०९६

षण्णवतितमः सर्गः ९६

श्रीवसिष्ठ उवाच ।

इति ब्रह्मणि विश्रान्तिमवाप्य स शिखिध्वजः ।
मुहूर्तमासीत्संशान्तमना निर्वातदीपवत् ॥ १ ॥

प्रतिबुद्धस्य राज्ञोऽत्र दृश्यसत्तावमार्जनम् ।
यथा भवति निःशेषं तथा कुम्भेन वर्ण्यते ॥

अखण्डब्रह्माकारवृत्त्युदयेन सम्यक् शान्तं बाह्यवृत्तिप्रशमनोपलक्षितं
मनो यस्य तथाविधः सन्निर्वातदीपवन्निश्चल आसीदित्यर्थः ॥ १ ॥

निर्विकल्पसमाधानपरेणाशु विविक्षितम् ।
स्वलीलयेति कुम्भेन झटित्येव प्रबोधितः ॥ २ ॥

अथ यदा तेन राज्ञा अखण्डाकारवृत्तिलक्षणं विकल्पमप्यवधूय
क्षीराब्धिपतितोदकबिन्दुवन्मनसो ब्रह्मीभावमेवापाद्य ब्रह्मण्यैकरस्येन
विविक्षितं प्रवेष्टुमभिमुखीभूतं तदा तस्य इति एवंरूपामवस्थामाशु उपलक्ष्य
कुम्भेन वक्ष्यमाणदृश्यमार्जनोपायादिविवक्षया स झटित्येव प्रबोधित
इत्यर्थः ॥ २ ॥

कुम्भ उवाच ।

राजन्नज्ञाननिद्रातः प्रबुद्धोऽसि शिवः स्थितः ।
कार्यं नास्तमयेनैव न चानस्तमयेन ते ॥ ३ ॥

ननु सर्वदृश्यानामखण्डाकारवृत्तेरप्यस्तमयेन निरतिशयानन्दसमुद्रे
विविक्षुरहं किमिति त्वया व्युत्थापनेन विघ्नितः पुनस्तन्मम दुर्लभमिति राज्ञो
विवक्षामभिलक्ष्य कुम्भ उवाच-राजन्निति । सति अज्ञाने तद्दुर्लभम् । नष्टे
त्वज्ञाने सर्वदृश्यास्तमयोऽस्तु मा वा । सदृद्विभातं तत्सदैवानावृतं
सुलभमेवेति भावः ॥ ३ ॥

सकृदेव विभातात्मा नष्टानिष्टपदात्मकः ।
कलाकलननिर्मुक्तो जीवन्मुक्तोऽङ्ग साम्प्रतम् ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

कुम्भेन बोधितस्त्वेवं स बभूवावबोधवान् ।
विनिर्गतो रराजोच्चैर्महामोहसमुद्गकात् ॥ ५ ॥

विश्रान्तधीः क्षणेनैव पश्यन्दृश्यस्य वस्तुनः ।
असत्तामेव मुक्तात्मा लीलया समुवाच ह ॥ ६ ॥

व्युत्थानकालेऽपि दृश्यस्यासत्तामेव पश्यन् लीलया अभिनवस्य स्वबोधस्य
चिरपरिपक्वकुम्भबोधसंवादपरीक्षालीलया ॥ ६ ॥

शिखिध्वज उवाच ।

ज्ञातप्रायमपीदं तु यत्पृच्छामि तदुच्यताम् ।
भूयो निपुणबोधाय मम मानद मोदद ॥ ७ ॥

शिवे शान्ते निराभासे पदेऽनुल्लसितात्मनि ।
द्रष्ट्टदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः ॥ ८ ॥

