अष्टनवतितमः सर्गः ९८
शिखिध्वज उवाच ।
चित्तं नास्तीति मे बोधो यथा युक्त्या स्फुटं भवेत् ।
तामन्यामथवा ब्रूहि बुद्धं न निपुणं मया ॥ १ ॥
चित्तं नास्तीति बोधस्य दृढीकाराय विस्तरात् ।
चेत्यासत्त्वादचित्तं तत्सद्ब्रह्मैवेति वर्ण्यते ॥
ननु आलोके सति रूपादेरिव सत्येव चित्ते चितस्तदन्यस्य वा प्रथा दृश्यते नासति । तद्यदि
चित्तं ब्रह्माकारवृत्तिकं बाध्येत तर्हि दीपनाश इव पुनरान्ध्यं प्राप्तम् । सचित्ता
एव सचेतना अचित्तास्त्वचेतना लोके प्रसिद्धास्तद्यदि जीवन्मुक्ता नष्टचित्तास्तर्हि
मृदादिवदचेतनाः सम्पद्येरन् । न च तथा दृश्यन्ते । किं च सति चित्ते
निरतिशयानन्दलक्षणः परमपुरुषार्थः शास्त्रफलमनुभवितुं शक्यं नासति ।
न चाननुभूयमानः कश्चित्पुरुषार्थो नाम भवति । किं च ब्रह्माकारं चित्तमेव
चित्तं बाधते अन्यद्वा । नाद्यः । स्वात्मनि क्रियाविरोधात् । न हि दाह्यं दहन्नग्निः
स्वात्मानं दग्धुं शक्नोति । न द्वितीयः । तद्बाध्यस्य जगतस्तद्बाधकत्वायोगात् ।
चित्तवृत्त्यतिरिक्तस्य लोके बाधकत्वाप्रसिद्धेः सुन्दोपसुन्दन्यायानवतारात् ।
ब्रह्मणस्त्वनादेः सर्वसाधकत्वमेव न बाधकत्वमिति चित्तबाधो निरर्थको
दुष्करः सर्वानुभवपराहतश्चेत्याद्याशङ्कानिरासेन बोधदार्ढ्यकामो राजा
पृच्छति - चित्तमिति । तां प्रागुक्तामेव युक्तिं विशदीकृत्य ब्रूहि । अथवा
तदन्यां तदुपयुक्तां मदीयसर्वाशङ्कानिवारणसमर्थां च युक्तिं
ब्रूहीत्यर्थः । निपुणं दृढम् ॥ १ ॥
कुम्भ उवाच ।
चित्तं नास्त्येव हे राजन्कदाचित्किञ्चन क्वचित् ।
यच्चेदं चित्तवद्भाति तद्ब्रह्माभिधमव्ययम् ॥ २ ॥
तत्र सर्वदोषपरिहारेण चित्तबाधोपपादिकां युक्तिं वक्तुं कुम्भश्चित्तासत्त्वं
तदध्हिष्ठानब्रह्ममात्रसत्त्वं च प्रतिजानीते - चित्तमिति । कदाचित्काले क्वचिद्देशे
किञ्चिद्वस्त्वात्मना च चित्तं नास्ति ॥ २ ॥
अतोऽज्ञानात्मकं यत्तज्जगदेव न विद्यते ।
तत्राहन्त्वन्तदित्यादिकल्पिताः कलनाः कुतः ॥ ३ ॥
तां युक्तिमाह - अत इति । यतः सर्वं चित्तादि जगदज्ञानात्मकं
ज्ञानेनाज्ञानबाधेन हेतुना न विद्यते अतो हेतोरित्यर्थः । अयं भावः -
भवेदयं स्वात्मनि क्रियाविरोधो यज्ञज्ञानबाधाच्चित्तादिबाधोऽन्यः स्यात् ।
अज्ञानबाध एव तु
सर्वतत्कार्यतत्सम्बन्धावरणविक्षेपादिसर्वनिवृत्तिरूपस्तस्मिन्सति चित्तं नास्त्येवेति
प्रतिज्ञातार्थोऽर्थसिद्ध एव । अत एव न पुनरान्ध्यादिदोषप्रसक्तिरज्ञानस्यैव
सर्वान्ध्यप्रयोजकस्यापगमात् । स्वप्रकाशपूर्णानन्दपरिशेषेण
निरतिशयपुरुषार्थसिद्धेश्च । न च चित्ताधीना चेतनता किन्त्वभिव्यक्तचिदधीना । सा
च जीवन्मुक्तेषु चित्तनाशेऽप्यस्त्येवेति नाचेतनत्वप्रसङ्गः । न च चित्तनाशे तत्कृता
