०९७

सप्तनवतितमः सर्गः ९७

कुम्भ उवाच ।

हेम्न्यस्ति देशकालान्ते इत्थं जन्यजनिक्रमः ।
न किञ्चिज्जायते शान्तान्न किञ्चित्प्रविलीयते ॥ १ ॥

पूर्वत्राकारणं दृश्यं न जातमिति मार्जितम् ।
विमार्ज्यतेऽत्र यत्नेन दृश्यवेदनता चितः ॥

इत्थन्न्न् विंशतितमश्लोकोक्तः समुद्रतरङ्गदृष्टान्तस्तदवान्तरवैषम्यं त्वे
दृश्यमार्जनोपयोगितयोपपादितम् । इदानीमेकविंशतितमश्लोकोक्तं
हेमकटकदृष्टान्तं तदवान्तरवैषम्यं च तथैवोपपादनीयमिति वक्तुं
कुम्भोऽनुवदति-हेम्नीति ॥ १ ॥

स्वसत्तायां स्थितं ब्रह्म न बीजं न च कारणम् ।
शुद्धानुभवमात्रं तत्तस्मादन्यन्न विद्यते ॥ २ ॥

किञ्चिज्जगदहन्तादि तदेवानन्तमस्ति हि ।

शिखिध्वज उवाच ।

शिवे जगदहन्तादि मुने नास्तीति वेद्म्यहम् ॥ ३ ॥

अस्तु दृश्यासत्त्वं तदसत्त्वे शुद्धचितस्तद्वेदनस्वरूपताप्रतीतिः कथमिति राजा
पृच्छति-शिवे इत्यादिना ॥ ३ ॥

सर्गवेदनमाभाति कथमेतद्वदाशु मे ।

कुम्भ उवाच ।

विस्तारं तदनाद्यन्तं तत्संविदिव तिष्ठति ॥ ४ ॥

नभोविस्तृतसौरालोकस्य
तदध्यस्तगन्धर्वनगरादिप्रकाशस्वरूपताप्रतीतिवत्तदित्याशयेन कुम्भ
उत्तरमाह-विस्तारमिति । विस्तार्यत इति विस्तारं तदधिष्ठानसन्मात्रमेव तस्य
स्वाध्यस्तस्य संवेदनं संवित् प्रथेव तिष्ठति । अत एव तदध्यस्तं भुवनं
तन्मात्रमधिष्ठानसन्मात्रमेवेति तदेव जगद्वपुर्व्यपदिश्यत इत्यर्थः ॥ ४ ॥

तत्तद्भुवनमत्यच्छं तत्तन्मात्रं जगद्वपुः ।
न विज्ञानमयोऽर्थोऽस्ति न बाह्यो नापि शून्यता ॥ ५ ॥

अत्र विज्ञानवादी भुवनादिरूपोऽर्थ आन्तरो विज्ञानपरिणाम एव संवृत्त्या
बाह्यार्थवदवगम्यत इति मन्यते । गौतमकणादकपिलपतञ्जलिप्रभृतयो
बाह्यार्थः पृथिव्यादिपञ्चभूतमयः परमार्थभूतोऽस्तीति । माध्यमिकस्तु
शून्यमेव बाह्याभ्यन्तरग्राह्यग्राहकभावेन संवृत्त्या प्रथते न वस्तुभूतं
किञ्चिदस्तीति । तम्मतान्यपाकुर्वन्नाह-न विज्ञानमय इति ॥ ५ ॥

वेदनामात्रसारत्वाद्यथा चित्सार उच्यते ।
द्रवत्वं सलिलस्येव चिदचित्त्वमकारणम् ॥ ६ ॥

तत्कुतस्तत्राह-वेदनेति । सर्वेषां वादिनां कल्पनाः सत्यां
वेदनायामुपपद्यन्ते नासत्यामिति न तस्याः शून्यता क्षणिकता जन्यता विनाशिता
परिणतिर्वा केनचित्क्वचिद्वक्तुं उच्यते उपपाद्यते शृणु दृष्टान्तम् । यथा
द्रवत्वं सलिलस्य रसस्तद्वत्सर्ववस्तूनां चैतन्यं सारः । यदि चैतन्यं नाम वस्तु
न स्यात्तर्हि साधकाभावात्सर्वं जगदस्तिनास्तीति व्यपदेशानर्हं किं स्यादिति
विभाव्यतामिति भावः । एवं रसभूतायाश्चितः अचित्त्वमकारणं न
कारणैर्निरूपयितुं शक्यम् ॥ ६ ॥

स्वात्मनीशमनन्तं तद्यथास्थितमवस्थितम् ।
प्रतियोगिव्यवच्छेदाभावतः सत्त्वभावयोः ॥ ७ ॥

