त्र्यधिकशततमः सर्गः १०३
श्रीवसिष्ठ उवाच ।
निर्विकल्पसमाधानात्काष्ठकुड्योपमस्थितिः ।
एवं शिखिध्वजो राजा चूडालामधुना शृणु ॥ १ ॥
चूडालायाः परं गत्वा त्र्यहेण पुनरागमः ।
यत्नाद्व्युत्थापनं राज्ञस्तत्त्वालापश्च वर्ण्यते ॥
एवमुक्तरीत्या शिखिध्वजो राजा निर्विकल्पसमाधानात् काष्ठकुड्योपमस्थितिरभूदिति
शेषः । चूडालां तद्वृत्तान्तमिति यावत् ॥ १ ॥
शिखिध्वजं तं भर्तारं कुम्भवेषेण तेन सा ।
प्रबोध्यान्तर्धिमागत्य ततार तरसा नभः ॥ २ ॥
ततार पुप्लुवे ॥ २ ॥
देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् ।
विदग्धमुग्धमाकारं स्त्रैणं जग्राह सुन्दरम् ॥ ३ ॥
देवपुत्राकृतिं कुम्भवेषम् । स्त्रैणं स्त्रीशरीररूपमाकारं जग्राह ॥ ३ ॥
नभसा स्वपुरं प्राप विवेशान्तःपुरं क्षणात् ।
दृश्या बभूव लोकस्य नृपकर्म चकार च ॥ ४ ॥
नृपकर्म राजकार्यं प्रजानुरञ्जनमित्यर्थः ॥ ४ ॥
वासरत्रितयेनाथ पुनरम्बरमेत्य सा ।
बभूव कुम्भो योगेन शिखिध्वजवनं ययौ ॥ ५ ॥
कुम्भो नारदपुत्रः ॥ ५ ॥
तथा तत्रैव तं भूपमपश्यद्वनभूमिगा ।
निर्विकल्पसमाधिस्थं समुत्कीर्णमिव द्रुमम् ॥ ६ ॥
समुत्कीर्णं प्रतिमाकारनिर्मितं द्रुमं काष्ठमिव निश्चलम् ॥ ६ ॥
अहो नु खलु भो दिष्ट्या विश्रान्तोऽयमिहात्मनि ।
स्थितः स्वस्थः समः शान्त इत्युवाच पुनः पुनः ॥ ७ ॥
अयं राजा ॥ ७ ॥
तदेनं तावदेतस्माद्बोधयामि परात्पदात् ।
इदानीमेव किं देहत्यागमेष करोति वै ॥ ८ ॥
इदानीं प्रारब्धकर्मशेषकाले देहत्यागं किं किमर्थं करोति न करोत्वित्याशयः ॥
८ ॥
किञ्चित्कालं स्फुरत्वेष राज्येन विपिनेन वा ।
सममेव गमिष्यावस्त्यक्तदेहाविमौ समौ ॥ ९ ॥
विपिनभोग्यकर्मक्षयपर्यन्तं विपिनेन वा । समं तुल्यकालमेव समौ
तुल्यस्वभावौ गमिष्यावः । कैवल्यमिति शेषः ॥ ९ ॥
तस्योपदेशो विषमः परिणामं न गच्छति ।
अनेनाभ्यासयोगेन तावदाबोधयाम्यहम् ॥ १० ॥
उपदेशः प्राङ्मया कृतः परिणामं सप्तमभूमिकावस्थितिपर्यन्तं परिपाकं
न गच्छति इदानीमेव देहत्यागे तथा च जीवन्मुक्तिसुखानुभवार्थमप्ययं
प्रबोध्य इति भावः ॥ १० ॥
इति सञ्चिन्त्य चूडाला सिंहनादं चकार सा ।
भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम् ॥ ११ ॥
प्रभोः भर्तुः ॥ ११ ॥
न चचाल शिलेवाद्रौ यदा नादेन तेन सः ।