चिदभिव्यक्तिरपैति । अनभिव्यक्तेरज्ञानावरणकृतत्वेन तदपगमे चितोऽभिव्यक्तेः
स्वाभाविकृत्वेनानपायात् । न हि वायुना घनापसारणेन कृता सूर्याभिव्यक्तिः
शरदि वायूपरमे अपैतीति सर्वदोषपरिहार इति ॥ ३ ॥
नास्त्येव जगदेवेदं यच्चेदं किञ्चनोदितम् ।
ब्रह्मैवास्तीह सकलं केन तद्बुध्यते कथम् ॥ ४ ॥
प्रथमप्रतिज्ञां समर्थितां निगमय्य द्वितीयामुपादत्ते - नास्त्येवेति ।
तत्समर्थनाय यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति श्रुतिं
प्रमाणयति - केनेति ॥ ४ ॥
महाप्रलयसर्गादावेवेदं नोदितं जगत् ।
निर्देशस्त्विदमित्यत्र त्वद्बोधाय मया कृतः ॥ ५ ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः इति श्रुतिरपि तत्र मानमित्याशयेनाह ##-
नोदितमेव तर्हि चित्तं नास्त्येवेति प्रतिज्ञावाक्ये त्वया कथं यच्चेदं चित्तवद्भातीति
निर्देशः कृतस्तत्राह - निर्देशस्त्विति ॥ ५ ॥
उपादानात्मकादीनां कारणानामभावतः ।
अकारणं च भावानामशेषाणां त्वसम्भवात् ॥ ६ ॥
पूर्वोक्तयुक्तिरप्येतत्साधनसमर्थेत्याशयेनाह - उपादानेति ॥ ६ ॥
एवमज्ञानबुद्ध्यात्म जगत्तस्मान्न विद्यते ।
तस्माद्यदिदमाभाति भासनं ब्रह्म नेतरत् ॥ ७ ॥
द्वितीयप्रतिज्ञां निगमयति - तस्मादिति ॥ ७ ॥
अनाख्येऽनाकृतौ देवे करोतीदमिति त्वसत् ।
भाषितं नोपपत्त्यात्म न सत्यं नानुभूयते ॥ ८ ॥
ननु यदि सर्गादि नास्त्येव तर्हि तदात्मान स्वयमकुरुत एको वशी सर्वभूतान्तरात्मा
एकं बीजं बहुधा यः करोति कर्ता भोक्ता महेश्वरः इत्यादिश्रुतिस्मृतिवादानां
का गतिरिति चेत् नेह
नानेतिश्रुत्यपेक्षितनिषेध्यसमर्पणेनाद्वैतव्युत्पादनार्थवादतैव गतिर्न
तत्त्वार्थतेत्याशयेनाह - अनाख्ये इति । अनाख्ये नामरहिते अनाकृतौ रूपरहिते
युक्तिशून्यत्वान्नोपपत्त्यात्म निष्कलं
निष्क्रियमित्यादितात्त्विकश्रुतिविद्वदनुभवबाधितत्वान्न सत्यं लौकिकैरपि
नानुभूयते ॥ ८ ॥
अनाख्योऽप्रतिघः स्वात्मा निराकारो य ईश्वरः ।
स करोति जगदिति हासायैव वचोऽधियाम् ॥ ९ ॥
शीतवातादिप्रतिघातवारणाय गृहादिनिर्माणं प्रसिद्धम् । ईश्वरस्त्वप्रतिघः
करोतीति अधियां तात्पर्यशून्यानामर्थवादानां सर्वज्ञस्य वृथा
चेष्टोक्तिर्हासायैवेत्यर्थः ॥ ९ ॥
अनेनैव प्रयोगेण राजंश्चित्तं न विद्यते ।
जगदेव न सत्साधो कुतश्चित्तादि तद्गतम् ॥ १० ॥
एवं जगत्सर्गासिद्धौ प्रतिज्ञातार्थसिद्धिरित्याह - अनेनैवेति । यदा जगदेव न
सत्तदा तदन्तर्गतं चित्तादि कुतः सदित्यर्थः ॥ १० ॥
चेतो हि वासनामात्रं वास्ये तु सति वासना ।
वास्यं जगत्तदेवासदतश्चित्तास्तिता कुतः ॥ ११ ॥
जगदसत्त्वे विषयासत्त्वादपि चित्तासत्त्वसिद्धिरित्याह - चेतो हीति । वास्ये
वासनाकर्मणि विषये ॥ ११ ॥
