चतुरधिकशततमः सर्गः १०४
श्रीवसिष्ठ उवाच ।
इत्यध्यात्मविचित्राभिः कथाभिस्तौ परस्परम् ।
आसाते [आसातां इति पाठः ।] वेद्यवेत्तारौ मुहूर्तत्रितयं वने ॥ १ ॥
कुम्भस्य रमतो राज्ञा सम्भोगेच्छात्र वर्ण्यते ।
स्वर्गापदेशात्पूर्यानं विषण्णपुनरागमः ॥
इत्युक्तप्रकाराभिरात्मनीत्यध्यात्मविचित्राभिः कथाभिः परस्परं संवदन्ताविति
शेषः ॥ १ ॥
तत उत्थाय कस्मिंश्चित्सानौ सरससारसे ।
सरोवरे वने चैव विहृतौ नन्दने वने ॥ २ ॥
सरसानि स्निग्धानि सारसानि पद्मानि पक्षिमिथुनानि च यस्मिन् । नन्दने आनन्ददायिनि ।
फलमूलादिना अवने रक्षके च । प्रसिद्धे ऐन्द्रे नन्दने वने इवेति वा शेषः ॥ २ ॥
तेनाचारेण ताभिश्च कथाभिस्तौ वने ततः ।
नीतवन्तौ दिनान्यष्टौ तासु काननवीथिषु ॥ ३ ॥
तेन जीवन्मुक्तप्रसिद्धेनाचारेण । वने महारण्ये । काननवीथिषु
अवान्तरवनपङ्क्तिभेदेषु । तेन दिनाष्टकमपि नैकत्र वास इत्यनिकेतता सूच्यते ॥ ३ ॥
अथ कुम्भ उवाचान्यद्वनं यावो गिराविति ।
तदोमिति नृपो मत्वा तावुभौ प्रविचेरतुः ॥ ४ ॥
ओमित्यभिमतौ । नृपस्येव कुम्भस्याप्यर्थसिद्धा
कर्तृतास्त्येवेत्युभयकर्तृकचरितसमानकर्तृकतामाश्रित्य मत्वेति
क्त्वाप्रत्ययनिर्देशः ॥ ४ ॥
वनान्यनेकरूपाणि जङ्गलानि तटानि च ।
सरांसि गुल्मजालानि शृङ्गाणि गहनानि च ॥ ५ ॥
नदीर्देशांस्तथा ग्रामान्नगराणि वनानि च ।
मञ्जुघोषान्गिरीन्कुञ्जांस्तीर्थान्यायतनानि च ॥ ६ ॥
सममेव समस्नेहौ समवेतौ स्थितावुभौ ।
समसत्त्वौ समोत्साहौ शंसन्तौ तस्थतुः सदा ॥ ७ ॥
समवेतौ समुदितौ सन्तौ चित्तवृत्त्यापि सममेव स्थितौ शंसन्तौ परस्परानुभवं
कथयन्तौ ॥ ७ ॥
आनर्चतुः पितॄन्देवान्बुभुजाते च राघव ।
समं तप्ते च सिक्ते च समबुद्धी बभूवतुः ॥ ८ ॥
सिक्ते जलार्द्रे शीतलप्रदेशे चेति यावत् ॥ ८ ॥
तमालवनखण्डेषु मन्दारगहनेषु च ।
दम्पती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः ॥ ९ ॥
इदं गेहमिदं नेति विकल्पकलना मनः ।
न जहार तयो राम वात्येव विबुधाचलम् ॥ १० ॥
अनिकेतस्थितिलक्षणमाह - इदमिति । विकल्पकलना तयोर्मनो न जहार ॥ १० ॥
विचेरतुस्तौ सुहृदौ क्वचिद्धूलिविधूसरौ ।
क्वचिच्चन्दनदिग्धाङ्गौ क्वचिद्भस्मानुरञ्जितौ ॥ ११ ॥
प्रियाप्रियविकल्पोऽपि तयोर्नाभूदित्याह - विचेरतुरित्यादिना ॥ ११ ॥
