१००

शततमः सर्गः १००

शिखिध्वज उवाच ।

एवं चेत्तन्महाबुद्धे यादृशं कारणं परम् ।
कार्यं तादृशमेवेदं जगदित्येव वेद्म्यहम् ॥ १ ॥

वार्यते ब्रह्मवत्सत्त्वं जगतो ब्रह्मसत्तया ।
जन्मादिविक्रियाऽस्पृष्टं ब्रह्मैव सदितीर्यते ॥

यदि ब्रह्मजगतोरेकैव सत्ता तर्हि तया सत्तया ब्रह्मेव जगदपि परमार्थसत्यं किं
न स्यात् । मिथ्यावस्तुनो हि कारणं दुर्निरूपम् । सत्यस्य तु सत्यं ब्रह्मैव कारणं
सम्भवति तुल्यत्वादिति राजा शङ्कते - एवं चेदिति ॥ १ ॥

कुम्भ उवाच ।

यत्र कारणता तस्य कार्यं तदुपपद्यते ।
यन्न कारणमेवादौ तस्मात्कार्यं कुतो भवेत् ॥ २ ॥

सत्यं मायाशबलं शुद्धस्य सत्तयेव जगत्समसत्ताकं जगतः कारणं भवेत् ।
यत्तु निर्गुणं परसत्तानुपजीवि अद्वयत्वात्पूर्वकालाभावेन पूर्ववृत्तित्वशून्यं
निर्विकारं च तस्मात् कार्यं कुतो भवेद्येन तत्समसत्ताकं स्यादित्यर्थः ॥ २ ॥

नेहास्ति कारणं किञ्चिन्न च कार्यं कदाचन ।
विद्यमानमिदं सर्वं सर्वं शान्तमजं जगत् ॥ ३ ॥

अस्तु तर्हि तत्र स्थितं मायाशबलमेव जगतः कारणमिति चेत्तत्राप्याह - नेहेति । इह
निर्विशेषे मायाशबलं कारणं तत्कार्यं जगच्च नास्ति । मायादृष्ट्यैव
मायातच्छबलतत्कार्याणां सद्भावोपगमात् । परमार्थदृष्ट्या तु सर्वमिदं
जगच्छान्तमजमेवेत्यर्थः । तथा चोक्तं वार्तिके अविद्यास्तीत्यविद्यायामेवासित्वा
प्रकल्प्यते । ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन युज्यते इति ॥ ३ ॥

जायते कारणात्कार्यं यत्तत्कारणवद्भवेत् ।
यन्न जायत एवेह तस्मिन्सदृशता कुतः ॥ ४ ॥

अजातेन च सादृश्यप्रसक्तिरित्याह - जायत इति ॥ ४ ॥

बीजमेव न यस्यास्ति तत्कथं वद जायते ।
अप्रतर्क्यमनाख्यं च यत्तस्य क्वेव बीजता ॥ ५ ॥

कुतो न जायते तत्राह - बीजमेवेति । तत्र बीजाभावेऽपि तदेव बीजं किं न स्यात्तत्राह

  • अप्रतर्क्यमिति ॥ ५ ॥

देशकालवशात्सर्वे हेतुमन्तः प्रमाणगाः ।
अकर्तृब्रह्मविषयः प्रमा कारणयोः कथम् ॥ ६ ॥

कुतस्तत्र बीजादिहेत्वभाव इति चेत्प्रमाणसिद्धतदुचितदेशकालाभावादित्याह -
देशेति । तर्हि ब्रह्मगोचरप्रमैव तत्र हेतूपादानकारणगोचरास्तु न विरोधादित्याह

  • अकर्त्रिति । यस्य प्रमाणस्याकर्तृ कर्त्रादिकारकमात्रविरोधि ब्रह्म विषयस्तेन
    हेतूपादानकारणयोः प्रमा जायत इति कथं वक्तुं शक्यमित्यर्थः ॥ ६ ॥

अकर्तृकर्मकरणे नास्ति कारणता शिवे ।
तस्मात्तत्कारणं नास्ति जगच्छब्दार्थवेदनम् ॥ ७ ॥

ब्रह्मैव त्वं स्वरूपं सद्यत्स्थितं धारयस्व तत् ।
असम्यग्दर्शिविषयं तदेव जगदाचितम् ॥ ८ ॥

अत एव स्वरूपं शुद्धाकाशकल्पं यन्निर्विशेषं वस्तु तदेवाहमिति तत्त्वदृशा
हृदि धारयस्व नान्यादृशम् । अज्ञदृशा च तदेव जगद्रूपेणाचितमित्यर्थः ॥ ८

चिन्मात्रमजरं शान्तं यदेकं तत्प्रमीयते ।
तेनैवायं जगद्ब्रह्म सच्छान्तं बुद्ध्यते वपुः ॥ ९ ॥

