०९९

एकोनशततमः सर्गः ९९

शिखिध्वज उवाच ।

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्महामुने ।
स्थितोऽस्मि गतसन्देहो विश्रान्तमतिरात्मवान् ॥ १ ॥

प्रबुद्धोऽपि नरेन्द्रोऽत्र भूयः कुम्भेन बोध्यते ।
स्थूणानिखननन्यायाद्बोधोऽस्य सुदृढोऽस्त्विति ॥

एवं बोधितो राजा उपदेशजन्यज्ञानेन सर्वसन्देहादिबीजं स्वाज्ञानं
नष्टमित्यभिलप्य दर्शयति - नष्ट इत्यादिना । विस्मृतात्मनः साक्षात्कार एव
स्मृतिरित्युच्यते ॥ १ ॥

ज्ञातज्ञेयो महामौनी तीर्णमायामहार्णवः ।
शान्तोऽहमनहंरूपो ज्ञः स्थितोऽस्मि निरामयः ॥ २ ॥

अहो नु सुचिरं कालं प्रभ्रान्तोऽहं भवाम्बुधौ ।
स्थानमक्षयमक्षुब्धमधुना प्राप्तवानहम् ॥ ३ ॥

एवं स्थिते मुने नास्ति साहन्तादिजगत्त्रयम् ।
मूर्खबुद्धमिदं भाति यत्तद्ब्रह्मेति वेद्म्यहम् ॥ ४ ॥

मूर्खबुद्धमिदं साहन्तादिजगत्त्रयं नास्ति ॥ ४ ॥

कुम्भ उवाच ।

जगदेव न यत्रास्ते तत्राहन्त्वंविभासनम् ।
इत्थमम्बरसंसारः क्व कुतः कीदृशः कथम् ॥ ५ ॥

कुम्भस्तदुक्तमेवानुमोदमान उवाच - जगदेवेत्यादि । अम्बरसंसारो
गन्धर्वनगरव्यवहारः ।
किंवृत्तान्यधिकरणनिमित्तदृष्टान्तप्रकारप्रतिक्षेपार्थानि ॥ ५ ॥

यथास्थितव्यवहृतिर्मौनी शान्तमना मुनिः ।
सौम्यार्णवोदरावर्तपरिस्पन्दवदास्व भो ॥ ६ ॥

सौम्यार्णवोदरे प्रशान्तो य आवर्तपरिस्पन्दस्तद्वदास्व तिष्ठ ॥ ६ ॥

ब्रह्मरूपमिदं शान्तमित्थमस्ति यथास्थितम् ।
अहं जगदिदं चेति शब्दार्थात्म नभोमयम् ॥ ७ ॥

शब्दार्थात्म शब्दार्थस्वरूपं तु नभोमयं शून्यमेव ॥ ७ ॥

इदमाद्यन्तरहितं सर्वं [सर्वसंसार इति पाठः ।] संसारनामकम् ।
चिच्चमत्कृतिनामात्म नभः कचकचायते ॥ ८ ॥

चिच्चमत्कृतिनामकं यदात्मरूपं नभस्तदेव कचकचायते स्वचाकचक्येन दीप्यते
॥ ८ ॥

सन्निवेशदृशः शान्तौ तदस्ति कनकं यथा ।
जगदाद्यर्थसंशान्तौ ब्रह्मेदं विद्यते तथा ॥ ९ ॥

यथा नभसि अवाङ्मुखीकृतेन्द्रनीलकटाहाकारसन्निवेशदृष्टेर्विवेकदृशा
शान्तौ तद्व्याप्तसौरालोककचनमस्त्येव तथैवेत्यर्थः ॥ ९ ॥

यथा स्वयम्भूः सङ्कल्पः स्वयं नाम तथैव हि ।
एतौ स्ववेदनायत्तौ बन्धमोक्षौ व्यवस्थितौ ॥ १० ॥

यथा समष्ट्यहङ्कारात्म स्वयम्भूः सङ्कल्पमात्रं तथा स्वयं
व्यष्ट्यहङ्कारोऽपि । एतौ समष्टिव्यष्टिबन्धस्तन्मोक्षश्चेत्येतौ
तदभिमानतत्परित्यागवेदनायत्तौ ॥ १० ॥

अहमित्येव सङ्कल्पो बन्धायातिविनाशिने ।
नाहमित्येव सङ्कल्पो मोक्षाय विमलात्मने ॥ ११ ॥

तदेव स्पष्टमाह-अहमित्येवेति ॥ ११ ॥

यद्बन्धमोक्षसङ्कल्पशब्दार्थानां सदा सताम् ।
स्वरूपवेदनं तत्सत्केवलत्वं च कथ्यते ॥ १२ ॥

