१०६

षडुत्तरशततमः सर्गः १०६

श्रीवसिष्ठ उवाच ।

ततः कतिपयेष्वेव दिवसेषु गतेषु सा ।
इदं प्रोवाच भर्तारं कुम्भरूपधरा सती ॥ १ ॥

वर्ण्यतेऽत्र महेन्द्रादौ विवाहोऽग्निपुरस्कृतः ।
तयोर्गुहायां सौवर्ण्यां पुष्पतल्पे च सङ्गमः ॥

सा चूडाला ॥ १ ॥

राजन्राजीवपत्राक्ष ममेदं वचनं शृणु ।
निशायां प्रत्यहं तावत्स्थित एवाहमङ्गना ॥ २ ॥

तदिच्छाम्यङ्गनाधर्मं निपुणीकर्तुमीदृशम् ।
भर्त्रे कस्मैचिदात्मानं विवाहेन ददाम्यहम् ॥ ३ ॥

निपुणीकर्तुं सफलीकर्तुम् । ददामि अचिरादेव दास्यामि ॥ ३ ॥

तद्भवानेव मे भर्ता रोचते भुवनत्रये ।
गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा ॥ ४ ॥

अयत्नोपनतं साधो प्रियेण सुहृदा सह ।
स्त्रीसुखं भोक्तुमिच्छामि मा मे विघ्नकरो भव ॥ ५ ॥

प्रत्याख्यानेन विघ्नकरो मा भव ॥ ५ ॥

क्रमप्रवृत्तमासृष्टेः सुखं साध्यं मनोरमम् ।
प्रकृतं कुर्वतः कार्यं दोषः क इव जायते ॥ ६ ॥

आसृष्टेः सृष्टिकालमारभ्य देवर्ष्यादिषु अद्ययावत्क्रमप्रवृत्तं
सुखमनायासमेव साध्यं प्रकृतं प्रस्तुतं विवाहकार्यं इच्छानिच्छे तत्फले
च त्यक्त्वा कुर्वतस्ते क इव दोषो जायत इत्यन्वयः । वयं आवाम् । अस्मदो द्वयोश्च इति
बहुवचनम् ॥ ६ ॥

इच्छानिच्छे फले त्यक्त्वा समन्तात्सर्ववस्तुषु ।
वयं न सेच्छा नानिच्छाः कुर्मस्तेनेदमीसितम् ॥ ७ ॥

शिखिध्वज उवाच ।

कृतेनानेन कार्येण न शुभं नाशुभं सखे ।
पश्यामि तन्महाबुद्धे यथेच्छसि तथा कुरु ॥ ८ ॥

तत्तस्माद्धेतोः ॥ ८ ॥

समतां सम्प्रयातेन चेतसेदं जगत्त्रयम् ।
स्वरूपमेव पश्यामि यथेच्छसि तदाचर ॥ ९ ॥

स्वरूपं स्वात्मभूतमेवानुपश्यामि ॥ ९ ॥

कुम्भ उवाच ।

यद्येवं तन्महीपाल लग्नमद्यैव शोभनम् ।
राकेयं श्रावणस्यास्य ह्यः सर्वं गणितं मया ॥ १० ॥

ह्यः पूर्वेद्युरिव मया विवाहलग्नादि सर्वं गणितम् ॥ १० ॥

रात्रावद्योदिते चन्द्रे परिपूर्णकलामले ।
जन्यत्रो नौ महाबाहो द्वयोरेव भविष्यति ॥ ११ ॥

जन्यत्रो विवाहः । द्वयोरेव गान्धर्वविधिनेति भावः ॥ ११ ॥

महेन्द्राद्रिशिरःशृङ्गसानावद्य मनोरमे ।
रत्नदीपप्रकाशाढ्ये मणिकन्दरमन्दिरे ॥ १२ ॥