चिन्मात्रप्रमयैव जगद्ब्रह्मभावेन सम्पद्यते । अतत्त्वाकारमनोभ्रान्त्या च ब्रह्म
जगदाकारेणेत्याह - चिन्मात्रमिति द्वाभ्याम् ॥ ९ ॥

अन्यथैव च यो भावश्चेतसः पृथिवीपते ।
स एव नाशः कथितः स्वानुभूतश्च पण्डितैः ॥ १० ॥

नाशो ब्रह्मस्वरूपहानिः ॥ १० ॥

चित्तं नाशस्वभावं तद्विद्धि नाशात्मकं नृप ।
क्षणनाशो यतः कल्पचित्तशब्देन कथ्यते ॥ ११ ॥

तदेव स्फुटमाह - चित्तमिति । सः क्षणमात्रमपि स्वरूपविस्मरणरूपो नाशः
कल्पकालविस्मृतचित्तशब्देनोच्यत इत्यर्थः ॥ ११ ॥

असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
सङ्कल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः ॥ १२ ॥

तच्च चित्तमसङ्कल्पनपर्यवसितत्वज्ञानेन [पर्यवसिततत्त्वज्ञानेन इति पाठः ।
] नश्यतीत्याह - असङ्कल्पनेति ॥ १२ ॥

नाम्नैवाङ्गीकृताभावं यदि विश्वं हि कथ्यते ।
विद्यमानं कथं तत्स्यान्ननु तामरसेक्षण ॥ १३ ॥

अस्तु सङ्कल्पनाशस्तथापि विश्वं कथं निवर्तत इति चेन्मिथ्यात्वादेवेति विशति
परमात्मन्येकीभवति न वस्त्वन्तरतयावतिष्ठत इति विश्वमिति
तन्नामनिर्वचनमभिप्रेत्याह - नाम्नैवेति । यः स्वाधिष्ठाने बाधे न विशति
तद्विद्यमानं कथं स्यादित्यर्थः ॥ १३ ॥

हस्तावुत्क्षिप्य यो ब्रूते शूद्रोऽस्मीति भृशं गिरा ।
कथं सा विप्रो भवति विप्रत्वं त्वस्य कीदृशम् ॥ १४ ॥

तत्र लोकवृत्तं प्रमाणयति - हस्ताविति द्वाभ्याम् ॥ १४ ॥

विवृत्तधातुरत्युच्चैर्मृतोऽस्मीति विरौति यः ।
मृतिमेवागतं [मृतमिति पाठेपि स एवार्थः ।] विद्धि जीवनं तस्य
सम्भ्रमः ॥ १५ ॥

सन्निपातेन विवृत्ताः कुपिता धातवो यस्य तथाविधः सन् सन्निहितमृत्युरिति यावत् ॥
१५ ॥

भ्रमाकृति यदस्तीह दृश्यतेऽलातचक्रवत् ।
मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत् ॥ १६ ॥

चित्ताद्यस्तीत्यनुभवस्य तर्हि का गतिरिति चेद्भ्रान्तित्वमेवेति दृष्टान्तैराह -
भ्रमाकृतीति ॥ १६ ॥

तत्कथं किल नाम स्यात्सत्यं श्रमभरात्मकम् ।
अज्ञानभ्रान्तिरेवान्तश्चित्तमित्येव कथ्यते ॥ १७ ॥

भ्रान्तिपुञ्जरूपमेव तर्हि तत्सदस्तु नेत्याह - तदिति ।
तस्याज्ञानव्यतिरिक्तस्वरूपाभावादित्यर्थः ॥ १७ ॥

अज्ञानमुच्यते चित्तमसत्सदिव संस्थितम् ।
असंवेदनमज्ञातं ज्ञानं संवेदनं भवेत् ॥ १८ ॥

अज्ञानसत्त्वसंवित्तेर्ज्ञानात्संवेदनात्क्षयः ।
जलज्ञानं मुधा भ्रान्तिः साधो मरुमरीचिषु ॥ १९ ॥

अज्ञानात्मनैव तर्हि चित्तादि सत्यमस्तु तत्राह - अज्ञानेति ।
ज्ञानबाध्यत्वान्नाज्ञानात्मनापि सत्यता सिद्ध्यतीत्यर्थः । उक्तं
दृष्टान्ताभ्यामुपपादयति - जलज्ञानमित्यादिना ॥ १९ ॥

नैतज्जलमिति ज्ञानात्संवित्तेः प्रविलीयते ।
इदं चित्तमिति प्रौढं यदज्ञानमलं हृदि ॥ २० ॥

नास्ति चित्तमिति ज्ञानात्तत्समूलं विनश्यति ।
यथा रज्ज्वां भुजङ्गत्वमज्ञानभ्रमसम्भवम् ॥ २१ ॥