न उल्लसितस्तत्त्वतः प्रकटीभूत आत्मा स्वरूपं यस्य तथाविधे । अविद्यावृते इति यावत् ।
प्रतीयत इति प्रत्ययोऽर्थः प्रतीतिः प्रत्ययो बोधश्च कुतः ।
कस्मान्निमित्तादालम्बनाच्चेत्यर्थः । किं सत उतासतः । आद्ये विकारबाधयोरयोगः ।
द्वितीये सत्त्वेन प्रतिभासानुपपत्तिरिति भावः ॥ ८ ॥

कुम्भ उवाच ।

साधु पृष्टं महाराज राजसे वाथ भास्वरः ।
एतदेव हि ते शिष्टं ज्ञातुं यत्तदिदं शृणु ॥ ९ ॥

एवं पुष्टः कुम्भस्तदुभयमध्यासेनोपपादयिष्यन् प्रश्नमुपपन्नत्वेन
प्रष्टारं च वक्ष्यमाणार्थग्रहणसामर्थ्येन प्रशंसति-साध्विति ।
प्रागुपदिष्टमात्मतत्त्वमवाप्य निरस्ताज्ञानावरणत्वाद्भास्वरः सन् राजसे
शोभसे । राजसे वाथ भास्करः इति पाठे तु इवार्थे वाशब्दः । अथ
तत्प्रबोधानन्तरं राहुनिर्मुक्तभास्कर इव राजसे इत्यर्थः ॥ ९ ॥

यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं कल्पान्ते तद्विनश्यति ॥ १० ॥

तत्राध्याससामग्रीं दर्शयितुमारोप्य
संस्कारसहकृताज्ञानशबलमधिष्ठानं दर्शयिष्यन् पूर्वसर्गप्रलयं
दर्शयति-यदिदमिति ॥ १० ॥

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
महाकल्पविलासान्ते सत्सारमवशिष्यते ॥ ११ ॥

तत्परिशिष्टमधिष्ठानं दर्शयति-तत इत्यादिना ॥ ११ ॥

चिन्मात्रममलं शान्तमाभातं परमं नभः ।
समस्तकलनोन्मुक्तं युक्तं परमया धिया ॥ १२ ॥

यत्परमया स्वतत्त्वसाक्षात्कारधिया युक्तं सदेकोदितमत्यच्छं भवतीति
परेणान्वयः ॥ १२ ॥

यदेकोदितमत्यच्छं शान्तमाततमुज्ज्वलम् ।
परमात्मात्मकं तेजस्तिमितं ज्ञप्तिमात्रकम् ॥ १३ ॥

अप्रतर्क्यमविज्ञेयं समं शिवमनिन्दितम् ।
ब्रह्मनिर्वाणमापूर्णमापूर्णोदितसंविदा ॥ १४ ॥

आसमन्तात्पूर्णोदितया संविदा स्वबोधेन आपूर्णम् ॥ १४ ॥

अणीयसामणीयश्च स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १५ ॥

ईदृशं तत्परं सूक्ष्मं तस्याग्रे यदिदं नभः ।
अणोः पार्श्वे महामेरुरिव स्थूलात्म लक्ष्यते ॥ १६ ॥

अणीयसामणीयः इत्येतद्दृष्टान्तेन स्फुटयति-ईदृशमिति । पृथिव्यपेक्षया
उत्तरोत्तरं सूक्ष्मतरत्वेन प्रसिद्धेभ्योऽपि परमसूक्ष्मत्वेन प्रसिद्धमपीदं
नभः ॥ १६ ॥

ईदृशं तत्परं स्थूलं यस्याग्रे यदिदं जगत् ।
परमाणुवदाभाति क्वचिदेव न भाति च ॥ १७ ॥

स्थविष्ठं च स्थवीयसाम् इत्येतदपि तथा स्फुटयति-ईदृशमिति ॥ १७ ॥

विश्वात्मकचनं नाम पदेऽसम्भववेधसः ।
तदहंवेदनं विद्धि विराडात्मा जगत्स्थितम् ॥ १८ ॥