कोऽसौ मोक्षस्तमाह - यदिति । सदा पर्यायेण सतां बन्धमोक्षसङ्कल्पानां
साक्षिभूतं स्वरूपवेदनं तदेव सद्ब्रह्म केवलत्वं कैवल्यं च कथ्यत इत्यर्थः
॥ १२ ॥

अनहंवेदनं सिद्धिरहंवेदनमापदः ।
सोऽहमेवानहमिति शुद्धबोधो भवात्मवान् ॥ १३ ॥

सिद्धिर्मोक्षः । आपदो बन्धः । स त्वमहमेवानहमिति
शुद्धकैवल्यात्मबोधवान्भव ॥ १३ ॥

असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
सङ्कल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः ॥ १४ ॥

शुद्धबोधश्च सङ्कल्पक्षयात्सिध्यतीत्याह - असङ्कल्पनेति ॥ १४ ॥

अप्रतर्क्ये स्वरूपे हि नास्ति कारणता शिवे ।
कारणाभावतः कार्यपदार्थोऽपि न विद्यते ॥ १५ ॥

शुद्धस्य
कारणत्वासम्भवाद्दृश्यपदार्थाभावस्तदभावनिश्चयात्सङ्कल्पक्षयः
सङ्कल्पनाशादहम्भावक्षयस्तत्क्षयाज्जीवभावादिसंसारक्षयस्ततश्च
ब्रह्ममात्रावशेष इति क्रममाह - अप्रतर्क्य इति त्रिभिः ॥ १५ ॥

पदार्थाभावसंसिद्धौ वेदनं नोपपद्यते ।
कारणाभावतो नित्यमहम्भावस्य नोदयः ॥ १६ ॥

अहम्भावानुदयतः संसारः कस्य कीदृशः ।
संसाराभावतः सर्वं परमेवावशिष्यते ॥ १७ ॥

यदिदं भासते तत्सत्परमेवात्मनि स्थितम् ।
परं परे परापूर्णं सममेव विजृम्भते ॥ १८ ॥

प्रागपि यदिदं जगदाकारेण भासते तत्परमार्थतो ब्रह्मैव तथा स्थितं
तत्त्वबोधेन च नापूर्वं किन्तु परे स्वभावे स्थितं परमेव परेणापूर्वं समं
स्वरूपमेव विजृम्भते प्रकटीभवति ॥ १८ ॥

तेन निस्तिमितं सर्वं शिलाकीर्णमिवाचलम् ।
विद्धि रश्मिमयाकारमिव ब्रह्म जगत्स्थितम् ॥ १९ ॥

तेन सदैकरूपत्वेन हेतुना । वज्रशिलया कीर्णं निबिडितं वज्रशिलोदरमिवाचलं
दृढम् । तत्र च यज्जगत्स्थितं तद्वज्रमणिरश्मिमयप्रतिबिम्बाकारसहस्रमिव ॥ १९

पुरः सङ्कल्पके नष्टे सङ्कल्पनगरस्य यत् ।
रूपं तद्विद्धि जगतः खादच्छं सदसन्मयम् ॥ २० ॥

मुक्तौ तर्हि कथं स्थितं तदाह - पुर इति । सदेव सददर्शनादसन्मयम् ॥ २० ॥

छायापुरुषवत्स्पन्दि शान्तं निर्मननं जगत् ।
जगच्छब्दार्थरहितं यः पश्यति स पश्यति ॥ २१ ॥

कथं तर्ह्यचले जगत्स्पन्दप्रत्ययस्तत्राह - छायेति । यथा वज्रशिलोदरे
प्रतिबिम्बपुरुषोऽस्पन्दमान एव स्पन्दते तद्वत्स्पन्दि ॥ २१ ॥

रूपालोकमनस्कारा नीरसागमभावना ।
सम्यग्ज्ञानावबोधस्य निर्वाणं वै विदुर्बुधाः ॥ २२ ॥

सम्यग्ज्ञानप्रबोधस्योदने बाह्या रूपालोका आन्तरा मनस्काराश्च नीरसा निःसारा
इत्यागमप्रमाणजा स्थिरभावना भवति तामेव निर्वाणहेतुत्वान्निर्वाणं विदुः ॥ २२

यथास्ति वातो निःस्पन्दो यथास्ति खगतोपि वा ।
यथा हेमासन्निवेशमस्ति ब्रह्म जगत्तथा ॥ २३ ॥

जगच्छब्दार्थरहितं यः पश्यति स पश्यतीति यदुक्तं तद्दृष्टान्तैर्विवृणोति ##-
कटकादिसन्निवेशनिर्मुक्तं हेमास्ति तथा जगदप्यसन्निवेशं ब्रह्मास्तीति
सम्भावनीयमित्यर्थः ॥ २३ ॥

