहं शिखिध्वजम् ।
मा कदाचन चेतोऽस्य भोगेषु रतिमेष्यति ॥ १६ ॥

परीक्षे परीक्षिष्ये । वर्तमानसामीप्याल्लट् । रतिमासक्तिम् । परीक्षया
दृढीकृतानासक्तिरयं कदाचिदपि भोगेषु रतिं मा एष्यति नैष्यत्येवेत्यर्थः ॥ १६ ॥

इति सञ्चिन्त्य चूडाला मायया विपिनावनौ ।
आगतं दर्शयामास ससुराप्सरसं हरिम् ॥ १७ ॥

सुरैरप्सरोभिश्च सह वर्तमानं हरिमिन्द्रम् ॥ १७ ॥

इन्द्रमभ्यागतं दृष्ट्वा परिवारसमन्वितम् ।
यथावत्पूजयामास वनसंस्थः शिखिध्वजः ॥ १८ ॥

यथावत् यथाशास्त्रमर्घ्यपाद्याद्युपचारैः ॥ १८ ॥

शिखिध्वज उवाच ।

आत्मना किं कृता दूरादभ्यागमकदर्थना ।
देवराज यथा तन्मे प्रसादाद्वक्तुमर्हसि ॥ १९ ॥

अभ्यागमलक्षणा कदर्थना श्रमः किं किमर्थं कृता यथा यत्प्रकारेण
प्रयोजनेन तत् प्रयोजनं वक्तुमर्हसीत्यर्थः ॥ १९ ॥

इन्द्र उवाच ।

इमे वयमिहायातास्त्वद्गुणातिशयेन खात् ।
हृदि लग्नेन सूत्रेण खगा वनगता इव ॥ २० ॥

खात् स्वर्गात् ॥ २० ॥

उत्तिष्ठ स्वर्गमागच्छ तत्र सर्वे त्वदुन्मुखाः ।
त्वद्गुणश्रवणाश्चर्याः स्थिता देवाङ्गनागणाः ॥ २१ ॥

त्वद्गुणश्रवणप्रयुक्तमाश्चर्यं विस्मयो येषां यासां च देवाश्च
तदङ्गनागणाश्च देवाङ्गनागणाः ॥ २१ ॥

पादुकागुटिकाखड्गरसादीदमथापि च ।
गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम् ॥ २२ ॥

गगनगमनशक्तिशून्यस्य मे कथं स्वर्गे आगमनं तत्राह - पादुकेति । अथ
सिद्ध्यन्तरविमानदिव्याश्वाद्यपि च ॥ २२ ॥

आगत्य विविधा भोगास्त्वया विबुधसद्मनि ।
जीवन्मुक्तेन भोक्तव्यास्तेन त्वामहमागतः ॥ २३ ॥

तेन त्वदाह्वानप्रयोजनेन ॥ २३ ॥

विमानयन्ति सम्प्राप्तां न तिरस्करणैः श्रियम् ।
नाभिवाञ्छन्ति न प्राप्तां त्वादृशाः साधु साधवः ॥ २४ ॥

प्रत्याख्यानं हृदिस्थमालक्ष्याह - विमानयन्तीति ॥ २४ ॥

अविघ्नमागतेनाद्य सुखं विहरता त्वया ।
स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम् ॥ २५ ॥

बलिद्वारपालनाय षड्गर्भाहरणाय च पातालेऽपि हरेर्विहारप्रसिद्धेर्जगत्त्रयमिति ॥
२५ ॥

शिखिध्वज उवाच ।

सर्व स्वर्गसमाचारं वेद्मि देवाधिनायक ।
किन्तु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित् ॥ २६ ॥

स्वर्गसम आचारः सुखविहरणं यस्मिंस्तथाविधम् । स्वर्गेण समं
सुखमाचरतीत्यणन्तं वा । सर्वं देशम् । तथा वेदने हेतुस्त्वयि को विशेष इति
चेत्तमाह - किन्त्विति । मदभिमतः स्वर्गो भूमात्मैव । स च सर्वत्रैवेति भावः ।
नियतः परिच्छिन्नः ॥ २६ ॥

सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो ।
अवाञ्छनत्वान्मनसः सर्वत्रानन्दवानहम् ॥ २७ ॥

पूर्णकामत्वादपि मे सर्वत्र सुखमित्याह - सर्वत्रेति ॥ २७ ॥

नियतं किञ्चिदेकत्र [कञ्चित् इति पाठः ।] स्थितं स्वर्गकमीदृशम् ।
शक्र गन्तुं न जानामि त्वदाज्ञां न करोम्यहम् ॥ २८ ॥

तुच्छं स्वर्गं स्वर्गकं गन्तुं न जानामि न सम्भावयामि । तथा
चासम्भाव्यविषये आज्ञापनं तवैवानुचितं न तु मम तदकरणमपराध इति
भावः ॥ २८ ॥

शक्र उवाच ।

साधो विदितवेद्यानां परिपूर्णधियां समम् ।
सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम् ॥ २९ ॥

पूर्णधियां भोगोपसेवनं भोगानुपसेवनं च समम् । तत्रापि भोगोपसेवनं
सज्जनैः प्रारब्धक्षयायाचरितमतस्तद्युक्तं मन्ये इत्यर्थः ॥ २९ ॥

देवेशे प्रोक्तवत्येवं तूष्णीमेव स्थिते नृपे ।
किमितो नापयाम्येष [नापयास्येष इति मुद्रितपाठश्चिन्त्यः ।] त्वमिति
प्रोक्तवान् हरिः ॥ ३० ॥

देवेशे एवं पुनः प्रोक्तक्त्यपि स्वर्गं गन्तुमनिच्छया नृपे तूष्णीं स्थिते सति एष
एवंविधो निरपेक्षस्त्वं यदि तर्ह्यहमितः किं नापयामि ।
असम्पन्नागमनप्रयोजनस्य ममापयानमेव युक्तमिति हरिरिन्द्रः खेदं सूचयन्
प्रोक्तवान् ॥ ३० ॥

नाहमद्यैव कालेन वदतीति शिखिध्वजे ।
कल्याणं तेऽस्तु कुम्भेति वदन्नन्तर्धिमाययौ ॥ ३१ ॥

अहमद्यैव न स्वर्गमागच्छामि किन्तु पुना राज्ये प्रतिष्ठितः कालेन प्रागिव
त्वदरिनिबर्हणादिप्रयोजनार्थमागमिष्यामीत्याशयेनार्धोक्त्या शिखिध्वजे वदति सति
हे कुम्भ ते राजाभिप्रेतं पुना राज्यप्राप्तिलक्षणं कल्याणमस्त्विति कुम्भं प्रति
वदन्नन्तर्धिमन्तर्धानमाययौ हरिः ॥ ३१ ॥

तद्देववृन्दमखिलं त्रिदशेशयुक्तं तत्र
क्षणादलमदृश्यमभूद्द्वितीयम् ।
कल्लोलराशिरिव वारिनिधौ प्रशान्ते वाते स्फुरन्मकरफेनफणीन्द्रवृन्दम् ॥
३२ ॥

इन्द्रे अन्तर्धिमागते तेन त्रिदशेशेन युक्तं तद्द्वितीयं देववृन्दमपि
क्षणाददृश्यमभूत् । यथा वारिनिधौ वाते प्रशान्ते सति स्फुरन्ति व्याकुलानि
मकरफेनफणीन्द्रवृन्दानि यस्मिंस्तथाविधः कल्लोलराशिरप्यदृश्यो भवति
तद्वदित्यर्थः ॥ ३२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
श्रक्रगमनं नाम सप्तोत्तरशततमः सर्गः ॥ १०७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शक्रगमनं नाम सप्तोत्तरशततमः सर्गः ॥ १०७ ॥