ईदृशे मायाशबले पदे अधिष्ठाने
प्राक्तनजगत्संस्कारोद्बोधादुद्भूततत्तत्प्राणिकर्मानुसारि यदध्यासेन
विश्वात्मकचनं तदेव । अः वासुदेवस्तस्मात्सम्भवो यस्य तथाविधस्य वेधसो
हिरण्यगर्भस्य अहंवेदनमहम्भावलक्षणं ज्ञानाध्यासं विद्धि । तत्र
विषयत्वेन जगत्स्थितं तदेव विराडात्मा विषयाध्यास इत्यर्थः ॥ १८ ॥

वातस्य वातस्पन्दस्य यथा भेदो न विद्यते ।
शून्यत्वखत्वोपमयोश्चिन्मात्राहन्त्वयोस्तथा ॥ १९ ॥

अध्यासपक्षे चाधिष्ठानसत्तयैव कार्यकारणोभयसत्त्वनिर्वाहात्तयोः सत्त्वेन
प्रतीतेर्ज्ञानेन बाधस्य सत्कौटस्थ्यस्य च
नानुपपत्तिरित्यभिप्रेत्याध्यस्तस्याधिष्ठानादपृथक्त्वं सदृष्टान्तमाह##-
खत्वं च निरपेक्षत्वादधिष्ठानदृष्टान्तौ । स्पन्दः शून्यत्वं च
देशप्रतियोगिसापेक्षत्वादध्यस्तदृष्टान्तौ ॥ १९ ॥

जलेऽस्ति देशकालान्ते यथोर्म्यादि सकारणम् ।
परेऽसद्देशकालान्ते [परेऽस्त्यदेशकालान्ते इति मुद्रितपुस्तके पाठः ।]
तथा जगदकारणम् ॥ २० ॥

असत्कार्यवादिमतानुप्रवेशो मा भूदित्यधिष्ठानसत्तयैव कार्यस्य ब्रह्मणि
त्रैकालिकसत्त्वमपि दृष्टान्तेन दर्शयन् विशेषमाह-जले इति ।
देशकालाभ्यामन्तौ परिच्छेदौ यस्मिन् । जलस्यान्तरालिककारणत्वाज्जलकारणेनैव
सकारणम् । ब्रह्मणो मूलकारणत्वादकारणम् ॥ २० ॥

हेम्न्यस्ति देशकालान्ते कटकादि सकारणम् ।
ब्रह्मण्यदेशकालान्ते तथा जगदकारणम् ॥ २१ ॥

ईदृशं तद्वरिष्ठं च जगद्राज्यन्न् तदक्षतम् ।
न द्वैतममलं शान्तं जगत्तृणलवायते ॥ २२ ॥

श्रेष्ठं च श्रेयसामपि इत्येतदप्यध्यासेनैव स्फुटयति-ईदृशमिति । जगदेव
राज्यं यस्य तज्जगद्राज्यन्न् महाराजभूतं तद्ब्रह्मेति अरिष्ठं श्रेष्ठमित्यर्थः ।
यतो जगदध्यस्तत्वात्तृणलववत्तुच्छमतो न द्वैतमद्वैतं तदित्यर्थः ॥ २२ ॥

ईदृशं तत्परं श्रेयस्तस्मिन्सति यदीश्वरे ।
जगत्पदार्थसार्थश्रीः सा सत्तामेति वेदनात् ॥ २३ ॥

तस्यैव सर्वाधिष्ठानत्वात्तत्सत्तयैव जगतः सत्तालाभ इत्याह-ईदृशमिति ॥ २३ ॥

तत्सारमेकमेवेह विद्यते भूपते ततम् ।
एकमेकान्तचित्कान्तं नैकमप्यद्वितावशात् ॥ २४ ॥

एकान्तचिच्चिन्मात्रस्वरूपम् । कान्तं निरुपाधिकप्रेमपदम् । अद्विता द्वितीयासहिष्णुता
तद्वशाद्व्यावार्याभावादेकत्वसङ्ख्याया एव द्वितीयत्वापत्तेश्च
एकमेकत्वसङ्कुयावदपि न ॥ २४ ॥