मणिमयकन्दरलक्षणे मन्दिरे ॥ १२ ॥

पुष्पभारानतोत्तुङ्गवृक्षराजिविराजिते ।
वनपुष्पलतालास्यनारीनृत्यमनोहरे ॥ १३ ॥

विवाहोत्सवोचितनरनारीगणस्थानीयतया वृक्षलतादिसम्पत्तिं दर्शयति -
पुष्पभारेति ॥ १३ ॥

निशि व्योमगतास्तारा भर्त्रा पूर्णेन्दुना सह ।
आवयोः परिपश्यन्तु कर्णान्तायतलोचन ॥ १४ ॥

परिपश्यन्तु विवाहोत्सवमिति शेषः ॥ १४ ॥

उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् ।
राजंश्चन्दनपुष्पादिसम्भारं रत्नसंयुतम् ॥ १५ ॥

इत्युक्त्वा कुम्भ उत्थाय सह तेन महीभृता ।
कुसुमावचयं चक्रे तथा रत्नादिसञ्चयम् ॥ १६ ॥

ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे ।
समालम्भनपुष्पाणां ताभ्यां वै राशयः कृताः ॥ १७ ॥

रत्नसम्भृते सानौ समे शुभे अजिरे इति शेषः । समालम्भनं
देवताग्निमदनादिपूजनं तदर्थानां पुष्पाणाम् ॥ १७ ॥

हाराम्बरमणीन्द्रादिराशयस्त्वपरेऽजिरे ।
सौभाग्यस्येव कामेन कोशाः कालेन सम्भृताः ॥ १८ ॥

अप्रे अजिरे इति वचनात्पूर्वमप्यजिरे इति गम्यते । कालेन भोजकसुकृतपरिपाककालेन ॥ १८

तथा जन्यत्रसम्भारं कृत्वा काञ्चनकन्दरे ।
ययतुस्तौ महामित्रे स्नातुं मन्दाकिनीं नदीम् ॥ १९ ॥

तत्रैनं स्नापयामास महाराजं महादरात् ।
गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम् ॥ २० ॥

मङ्गलं दधिदूर्वाक्षतसिद्धार्थादि तत्पूर्वकम् ॥ २० ॥

भविष्यद्दयितारूपं भविष्यद्दयितोऽङ्गनाम् ।
चूडालां स्नापयामास कुम्भरूपधरां प्रियाम् ॥ २१ ॥

पूजयामासतुः स्नातौ तत्र देवपितॄन्मुनीन् ।
यथा क्रियाफलेऽनिच्छौ क्रियात्यागे तथैव तौ ॥ २२ ॥

क्रियाफलानिच्छ्वोस्तयोः कथं पूजाप्रवृत्तिस्तत्राह - यथेति । यथैव
क्रियात्यागेऽप्यनिच्छौ ॥ २२ ॥

नित्यज्ञानरसातृप्तौ व्यवस्थायां जगत्स्थितेः ।
चक्राते भोजनं भव्यं तावन्योन्यसमीहितम् ॥ २३ ॥

अन्योन्यसमीहितं सिद्धिबलकल्पितान्नादेर्बोजनम् ॥ २३ ॥

कल्पवृक्षदुकूलानि परिधाय सितानि तौ ।
फलानि भुक्त्वा जन्यत्रस्थानमाययतुः क्रमात् ॥ २४ ॥

फलानि कल्पवृक्षफलानि । जन्यत्रस्थानं वेदिमूलम् । क्रमात् शास्त्रोक्तक्रमात् ॥ २४ ॥

एतावताथ कालेन तयोर्जन्यत्रसोत्कयोः ।
प्रियं कर्तुमिवास्ताद्रिं द्रागित्येवाविशद्रविः ॥ २५ ॥

अथ सन्ध्याक्रमे वृत्ते कृते जप्याघमर्षणे ।
विवाहदर्शनायैव ताराजाले खमागते ॥ २६ ॥

सन्ध्याक्रमे सन्ध्यावन्दनविधौ ॥ २६ ॥

मिथुनैकसखीयामा कुमुदोत्करहासिनी ।
प्रालेयजालप्रकरं विकिरन्ती समाययौ ॥ २७ ॥

मिथुनानां प्रीतिकरत्वान्नैकसखीयामा त्रियाम ॥ २७ ॥

रत्नदीपान्बहून्सानौ कुम्भः सम्यगयोजयत् ।
ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरे ॥ २८ ॥