क्वचिद्दिव्याम्बरधरौ चित्राम्बरधरौ क्वचित् ।
क्वचित्पल्लवसञ्छन्नौ क्वचित्कुसुममण्डितौ ॥ १२ ॥
दिनैः कतिपयैरेव समचित्ततया तया ।
सत्त्वोदात्ततया चैव राजा कुम्भवदाबभौ ॥ १३ ॥
सत्त्वेन निर्वासनचित्तेनोदात्ततया उत्कृष्टतया ॥ १३ ॥
अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् ।
दृष्ट्वा शोभामुपगतं चिन्तयामास मानिनी ॥ १४ ॥
अथ केवलमित्रभावेन परस्परोपभोजकप्रारब्धभोगोत्तरकालं
दम्पतिभावोपभोजकप्रारब्धोद्भवकाले ॥ १४ ॥
अयं पतिरदीनात्मा रम्याश्च वनभूमयः ।
इयं स्थितिरनायासा या न कामेन वञ्चिता ॥ १५ ॥
कामेन अज्ञधर्मेण रागेण न वञ्चिता ॥ १५ ॥
जीवन्मुक्तधियां भोगं यथाप्राप्तमतिष्ठताम् ।
एकाग्रहात्मिका तुच्छा मूढतैवोदिता भवेत् ॥ १६ ॥
यथाप्राप्तं भोगं प्रति अतिष्ठतां अनिवृत्तगतीनाम् । एकस्यां
भोगनिवृत्तावेवाग्रहो निर्बन्धस्तदात्मिका या वृत्तिः सा मूढतैव ॥ १६ ॥
निजः पतिरुदारात्मा निराधिश्च नवं वयः ।
गृहाणि पुष्पजालानि सा हता या न कामिनी ॥ १७ ॥
अधर्मरोगश्रमादिहेतुभ्यो भोगेभ्यो लोकसङ्ग्रहाय निवर्तितव्यमेव अत्र तु न या
स्वभर्तरि न कामवती सा अजीवन्मुक्ता चेद्भर्त्रुपभोगविघातपापेन हता । जीवन्मुक्ता
चेल्लोकसङ्ग्रहभङ्गप्रयुक्तनिन्दादिना हतेत्यर्थः ॥ १७ ॥
वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिया ।
रमते या न निर्दुःखा सा हतैव दुरङ्गना ॥ १८ ॥
उक्तमेव स्पष्टमाह - वनेति ॥ १८ ॥
रम्यं विवाहितं कान्तं पतिमासाद्य निर्जने ।
स्त्री सती या न रमते तां धिगस्तु दुरङ्गनाम् ॥ १९ ॥
समुज्झता यथाप्राप्तमपि वेद्यविदा सदा ।
अनिन्द्यं समुदारार्थं किं तज्ज्ञेन कृतं भवेत् ॥ २० ॥
अनिन्द्यं स्वं उदारार्थं भोगं समुज्झता किं किमधिकं फलं कृतं भवेत् ।
न किञ्चिदित्यर्थः ॥ २० ॥
तत्किञ्चिद्रचयाम्याशु प्रपञ्चं प्रेक्षया वने ।
येनायं भूपतिर्भर्ता रमते मयि मानदः ॥ २१ ॥
प्रेक्षया स्वप्रज्ञया मयि रमते रतिसुखं लभते ॥ २१ ॥
इति सञ्चिन्त्य चूडाला कुम्भवेषधरा पतिम् ।
प्राह काननगुल्मस्था कोकिलं कोकिला यथा ॥ २२ ॥
कुम्भ उवाच ।
चैत्रमासस्य शुक्लोऽयं प्रतिपद्दिवसो महान् ।
अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः ॥ २३ ॥
आस्थानं देवर्षिसभामेलनम् । हरेः इन्द्रस्य ॥ २३ ॥