तस्माद्द्वितीया कलना काचिन्नाम न विद्यते ।
आत्मतत्त्वमलं भातं तदेवापूर्णमक्षयम् ॥ २५ ॥

आसमन्तात्पूर्णम् ॥ २५ ॥

संस्थितं सर्वदा सर्वं सर्वाकारमिवोदितम् ।
अदृश्यत्वादलभ्यत्वान्न तत्कार्यं न कारणम् ॥ २६ ॥

चक्षुरादिभिरदृश्यत्वात्करादिभिरलभ्यत्वाच्च न कार्यं
ज्ञानकर्मप्रयुक्तातिशयानास्पदं नापि कारणं ज्ञानकर्मनिर्वर्तकमित्यर्थः ॥
२६ ॥

प्रत्यक्षादेरगम्यत्वात्किमप्येव तदुत्तमम् ।
सर्वं सर्वात्मकं सूक्ष्ममच्छानुभवमात्रकम् ॥ २७ ॥

किमपि प्रत्यक्षादिलौकिकमानसिद्धार्थविलक्षणमेव स्वानुभवैकगम्यं
तदुत्तमं निरतिशयानन्दस्वरूपं स्वयमेव सर्व सर्वस्यात्मा सर्वे चास्यात्मान इति
सर्वात्मकम् ॥ २७ ॥

आख्यानाख्यास्वरूपस्य निराभासप्रभादृशः ।
सतो वाप्यसतो वाथ कथं कारणता भवेत् ॥ २८ ॥

व्यवहारदृष्टौ आख्यानाख्यास्वरूपस्य शब्दतदर्थसर्ववस्तुस्वरूपस्य
व्यक्ताव्यक्तस्वरूपस्य वा स्वस्य स्वं प्रत्येव कथं कारणता भवेत् ।
परमार्थदृष्टौ तु निराभासप्रभादृशः
निराभासप्रभाभिन्नदृङ्मात्रस्वभावस्याद्वयस्य कथं कारणता भवेत् । किं
च व्यवहारे अद्वयमसत् द्वैतं सत् । परमार्थे त्वद्वयं सत् द्वैतमसत् । न हि
सदसतोरपि केनचित्परस्परं कार्यकारणता वक्तुं शक्येत्यर्थः ॥ २८ ॥

यद्वै न कस्यचिद्बीजमनाख्यत्वान्न कारणम् ।
न किञ्चिज्जायते तस्मात्प्रमाणादि ततात्मनः ॥ २९ ॥

प्रमाणादिमानमेयमित्यात्मकं जगन्न जायते व्यवहारे आत्मन एव तदात्मत्वात् । न
ह्यात्मा आत्मनो जायत इत्यर्थः ॥ २९ ॥

अकर्तृकर्मकरणं सत्यन्न् चिद्घनमक्षतम् ।
आत्मरूपमनाभासं स्वयंवेदनमक्षतम् ॥ ३० ॥

तस्मान्न जायते किञ्चित्परस्माद्ब्रह्मणो मुने ।
कथं किं लभ्यते केन यथोर्म्यादि सकारणम् ॥ ३१ ॥

तथा चाध्यासपक्षे न कस्यचिज्जन्मादिविक्रियेति कौटस्थ्यमेव
सिद्धमित्युपसंहरति-तस्मादिति । यत्सकारणमूर्म्यादि मयोक्तं तदपि विमर्शे
जलातिरिक्तं कथं लभ्यते किं वा लभ्यते । न किञ्चिन्न कथञ्चिदित्यर्थः ॥ ३१ ॥

