पञ्चाधिकशततमः सर्गः १०५
शिखिध्वज उवाच ।
एवं स्थिते महाभाग कथमुद्वेगमीदृशम् ।
लब्धवानसि देवोऽपि वद वेद्यविदां वर ॥ १ ॥
कुम्भेन निशि दुर्वासःशापात्स्त्रीत्वाप्तिरुच्यते ।
परस्परं समाधानैः प्रीतयोश्च तथा स्थितिः ॥
कुम्भ उवाच ।
शृणु कार्यमिदं चित्तं मदीयं वसुधाधिप ।
कथयामि तवाशेषं सर्गं यद्वृत्तमद्य मे ॥ २ ॥
एवं नियत्यनुसारेण स्थिते जीवकदम्बे त्वं देवोऽपि सन्नीदृशं
विषादनिमित्तमुद्वेगं कथं लब्धवांस्तद्वदेत्यर्थः ॥ १ ॥ २ ॥
सुहृद्यावेदितं दुःखं परमायाति तानवम् ।
घनं जडं कृष्णमपि मुक्तवृष्टिरिवाम्बुदः ॥ ३ ॥
घनं जडं कृष्णमिति विशेषणनपुंसकत्वं प्राग्वत् । ईदृशोऽप्यम्बुदो
मुक्तवृष्टिः सन् यथा तानवमायाति तद्वत् ॥ ३ ॥
सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् ।
स्वच्छतोपगतेनाशु कतकेन जलं यथा ॥ ४ ॥
पृच्छता सुहृदा निमित्तेन । स्वच्छतार्थमुपगतेनेति सुहृदोऽपि विशेषणम् ॥ ४ ॥
अहं तावदितो यातो भवते पुष्पमञ्जरीम् ।
दत्त्वा गगनमुल्लङ्घ्य सम्प्राप्तश्च त्रिविष्टपम् ॥ ५ ॥
ततः पित्रा महेन्द्रस्य सभास्थाने यथाक्रमम् ।
स्थित्वोत्थाय तथोत्थानकाले पित्रा विवर्जितः ॥ ६ ॥
पित्रा सहेति शेषः ॥ ६ ॥
इहागन्तुमहं त्यक्त्वा स्वर्गं सम्प्राप्तवान्नभः ।
दिवाकरहयैः सार्धं वहाम्यनिलवर्त्मनि ॥ ७ ॥
वहामि प्रवहाख्यस्यानिलस्य स्वानुकूले वर्त्मनि तत्प्रवाहेणैव वहामि
यावदभिमतदेशमित्यर्थः ॥ ७ ॥
अथैकत्र गतो भानुरेकेनान्येन व्र्त्मना ।
आगच्छाम्यहमाकाशं सागरापतिताकृतिः ॥ ८ ॥
अथ मदभिमतदेशप्राप्त्यनन्तरं तेन मरुता अग्रे उह्यमानो भानुरेकेन वर्त्मना
एकत्र गतः । अहं त्वन्येन वर्त्मना आगच्छामि । सागरापतिताकृतिः समुद्रे
प्लवमान इवेत्यर्थः ॥ ८ ॥
अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना ।
अपश्यं मुनिमायान्तमहं दुर्वाससं जवात् ॥ ९ ॥
पयोधरपटच्छन्नं विद्युद्वलयभूषितम् ।
अभिसारिकया तुल्यं धाराधौताङ्गचन्दनम् ॥ १० ॥
शीकरधाराभिर्धौतं क्षालितमङ्गचन्दनमङ्गरागो यस्य तम् ॥ १० ॥
स्थितां सुतरुसुच्छायामापगां वसुधातले ।
वेगेनाभिसरन्तं तां तपोलक्ष्मीमिव प्रियाम् ॥ ११ ॥
वसुधातले स्थितामत एव शोभना तीररुहतरुसुच्छाया यस्यास्तथाविधाम् । स्वस्य
प्रियां तपोलक्ष्मीमिव स्थितामापगां गङ्गां प्रति सन्ध्यावन्दनकालात्ययो मा
भूदिति वेगेनाभिसरन्ध्रम् । आप यामिति पाठे तु यां तपोलक्ष्मीलक्षणां प्रियां
भार्यां वसुधातले आप प्राप तामभिमुखीकृत्य सरन्तमिवेत्युत्प्रेक्षा ॥ ११ ॥
तस्य कृत्वा नमस्कारमुक्तं खे वहता मया ।
मुने नीलाभ्रवस्त्रस्त्वमभिसारिकया समः ॥ १२ ॥
अभिसारिकया तमिस्राभिसारिकया त्वं समो दृश्यसे इति मया उक्तम् ॥ १२ ॥