भूयोभूयः कृतेनापि तदा सा तं व्यचालयत् ॥ १२ ॥
पाणिसम्पेषेणाचालयत् ॥ १२ ॥
चालितः पातितोऽप्येष यदा न बुबुधे नृपः ।
तदा सञ्चिन्तयामास चूडाला कुम्भरूपिणी ॥ १३ ॥
अहो परिणतः साधुः स्वपदे भगवानयम् ।
तदेनं हि कया युक्त्या साम्प्रतं बोधयाम्यहम् ॥ १४ ॥
सप्तमभूमिकानुप्रवेशपर्यन्तं परिणतः । अहो इत्याश्चर्ये । तथा च तस्योपदेशो
विषमः परिणामं न गच्छतीति मदीयसम्भावना वृथैवेति भावः ॥ १४ ॥
अथवैनं महात्मानं किमर्थं बोधयाम्यहम् ।
विदेहं बोधमासाद्य तिष्ठत्वेष यथासुखम् ॥ १५ ॥
अत एवाह - अथवेति । विदेहं तिष्ठतु ॥ १५ ॥
अहमप्यङ्गनादेहमिमं त्यक्त्वा परं पदम् ।
अपुनर्जननायैव गच्छामीह हि किं समम् ॥ १६ ॥
समं सहैव गच्छामि । इह जीवने किमधिकं सुखमिति शेषः ॥ १६ ॥
इति सञ्चिन्त्य देहं स्वं त्यक्तुमभ्युद्यता सती ।
पुनः सञ्चिन्तयामास चूडाला सा महामतिः ॥ १७ ॥
महामतिरित्यनेनावश्यभोक्तव्यं तदीयप्रारब्धकर्मशेषमपि सा स्वमत्या
दृष्ट्वा पुनः सञ्चिन्तयामासेति सूचनाय ॥ १७ ॥
आलोकयामि चैतावदेनं देहं महीपतेः ।
यद्यस्य सत्त्वशेषोऽस्ति बोधबीजं हृदन्तरे ॥ १८ ॥
सत्त्वं न्निर्वासनं मनस्तस्य संस्कारलेशात्मना शेषो यदि हृदम्बरे
प्रारब्धावशेषितमायालेशोपहिते हार्दे ब्रह्मण्यस्ति ॥ १८ ॥
तत्कालेनैष भगवान्सम्प्रबोधमुपैष्यति ।
मूलकोशरसालीनं पुष्पजालमिव द्रुमे ॥ १९ ॥
कालेन तदुद्भवसमयेन । यथा वसन्तारम्भे द्रुमे मूलकोशे मूलप्रदेशे यो
भौमो रसस्तस्मिन्सूक्ष्मभावेनालीनं भाविपुष्पजालमिव सत्त्वशेषो यद्यस्तीति
पूर्वेणान्वयः ॥ १९ ॥
तदेवं विरहञ्जीवन्मुक्त एव भवत्यलम् ।
मुक्तो भवत्यथ यदि मन्ये गच्छामि तत्समम् ॥ २० ॥
तर्हि मत्प्रबोधितोऽयं जीवन्मुक्तः सन् एवमहमिव विहरन् भवत्येव । अथ यदि
सत्त्वशेषस्यापि बाधान्मुक्तो भवति तत्तर्ह्यहमपि सममनेन साकमेव मुक्तिं
गच्छामि ॥ २० ॥
इति सञ्चिन्त्य चूडाला स्पर्शनेन नयेन च ।
पतिमालोक्य साशङ्कमुवाच वरवर्णिनी ॥ २१ ॥
स्पर्शेन देहोष्मलिङ्गेन वक्ष्यमाणलिङ्गेन पतिं जीवतीति साशङ्कमालोक्य
सम्बोधहेतूदयेन सत्त्वशेषं व्यबुध्यत । अस्य हृदि सत्त्वशेषोऽस्त्येवेत्युवाच चेति
परेण सहान्वयः ॥ २१ ॥
अस्त्येव सत्त्वशेषोऽस्य हृदि सम्बोधकारणम् ।
सम्बोधहेतूदयेन सत्त्वशेषं व्यबुध्यत ॥ २२ ॥