परेऽसद्देशकालान्ते तथा जगदकारणम् ।

शिखिध्वज उवाच ।

जलादौ यत्तरङ्गादि तत्सकारणमस्ति हि ॥ ३२ ॥

एवं सत्यपि कारणे यदा कार्यकारणता नास्ति तदा
अद्वयत्वादस्तदेशकालपरिच्छेदत्वादकारणे ब्रह्मणि सा नास्तीति किं
वाच्यमित्याह-परे इति । जलेऽस्ति देशकालान्ते यथोर्म्यादि सकारणम् ।
परेऽसद्देशकालान्ते तथा जगदकारणम् इति यत्प्रागुक्तं तदेव त्वयोपरीहृतम् । तत्र
वैषम्योक्त्यंशे कोऽभिप्राय इति राजा पृच्छति-जलादाविति ॥ ३२ ॥

परे जगदहन्तादि नाकारणमवैम्यहम् ।

कुम्भ उवाच ।

इदानीं तत्त्वतो ज्ञातमेतत्सत्यं महीपते ॥ ३३ ॥

समुद्रस्य पञ्चीकृतजलकार्यत्वात्तत्कारणैर्भूतैर्वाय्वादिबाह्यनिमित्तैश्च
तरङ्गादेः पयःपरिणामस्य सकारणत्वम् । ब्रह्मणः कारणाप्रसिद्धेरद्वयतया
सहकारिकारणाभावाच्च तद्विवर्तस्याकारणकत्वमिति वैषम्यं मदभिप्रेतम् । तच्च
तत्त्वज्ञानात्प्रागद्वयवस्तुसम्भावनाया एवानुदयादज्ञैर्बोद्धुमशक्यम् । त्वया
त्वद्वैतं वस्तु सर्वद्वैतबाधेन तत्त्वतः परिचितमिति तत्सुबोधमित्याशयेन कुम्भ
उत्तरमाह-इदानीमित्यादिना ॥ ३३ ॥

इदं जगदहन्तादि नेह किञ्चिन्न विद्यते ।
जगच्छब्दार्थरहितं जगदस्ति शिवात्मकम् ॥ ३४ ॥

यदि सर्वद्वैतबाधादकारणं तर्हि तत्र जगदस्तीत्युक्तेः कोऽभिप्रायस्तमाह##-
जगद्बाधेऽप्यस्त्येवेत्यभिप्राय इत्यर्थः ॥ ३४ ॥

व्योम्न्येव निर्मितं शान्तं व्योम्ना सूक्ष्मतरेण च ।
यथा नभसि शून्यत्वं तथेदं जगदीश्वरे ॥ ३५ ॥

यथा व्योम्न्येव व्योम्नोऽपि सूक्ष्मतरेण मायाव्योम्ना निर्मितं गन्धर्वनगरं
मिथ्यात्वान्नित्यशान्तं व्योमसत्तयैवास्ति । यथाऽशून्येऽपि नभसि तद्विरुद्धं
शून्यत्वं तत्सत्तयैवास्ति । तथा ईश्वरे मायाशबले ब्रह्मणि जगदित्यर्थः ॥ ३५ ॥

सदृशं स्वस्वरूपेण न वा रूपेण केनचित् ।
एवंरूपं जगदिदं सम्यग्ज्ञातं शिवं भवेत् ॥ ३६ ॥

स्वस्वरूपेण चैतन्यैकरसेन सदृशं चिद्रूपमेव सम्यग्ज्ञातम् । अथवा
केनचिद्रूपेण जडरूपेण वा न सदृशं शून्यमेवेति ज्ञातं सत् शिवं ब्रह्मैव
भवेत् ॥ ३६ ॥

सम्यग्ज्ञानप्रभावेण विषमप्यमृतायते ।
असम्यग्ज्ञातमशिवं जगद्दुःखप्रदं परम् ॥ ३७ ॥

नन्वशिवं कथं शिवं भवेत्तत्राह-सम्यगिति ॥ ३७ ॥

विषबुद्ध्यामृतमपि भुक्तं विषरसायते ।
ईदृशश्च यथा वेत्ति यद्यदेष चिदीश्वरः ॥ ३८ ॥

ईदृशः विद्यासहायोऽविद्यासहायो वा ॥ ३८ ॥

तत्तथैवाशु भवति तादृग्रूपतया शिवः ।
यथा ज्वाला भ्रमाज्जाता विचित्राकारविभ्रमैः ॥ ३९ ॥