त्वया वा तस्या जगत्प्रत्ययता कथमुपपादनीयेति चेत्तत्राह-स्वात्मनीति ।
तच्चिद्रूपं स्वात्मनि जगदाकारेण प्रथने परमार्थचिन्मात्ररूपेण वा प्रथने
ईशं स्वमायया समर्थमतस्तद्यथा साविद्यं निरविद्यं वा यथा स्थितं तथैव
प्रतीत्याप्यवस्थितमित्यर्थः । यदि तत्स्वच्छास्वच्छोभयभावस्थितिसमर्थं तर्हि
तस्य स्वच्छभावैकव्यवस्थता कुतस्तत्राह-प्रतियोगीति । सत्त्वमात्रस्य स्वभावो हि
स्वच्छभावः । अस्वच्छभावस्तु तद्विरुद्धभावः । स यदि स्वविरोधिनः सत्त्वस्य
व्यपच्छेदं कुर्यान्न कुर्याद्वा । द्वेधापि स्वयं न सिद्ध्यतीति
सत्त्वतद्विरुद्धभावयोः प्रतियोगिव्यवच्छेदाभावादस्वच्छताया असत्त्वात्परमे
सद्वस्तुनि स्वच्छभावैकव्यवस्थता सिद्धेत्यर्थः ॥ ७ ॥

असत्त्वात्तेन परमे स्वच्छभावव्यवस्थता ।
यदि कारणतापत्तियोग्यं शान्तं पदं भवेत् ॥ ८ ॥

ननु अस्वच्छभावस्यात्यन्तापलापः किमर्थं क्रियते ।
स्वच्छचिद्रूपमेवास्वच्छजगद्भावकारणतापत्तियोग्यमिति कुतो न कल्प्यते तत्राह##-
भावः ॥ ८ ॥

अनिङ्गितमनाभासमप्रतर्क्यं कथं भवेत् ।
अतो न कारणं नैव बीजं ब्रह्म कदाचन ॥ ९ ॥

कार्यस्य कस्यचिन्नाम तेन सर्गो न विद्यते ।
न चान्यथोपपत्तिर्हि सर्गस्यास्योपपद्यते ॥ १० ॥

चिदभ्यासपक्षं विना सर्गस्योपायान्तरेणोपपत्तिरेव नास्तीत्याह - न चेति ॥ १० ॥

चिन्मात्रकादृते तस्माज्जडसर्गो न विद्यते ।
यदिदं दृश्यते किञ्चित्तच्चिद्घनमिवोत्थितम् ॥ ११ ॥

उत्थितमिव ॥ ११ ॥

अहम्भावजगच्छब्दशब्दार्थरसरञ्जनम् ।
कार्यं न कारणाभावात्पदार्थे तूपपद्यते ॥ १२ ॥

तर्ह्यस्त्वकारणकमेवेदं जगदिति यदृच्छावादिपक्षं निरस्यति - कार्यमिति ॥ १२

द्वित्वैक्याद्यात्मकं व्योमपुष्पवत्स्वानुभूतितः ।
वस्तु नाशैकनिष्ठत्वान्न वा ज्ञमुपपद्यते ॥ १३ ॥

यदि सन्मात्रैकरसं तर्हि कथं जगच्चिज्जडरूपेण सद्रूपेण च
द्वित्वैक्याद्यात्मकं प्रतीयते तत्राह - व्योमपुष्पवदिति । खपुष्पवज्जडांशो
विकल्पमात्रमित्यर्थः । अस्तु तर्हि चिद्रूपमेव जगत् । तस्य चिद्रूपमेव ब्रह्म कारणम् ।
न च चिद्रूपैक्ये इदं कार्यमिदं कारणमिति विभाजकाभावः । जन्मनाशयोरेव
विभाजकत्वोपपत्तेस्तत्राह - वस्त्विति । न वा घटपटादिजागतं वस्तु ज्ञं
चिद्रूपमुपपद्यते । कुतः । नाशैकनिष्ठत्वान्नाशनियतत्वात् । चितो हि नाशो न चिता
सिद्ध्यति । नाशकाले चितः सत्त्वे नाशोक्तेर्निर्विषयत्वात् । नापि जडेन । तस्य
चिद्धावप्यसमर्थत्वादित्यर्थः ॥ १३ ॥

उपलम्भकरो नाशो जन्मनस्तस्य वा कुतः ।
अथ चैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा ॥ १४ ॥