श्रीराम उवाच ।
भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः ।
सत्त्वशेषः कथं ब्रह्मन्ज्ञायते ध्यानशालिनः ॥ २३ ॥
स्पर्शनेन नयेन चेति यदुक्तं तत्र नयशब्दार्थं जिज्ञासू रामः पृच्छति -
भृशमिति ॥ २३ ॥
श्रीवसिष्ठ उवाच ।
प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर्हृदि ।
विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा ॥ २४ ॥
देहे वृद्धिविपरिणामापक्षयादिविकारानुदयः सत्त्वशेषे लिङ्गमित्युत्तरं वक्तुं
लिङ्ग्यमनुवदति - प्रबोधेति द्वाभ्याम् ॥ २४ ॥
चित्तस्पन्दवियुक्तस्य तस्यास्पन्दितसच्चितः ।
द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः ॥ २५ ॥
द्वित्वैकत्वविहीनस्य निर्विकल्पस्य ॥ २५ ॥
कायः समसमाभोगो न ग्लायति न हृष्यति ।
नास्तमेति न चोदेति सममेवावतिष्ठते ॥ २६ ॥
ग्लायति ग्लानिं गच्छति ॥ २६ ॥
द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः ।
तस्य देहोऽन्यतामेति नास्पन्दस्य कदाचन ॥ २७ ॥
अन्यस्य तु तद्वैपरीत्यमित्याह - द्वित्वैकत्वादीति ॥ २७ ॥
चित्तस्पन्दो हि सर्वेषां कारणं जगतः स्थितेः ।
राम भावविकाराणां कुसुमानां यथा मधुः ॥ २८ ॥
तत्कुतस्तत्राह - चित्तस्पन्द इति । जगतः स्थितेर्व्यवहारस्य हेतुभूतानां सर्वेषां
भावविकाराणां कारणम् ॥ २८ ॥
अस्मिन्प्रयास्यतो देहे चेतसो हि मुहुर्मुहुः ।
हर्षः कोपो न सम्मोहो वशमेति रघूद्वह ॥ २९ ॥
अत एव पुनर्जन्मबीजसत्त्वेऽस्माद्देहाद्देहान्तरं प्रयास्यतश्चेतसो मुहुर्मुहुर्यत्नेन
निगृह्यमाणोऽपि हर्षः कोपः सम्मोहश्च न वशमेति न निग्रहीतुं शक्यते । तदेव
पुनर्जन्मावश्यम्भावे लिङ्गमित्यर्थः ॥ २९ ॥
चित्ते प्रशममायाते कायो यः सत्त्ववर्जितः ।
बाधते नाम्बरस्येव तस्य भावविकारभूः ॥ ३० ॥
चित्ते हर्षादिविकारशान्तौ तु कायेऽपि विकारा निवर्तन्त इत्याह - चित्त इति । सत्त्वेन
निर्वासनचित्तेन वर्जितः अप्रतिसन्धानेन त्यक्तः । तथा च चित्तेनाहन्तया परिग्रह एव
देहे वृद्ध्यादिविकारहेतुरिति भावः ॥ ३० ॥
वीच्यादि न यथोदेति समाया जलसन्ततेः ।
तथा न दृश्यते दोषः समायाः सत्त्वसन्ततेः ॥ ३१ ॥
देहजरापलितादिर्दोषो रागादिदोषश्च न दृश्यते ॥ ३१ ॥
सत्त्वस्यानुपलम्भोऽस्ति न तस्योपशमादृते ।
