एकाधिकशततमः सर्गः १०१
श्रीवसिष्ठ उवाच ।
इति कुम्भवचो राजा भावयंस्तदकृत्रिमम् ।
स्वयमात्मपदे तस्मिन्क्षणं परिणतोऽभवत् ॥ १ ॥
ज्ञानदार्ढ्येन राज्ञोऽत्र वर्ण्यते कृतकृत्यता ।
जीवन्मुक्तावचित्तत्वं स्थितिस्तत्त्वस्य चेर्यते ॥
परिणतः पूर्वभावं विहाय तद्भावं प्राप्तः ॥ १ ॥
बभूवामीलितमनोलोचनः शान्तवाङ्मुनिः ।
शिलातलादिवोत्कीर्णो निस्पन्दावयवाकृतिः ॥ २ ॥
शिलातलादुत्कीर्णः प्रतिमादिरिव ॥ २ ॥
ततो मुहूर्तमात्रेण प्रबुद्धं स्फुरितेक्षणम् ।
तमुवाच महाबाहो चूडाला कुम्भरूपिणी ॥ ३ ॥
कुम्भ उवाच ।
कच्चिदस्मिन्पदे स्फारे शुद्धे विततनिर्मले ।
सुतल्पे निर्विकल्पानां सुखं विश्रान्तवानसि ॥ ४ ॥
निर्विकल्पानां योगिनां शोभनतल्पभूते निरतिशयानन्दपदे ॥ ४ ॥
कच्चिदन्तः प्रबुद्धोसि कच्चिद्भ्रान्तिस्त्वयोज्झिता ।
कच्चिज्ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यमेव वा ॥ ५ ॥
शिखिध्वज उवाच ।
भगवंस्त्वत्प्रसादेन महाविभवभूमिका ।
महती पदवी दृष्टा सर्वस्योर्ध्वं स्थिता मया ॥ ६ ॥
महाविभवो निरतिशयानन्दस्तल्लक्षणा भूमिका । सर्वस्य हैरण्यगर्भानन्दान्तस्य
विषयानन्दजातस्योर्ध्वमुत्कर्षकाष्ठायां स्थिता ॥ ६ ॥
सतां विदितवेद्यानामहो बत महात्मनाम् ।
अपूर्वैकामृतमयः सङ्गः सारफलप्रदः ॥ ७ ॥
बतेति हर्षे । अपूर्वमनादौ संसारे कदाप्यननुभूतं यदेकामृतं
निरतिशयानन्दस्तत्प्रचुरः अत एव सारफलप्रदः ॥ ७ ॥
जन्मनापि मया लब्धं यन्नाम न महामृतम् ।
तदद्य त्वत्समासङ्गात्तेनैवासादितं स्वयम् ॥ ८ ॥
सामान्योक्तं विशिष्य विवृणोति - जन्मनेति । तेन महामृतस्वरूपभूतेनैव
मया अनाद्यज्ञानान्न लब्धं तदद्य त्वत्समासङ्गात्स्वयमेवानायासेनासादितम् ॥
८ ॥
अनन्तमाद्यममृतं चैतत्कमललोचन ।
कथं नासादितमभूत्पूर्वमात्मपदं मया ॥ ९ ॥
कुम्भ उवाच ।
मनस्युपशमं याते त्यक्तभोगैषणे स्थिते ।
कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च ॥ १० ॥
पूर्वं चित्तकषायपाकाभावान्नासादितमिदानीं तु तपसा
तत्परिपाकादासादितमित्याशयेन कुम्भ उत्तरमाह - मनसीत्यादिना ।
सर्वेन्द्रियगणस्य चान्मनसश्च भोगलक्षणकषायाणां पाके निर्वृत्ते सति तथा च
स्मृतिः कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो
ज्ञानं प्रजायते इति ॥ १० ॥
यान्ति चेतसि विश्रान्तिं विमला देशिकोक्तयः ।
यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः ॥ ११ ॥
कषायाणामनन्तानां सम्भृतानां शरीरकैः ।
स्ववासनास्वरूपाणामद्य पाकस्तवोदितः ॥ १२ ॥
देहान्मलानि सर्वाणि कालेन कमलेक्षण ।
साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः ॥ १३ ॥
देहाल्लिङ्गदेहात् । मलानि रागादिकषायाः पापानि च ॥ १३ ॥