यदिदं कचति ब्रह्म स्वयमात्मात्मनात्मनि ।
कृतं तस्यैव तेनैव चित्तमित्यादिनामकम् ॥ १२ ॥
तर्हि चित्तादिव्यवहारस्य को विषय इति चेन्मायोपहितं ब्रह्मैवेत्याह - यदिदमिति ।
नाम्नां सङ्घो नामकम् ॥ १२ ॥
जगद्दृश्यमिदं वास्यन्न् तदेवोत्पन्नमेव नो ।
कारणाभावतः पूर्वमेवातश्चित्तता कुतः ॥ १३ ॥
चेतो हि वासनामात्रम् इति श्लोकं व्याचष्टे - जगदिति । दृश्यं वास्यमिति
दर्शनानुसारिणी वासनेति द्योतनार्थम् । कारनाभावत इति विषयबाधे
निर्विषयवासनास्थित्ययोगादिति भावः ॥ १३ ॥
अतश्चिद्व्योममात्रात्म परमाकाशनामकम् ।
स्फारं वेदनमेवेदं कचत्यस्ति कुतो जगत् ॥ १४ ॥
यदिदं कचतीति श्लोकमपि परमार्थदृशा तत्फलवर्णनपरतया व्याचष्टे -
अत इति ॥ १४ ॥
यत्किञ्चित्परमाकाश ईषत्कचकचायते ।
चिदादर्शे न जातत्वान्न चित्तं नो जगत्क्रिया ॥ १५ ॥
मायातत्त्वदृशापीति व्याचष्टे - यत्किञ्चिदिति । परमाकाशरूपे चिदादर्शे
यत्किञ्चिदनिर्वचनीयमायारूपम् । ईषदत्यल्पम् ॥ १५ ॥
अहं त्वं जगदित्येषा प्रतिपत्तिर्न वास्तवी ।
मिथ्या स्वप्न इवाभाति नूनं मेऽशेषकारिणी ॥ १६ ॥
अशेषानर्थकारिणी अहं जगदित्येषा प्रतिपत्तिर्मे तत्साक्षिणो मम
स्वप्नवन्मिथ्यैवाभाति । नूनं निश्चयेनेत्यर्थः ॥ १६ ॥
वास्यस्य जगतोऽभावाद्यतो नास्त्येव वासना ।
अतस्तदात्मकं चित्तं कीदृशं क्व कुतः कथम् ॥ १७ ॥
अप्रबुद्धैरवगतं चित्तं दृश्यमिदं जगत् ।
असच्चित्तं निराकारं पूर्वमुत्पन्नमेव नो ॥ १८ ॥
नोत्पन्नं कारणाभावात्सर्गादावेव सर्वदा ।
लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः ॥ १९ ॥
यदि नोत्पन्नं तर्हि जगदनादिनित्यमेव किं न स्यात्तत्राह - लोकेति । दृश्यस्य
वस्तुनः अनादित्वं जन्मादिविक्रियारहितत्वं वा कौटस्थ्यं वा लोकतो वा शास्त्रतो वा
स्वानुभवतोऽपि वा नोपपद्यत इति परेणान्वयः ॥ १९ ॥
अनादित्वमजत्वं वा स्थैर्यं वाप्युपपद्यते ।
साकारस्यास्य जगतः स्थूलस्य प्रतिघाकृतेः ॥ २० ॥
साकारस्य स्थूलस्य प्रतिघातयोग्याकृतेश्चास्य जगतो लोकशास्त्रानुभूतिभिः सिद्धा
महाप्रलयादयो व्युत्क्रमेणाप्रलयान्ता विकारा न निराकर्तु युज्यन्ते
निराकरणोपपादकसमस्तकारणाभावादित्यन्वयः ॥ २० ॥
समस्तकारणाभावाल्लोकशास्त्रानुभूतिभिः ।
युज्यन्ते च निराकर्तुं न महाप्रलयादयः ॥ २१ ॥
शास्त्रानुभववेदार्थसिद्धान्तैस्ते त्रयोऽपि वा ।
प्रलयाश्च न सन्तीति वक्त्युन्मत्तक एव च ॥ २२ ॥
लोकः शास्त्राणि वेदाश्च प्रमाणं यस्य नो मतेः ।
असद्भ्यो ह्यतिमूढः स सज्जनस्तं न संश्रयेत् ॥ २३ ॥
लोकवेदमर्यादोल्लङ्घने शिष्टैर्बहिष्कार्यतैव स्यादित्याह - लोक इति । असद्भ्यः
केवललोकमात्राश्रयेभ्यश्चार्वाकेभ्योऽप्यतिमूढः ॥ २३ ॥