पद्मोद्भवो ब्रह्मा ॥ २८ ॥

भूषयामास राजानं स्त्रीत्वं गच्छन्निशागमे ।
चन्दनागुरुकर्पूरपूरैर्मृगजकुङ्कुमैः ॥ २९ ॥

मृगजैः कस्तूरीपौष्कलकादिभिः । कुङ्कुमैः काश्मीरैः ॥ २९ ॥

हारकेयूरकटकैस्तथा कल्पलतांशुकैः ।
स्रगुद्दामावतंसैश्च माल्यैश्च विविधोचितैः ॥ ३० ॥

कल्पलतोद्भूतैरंशुकैर्वस्त्रैः । स्रग्भिरुद्दामैरुत्कृष्टशोभैरवतंसैः
रत्नगुच्छाद्युत्तंसैः । माल्यैः कण्ठादिमाल्यैर्विविधभूषणोचितैः ॥ ३० ॥

तथा कल्पलतागुच्छैर्मन्दारैः पारिजातकैः ।
सन्तानैर्बहुरत्नैश्च मौलिना चेन्दुरूपिणा ॥ ३१ ॥

मौलिपदेन चूडामणिर्लक्ष्यते । इन्दुरूपिणा चन्द्रसदृशेन ॥ ३१ ॥

एतावताथ कालेन वधूत्वं कुम्भ आययौ ।
घनस्तनभराक्रान्तो बभूवाशु विलासवान् ॥ ३२ ॥

वधूचितविलासवान् ॥ ३२ ॥

इदं सञ्चिन्तयामास सम्पन्नोऽयमहं वधूः ।
कामायात्मा मया देयः कार्यं कालोचितं किल ॥ ३३ ॥

कामाय कामरूपाय वराय ॥ ३३ ॥

इयमस्मि वधूः कान्ता भर्ता त्वं मे पुरःस्थितः ।
गृहाण काम मामेहि कालोऽयं तव हृच्छयः ॥ ३४ ॥

अत एव कामत्वेनैव भर्तारं कल्पयित्वा मनस्याह - इयमिति ॥ ३४ ॥

इति सञ्चिन्त्य भर्तारमग्रस्थगहनस्थितम् ।
उदयन्तमिवादित्यं रतिः काममिवाभ्यगात् ॥ ३५ ॥

अग्रस्थे गहने वनवेदिदेशे स्थितम् ॥ ३५ ॥

अहं मदनिका नाम भार्यास्मि तव मानद ।
पादयोस्ते प्रणामोऽयं सस्नेहं क्रियते मया ॥ ३६ ॥

सस्नेहं सानुरागम् ॥ ३६ ॥

इत्युक्त्वा सानवद्याङ्गी लज्जावनमितानना ।
लोलालकेन शिरसा प्रणनाम लसत्पतिम् ॥ ३७ ॥

लसन्तं शोभमानं पतिम् ॥ ३७ ॥

उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः ।
क्रमेणाग्निं च सञ्ज्वाल्य मत्पाणिग्रहणं कुरु ॥ ३८ ॥

सञ्ज्वाल्य हुत्वाभ्यर्च्य च ॥ ३८ ॥

राजसेऽतितरां राजन्मां करोषि स्मरातुराम् ।
रतेर्विवाहे मदनमभिभूयाधितिष्ठसि ॥ ३९ ॥

रतेर्विवाहे प्रसिद्धं मदनं स्वशोभयाभिभूयेत्यर्थः ॥ ३९ ॥

इन्दोरिवांशुजालानि राजन्माल्यानि तानि ते ।
मेरुगङ्गाप्रवाहाभां धत्ते हारस्तवोरसि ॥ ४० ॥