यावद्भाति समं तत्त्वं कालाच्छाम्यति केवलम् ॥ ३२ ॥
कियत्कालं जीवन्मुक्तैः सत्त्वमुपलभ्यत इति चेत्प्रारब्धशेषक्षयेण
तत्प्रशमपर्यन्तमित्याह - सत्त्वस्येति । समं प्रातिभासिकवैषम्येणापि शून्यम् ।
कालात्प्रारब्धशेषक्षयकालात् ॥ ३२ ॥
देहे यस्मिंस्तु नो चित्तं नापि सत्त्वं च विद्यते ।
स तापे हिमवद्राम पञ्चत्वेन विलीयते ॥ ३३ ॥
सत्त्वस्यापि क्षये तु मृतो देहो विलीयत इत्याह - देहे इति । नो
चित्तमित्यज्ञमरणाभिप्रायम् । नापि सत्त्वमिति ज्ञमरणाभिप्रायम् । पञ्चत्वेन
मरणेन ॥ ३३ ॥
शिखिध्वजस्य देहोऽसौ निश्चित्तस्तेजसोर्जितः ।
सत्त्वांशेन च संयुक्तस्तेन न ग्लानिभाजनम् ॥ ३४ ॥
शिखिध्वजदेहे तु जीवनलिङ्गानि तया दृष्टानीत्याह - शिखिध्वजस्येति । तेजसा
ऊष्मणा ॥ ३४ ॥
तं तथाभूतमालोक्य भर्तुर्देहं वराङ्गना ।
अनुज्झितवती देहं चिन्तयामास सत्वरम् ॥ ३५ ॥
प्रश्नं समाधाय प्रस्तुतमनुसन्धत्ते - तं तथेत्यादिना । स्वदेहमनुज्झितवती
सती ॥ ३५ ॥
चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्यहम् ।
भविष्यद्बोधनं कान्तमथ तत्र हि संस्थिता ॥ ३६ ॥
चित्तत्त्वं प्रागुक्तं तद्धार्दं ब्रह्म तदीयकायप्रवेशेन प्रविश्य तत्र तत्स्वभावे
संस्थिता सती चिरकालेन भविष्यद्बोधनं कान्तमधुनैव सम्बोधयामीति ॥ ३६ ॥
न बोधयामि यद्येनं चिरात्तद्बुध्यते स्वयम् ।
किमेकैवावतिष्ठेऽहमित्येवं बोधयाम्यहम् ॥ ३७ ॥
ननु चिरेण स स्वयमेव बुद्ध्यतां किं बोधनत्वरया तत्राह - नेति । राज्यपालने
नियुक्ताहं न भर्तेव समाधौ स्थातुं शक्ता व्युत्थिता च
कथञ्चित्तमेकाकिन्यवस्थातुं शक्नोमीति भावः ॥ ३७ ॥
इति सञ्चिन्त्य चूडाला देहं करणपञ्जरम् ।
सन्त्यज्य प्राप चित्तत्त्वे स्थितिमाद्यन्तवर्जिते ॥ ३८ ॥
स्वं देहं सन्त्यज्य तद्देहं प्रविश्य तदीये हार्दब्रह्मलक्षणे चित्तत्त्वे स्थितिं
प्रापेत्यर्थः ॥ ३८ ॥
तत्र सा चेतनास्पन्दं कृत्वा सत्त्ववतः प्रभोः ।
स्वं विवेश पुनर्देहं स्वं नीडमिव पक्षिणी ॥ ३९ ॥
तत्र निर्विकल्पसमाधिना
क्षीरोदकवदेकरसीभूतायाश्चेतनायास्तदीयचिदाभाससंवलितबुद्धेः
पृथग्भवनानुकूलं स्पन्दम् ॥ ३९ ॥
कुम्भाकृतिरथोत्थाय निविष्टा कुसुमस्थले ।
साम गातुं प्रवृत्ता सा भ्रमरीवृन्दनिःस्वना ॥ ४० ॥