वासनात्मसु यातेषु मलेषु विमलं सखे ।
यद्वक्ति गुरुरन्तस्तद्विशतीषुर्यथा बिसे ॥ १४ ॥
बिसे मृणालरूपे धानुष्कपरिकल्पिते लक्ष्ये ॥ १४ ॥
कषायपाके सम्पन्ने त्वं मयाद्य विबोधितः ।
तेनाद्यैव तवाज्ञानक्षयो जातो महामते ॥ १५ ॥
अद्य पक्वकषायस्त्वमद्यैव ज्ञानसङ्कथाम् ।
अद्येह सोपदेशस्त्वमद्यैवासि प्रबुद्धवान् ॥ १६ ॥
ज्ञानार्थां सङ्कथामुपदेशं तात्पर्येणावधारितवानसीति शेषः ।
उपदिष्टार्थानां हृदि धारणात्सोपदेशः ।
प्रबुद्धवांस्तत्फलसाक्षात्कारज्ञानवान् जातोऽसीत्यर्थः ॥ १६ ॥
शुभाशुभानां सर्वेषां कर्मणामद्य सङ्क्षयः ।
सत्सङ्गव्यपदेशेन तव निष्पत्तिमागतः ॥ १७ ॥
यावदस्य दिनस्यैष पूर्वभागो महीपते ।
तावच्चेतोहम्ममेति तवाज्ञानं बभूव ह ॥ १८ ॥
तवाज्ञानमद्य मध्याह्नकाले क्षीणमिति मया ज्ञातमित्याह - यावदिति ॥ १८ ॥
इदानीं मद्वचोबोधाच्चेतसि क्षयमागते ।
हृदयात्सम्परित्यक्ते सम्प्रबुद्धोऽसि भूपते ॥ १९ ॥
इदानीमद्यतनदिनस्योत्तरभागे हृदयात्सम्परित्यक्ते चेतसि क्षयमागते सति ॥ १९ ॥
हृदि यावन्मनःसत्ता तावदज्ञानसंस्थितिः ।
चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत् ॥ २० ॥
अचित्ततया निःस्वरूपताबुद्ध्या ॥ २० ॥
द्वित्वैकत्वदृशौ चित्तं तदेवाज्ञानमुच्यते ।
एतयोर्यो लयो दृष्टेस्तज्ज्ञानं सा परा गतिः ॥ २१ ॥
दृष्टेः परमात्माभिव्यक्तेः ॥ २१ ॥
प्रबुद्धोऽसि विमुक्तोऽसि त्यक्तं चित्तं त्वया नृप ।
सदसत्तामयत्वं हि त्वया त्यक्तमसत्पदम् ॥ २२ ॥
आत्मन्यन्योन्याध्यासात्सदसत्तामयत्वमेव हि चित्तं नाम तदेव असतो जगतः पदं
कल्पनास्थानम् ॥ २२ ॥
वीतशोको निरायासो निःसङ्गोऽनन्य आत्मवान् ।
महोदयो मुनिर्मौनी स्वरूपे तिष्ठ निर्मले ॥ २३ ॥
शिखिध्वज उवाच ।
एवं हि भगवन् जन्तोर्मूर्खस्यैवास्ति चित्तभूः ।
प्रबुद्धस्य न तज्ज्ञस्य चित्तं नाम किल प्रभो ॥ २४ ॥
चित्ते त्यक्ते जीवन्मुक्तानां केनान्तःकरणेन व्यवहारसिद्धिरिति प्रष्टुं राजा
पीठिकां रचयति - एवं हीति । यदीत्यर्थे किलशब्दः ॥ २४ ॥
जीवन्मुक्तास्तदेते हि विहरन्ति कथं वद ।
अविद्यमानमनसो युष्मदाद्यास्तथा नराः ॥ २५ ॥
प्रष्टव्याशं दर्शयति - जीवन्मुक्ता इति । तत् तर्हि ॥ २५ ॥
इति मे कथयाशेषमन्यैः स्ववचनांशुभिः ।
हार्दं तमो मे निपुणमेवम्प्रायैः प्रमार्जय ॥ २६ ॥
अन्यैर्दुर्वचमिति शेषः । अन्यैः प्रसिद्धसूर्याद्यंशुविलक्षणैः स्ववचनांशुभिः
प्रसिद्धतमोविलक्षणं हार्द तमः प्रमार्जयेति वा ॥ २६ ॥
कुम्भ उवाच ।
यथा वदसि तत्त्वज्ञ तत्तथैव हि नान्यथा ।
चित्तं हि जीवन्मुक्तानां नास्त्यङ्कुर इवाश्मनाम् ॥ २७ ॥
पुनर्जननयोग्या या वासना घनवासना ।
सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते ॥ २८ ॥