न सर्पोऽयमिति ज्ञानाद्धृदि रूढात्प्रणश्यति ।
तथात्मनि मनोभूतमज्ञानभ्रमसम्भवम् ॥ २२ ॥

चित्तं नास्तिति विज्ञानाद्धृदि रूढाद्विनश्यति ।
चित्तं मनोऽहमित्यन्तर्यावदज्ञानसम्भवम् ॥ २३ ॥

यावत् सकलम् ॥ २३ ॥

न चित्तमस्ति नो चैवमहङ्कारादिसंयुतम् ।
किञ्चिदेव जगत्यस्मिन्संविदेकान्तनिर्मला ॥ २४ ॥

अहङ्कारादिसंयुतं किञ्चिद्देहादि । अप्यर्थे एवकारः । तर्हि किमस्ति तदाह -
संविदिति ॥ २४ ॥

तया सङ्कल्पचित्तादि कृतमासीद्विमूढया ।
अद्यासङ्कल्पतः सर्वं परित्यक्तं प्रबुद्धया ॥ २५ ॥

सङ्कल्पेन यदा याति त्वसङ्कल्पेन गच्छति ।
पवनेन महाबाहो ज्वालाजालमिवानले ॥ २६ ॥

आत्मतत्त्वैकघनया ततया ब्रह्मसत्तया ।
जगत्सर्वमिति व्याप्तं समुद्र इव वारिणा ॥ २७ ॥

व्याप्तं ग्रस्तम् ॥ २७ ॥

नाहमस्मि न चान्योस्ति न त्वं नैते न चित्तकम् ।
नेन्द्रियाणि न चाकाशमात्मा त्वेकोऽस्ति निर्मलः ॥ २८ ॥

कथं ग्रस्तं तदाह - नाहमिति ॥ २८ ॥

घटाद्याकाररूपेण स एवायं विलोक्यते ।
इदं चित्तमयं चाहमिति कैव कुकल्पना ॥ २९ ॥

तर्हि जीवन्मुक्तैर्घटाद्याकारेण किमवलोक्यते तत्राह - घटादीति ॥ २९ ॥

न जायते न म्रियते किञ्चिदस्मिञ्जगत्त्रये ।
केवलोऽयं चिदुल्लासः सदसद्भावनात्मना ॥ ३० ॥

सर्वमात्मा परम्ब्रह्म सकृत्प्रकटमाततम् ।
द्वित्वैकत्वे न विद्येते न भ्रान्तिर्न च सम्भ्रमः ॥ ३१ ॥

सम्भ्रमो मरणादिभयम् ॥ ३१ ॥

सर्वेन्द्रियगणाकारे सन्नेवासि सखे ततः ।
न दह्यसे महाबुद्धे न च क्वचन लिप्यसे ॥ ३२ ॥

सर्वस्मिन्निन्द्रियगणे तद्ग्राह्यवह्न्याद्याकारे च सन्नेव सन्मात्रस्वरूपस्त्वमसि । अतो
दाहहेतुभिराध्यात्मिकादिभावैर्न दह्यसे ॥ ३२ ॥

न ते विनश्यति सखे न च किञ्चिद्विवर्धते ।
निर्मलाकाशरूपस्य कैवल्यानन्तरूपिणः ॥ ३३ ॥

इच्छानिच्छात्मिके शक्ती येतरापि त्वमेव च ।
न ह्यंशुव्यतिरेकेण शशाङ्क उपलभ्यते ॥ ३४ ॥

इतरा क्रियाशक्तिरपि त्वमेव । अतस्तवेष्टमनिष्टं कर्तव्यं च नास्तीत्यर्थद्योतनाय
चकारः । अंशवः कलास्तद्व्यतिरेकेण ॥ ३४ ॥

अजमजरमनाद्यजस्वभावं सकृदमलं विलसत्सदैकरूपम् ।
विगलितकलनं कलाख्यलीलं सदुदितमाद्यमजं तदात्मतत्त्वम् ॥ ३५ ॥

त्रिभिरजपदैर्जन्मवृद्धिविपरिणामा निरस्यन्ते । सदैकरूपमित्यनेनान्ये विकाराः ।
सकृद्विलसत्सकृत्प्रभातम् । कलाप्रमाणेन स्वस्वरूपपरिचयस्तदाख्या लीला यस्य
तथाविधं सत् सन्मात्रतया उदितम् । आद्यं सर्वव्यवहारेभ्यः प्राक्सिद्धं यद्वस्तु
तदेवात्मतत्वमित्यर्थः ॥ ३५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजपरमावबोधनं नाम शततमः सर्गः ॥ १०० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजपरमावबोधनं नाम शततमः सर्गः ॥ १०० ॥