नीरसा असदाभासा जगत्प्रत्ययकारिणः ।
रूपालोकमनस्काराः सन्तीमे ब्रह्मरूपिणः ॥ २४ ॥

रूपालोकमनस्कारा इत्येतदपि विवृणोति - नीरसा इति । ब्रह्मरूपिणो
बोधाद्ब्रह्मभूतस्य जगतो जगत्प्रत्ययकारिणो रूपालोकमनस्कारा नीरसाः । कोऽर्थः ।
असदाभासा भवन्तीत्यर्थः ॥ २४ ॥

ऊर्मिशब्दार्थरहितं यादृगम्बु बहून्यपि ।
सर्गशब्दार्थरहितं तादृग्ब्रह्म निसर्गवत् ॥ २५ ॥

यथा बहून्यपि तरङ्गादीनि समुद्रे ऊर्मिशब्दार्थरहितमम्बुमात्रं भवन्ति तथा
बहून्यपि वस्तूनि ज्ञानोदये निसर्गवद्ब्रह्मैकमेव भवन्तीत्यर्थः ॥ २५ ॥

सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गदृक् ।
सर्गशब्दार्थरहितो वाक्यार्थस्त्वेष शाश्वतः ॥ २६ ॥

सर्गशब्दार्थभेदभाधे सर्गपरब्रह्मणोरैक्यमेवेति व्यतिहारेण द्रढयति -
सर्ग एवेति । हि यस्मात् एष एव सर्वं खल्विदं ब्रह्म इत्यादिश्रौतवाक्यार्थ ॥ २६ ॥

ब्रह्मशब्दार्थसम्पत्तौ सर्गशब्दार्थधीः कृता ।
सर्गशब्दार्थसंसिद्धौ ब्रह्मशब्दार्थधीः कृता ॥ २७ ॥

बृंहणाद्ब्रह्मेति ब्रह्मशब्दस्यार्थसम्पत्तावेव सर्गशब्दार्थधीर्लोके कृता ।
एवं सर्गो नामरूपयोर्विसर्गस्त्याग इति सर्गशब्दार्थसम्पत्तौ
त्रिविधपरिच्छेदनिवृत्तेर्बृहधात्वर्थानुसारिब्रह्मशब्दार्थता
कृतेत्यनयोरेकार्थतैवेत्यर्थः ॥ २७ ॥

समस्तशब्दशब्दार्थभावनाभावनोदयम् ।
शुद्धं तिष्ठति चिद्व्योम ब्रह्मशब्देन कथ्यते ॥ २८ ॥

ब्रह्मशब्दस्य तर्ह्यशब्दे वस्तुनि कथं प्रवृत्तिस्तत्राह - समस्तेति । अल्पस्यापि
परिच्छेदस्याभ्युपगमे बृहधात्वर्थसङ्कोचापत्तेरशब्दशब्देनेव
तादृशमेव ब्रह्मशब्देन कथ्यत इत्यर्थः ॥ २८ ॥

सम्यग्दर्शनसंसिद्धावुभयोरप्यवेदने ।
यच्छिष्टमजरं शान्तं ततो वाग्विनिवर्तते ॥ २९ ॥

अथवा जगच्छब्दस्येव ब्रह्मशब्दस्यापि वाच्यार्थवेदनोत्तरं लक्षणया
अखण्डार्थसम्यग्दर्शनसंसिद्धौ यच्छिष्टं वस्तु ततो
ब्रह्मशब्दादिवागपिनिवर्तत इत्यर्थः ॥ २९ ॥

संशान्तसर्वात्मकवेदनौघमस्तीदमेकात्मकस्वस्वरूपम् ।
यथास्थितं सर्वजगत्स्वरूपं पाषाणरूपं च परं ज्ञरूपम् ॥ ३० ॥

हे राजन् इदं सर्वं जगत्स्वरूपं यथास्थितं यदस्ति
तदप्यतिदृढत्वाद्वज्रपाषाणरूपं परं ब्रह्मस्वरूपमस्त्येव । यदापीदं
जगदज्ञानेन संशान्तसर्वात्मकवेदनौघं सम्पन्नं तदापि
एकात्मकस्वस्वरूपं सदस्त्येवेति ब्रह्मजगतोरेकैव सत्तेति न कस्याप्यसत्त्वमित्यर्थः
॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० शिखिध्वजावबोधनं नामैकोनशततमः सर्गः ॥ ९९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधनं नामैकोनशततमः सर्गः ॥ ९९ ॥