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु ।
तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम् ॥ २९ ॥
यथा भर्जिता वितुन्नाश्च लाजा न व्रीह्यादिशब्दवाच्या
नाप्यङ्कुरादिजननक्षमास्तद्वत्तत्त्वज्ञानभर्जितं निरावरणं सत्त्वं न
मनःशब्दवाच्यं नापि पुनर्जन्मसमर्थमित्यर्थः ॥ २९ ॥
जीवन्मुक्ता महात्मानः सत्त्वस्थाः संयतेन्द्रियाः ।
विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन ॥ ३० ॥
जीवन्मुक्तव्यवहाराभासे तदेव कारणाभास इत्याह - जीवन्मुक्ता इति ॥ ३० ॥
मूढं चित्तं चित्तमाहुः प्रबुद्धं सत्त्वमुच्यते ।
अप्रबुद्धा हि चित्तस्थाः सत्त्वस्थास्तु महाधियः ॥ ३१ ॥
भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते ।
अप्रबुद्धस्य बन्धोस्ति न प्रबुद्धस्य भूपते ॥ ३२ ॥
सत्ववानसि सञ्जातो महात्यागी स्थितो भवान् ।
अशेषेण त्वया चित्तं त्यक्तमद्येति वेद्म्यहम् ॥ ३३ ॥
तवापि सत्त्वबलादेव यावज्जीवं व्यवहारः सेत्स्यतीत्याशयेनाह - सत्त्ववानसीति ॥
३३ ॥
समस्तवासनोन्मुक्तो राजन्नद्यैव राजसे ।
आकाशसाम्यमायातं मन्ये तव मुने मनः ॥ ३४ ॥
शमं प्राप्तोऽसि परमं सिद्धः समसमस्थितिः ।
अयं हि स महात्यागः सर्वं यत्तत्समुज्झितम् ॥ ३५ ॥
त्वया प्राक्चिकीर्षितो यो महात्यागः स सर्वरूपं चित्तं यत्समुज्झितमयमेवेत्यर्थः ॥
३५ ॥
स्वर्गापवर्गवित्तादि तपोदानफलाद्यपि ।
प्रबुद्धमेधया साधो धिया परमबोधया ॥ ३६ ॥
चित्तत्यागे तपोदानादिसर्वकर्माण्यन्तर्भूतानि तत्फले च
वित्तस्वर्गापवर्गादितत्फलान्यन्तर्भूतानीत्याशयेनाह - स्वर्गेति । प्रबुद्धा
मेधा उपदिष्टार्थधारणा यस्यास्तथाविधया अत एव परमबोधवत्या धिया
कृतश्चित्तत्याग एव स्वर्गापवर्गवित्तादिरित्यर्थः ॥ ३६ ॥
तपो नाम कियन्मात्रदुःखक्षयकरं भवेत् ।
क्षयातिशयनिर्मुक्तं यत्सुखं समतामयम् ॥ ३७ ॥
तप-आदिफले तु न ज्ञानफलमन्तर्भवतीत्याशयेनाह - तपो नामेति । यद्यतो
मनस्त्यागरूपसमतायाः सकाशादागतं यत् ज्ञानफलं मोक्षसुखं
क्षयातिशयनिर्मुक्तमित्यर्थः । तत आगतः इत्यर्थे मयट् च इति मयट् ॥ ३७ ॥
तत्सत्तद्वस्तु तत्किञ्चिन्न तु स्वर्गादि भङ्गुरम् ।
भावाभावैरुपारूढं स्थिताधिगतवेदनम् ॥ ३८ ॥
न ह्यसत्ये अनित्ये च सत्यस्य शाश्वतस्य चान्तर्भावसम्भावनापीत्याशयेनाह -
तदिति । तत् ज्ञानफलं सत् सत्यम् । वसतीति वस्तु शाश्वतं च । तत्स्वर्गादि किञ्चित्तु न तु
सत्यं भङ्गुरं च । भावाभावैराविर्भावतिरोभावैरुपारूढमाक्रान्तं
पूर्वोत्तरकालयोरदृष्टं स्थितं वर्तमानमेवाधिगतवेदनं प्राप्तदर्शनं
स्वप्नवदित्यर्थः ॥ ३८ ॥
स्वर्गो नाम किमानन्दः सोपि सन्देहसंस्थितः ।