तं सामस्वनमाकर्ण्य चित्सत्त्वगुणशालिनी ।
बुबुधे भूपतेर्देहे वसन्त [वसन्तमिव इति पाठः ।] इव पद्मिनी ॥ ४१ ॥
चित् चिदाभासखचिता राजबुद्धिः शिखिध्वजाहम्भावसंस्कारोद्बोधेन
आनखाग्राद्देहेऽहम्भावव्याप्त्या बुबुधे ॥ ४१ ॥
दृशं विकासयामास तां तदार्क इवाब्जिनीम् ।
गृहीतसत्त्वसम्पत्तिः शिखिध्वजमहीपतिः ॥ ४२ ॥
तां समाधिनिमीलिताम् ॥ ४२ ॥
अपश्यत्कुम्भमग्रस्थं सामगायनतत्परम् ।
परेण वपुषा युक्तं सामवेदमिवापरम् ॥ ४३ ॥
गायनमित्यशित्यात्वाभावश्छान्दसः । परेण दिव्येन वपुषा युक्तमपरं
सामवेदमिवेत्युत्प्रेक्षा ॥ ४३ ॥
अहो बत वयं धन्याः पुनः प्राप्तो मुनिः स्वतः ।
इत्येवोदाहरन्राजा कुम्भाय कुसुमं ददौ ॥ ४४ ॥
कुसुमं पुष्पाञ्जलिम् । अनेन तपःप्रभावात्प्राक्सञ्चितपुष्पाणामम्लानता गम्यते ॥
४४ ॥
दिष्ट्योदिताः स्मो भगवंस्तव चेतसि पावने ।
के नाम वा महासत्त्वाः प्रादेष्वङ्ग नो स्थिताः ॥ ४५ ॥
दिष्ट्या स्वभाग्योदयेन उदिताः पुनर्दर्शनाभ्युदयफलस्मृतिगोचरतां गताः ।
अथवा किं मद्भाग्यचिन्तया महान्तः स्वत एव परानुग्रहोद्यता इत्याशयेनाह -
के नामेति ॥ ४५ ॥
अस्मत्पवित्रीकरणमेवागमनकारणम् ।
न चेत्किं चागमे ब्रूहि द्वितीयं कारणं भवेत् ॥ ४६ ॥
मदुक्तं कारणं न चेदिहागमने द्वितीयं किं कारणं भवेत् सम्भावितं
तद्ब्रूहीत्यर्थः ॥ ४६ ॥
कुम्भ उवाच ।
यतः प्रभृति यातोऽस्मि त्वत्सकाशादनिन्दितः ।
ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम् ॥ ४७ ॥
त्वयैव समं साकम् । स्थानं त्वामेव स्मरदिति यावत् ॥ ४७ ॥
रम्ये स्वर्गे न तिष्ठामि समीपे तव साम्प्रतम् ।
अभीष्टमुद्यदेवाङ्ग रम्याणां तत्पुरः स्थितम् ॥ ४८ ॥
अत एव रम्येऽपि स्वर्गे साम्प्रतं न तिष्ठामि किन्तु तव समीपे तिष्ठामि । हे अङ्ग यतो
बहूनामपि रम्याणां मध्ये चित्तस्य यदेवाभीष्टं भवति उद्यत् उद्योगप्राप्यमेव
सत् पुरः स्थितं भवति नोद्योगं विनेति त्वद्दर्शनोद्योगवशादेव
ममागमनमित्यर्थः ॥ ४८ ॥
त्वादृशो बन्धुराप्तश्च सुहृन्मित्रं तथा सखा ।
विश्वास्यो वापि शिष्यश्च मन्ये जगति नास्ति मे ॥ ४९ ॥
मयि को वा ते प्रीतिहेतुरतिशयस्तत्राह - त्वादृश इति ॥ ४९ ॥
शिखिध्वज उवाच ।
अहो नु फलितं पुण्यपादपैर्नः कुलाचले ।
यस्माद्भवानसङ्गोऽपि वाञ्छत्यस्मत्समागमम् ॥ ५० ॥