सन्निधानं मया तत्र कर्तव्यं पितुरग्रतः ।
यथास्थिता हि नियतिर्न सन्त्याज्या कदाचन ॥ २४ ॥
पितुर्नारदस्य ॥ २४ ॥
प्रतिपालयितव्यं मे त्वयेह च वनावनौ ।
क्रीडता नवपुष्पायां समुद्वेगमगच्छता ॥ २५ ॥
प्रतिपालयितव्यं मे आगमनमासायं प्रतीक्षितव्यम् ॥ २५ ॥
आगच्छामि दिनान्तेऽद्य निर्विकल्पं नभस्तलात् ।
सर्गादतितरामेव त्वत्सङ्गो मम तुष्टये ॥ २६ ॥
निर्विकल्पं आगमनपाक्षिकत्वरहितम् । नियतमिति यावत् ॥ २६ ॥
इत्युक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् ।
प्रीतये स्वामिव प्रीतिं कान्तां नन्दनवृक्षजाम् ॥ २७ ॥
कान्तां मनोहराम् । नन्दनवृक्षः कल्पतरुस्तज्जां मञ्जरीम् ॥ २७ ॥
आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ ।
पुप्लुवेऽथ वनाद्व्योम शरन्मुखपयोदवत् ॥ २८ ॥
शरन्मुखपयोदो निर्जलमेघस्तद्वत् ॥ २८ ॥
पुष्पाञ्जलिं जहौ व्योम व्रजन्कुसुमदामजम् ।
विसारि वनवातेन हिमं हैम इवाम्बुदः ॥ २९ ॥
वनवातेन विसारि प्रसरणशीलं पुष्पाञ्जलिम् । पदसंस्कारपक्षे नपुंसकलिङ्गं
सर्वनामेति प्रागेव प्रवृत्तमन्तरङ्गं नपुंसकलिङ्गं पुंविशेषसम्बन्धेऽपि
न निवर्तते । तथा चोदाहृतं महाभाष्ये शक्यं चानेन श्वमांसादिभिरपि
क्षुत्प्रतिहन्तुं तत्र नियमः क्रियते पञ्च पञ्चनखा भक्ष्याः इतीति । हिमकाले भवो
हैमः ॥ २९ ॥
शिखिध्वजो व्रजन्तं तं ददर्शाऽऽदर्शनं तदा ।
उन्निद्रोऽब्दं यथा बर्ही धीमत्प्रीतिर्हि दुस्त्यजा ॥ ३० ॥
आदर्शनं दृष्टिप्रसरयोग्यप्रदेशावधि । अब्दं मेघम् ॥ ३० ॥
शिखिध्वजदृशामन्ते व्योम्नि कुम्भवपुर्जहौ ।
शान्तावर्तेव वारिश्रीर्मुग्धा स्वं रूपमाययौ ॥ ३१ ॥
स्वं चूडालारूपम् । आययौ प्राप ॥ ३१ ॥
प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् ।
स्फुरत्पताकमात्मीयं स्वर्गरम्यं दिवः पथा ॥ ३२ ॥
स्फुरत्पताकमत एव मञ्जरितः सञ्जातमञ्जरीक आकारः संस्थानं यस्य
तथाविधकल्पवृक्षोपमम् ॥ ३२ ॥
अन्तःपुरमदृश्यैव विवेश ललनाकुलम् ।
मधुमासमहालक्ष्मीर्लसल्लतमिव द्रुमम् ॥ ३३ ॥
राजकार्याणि सर्वाणि तत्र सम्पाद्य सत्वरम् ।
शिखिध्वजस्य पुरतः पपात फलपुष्पवत् ॥ ३४ ॥
यथा वृक्षात्फलं पुष्पं वा पतति तद्वत् ॥ ३४ ॥
तत्र कालद्युति [म्लानद्युतीत्यपि क्वचित्पाठः ।] मुखं
चकाराखिन्नमानसा ।
इन्दुं सनीहारमिव श्यामा खिन्नमिवाम्बुजम् ॥ ३५ ॥