तां शोभामेव वर्णयति - इन्दोरित्यादिना । तवोरसि स्थितो हारो मेरौ प्रसिद्धस्य
गङ्गाप्रवाहस्य आभां शोभां धत्ते ॥ ४० ॥

मन्दारकुसुमप्रोतैः कुन्तलैर्नृप राजसे ।
कनकाब्जमिवोल्लोलैर्भृङ्गैः खचितकेसरैः ॥ ४१ ॥

खचितकेसरैर्घटितकिञ्जल्कैः ॥ ४१ ॥

रत्नांशुजालैः कुसुमैः श्रिया स्थैर्येण तेजसा ।
रत्नस्थानं विभो मेरुमभिभूयावतिष्ठसे ॥ ४२ ॥

रत्नांशुजालैरित्यादीनि राजमेरुसाधारण्येन योज्यानि ॥ ४२ ॥

एवमादि वदन्तौ तौ भविष्यन्नवदम्पती ।
प्रच्छन्नपूर्वदाम्पत्यौ मिथस्तुष्टौ बभूवतुः ॥ ४३ ॥

वदन्तौ तौ इत्युक्त्या राज्ञापि तस्याः शोभा वर्णितेति गम्यते ॥ ४३ ॥

महाराज्ञीं मदनिकां महाराजः शिखिध्वजः ।
काञ्चनोपलपर्यङ्के निविष्टो भूषयत्स्वयम् ॥ ४४ ॥

काञ्चनोपललक्षणे पर्यङ्के निविष्ट उपविष्टः ॥ ४४ ॥

अवतंसैस्तथा माल्यैर्मणिरत्नविभूषणैः ।
वस्त्रैर्विलेपनैः पुष्पै रुचिरस्थानकार्पितैः ॥ ४५ ॥

तत्तद्भूषणोचितस्थानके अर्पितैः ॥ ४५ ॥

सा बभौ भूषिता तन्वी मदनी मददायिनी ।
गिरिजेव विवाहोत्का कामकान्तेव कामिनी ॥ ४६ ॥

कामकान्ता रतिरिव च ॥ ४६ ॥

महाराजो महाराज्ञीं भूषयित्वेदमाह ताम् ।
राजसे मृगशावाक्षि लक्ष्मीरिव नवोदिता ॥ ४७ ॥

नवोदितेत्यनेन पूर्वलक्ष्म्या जरतीत्वेन शोभापकर्षो व्यज्यते ॥ ४७ ॥

शक्रेण सह यच्छच्या यल्लक्ष्म्या हरिणा सह ।
यद्गौर्याः शम्भुना सार्धं तत्ते भवतु मङ्गलम् ॥ ४८ ॥

तत्ते मङ्गलम् । मया सहेति शेषः ॥ ४८ ॥

पद्मकोशाङ्कुरहृदा लोलनीलोत्पलेक्षणा ।
आमोदशुभझाङ्कारा स्वास्थिता पद्मिनीव सा ॥ ४९ ॥

स्तनसदृशः पद्मकोशः अनुरागसदृशा अङ्कुराश्च हृदि यस्याः । आपं चैव
हलन्तानाम् इति भागुरिमतेन टाप् । लोलानि नीलोत्पलानीक्षणानीव यस्याः । आमोदैः
शुभा भ्रमरझाङ्कारा यस्यास्तथाविधा पद्मिनीव सा त्वं स्थितेत्यर्थः ॥ ४९ ॥

सुरक्तपल्लवकरा स्तनस्तवकधारिणी ।
त्वमनेकफला मन्ये कामकल्पतरोर्लता ॥ ५० ॥

इदानीं तां कल्पलतात्वेन रूपयति - सुरक्तेति ॥ ५० ॥

हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी ।
पूर्णेन्दुश्रीरिवोद्युक्ता हृष्टैवाह्लादयस्यलम् ॥ ५१ ॥