कुलाचले अस्मिन्मन्दरे ॥ ५० ॥
इदं वनमिमे वृक्षा भृत्योऽयमहमादृतः ।
रोचते ते न चेत्स्वर्गस्तदिह स्थीयतां प्रभो ॥ ५१ ॥
मत्प्रीत्या ते स्वर्गो न रोचते चेत्तत्तर्हि इह मत्सन्निधौ ॥ ५१ ॥
भवद्वितीर्णया योगयुक्त्या विश्रान्तवानहम् ।
यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः ॥ ५२ ॥
ममापि त्वद्वितीर्णसमाधिसुखतृप्तस्य स्वर्गे वाञ्छा नास्तीत्याह -
भवद्वितीर्णयेति । वितीर्णया दत्तया ॥ ५२ ॥
तामेव संस्थितिं स्वच्छामवलम्ब्य प्रकाशिनीम् ।
विहरेह यथाकामं स्वर्गे भूमितले तथा ॥ ५३ ॥
तां मह्यमुपदिष्टामेव भूमानन्दसंस्थितिमवलम्ब्य । प्रकाशिनीं
स्वप्रकाशाम् ॥ ५३ ॥
कुम्भ उवाच ।
परे पदे महानन्दे कच्चिद्विश्रान्तवानसि ।
इदं भेदमयं दुःखं कच्चित्सन्त्यक्तवानसि ॥ ५४ ॥
कच्चिदापातरम्येभ्यः सङ्कल्पेभ्यो रतिर्भृशम् ।
निर्मूलतां गता राजन्भोगनीरसमेव ते ॥ ५५ ॥
हेयादेयदशातीतं शान्तं शमसमस्थिति ।
यथाप्राप्तेष्वनुद्वेगं कच्चित्तव मनःस्थितम् ॥ ५६ ॥
शमेन समस्थिति ॥ ५६ ॥
शिखिध्वज उवाच ।
त्वत्प्रसादेन भगवन्दृष्टा दृश्यातिगा गतिः ।
प्राप्तः संसारसीमान्तो लब्धो लब्धव्यनिश्चयः ॥ ५७ ॥
चिरादतिचिरेणैव विश्रान्तोऽस्मि निरामयः ।
लब्धं लब्धव्यमखिलं तृप्तः संश्चिरसंस्थितः ॥ ५८ ॥
चिराद्बहुकालोत्तरम् । अतिचिरेण दिनत्रयपर्यन्तम् ॥ ५८ ॥
नोपदेष्टव्यमस्माकं किञ्चिदप्युपयुज्यते ।
सर्वत्रैवातितृप्तोऽस्मि संस्थितोऽस्मि गतज्वरः ॥ ५९ ॥
ज्ञातमज्ञातमप्राप्तं त्यक्तं त्यक्तव्यमाश्रितम् ।
तत्त्वं परत्वं सत्त्वं मे स्वस्यैवास्ति न किञ्चन ॥ ६० ॥
अप्राप्तं प्राप्तमिति शेषः । तथा मे सत्त्वं निर्वासनं मनस्त्वस्यात्मन एव
परत्वमाश्रितम् ॥ ६० ॥
निःसंसृतिर्विगतमोहभयो विरागो न्नित्योदितः समसमाशयसर्वसौम्यः ।
सर्वात्मकः सकलसङ्कलनावियुक्त आकाशकोशविशदः सममास्थितोऽस्मि ॥ ६१ ॥
यदि त्वदन्यत्किञ्चन नैवास्ति तर्हि त्वं कीदृशोऽवशिष्टस्तत्राह - निःसंसृतिरिति
। स्पष्टम् ॥ ६१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
कुम्भपुनरागमनं नाम त्र्यधिकशततमः सर्गः ॥ १०३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
कुम्भपुनरागमनं नाम त्र्यधिकशततमः सर्गः ॥ १०३ ॥