न च सप्रतिघस्यास्य दृश्यस्याप्रतिघं क्वचित् ।
कारणं भवितुं शक्तं साकारस्य निराकृति ॥ २४ ॥
तर्हि श्रुत्युक्तब्रह्मकारणतापक्ष एवाभ्युपगम्यतां तत्राह - न चेति ॥ २४ ॥
इत्थमालक्ष्यमाणं तत्तदेवं सततं मुने ।
न च नार्थक्रियाकारि भवेन्नेत्थमिदं जगत् ॥ २५ ॥
निराकारब्रह्मकारणत्ववादिन्यास्तु श्रुतेः तदनन्यत्वमारम्भणशब्दादिभ्यः
इत्यादिबादरायणन्यायेन जगतो ब्रह्मतात्त्विकस्वभावतायामेव तात्पर्यमिति
प्रागुक्तमेव । इत्थं ब्रह्ममात्रतया आलक्ष्यमाणं जगद्व्यवहारे
मूर्तत्वानपगमादर्थक्रियासमर्थं भवत्येवेति न लोकविरोधः । परमार्थतो
ब्रह्मीभूतमेवेति न मूर्खदृष्टिप्रसिद्धरूपमतो न वेदविरोधोऽपीत्याशयेनाह
- इत्थमिति । इत्थमप्रसिद्धरूपम् ॥ २५ ॥
तस्मादिदं निरंशस्य चिद्व्योम्नोऽप्रतिघाकृतेः ।
निराकृतेरनन्तस्य पूर्वात्पूर्वनिरंशतः ॥ २६ ॥
इदानीं सर्वसर्गश्रुतीनां नेतिनेतीत्यादितन्निराकरणश्रुतीनां च तात्पर्यं
पिण्डीकृत्योपसंहरति - तस्मादित्यादित्रिभिः । पूर्वात्पूर्वं
[पूर्वादित्यस्यैकदेशान्वये न्नित्यसापेक्षत्वात्समासः । अथवा पञ्चम्यलुक्
छान्दसः । ] च तन्निरंशं च तस्येति पूर्वात्पूर्वनिरंशतः ।
षष्ठ्यन्तात्सार्वविभक्तिकस्तसिः ॥ २६ ॥
ब्रह्मणः सर्वरूपस्य शान्तस्यात्तस्य यत्समम् ।
स्वत एवात्मकचनं सर्गप्रलयरूपधृक् ॥ २७ ॥
सर्वरूपस्य पूर्णस्वभावस्य ब्रह्मणः स्वतो विनैव शास्त्रं यदात्मकचनं
तत्स्वकं वपुः स्वरूपमेव सर्गप्रलयरूपधृक् जगदिव क्षणं
यावदज्ञानकालं ज्ञातमिति सर्वसृष्टिश्रुतीनामर्थः । तदेव स्वरूपं
क्षणान्तरे तत्त्वमस्यादिशास्त्रमनुसृत्य बुद्धं सद्ब्रह्मैव निर्गतद्वैतात्मनि
स्वभावे आस्ते इति नेतिनेतीत्यादिद्वैतनिषेधश्रुतेस्तात्पर्यार्थ इति योज्यम् ॥ २७ ॥
स्वकं वपुश्च तेनैव ज्ञातं जगदिव क्षणात् ।
क्षणान्तरानुबुद्धं सद्ब्रह्मैवास्ते निरात्मनि ॥ २८ ॥
ब्रह्मैवेदमतः सर्वं क्वचिन्न जगदादिधीः ।
क्वाचित्तादि क्वचित्तादि क्व द्वैतैक्यादिकल्पना ॥ २९ ॥
अतः शास्त्रीयबोधात् ॥ २९ ॥
सर्वं निरालम्बमजं प्रशान्तमनादिरित्यात्म [अनादिरित्यत्रार्षं
पुंस्त्वम् ।] यथास्थितं सत् ।
इदं तु नानेव न चाप्यनाना यथास्थितं तिष्ठ सुकाष्ठमौनम् ॥ ३० ॥
एवं ज्ञातं सर्वं जगत्प्रशान्तं सन्निरालम्बं निराधारमजं यथास्थितं
सद्ब्रह्मैव । इदमज्ञदृष्टरूपं तु अत्यन्तासत्त्वान्नाना अनानापि च न । अतो
यथास्थितं व्यवहरंस्तत्त्वतः सुकाष्ठमौनो वागादिव्यापारशून्यस्तिष्ठेत्यर्थः
॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजावबोधनं नामाष्टनवतितमः सर्गः ॥ ९८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधनं नामाष्टनवतितमः सर्गः ॥ ९८ ॥