अप्राप्तस्वात्मसंसिद्धेः क्रियाकाण्डः शुभो भवेत् ॥ ३९ ॥
तुच्छं बह्वायासलभ्यं च स्वर्गादितुच्छसुखमज्ञानामेव बहुमतं न
तत्त्वविदामित्याशयेनाह - स्वर्ग इति । स्वर्गो नामेति किमानन्दस्तुच्छसुखम् । किं
क्षेपे इति समासः
अवर्जनीयधर्मकीर्तनाद्यल्पापराधसहस्रनाश्यत्वात्सन्देहसंस्थितः ॥ ३९ ॥
येन नासादितं हेम रीतिं किं स परित्यजेत् ।
चूडालादिसमासङ्गाद्भवेज्ज्ञत्वं सुखेन ते ॥ ४० ॥
ज्ञानदौर्लभ्यादज्ञानां युक्त एव तुच्छस्वर्गादिपरिग्रह इत्याशयेनाह -
येनेति । रीतिं पित्तलम् । तव तु ज्ञानं प्राङ्न दुर्लभमभूत्तथापि त्वं वृथैव
तपःक्लेशे निमग्न इत्याह - चूडालेति ॥ ४० ॥
तत्किमर्थमनर्थेऽस्मिन्निमग्नस्त्वं तपोमये ।
आश्रमादिविकल्पांशसाध्यस्याद्य कुकर्मणः ॥ ४१ ॥
आश्रमो वानप्रस्थाश्रमः । आदिपदात्तद्योग्यं
वयस्तदुचितकर्माधिकारनिर्वाहकविशेषणान्तराणि च ।
तदभिमानतत्साधनचिन्तादिविकल्पविक्षेपांशसहस्रसाध्यस्य बन्धकत्वात्फलतोऽपि
कुत्सितस्य कर्मणः सम्बन्धिनि कृच्छ्रचान्द्रायणादितपःक्लेशप्रचुरे अनर्थे
त्वमद्यपर्यन्तं किमर्थं निमग्नः ॥ ४१ ॥
आद्यन्तावस्य सुमते मध्य एव सुखं स्म भो ।
यतस्ते समयो जातो यस्मिन्परिणमन्ति च ॥ ४२ ॥
स्वर्गादिमहासुखहेतोस्तपसः कथमनर्थत्वं तत्राह - आद्यन्ताविति । भो सुमते
यतोऽस्य तपस आदिभाग आचरणावस्था अन्तभागः फलक्षयावस्था च
दुःखरूपावेव । मध्ये स्वर्गादिभोगावस्थायामेव सुखं स्म किल । तर्हि किं मया
कृतं तपो व्यर्थमेव नेत्याह - यत इति । यतस्तपसैव ते
चित्तकषायपाकात्साम्प्रतं तत्त्वबोधसमयो जातः । अतो हेतोः सर्वे तपोरूपा
विकल्पांशा यस्मिन्नविकल्पे तत्वज्ञाने परिणमन्ति तत्फलेनैव फलवन्तोऽपि च
भवन्ति ॥ ४२ ॥
तपोरूपा विकल्पांशास्तत्र बद्धपदो भव ।
चिद्व्योम्नो नभसोत्यच्छात्सर्वे भावाः समुत्थिताः ॥ ४३ ॥
तत्र ज्ञाने बद्धपदः स्थिरो भव । विविदिषन्ति यज्ञेन दानेन तपसा इत्यादि
श्रुतेस्तत्फलेनैव ते तपसः साफल्यमिति भावः । ज्ञानफलचिद्व्योमलाभेन
सर्वमेव लब्धम् । सर्वस्य जगतस्तत एवोद्भवस्थितिलयश्रुतेरित्याशयेनाह -
चिद्व्योम्न इति ॥ ४३ ॥
तथैव परिदृश्यन्ते तत्रैव विलयं गताः ।
इदं कार्यमिदं नेति सङ्कल्पा ब्रह्मबिन्दवः ॥ ४४ ॥
यद्यपि कार्यमिष्टमकार्यमनिष्टं च सर्वमपि ब्रह्मसमुद्रबिन्दव एव तथापि
तुच्छत्वात्तत्सर्वं बन्ध्यं निष्फलमेवातस्तत्त्यक्त्वा पूर्ण समुद्रस्थानीयं
निर्विशेषमेव समाश्रयेत्याह - इदमिति ॥ ४४ ॥
वन्ध्यं शिखिध्वज त्यक्त्वा पूर्णमेव समाश्रय ।
इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखे ॥ ४५ ॥
परमप्रेमास्पदत्वान्निरतिशयानन्दरूपस्य स्वस्य इष्टान्तरप्रार्थनापेक्षया