तत्र भर्तृसन्निधौ मुखं श्यामद्युति चकार । श्यामा यौवनमध्यस्था
चूडाला ॥ ३५ ॥
तं दृष्ट्वा तादृशाकारं समुत्तस्थौ शिखिध्वजः ।
बभूव खिन्नचेताश्च समुवाचेदमादृतः ॥ ३६ ॥
आदृतः सादरः ॥ ३६ ॥
देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे ।
कुम्भस्त्वं त्यज संरम्भमिदमासनमास्यताम् ॥ ३७ ॥
विमनाः खिन्नमना इव लक्ष्यसे । मुखम्लानिलिङ्गेनेत्यर्थः । संरम्भं लक्षणया
मनस्तापम् ॥ ३७ ॥
सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् ।
नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम् ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
तेन क्ष्मापतिनेत्युक्ते कुम्भ आहासने विशन् ।
गिरा विषण्णया शीर्णवंशस्वनसमानया ॥ ३९ ॥
वाष्परुद्धकण्ठजत्वाच्छीर्णवंशस्वनसमानया ॥ ३९ ॥
यावद्देहमवस्थासु समचित्ततयैव ये ।
कर्मेन्द्रियैर्न तिष्ठन्ति न ते तत्त्वविदः शठाः ॥ ४० ॥
विदितवेद्याः पुरुषा हर्षविषादजां स्थितिं नाश्रयन्तीति यदुक्तं तत्र कञ्चिद्विशेषं
विवक्ष्यन्कुम्भ उवाच - यावद्देहमिति ।
ज्ञानप्रयुक्तसमचित्ततानान्तरीयकर्मेन्द्रियचेष्टानिवृत्तिरेव ज्ञानिनो लक्षणमिति
तच्छून्या इव तत्त्वविदो न समचित्तत्वेऽपि
प्रारब्धकर्मप्रयुक्तकर्मेन्द्रियचेष्टोद्भवमात्रापराधेनेत्याशयः ॥ ४० ॥
ये ह्यतत्त्वविदो मूढा राजन्बालतयैव ते ।
अवस्थाभ्यः पलायन्ते गृहीताभ्यः स्वभावतः ॥ ४१ ॥
अतत्त्वज्ञेषु तु न तथेत्याह - ये हीति । बालतया समचित्तत्वाभावेनैव
हठाद्गृहीताभ्यस्तत्तत्कर्मेन्द्रियनिग्रहावस्थाभ्यः पलायन्ते च्यवन्ते
अज्ञानस्वभावादेवेति वैषम्यमित्यर्थः ॥ ४१ ॥
यावत्तिलं यथा तैलं यावद्देहं तथा दशा ।
यो न देहदशामेति स च्छिनत्त्यसिनाम्बरम् ॥ ४२ ॥
प्रारब्धप्रयुक्ता तु कर्मेन्द्रियहर्षग्लानिदशा यावद्देहभाविनी
ज्ञान्यज्ञानिनोस्तुल्यैवेत्याशयेन सदृष्टान्तमाह - यावदिति । दशा
कर्मेन्द्रियहर्षग्लान्यादिदशा भवत्येवेति शेषः । तदेव व्यतिरेकमुखेन द्रढयति
- य इति । तथा च ज्ञानिनोऽपि देहदशानतिलङ्घनमेवेति ममापि तदनुवर्तनं न
दोषायेति भावः ॥ ४२ ॥
एष देहदशादुःखपरित्यागो ह्यनुत्तमः ।
यत्साम्यं चेतसो योगान्न तु कर्मेन्द्रियस्थितेः ॥ ४३ ॥
तथा च चित्तसाम्येन देहदशादुःखानां समाधिवशाददर्शनमेव तत्परित्यागो न