इत्याकर्ण्य मुमोचासौ मयि मानद शापकम् ।
स्तनकेशवती कान्ता हावभावविलासिनी ॥ १३ ॥
गच्छानेन दुरुक्तेन रात्रौ योषा भविष्यसि ।
इति श्रुत्वाऽशुभं वाक्यमुत्थितं जर्जरद्विजात् ॥ १४ ॥
अशुभमिति च्छेदः । जर्जराद्वृद्धाद्द्विजाद्दुर्वाससः ॥ १४ ॥
विमृशामि मनाग्यावत्तावदन्तर्हितो मुनिः ।
इत्युद्वेगमनाः साधो सम्प्राप्तोऽहं नभस्तलात् ॥ १५ ॥
इत्युक्तनिमित्त उद्वेगो यस्य तथाविधं मनो यस्य ॥ १५ ॥
एतत्ते कथितं सर्वं सम्पन्नोऽस्मि निशाङ्गना ।
अतिवाह्यं दिनान्तेषु स्त्रीत्वमेतन्मया कथम् ॥ १६ ॥
कथमतिवाह्यं यापयितुं शक्यम् ॥ १६ ॥
योषित्स्तनवती रात्रौ वक्तव्यं किं मया पितुः ।
संसृतौ भवितव्यानामहो नु विषमा गतिः ॥ १७ ॥
पितुः अग्रे इति शेषः ॥ १७ ॥
अहमप्यद्य यद्दैवाद्यूनामामिषतां गतः ।
कष्टं मदपहारेण कलहो जायतेऽधुना ॥ १८ ॥
यूनामामिषतां गृध्रामिषन्यायेन कलहविषयताम् । तमेव न्यायं प्रसक्तं
स्पष्टयति - कष्टमिति । अधुनेति श्वःपरश्वस्तनसन्निहितकालोक्तिः । मदपहारेण
मम अपहरणाय । अध्ययनेन वसतीतिवत् फलस्यापि हेतुत्वविवक्षया तृतीया ॥ १८ ॥
दिवि देवकुज्माराणां कामाकुलधियामिह ।
गुरुदेवद्विजातीनां लज्जापरवशात्मना ॥ १९ ॥
कथमग्रे मया सम्यग्वस्तव्यं यामिनीस्त्रिया ।
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा क्षणमेकं सा तूष्णीं स्थित्वा मुनिस्थितौ ॥ २० ॥
मुनिस्थितौ चित्तसमाधाने ॥ २० ॥
धैर्यमाश्रित्य कुम्भोऽत्र पुनराह रघूद्वह ।
किमज्ञ इव शोचामि किं मम क्षतमात्मनः ॥ २१ ॥
यथागतमयं देहो मत्तोऽन्योऽनुभविष्यति ।
शिखिध्वज उवाच ।
परिदेवनया कोऽर्थो देवपुत्र तथैतया ॥ २२ ॥
यथाप्रारब्धमागतं स्त्रीत्वं मत्तोन्योऽयं देह एवानुभविष्यति
तेनासङ्गचिन्मात्रात्मनो मम का क्षतिरित्यर्थः । राजापि तदुक्तमनुमोदमान आह
- परिदेवनयेत्यादिना ॥ २२ ॥
यदायाति तदायातु देहस्यात्मा न लिप्यते ।
कानिचिद्यानि दुःखानि सुखानि विहितानि च ॥ २३ ॥
तानि सर्वाणि देहस्य देहिनो न तु कानिचित् ।
यदि त्वमपि कार्याणामखेदार्होऽपि खिद्यसे ॥ २४ ॥
देहिनो देहोपलक्षितचिदात्मनः कार्याणामवश्यसम्पाद्यानां प्रारब्धफलानां
विषये अखेदार्हस्त्वमपि यदि खिद्यसे तत्तर्हि अन्येषामविवेकप्रयुक्तखेदचिकित्सायां
त्वमिव आगमभूषणः शास्त्रतत्त्वानुभावनकुशलः उपायश्चिकित्सकः क इव
शरणं स्यान्न कश्चिदित्युत्तरेणान्वयः ॥ २४ ॥
तदन्येषामुपायः स्यात्क इवागमभूषणः ।
खेदे खेदोचितं वाच्यमिति किञ्चित्त्वमुक्तवान् ॥ २५ ॥
नायं तव खेदः किन्तु खेदोचितोक्तिमात्रं लोकाचारानुवर्णनायेत्याह - खेदे इति
॥ २५ ॥
इदानीं समतामेत्य तिष्ठाखिन्नो यथास्थितम् ।