हिमशीतेत्यादीनि पूर्णेन्दुश्रियो मदनिकायाश्च साधारणानि योज्यानि ॥ ५१ ॥

तदुत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् ।

श्रीवसिष्ठ उवाच ।

तत्र पुष्पलताजालैः काण्ढं प्रति शिलाङ्कितैः ॥ ५२ ॥

स्वयमलङ्कुर्विति शेषः । तत्र वेद्याम् । काण्डं प्रति प्रतिकाण्डं
फलगुच्छसमाकारनवरत्नऽसिलाभिरङ्कितैश्चिह्नितैः ॥ ५२ ॥

मुक्ताकुसुमजालानां प्रकरैः स्तवकोपमैः ।
चतुर्दिक्कं चतुर्भिश्च नालिकेरमहाफलैः ॥ ५३ ॥

पूर्णकुम्भैस्तथा गङ्गावारिपूर्णैः प्रकल्पितैः ।
ज्वालयामासतुस्तस्या मध्ये चन्दनदारुभिः ॥ ५४ ॥

प्रकल्पितैस्तत्र वेद्यामलञ्चक्रतुरिति शेषः । तस्या वेद्या मध्ये वैवाहिकं ज्वलनं
प्रतिष्ठाप्य चन्दनदारुभिर्ज्वालयामासतुः ॥ ५४ ॥

ज्वलनं ज्वालितज्वालं दक्षिणस्थं प्रदक्षिणम् ।
पूर्वाभिमुखमेवाग्नेरग्रे पल्लवविष्टरे ॥ ५५ ॥

तं ज्वालितज्वालं दक्षिणावर्तशिखत्वाद्दक्षिणस्थं ज्वलनं नियोज्य प्रदक्षिणं
कृत्वा तस्याग्नेरग्रे पल्लवविष्टरे विविशतुरिति परेणान्वयः ॥ ५५ ॥

नियोज्य दम्पती कान्तौ तयोर्विविशतुः [तयोर्दपत्योर्मध्ये स शिखिध्वज
इत्यन्वयः ।] स्वयम् ।
स हुत्वा तिललाजानि [लाजानीति नपुंसकत्वमार्षम् ।] पावकाय
शिखिध्वजः ॥ ५६ ॥

उत्थायोत्थाय कान्तां स पाणिभ्यां स्वयमाददे ।
अन्योन्यन्न् शोभमानौ तौ भवाविच वने शिवौ ॥ ५७ ॥

भवश्च भवानी च भवौ । पुमान् स्त्रिया इति पुंशेषः । शिवौ मङ्गलस्वरूपौ ॥ ५७ ॥

चक्रतुर्दम्पती तस्य पावकस्य प्रदक्षिणम् ।
स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चापलम् ॥ ५८ ॥

परस्परमात्मदाने किं दायं परस्परं ददतुस्तमाह - स्वदायमिति ॥ ५८ ॥

ददतुस्तौ मिथोऽन्योन्यस्मितकान्तमुखश्रियौ ।
प्रदक्षिणत्रयं कृत्वा लाजांस्त्यक्त्वाथ वह्नये ॥ ५९ ॥

भार्यावरौ समं तुष्टौ करौ तत्यजतुः क्रमात् ।
स्मयमानमुखौ कान्तौ चन्द्राविव नवोदितौ ॥ ६० ॥

सम्भोगकालसान्निध्यस्मृतेः स्मयमानमुखौ ॥ ६० ॥

पूर्वोपरचिते पुष्पतल्पे विविशतुर्नवे ।
एतस्मिन्नन्तरे चन्द्रश्चतुर्भागं नभस्तलात् ॥ ६१ ॥

विवाहव्यापारेणाद्यः प्रहरोऽतिक्रान्त इति सूचयन्नाह - एतस्मिन्निति । चतुर्भागं
चतुर्थभागम् ॥ ६१ ॥

शनैराक्रमयामास शोभां द्रष्टुमिवानयोः ।
तस्मिंश्च ललनाछिद्रं द्रष्टुन्न् दृष्टिरिवाभितः ॥ ६२ ॥