यथा ज्वाला तिमिरादिनेत्रदोषविभ्रमैः केशोण्ड्रकादिरूपेण विचित्रा
जाताप्यनन्यरूपेणैव तिष्ठति ॥ ३९ ॥

तिष्ठत्यनन्यरूपैव ब्रह्मसत्ता तथैव हि ।
यत्परं चित्स्वरूपेण स्थितमात्मनि मन्थरम् ॥ ४० ॥

यच्चित्स्वरूपेण स्थितं परं ब्रह्म तदेवात्मनि मन्थरं मन्दप्रबोधं
सत्तेनैवाप्रबोधेन निमित्तेन ॥ ४० ॥

तत्तेन देहदेह्यादिर्जगदादीव लक्ष्यते ।
केवलं परमेवेत्थं परमं भासते शिवम् ॥ ४१ ॥

अतो जगदहन्तादि प्रश्न एवेति नोचितः ।
यद्वस्तु विद्यमानं सत्प्रश्नस्तत्र विराजते ॥ ४२ ॥

बोधदार्ढ्ये तु शिवे शान्ते इत्यादित्वत्कृतप्रश्नस्यानवकाश एवेत्याह-अत इति । इति
द्रष्ट्टदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः इति प्रश्न एव नोचितः ॥ ४२ ॥

प्रेक्षितं यत्तु नास्त्येव प्रेक्षाप्रश्नेन तत्र किम् ।
सन्निवेशं विना सत्ता यथा हेम्नो न विद्यते ॥ ४३ ॥

यदि जगन्नास्त्येव तर्हि कथं तत् प्रेक्षास्पष्टमनुभूयत इति प्रश्नोऽपि न कार्य
इत्याह-प्रेक्षितमिति । तादृशप्रेक्षाया निर्विषयत्वे कथमिति
प्रष्टव्यप्रकारस्यैवाभावादित्यर्थः ॥ ४३ ॥

तथा जगदहम्भावं विना नेशस्य संस्थितिः ।
अकारणत्वान्नास्तीदं ब्रह्मैवेत्थं विजृम्भते ॥ ४४ ॥

संस्थितिः प्रश्नार्हेति शेषः ॥ ४४ ॥

अजृम्भमाणमेवेदं जगत्त्वेनेव संस्थितम् ।
यन्मया एव तेनैव मिथः सम्प्रेरिताशयम् ॥ ४५ ॥

ननु यदि पृथिव्यादयो न सन्त्येव तर्हि कथं यः पृथिव्यां तिष्ठन्पृथिव्या
अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्मान्तर्याम्यमृतः इत्यादिश्रुतेरन्तर्यामिणेश्वरेण प्रेर्यमाणा एव सर्वे
भावाः स्वस्वकार्ये चमत्कुर्वन्तीति वैदिकसिद्धान्तस्तत्राह-यन्मया एवेति ।
मायाशबलेश्वरमयाः सर्वे भावास्तेन मायाशबलेश्वरेणैव माययैव मिथः
सामग्र्यात्मना मेलनाय सम्प्रेरिताः सन्तः पञ्चभूतात्मके पिण्डे मायिकमेव
तत्तत्कार्यचमत्कारं कुर्वन्ति । यथा मिथुनानि स्त्रीपुंसयुग्मानि यौवने काममयानि
कामेन प्रेरितानि परस्परं सम्भोगेन पुत्राद्युत्पादनेन चमत्कुर्वन्ति । यथा वा
बीजानि भूस्थानि वर्षोदकेन प्रेरितान्यङ्कुरोदयाच्चमत्कुर्वन्ति तद्वदिति परेणान्वयः
॥ ४५ ॥