श्रीवसिष्ठ उवाच ।
तावेवमादिभिर्वाक्यैरन्योन्याश्वासनं स्वयम् ॥ २६ ॥
कृत्वा स्थितौ वनस्निग्धौ सुहृदौ खेदिनौ मिथः ।
अथार्कोऽप्यस्य कुम्भस्य स्त्रीत्वमुत्पादयन्निव ॥ २७ ॥
अथ मिथ आश्वासनानन्तरम् ॥ २७ ॥
जगामास्तं जगद्दीपो दीपः स्नेहक्षयादिव ।
व्यवहारभरैः सार्धं पद्माः सङ्कोचमाययुः ॥ २८ ॥
मार्गाश्च पथिकैः सार्धं पान्थस्त्रीहृदयानि च ।
दाशवद्विहगान्सर्वान्कुर्वदेकत्र सञ्चितान् ॥ २९ ॥
मार्गास्तमोभिः सङ्कोचमस्फुटतामाययुः । पान्थस्त्रीहृदयानि पथिकाश्च
वियोगशोकतमोभिरित्यर्थः । दाशाः समुद्रद्वीपस्थकैवर्ताः । ते हि पक्षिणोऽपि
जालैर्बध्नन्ति मत्स्यानपि रत्नान्यपि सञ्चिन्वन्ति तद्वद्विद्यमानमूर्ध्वाधो
भुवनद्वयं पक्षिसङ्ग्रहेण तारकारत्नजालाढ्यतया च परस्परं साम्यतां
सममेव साम्यम् स्वार्थे ष्यञ् । समतां ययावित्यर्थः ॥ २९ ॥
तारकारत्नजालाढ्यं भुवनं साम्यतां ययौ ।
खं हसदिव ताराढ्यं विकासिकुमुदाकरम् ॥ ३० ॥
उन्नादं चक्राह्वानां भ्रमद्भ्रमराणां च पेटकं वृन्दं कर्तृ
विकासिकुमुदाकरं हसदिव स्थितं ताराढ्यं खं कर्म ययौ ॥ ३० ॥
ययावुन्नादचक्राह्वभ्रमद्भ्रमरपेटकम् ।
सुहृदौ तावथोत्थाय सन्ध्यामुद्यन्निशाकराम् ॥ ३१ ॥
वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ ।
ततः कुम्भः शनैस्तत्र स्त्रैणमभ्याहरन्वपुः ॥ ३२ ॥
वन्दयित्वा वन्दित्वा । स्वार्थे णिच् । स्त्रिया इदं स्त्रैणं वपुः अभ्याहरन् आविष्कुर्वन् ॥ ३२
॥
शिखिध्वजं पुरःसंस्थं प्रोवाच गलदक्षरम् ।
पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः ॥ ३३ ॥
गलदक्षरं सगद्गदमिति यावत् ॥ ३३ ॥
लज्जयैव च ते राजन्मन्ये स्त्रीत्वं व्रजाम्यहम् ।
पश्येमे परिवर्धन्ते राजन्मम शिरोरुहाः ॥ ३४ ॥
ते पुर इति शेषः ॥ ३४ ॥
प्रस्फुरत्तारकामाला दिनान्ततिमिरा इव ।
पश्येमौ मम जायेते प्रोन्मुखावुरसि स्तनौ ॥ ३५ ॥
प्रस्फुरत्तारकामाला इत्युपमानविशेषणादुपमेयाः शिरोरुहा अपि
मुक्तादिमालासहिता इति गम्यते ॥ ३५ ॥
कोरकाविव पद्मिन्या वसन्ते गगनोन्मुखौ ।
आगुल्फमेव लम्बानि सम्पद्यन्तेऽम्बराणि मे ॥ ३६ ॥
अम्बराणि वस्त्राणि ॥ ३६ ॥
देहादेव सखे पश्य स्त्रिया इव शनैः शनैः ।
भूषणान्युत रत्नानि माल्यानि विविधानि च ॥ ३७ ॥
माल्यानि विविधानि देहादेव जायन्ते इत्युत्तरत्रान्वयः ॥ ३७ ॥
पश्येमान्यङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत् ।
पश्यायं स्वयमेवाद्य चन्द्रांशुक्ररशोभनः ॥ ३८ ॥
स्वाङ्गेभ्यः शाखादिभ्यः ॥ ३८ ॥
मूर्ध्नि पट्टांशुको जातो नीहारोऽद्राविवाङ्ग मे ।
सर्वाणि कान्तालिङ्गानि जातानि मम मानद ॥ ३९ ॥
पट्टांशुकः पट्टवस्त्रम् । एवमाच्छादितप्रदेशेष्वपि लिङ्गविनिमयः सम्पन्न इति