तादृशस्वलाभप्रार्थनमेव वरमित्याशयेनाह - इष्टमिति ।
यथाऽलब्धदयितया स्त्रिया लब्धव्यदयितं प्रति मे इष्टं प्रार्थयस्वेत्यन्यत्प्रार्थ्यते
तथैव स्वयं दयित एव कथं न प्रार्थ्यते । तस्मिन्स्वाधीनतया लब्धे
तदधीनलब्धव्यान्तराणां स्वत एव लाभादिति भावः ॥ ४५ ॥
स्त्रिया तथैव स कथं दयितः प्रार्थ्यते स्वयम् ।
सङ्कल्परचितानेतान्भावानापतभासुरान् ॥ ४६ ॥
अङ्गीकृत्यात्मातिरिक्तेष्टानां पुरुषार्थत्वं लब्धत्वादेवाप्रार्थनीयत्वमुक्तम् ।
वस्तुतस्तु तेषां तत्त्वज्ञदृशा तुच्छत्वादग्राह्यत्वमेवेत्याह - सङ्कल्पेति ।
आपद इव अभासुरानरमणीयान् ॥ ४६ ॥
गृह्णन्ति न महात्मानः प्राज्ञा जलरवीनिव ।
स्वर्गमोक्षादिफलदं यत्किञ्चित्सर्वमेव तत् ॥ ४७ ॥
जलरवीन् रविप्रतिबिम्बानिव । ज्ञानलाभानन्तरं
स्वर्गादिसाधनानीवापवर्गसाधनान्यपि हेयान्येवेत्याशयेनाह - स्वर्गेति ॥ ४७ ॥
त्यक्त्वा समसमाभासो योऽस्यसावेव वै भव ।
सत्त्वं सत्त्वेन नाशेन नाश्यं हि विगतस्पृहः ॥ ४८ ॥
सर्वपदार्थेषु सदंशः सत्त्वेनैव ग्राह्यः असदंशस्तु नित्यनष्टत्वेनैव
ग्राह्यश्चित्तचाञ्चल्यं विनेत्याह - सत्त्वमिति ॥ ४८ ॥
पदार्थौघमिमं गृह्णंस्तिष्ठास्पन्दितचित्तभूः ।
अपरिस्पन्दचित्तस्य संसृतिर्नेह धावति ॥ ४९ ॥
अस्पन्दितचित्तभूरित्युक्तेः प्रयोजनमाह - अपरिस्पन्देति । न धावति न प्राप्नोति ।
यथा स्वाभाविकप्रवृत्तिलक्षणपुरुषापराधप्रभवा विपत्तिर्मतौ
विवेकज्ञानोदये सति न प्राप्नोति तद्वदित्यर्थः ॥ ४९ ॥
पौरुषप्रभवा साधो विपत्तिर्हि मतौ यथा ।
यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये ॥ ५० ॥
चेतश्चापलजान्येव तानि तानि महीपते ।
स्थिरं शान्तं गतस्पन्दं यस्य चित्तमचापलम् ।
सदैव स महानन्दी साम्राज्यस्य स भाजनम् ॥ ५१ ॥
सम्यग्भग्नावरणतया राजत इति सम्राट् साक्षात्कृत आत्मा तद्भावस्य
भाजनमित्यर्थः ॥ ५१ ॥
अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ त्वमेकताम् ।
नीत्वा तिष्ठ यथाकाममैक्यमागत्य शाश्वतम् ॥ ५२ ॥
स्पन्दास्पन्दौ तत्साक्षिमात्रतादर्शनेनैकतां नीत्वा साक्षिणमपि
ब्रह्मात्मैक्यमागत्य प्रापय्य भूमानन्दभावेन यथाकामं पूर्णकामतया
तिष्ठेत्यर्थः ॥ ५२ ॥
शिखिध्वज उवाच ।
कथमैक्यं विभो यातः स्पन्दास्पन्दाविमावुभौ ।
सर्वसंशयविच्छेदकारिन्नेतद्वदाशु मे ॥ ५३ ॥
विरुद्धयोः स्पन्दास्पन्दयोरेकतानयनं कथमिति राजा पृच्छति - कथमिति ॥ ५३
॥
कुम्भ उवाच ।
एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधि ।
तदेव स्पन्दते धीभिः शुद्धवारिव वीचिभिः ॥ ५४ ॥
तयोः स्वरूपेणैक्यविरोधेऽप्यधिष्ठानसाक्षिचिन्मात्ररूपेण न तद्विरोध इति
स्वाशयप्रकटनेन कुम्भ उत्तरमाह - एकमिति । वाः इव स्पन्दते स्पन्दात्मना