तस्मिंस्तल्पे करान् सञ्चारयामास । यथा कामुकस्य दृष्टिर्ललनाछिद्रं
द्रष्टुमभितः करान् स्वकिरणान् प्रसारयति तद्वत् ॥ ६२ ॥

लोलः सञ्चरयामास करानिन्दुर्लतागृहे ।
तैस्तैर्नवकथालापैरिन्दावभ्युदिते त्वथ ॥ ६३ ॥

तावासाञ्चक्रतुः कान्तौ दम्पती सुमुहूर्तकम् ।
अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् ॥ ६४ ॥

सङ्गमसुमुहूर्तकं प्रतीक्षमाणाविति शेषः । काञ्चनमयीं कन्दरां गुहां
विविशतुः ॥ ६४ ॥

स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ ।
ददर्शतुर्नवं तत्र तल्पं कुसुमकल्पितम् ॥ ६५ ॥

चन्द्रस्याप्यदृश्यत्वाद्गुप्ता । तत्र तल्पं ददर्शतुः । तदेव वर्णयति -
कल्पितमित्यादिसार्धत्रयेण । ददर्शतुरिति कित्यतुसि गुणश्छान्दसः ॥ ६५ ॥

परितो व्याप्तमुत्कीर्णैर्हेमपङ्कजराशिभिः ।
मन्दारादिभिरन्यैश्च पुष्पैर्ग्लानिविवर्जितैः ॥ ६६ ॥

ग्लानिवर्जितैरम्लानैः ॥ ६६ ॥

उच्चकैः सुप्रमाणेन निर्मितैः कुसुमैः समैः ।
दीर्घेन्दुबिम्बप्रतिमैस्तुषारस्थलशीतलैः ॥ ६७ ॥

शोभनेन शय्याप्रमाणेनोच्चकैरुन्नतैः । कदनिका सत्यसङ्कल्पेन समैः
कुसुमैर्निर्मितैर्दीर्घशय्याकारेण दीर्घीभूतेन्दुबिम्बप्रतिमैः पुष्पैः परितो
व्याप्तमिति पूर्वत्रान्वयः ॥ ६७ ॥

क्षीरोदजलधाराभन्न् ज्योत्स्नासम्पिण्डसुन्दरम् ।
प्रतिबिम्बभनङ्गस्य [अनन्तस्येति पाठः ] नतं भित्ताविव स्थितम् ॥ ६८

पुनस्तल्पमेव विशिनष्टि - क्षीरोदेत्यादिना । नतं सङ्क्रान्तम् ॥ ६८ ॥

सुगन्धमुन्नतं कान्तं चिरादन्यतयोत्थितम् ।
मिथुनं पुष्पराशौ तन्न्यषीदत्परितोऽमले ।
तस्मिन्समसमाभोगे क्षीरोदे मन्दरो यथा ॥ ६९ ॥

चिरात् राज्यत्यागकालादारभ्य अन्यतया अदम्पतित्वेन भ्रान्त्या उदितं तन्मिथुनं
स्त्रीपुंसद्वन्द्वं पुष्पराशौ तस्मिंस्तल्पे न्यषीदत् । उपभोगेन
तल्पोपमर्दकत्वान्मन्दरदृष्टान्तः ॥ ६९ ॥

तैस्तैर्मिथः प्रणयपेशलवाग्विलासैस्तत्कालकार्यसुभगैः प्रणयोपचारैः ।
सत्कान्तयोर्नवनवेन तयोः सुखेन दीर्घा मुहूर्त इव सा रजनी जगाम ॥ ७० ॥

तयोः सत्कान्तयोस्तैस्तैर्लोकोत्तरैः
प्रणयपेशलवाग्विलासैस्तत्कालोचितपरिरम्भणादिकार्यसुभगैर्गन्धमाल्य##-
मुहूर्तमिव जगाम ॥ ७० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० लीलाविवाहो नाम षडुत्तरशततमः सर्गः ॥ १०६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे लीलाविवाहो
नाम षडुत्तरशततमः सर्गः ॥ १०६ ॥