ज्ञेयमित्याशयेनाह - सर्वाणीति ॥ ३९ ॥
हा धिक्कष्टं विषादो मे किं करोम्यङ्गनास्म्यहम् ।
हा धिक्कष्टमहो साधो स्थित एवाहमङ्गना ॥ ४० ॥
स्थितः सिद्धः ॥ ४० ॥
संविदानुभवाम्यन्तर्नितम्बजघने त्विमे ।
विपिने कुम्भ इत्युक्त्वा तूष्णीं खिन्नो बभूव ह ॥ ४१ ॥
इत्युक्त्वा कुम्भो विपिने तूष्णीं बभूव ह किल ॥ ४१ ॥
राजापि च तमालोक्य तथैवासीद्विषण्णधीः ।
मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः ॥ ४२ ॥
कष्टं सोऽयं महासत्त्वः सम्पन्ना वरवर्णिनी ।
साधो विदितवेद्यस्त्वं जानासि नियतेर्गतिम् ॥ ४३ ॥
अवश्यभाविन्यर्थेऽस्मिन्मा खिन्नहृदयो भव ।
आपतन्ति दशास्तास्ताः [तातेति पाठः ।] सुधियां देहमात्रके ॥ ४४ ॥
सुधियां तत्त्वविदां देहमात्रके आपतन्ति चेतसि न ॥ ४४ ॥
न चेतस्यधियां त्वेताश्चित्तं यान्ति न देहकम् ।
कुम्भ उवाच ।
एवमस्त्वनुतिष्ठामि यामिनीस्त्रीत्वमात्मनः ॥ ४५ ॥
अधियामज्ञानां तु एता दशाश्चित्तमपि वासनात्मना यान्ति न देहमात्रकमित्यर्थः
। अनुतिष्ठामि अनुवर्ते ॥ ४५ ॥
न खेदमनुगच्छामि नियतिः केन लङ्घ्यते ।
इति निर्णीय तौ खेदं तं नीत्वा तनुतामिव ॥ ४६ ॥
एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम् ।
अथ प्रभाते तत्स्त्रैणं वपुरुत्सृज्य यौवनम् ॥ ४७ ॥
राजा कुम्भविपत्तिचिन्तया राज्ञी तु नृपसङ्गमोत्कण्ठया निद्राभावाच्चिरेण
निशां नीतवन्तौ । युवत्या इदं यौवनं वपुरुत्सृज्य । भस्याढे तद्धिते इति
पुंवद्भावे अन्नित्यणि प्रकृतिभावान्न टिलोपः ॥ ४७ ॥
बभूव कुम्भः कुम्भाभः कुचप्रोज्झितमूर्तिमान् ।
इति सा राजमहिषी चूडाला वरवर्णिनी ॥ ४८ ॥
पूर्वेद्युस्तनकुम्भाभः ॥ ४८ ॥
कुम्भत्वमास्थिता भर्तुः पश्चात्स्त्रीत्वमुपागता ।
विजहार वनान्तेषु कुमारीधर्मिणी निशि ।
कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता ॥ ४९ ॥
कुमारीधर्मिणी अनूढाचारा ॥ ४९ ॥
कैलासमन्दरमहेन्द्रसुमेरुसह्यसानुष्वविस्खलितयोगगमागमा स ।
साकं प्रियेण सुहृदा भवता यथेच्छं स्रग्दामहारवलिता विजहार नारी ॥ ५०
॥
क्व क्व कथं कथं विजहार तदाह - कैलासेति । कैलासादीनां सानुषु प्रस्थेषु
अविस्खलितो योगबलेन गमागमः कान्तयोगेन गमागमश्च यस्यास्तथाविधा सा
चूडाला यथेच्छं स्वाभिमतानुसारेण भवता वर्तनशीलेन प्रियेण सार्धं
स्रग्दामहारवलिता सती यथेच्छं विजहारेति पुनरप्याकाङ्क्षयान्वयः ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
कुम्भस्य स्त्रीत्वलाभो नाम पञ्चाधिकशततमः सर्गः ॥ १०५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
स्त्रीत्वलाभो नाम पञ्चाधिकशततमः सर्गः ॥ १०५ ॥