यदि तु चितो नाशो चिद्रूप एव स्वपरप्रथायामन्यनिरपेक्ष इति
कश्चिद्ब्रूयात्तत्राप्याह-उपलम्भकर इति । चिद्रूपः संविन्नाशः स्वजन्मनस्तस्य
स्वप्रतियोगिनो वा उपलम्भकरः प्रकाशकः । कुतः । न हि
स्वोत्पत्तिस्तत्पूर्वकालिकप्रतियोगिचिद्वा नाशेनोपलब्धुं शक्यते ॥ न च
तदुभयानुपलम्भे तस्य नाशः स्वयमुत्पन्न इत्यनुभवितुं शक्यम् । न च साक्षिणा
तदुभयानुभवश्चितश्चिद्विषयत्वायोगादतस्तद्वेद्योत्पत्तिनाशयोर्जगतश्च
जाड्यमेवेति भावः । एवं जगतो जाड्ये सिद्धे कारणानिरूपणादकारकोत्पत्तौ सदैव
जन्म स्यान्नित्यं च नाशः स्यादुभयोरपि निवारकाभावात् । हे स्वभाववादिन् यदि
निष्प्रमाणकमनुभवविरुद्धमपीत्थमेव नित्योत्पत्तिनाशस्वभावमिदं जगदिति
वेत्सि अभ्युपगच्छति ॥ १४ ॥

पदार्थौघं तदेवेत्थमेकरूपेऽपि किं व्यथा ।
उपलम्भस्तु यश्चायमेषा चित्तचमत्कृतिः ॥ १५ ॥

तर्हि श्रुतिविद्वदनुभवसिद्धे अखन्डचिदेकरूपे तस्मिन्नभ्युपगम्यमाने तव किं
व्यथा किमर्थ पीडेत्यर्थः । ननु यदि सर्वं चिदेकरसं तर्हि कथं
चिदचिद्विविधोपलम्भस्तत्राह - उपलम्भस्त्विति ॥ १५ ॥

चित्तत्त्वमात्रसत्तास्ति द्वित्वमैक्यं च नास्त्यलम् ।
अतः पदार्थसत्ताया भावे सति भूपते ॥ १६ ॥

तर्हि चिदन्यच्चित्तमेव द्वितीयं स्यात्तत्राह - अत इत्यादिना ॥ १६ ॥

असम्भवाद्भावनस्य नाहन्ताभावनास्ति ते ।
अहम्भावासम्भवतश्चित्तमन्यत्किमुच्यते ॥ १७ ॥

इति चित्तमहंरूपं नास्त्यतो न च भिन्नता ।
निर्वासनः शान्तमना मौनी परनभोमयः ॥ १८ ॥

भिन्नता जीवब्रह्मभेदश्चिदचिद्भेदश्चितो दृश्यवेदनतारूपभेदश्च नास्ति ॥ १८ ॥

सदेहो वा विदेहो वा भावस्थोऽप्यचलोपमः ।
सम्बन्धाच्छुद्धचिद्दृष्टेः पदार्थाभावसिद्धितः ॥ १९ ॥

शुद्धचिद्दृष्टेः सम्बन्धालाभात् कदापि
जडपदार्थानामसिद्धेस्तद्भावनाप्रयुक्तमहमिति जीवरूपमपि नास्त्येवेति
स्वयमात्मैव परिशिष्यत इत्यर्थः ॥ १९ ॥

भावनाभावतश्चित्ते नास्त्येवाहमिति स्वयम् ।
एवं ब्रह्मेति वेदार्थभावनादनुभूतितः ।
चेतितार्थैकसत्यत्वाच्चिन्ता नाम क्व विद्यते ॥ २० ॥

तादृशात्मैव सत्यं ज्ञानमनन्तं ब्रह्म । नित्यं विज्ञानमानन्दं ब्रह्म ।
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इत्यादिसर्ववेदार्थस्तद्भावनादेव
तदनुभवादित्यर्थः । तर्हि तच्चिन्तनतदनुभवात्मिका अखण्डाकारवृत्तिः सर्वं
बाधित्वा स्वयं परिशिष्येतेत्याशङ्क्याह-चेतितेति । ब्रह्मचिन्तनया
चेतितब्रह्मार्थैकसत्यत्वाच्चिन्तादिवृत्तिरपि स्वेद्धबोधेन बाध्यत इति न
ब्रह्मातिरिक्तपरिशेषप्रसक्तिरित्यर्थः ॥ २० ॥

तेनासि निर्मलमकारणमादिमुक्तं तद्ब्रह्म शाश्वतमशेषमनेकमेकम् ।
शून्यन्न् निरामयमसत्सदनादिमध्यं सर्वं जगच्चिदपि ब्रह्म यथास्थितं
तत् ॥ २१ ॥

उक्तमर्थं फलेनोपसंहरति - तेनेति । तेन सर्वद्वैतबाधेन त्वं ब्रह्मैवासि ।
तद्ब्रह्म अशेषमनेकमेकमेव सम्पन्नं सर्वं जगच्चासच्छून्यमेव ।
तत्प्रतिभासरूपा चिदपि यथास्थितमविकृतं ब्रह्मैवेति निरामयं
तदेवावशिष्टमित्यर्थः ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजप्रबोधनं नाम सप्तनवतितमः सर्गः ॥ ९७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजप्रबोधनं नाम सप्तनवतितमः सर्गः ॥ ९७ ॥