द्व्यधिकशततमः सर्गः १०२
कुम्भ उवाच ।
इति ते कथितं सर्वं शिखिध्वज महीपते ।
यथेदमुत्थितं सर्वं यथा च प्रविलीयते ॥ १ ॥
आमन्त्र्यान्तर्हिते कुम्भे विस्मितस्य महीपतेः ।
चिरं विमृश्य विश्रान्तिः समाधाविह वर्ण्यते ॥
यथेदं सर्वमुत्थितमित्यध्यारोपेण यथा च प्रविलीयत इत्यपवादेन च सर्वं
पूर्णं ब्रह्मतत्त्वं ते मया कथितम् ॥ १ ॥
एतच्छ्रुत्वा च बुद्ध्वा च मत्वा च मुनिनायक ।
यथेच्छसि तथा तिष्ठ दृष्टे स्पष्टे परे पदे ॥ २ ॥
गुरुशास्त्राभ्यां श्रुत्वा स्वीयविचारेण मत्वा च सम्यग् बुद्ध्वा साक्षाद्दृष्टे
आवरणभङ्गात्स्पष्टे परे पदे कदाचित्समाधिप्राधान्येन कदाचिद्व्यवहारेण च
यथेच्छसि तथा तिष्ठ ॥ २ ॥
स्वर्गं गच्छाम्यहं पर्वकालेऽस्मिन्नारदो मुनिः ।
ब्रह्मलोकात्समायातो भवत्यमरसंसदि ॥ ३ ॥
स्वर्गमिन्द्रसभाम् ॥ ३ ॥
न मां पश्यति चेत्तत्र तत्कोपमुपगच्छति ।
नोद्वेजनीया भव्येन गुरवो हि कदाचन ॥ ४ ॥
त्यक्तसङ्कल्पलेखेन न किञ्चिदभिवाञ्छता ।
त्वया सदैव वस्तव्यं दृष्टिरेषैव पावनी ॥ ५ ॥
एषा मदुपदिष्टैव ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
इति यावत्प्रतिवचः पुष्पहस्तः शिखिध्वजः ।
प्रणामाय ददात्येष तावदन्तर्धिमाययौ ॥ ६ ॥
सप्रणामप्रतिवचनात्पूर्वमन्तर्धानम् ।
साध्वीभिर्भर्तृकृतनमस्कारस्याग्राह्यत्वात् ॥ ६ ॥
प्रतिभानगतं वस्तु यथैवान्ते न दृश्यते ।
न दृष्टवांस्तथा कुम्भमग्रे राजा शिखिध्वजः ॥ ७ ॥
स्वप्नादिप्रतिभानगतं धनादिवस्तु । अन्ते जागरे ॥ ७ ॥
गते कुम्भे महीपालः परं विस्मयमाययौ ।
तमेव चिन्तयंश्चित्रं चित्रार्पित इवाभवत् ॥ ८ ॥
चित्रमाश्चर्यम् ॥ ८ ॥
इदं सञ्चिन्तयामास चित्रं विलसितं विधेः ।
यत्कुम्भव्यपदेशेन बोधितोऽस्मि चिरोदयम् ॥ ९ ॥
चिरोदयं सदाप्रभातं शाश्वताभ्युदयं वा ब्रह्म ॥ ९ ॥
क्व नारदसुतः कुम्भः क्वाहं नाम शिखिध्वजः ।
केवलं कालयुक्त्यैव सोऽहं सम्परिबोधितः ॥ १० ॥
कालयुक्त्या भाग्योदयसमययोगेन ॥ १० ॥
अहो नु सम्यक्कथितं देवपुत्रेण युक्तिमत् ।
अहो नु सम्प्रबुद्धोऽस्मि मोहनिद्राकुलश्चिरात् ॥ ११ ॥
क्वाहमासं विनिर्मग्नः क्रियाजालकुकर्दमे ।
इदं कार्यमिदं नेति मिथ्या विभ्रमचक्रके ॥ १२ ॥
अहो नु शीतला शुद्धा शान्तेयन्न् पदवी निजा ।
रसायनोद्भवाकारा सत्त्वं शीतयतीह मे ॥ १३ ॥
इयं साक्षात्कृतात्मरूपा साम्राज्यपदवी । सत्त्वं निर्वासनं मनः ॥ १३ ॥
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।
तृणाग्रमपि नेच्छामि संस्थितोऽस्मि यथास्थितम् ॥ १४ ॥
तेनैव स्वस्य पूर्णकामतामाह - शाम्यामीति ॥ १४ ॥
एवं सञ्चिन्तयन्राजा नूनं निर्वासनाशयः ।
शैलादिव समुत्कीर्णो मौनमेवावतस्थिवान् ॥ १५ ॥
शैलात्समुत्कीर्णः प्रतिमादिरिव मौनं वागादिचेष्टारहितं यथा स्यात्तथा
समाहितोऽवतस्थिवान् । छान्दसत्वाल्लिटः क्वसुः ॥ १५ ॥
तस्मिन्नेव ततो मौने निःसङ्कल्पे निराश्रये ।
प्रतिष्ठां निश्चलां प्राप्य स तस्थौ गिरिशृङ्गवत् ॥ १६ ॥
मौने मुनिकर्मणि समाधौ ॥ १६ ॥
स तत्र संशान्तभयोऽचिरेण चिरेण विश्रान्तमतिः समात्मा ।
चिरेण सम्प्राप्तनिजामलात्मा योगेन सुष्वाप ततोऽदितात्मा ॥ १७ ॥
स राजा तत्र समाधौ सम्प्राप्तनिजामलात्मसन् समात्मा समरसः सन् चिरेण
विश्रान्तमतिर्भूत्वा अचिरेण सद्य एव संशान्तभयः सन् चिरकालानुवृत्तेन योगेन
अदितात्मा अखण्डितस्वभावः सुष्वाप । सुषुप्त इव विशश्रामेत्यर्थः ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजसमाधानं नाम द्व्यधिकशततमः सर्गः ॥ १०२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजसमाधानं नान द्व्यधिकशततमः सर्गः ॥ १०२ ॥