हठात्कर्मेन्द्रियनिग्रहेण सहनमिति निष्कर्ष इत्याह - एष इति ॥ ४३ ॥
यावद्देहं यथाचारं दशास्वङ्ग विजानता ।
कर्मेन्द्रियैर्हि स्थातव्यन्न् न तु बुद्धीन्द्रियैः क्वचित् ॥ ४४ ॥
विजानता तत्त्वविदा यावद्देहं कर्मेन्द्रियैः सर्वासु दशासु यथासदाचारमेव
स्थातव्यं न तु सदाचारं उल्लङ्घ्ह्य इत्येतावानेव नियमः । बुद्धीन्द्रियैर्मन##-
परमेष्ठिप्रभृतयः सर्व एवोदिताशयाः ।
देहावस्थासु तिष्ठन्ति नियतेरेष निश्चयः ॥ ४५ ॥
कर्मेन्द्रियैरनिषिद्धदेहावस्थानुवर्तनं ब्रह्मादिसर्वजीवन्मुक्तेषु
प्रसिद्धमेवेत्याह - परमेष्ठीति । नियतेः प्रारब्धकर्मनियतेः । अन्यथा
तद्भोइगासिद्धेरिति भावः ॥ ४५ ॥
अज्ञतत्त्वज्ञभूतानि दृश्यजातमिदं हि यत् ।
तत्सर्वमेव नियतिं धावत्यम्बु यथाम्बुधिम् ॥ ४६ ॥
प्रारब्धकर्मन्नियतिलङ्घनं तत्त्वज्ञैरज्ञैर्वा कैश्चिदपि कर्तुं न
शक्यमित्याह - अज्ञेति ॥ ४६ ॥
तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च ।
नियतिं यापयन्तीमां यावद्देहमखण्डिताम् ॥ ४७ ॥
तर्हि किं तज्ज्ञाज्ञयोः साम्यमेव नेत्याह - तज्ज्ञा इति ।
यावद्देहमुपात्तैकदेहपातपर्यन्तम् ॥ ४७ ॥
अज्ञास्तु सर्वक्षोभेण सुखदुःखदशाहताः ।
नियतिं यापयन्त्यङ्ग देहलक्षैर्विखण्डिताम् ॥ ४८ ॥
अज्ञास्तु न तथेत्याह - अज्ञास्त्विति ॥ ४८ ॥
इत्थं सुखेषु ननु दुःखदशासु चेत्थं स्थातव्यमित्यधिगतं यदिहाङ्ग
जीवैः ।
अज्ञज्ञभूतनिवहस्फुरितस्तदेवं दुर्लङ्घ्य एष नियतो नियतेर्विलासः ॥ ४९ ॥
प्रारब्धनियतिस्वरूपमभिनीय दर्शयंस्तस्याः
सर्वैर्दुर्लङ्घ्यतामुक्तामनूद्योपसंहरति - इत्थमिति । ननु अङ्ग इति
राजसम्बोधने । अनेन प्राणिना अस्मिन् जन्मनि इत्थं सुखेषु स्थातव्यं दुःखदशासु
चेत्थं स्थातव्यमिति जीवैः स्वस्वकर्मानुसारेण यद्यादृशं
ललाटाक्षरमधिगतं प्राप्तं तत्तद्विषये अज्ञेषु ज्ञेषु वा भूतनिवहेषु तथैव
स्फुरितो नियत एष नियतेः प्रारब्धकर्मणो विलास एवं प्रागुक्तरीत्या दुरुल्लङ्घ्य
इत्यर्थः ॥ ४९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० चू०
जीवन्मुक्तव्यवहारप्रतिपादनं नाम चतुरधिकशततमः सर्गः ॥ १०४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जीवन्मुक्तव्यवहारप्रतिपादनं नाम चतुरधिकशततमः सर्गः ॥ १०४ ॥