विवर्तते ॥ ५४ ॥
ब्रह्म चिन्मात्रममलं सत्त्वमित्यादिनामकम् ।
यद्गीतं तदिदं मूढाः पश्यन्त्यङ्ग जगत्तया ॥ ५५ ॥
सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिश्रुतिभिर्यद्गीतम् । अङ्गेत्यामन्त्रणे ॥ ५५ ॥
चित्स्पन्द एव सर्वस्वं सर्गे तस्माद्धि संसृतिः ।
परिस्पन्दो हि विन्ध्यादिशब्दस्पन्दसमं परम् ॥ ५६ ॥
स्पन्दास्पन्दयोरैक्यमुपपादयति - चित्स्पन्द इति । सर्गे यत्सर्वस्वं तच्चित्स्पन्द एव ।
तत्र विन्ध्यादिरूपपरिस्पन्दः परं द्वितीयं शब्दस्पन्दसमम् । इवार्थे समशब्दो
मिथ्यात्वद्योतनार्थः । नामपरिस्पन्द इत्यर्थः ॥ ५६ ॥
चितः स एव चेत्स्पन्दस्तथाऽस्पन्दश्च भावितः ।
एकरूपतया नाम तत्रेदममलं शिवम् ॥ ५७ ॥
अस्त्वेवं तथापि कथं स्पन्दास्पन्दैक्यं तत्राह - चित इति । स तत्तत्साक्ष्यात्मैव
चितः स्पन्दोऽस्पन्दश्चैकरूपतया भावितश्चेत्तत्र इदमात्मरूपमेव शिवं
परिशिष्यत इत्यर्थः ॥ ५७ ॥
सर्गश्चित्स्पन्दमात्रात्मा सम्यग्दृष्टौ विलीयते ।
उदेत्यसम्यग्दृष्टीनां रज्ज्वां सर्पभ्रमो यथा ॥ ५८ ॥
सर्गस्तदा क्व गच्छति तत्राह - सर्ग इति । यतः सः असम्यग्दृष्टीनां भ्रान्त्या
उदेति ॥ ५८ ॥
सस्पन्दा चित्तदभिधा निःस्पन्दा त्वियमातता ।
तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते ॥ ५९ ॥
तदभिधा सर्गाभिधा । निस्पन्दा तु तुर्यातीतपदारूढा ॥ ५९ ॥
शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः ।
कालेनामलतां याते चेतसीन्दाविवोदिता ॥ ६० ॥
कदा तथोदिता भवति तदाह - शास्त्रेति । यथा चक्षुषि तिमिरदोषक्षयेणामलतां
याते नित्यसिद्धैव चन्द्रैकता उदिता तद्वत् ॥ ६० ॥
एतत्केवलमाभातं स्वानुभूतिभिराततम् ।
कथ्यते स्वानुभूतेषु स्वयं स्वं रूपमात्मना ॥ ६१ ॥
यदि वाचा वक्तुं न पार्यते तर्हि कथं त्वया मादृशेषु कथ्यते तत्राह - एतदिति
। स्वमनुभूतं यैस्तथाविधेषु स्वानुभूतिभिरेव स्वयं कथ्यते
लोकदृष्ट्येत्यर्थः ॥ ६१ ॥
प्राप्तोऽसि सारं स्वमनादिमध्यमत्रैव तिष्ठ स्वपदे निविष्टः ।
नो रूपनिर्भेदमहाचिदात्मा जातोऽसि साधो खलु वीतशोकः ॥ ६२ ॥
त्वमपि स्वानुभूतिं प्राप्तोऽस्येव तत्र मद्वचसा स्थैर्यमात्रं कुर्वित्याह -
प्राप्तोऽसीति । भेदकदेहादिरूपाणामभावादेव सर्वदेहेषु निर्भेदः । अत एव
महांश्चिदात्मा जातस्तत्त्वबोधात्प्रादुर्भूतोसि तत एव वीतशोकः तत्र को मोहः कः
शोक एकत्वमनुपश्यतः इति श्रुतेरिति भावः ॥ ६२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० न्निर्वाणप्रकरणे पू० चू०
शिखिध्वजबोधनं नामैकाधिकशततमः सर्गः ॥ १०१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजबोधनं नामैकाधिकशततमः सर्गः ॥ १०१ ॥