चमत्कुर्वन्त्यमी भावाः पञ्चके मिथुनौघवत् ।
चिन्मात्र एव चिन्मात्रं चिन्मात्रेणावधीयते ॥ ४६ ॥

तथा आवृतचिन्मात्रमेव चिन्मात्रेण मायिकेन नानात्मनैव नानेव भूत्वा
अवधीयते तत्तत्कार्यरूपेण परिच्छिद्यते ॥ ४६ ॥

नानात्मनैव नानेव स्वात्मज्ञानात्मनात्मवत् ।
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ॥ ४७ ॥

यथा तदेव चिन्मात्रं स्वात्मज्ञानात्मना स्वेनैव व्याप्तं पारमार्थिकात्मना
चमत्कुरुते तद्वत् ब्रह्मण एव ब्रह्मभूतसर्गात्मना मायिकचमत्कारे तस्यैव
तत्त्वज्ञानेन पारमार्थिकस्वरूपावाप्तिचमत्कारे च । पूर्णमदः पूर्णमिदं
पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते इति श्रुतिमर्थत
उदाहरति-पूर्णादिति । प्रलये वासनामात्रशेषेण सर्वोपाधिप्रलये मायाशबले
ब्रह्मण्यप्ययं प्राप्ता जीवाः कल्पादौ भोजकादृष्टपरिपाके पुनः
स्वस्वव्यष्टिसमष्ट्युपाधीन्सर्गेण यदुद्धरन्ति तत्पूर्णादपरिच्छिन्नाद्ब्रह्मणः
कारणात्पूर्णान्यपरिच्छिन्नब्रह्मरूपाण्येव कार्याणि माययोद्धरन्ति । स्थितिकाले च
यदवान्तरकार्यजातमैहिकामुष्मिकभोगमोक्षसाधनानि चक्रिरे तदपि पूर्णादेव
पूर्णान्येव च मायया चक्रिरे ॥ ४७ ॥

भवन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
चिन्मात्रमेव कचति यच्चिन्मात्रमयात्मनि ॥ ४८ ॥

ततो यत्तत्त्वज्ञानान्मुक्ता भवन्ति तदपि पूर्णादेव मायापगमात्पूर्णानि भवन्ति ।
सह भेदभ्रमेण मायापगमे पूर्णमेवावशिष्यत इति श्रुतेस्तात्पर्यार्थ इति भावः
। यच्चिन्मात्रमयात्मनि सर्गवेदनं कचितं तच्चिन्मात्रे चिन्मात्रमेवाकचित्वैव
कचितं नामेत्यत्रान्वयः ॥ ४८ ॥

अकचित्वैव तन्नाम कचितं सर्गवेदनम् ।
अहं चिता चिदेवादौ भवतीव स्वयं ततः ॥ ४९ ॥

अहम्प्रत्यगात्मरूपा चिदेव सर्गादौ स्वं रूपमत्यजन्त्येवाभवन्त्येव स्वतश्चिता
स्वयमेवानन्तकं मनोरूपं भवतीव ॥ ४९ ॥

अभवन्त्येव रूपं स्वमत्यजन्ती निरामयम् ।
तेजोमयमनाद्यन्तं मनोरूपमनन्तकम् ॥ ५० ॥

सम्राट्संसारमाभासि भवतीव स्वयं वपुः ।
पश्यत्यथ सदेवेदं स्वरूपत्वात्सदेव वा ।
भावनाद्भूततामेति दृश्यं भवति च क्षणात् ॥ ५१ ॥

ततः स्थौल्यकल्पनेनाभासि सत् स्वयम्भुवः सम्राट् संसारं विराड्भावेन
संसरणरूपं भवतीव । अथ व्यष्टिजीवभावेनेदं जगद्भ्रान्त्या सदेव पश्यति
परमार्थतोऽधिष्ठानसदेव वा जगति पश्यति तदंशे न भ्रान्तिरित्यर्थः । भूततां
चतुर्विधभूतग्रामताम् ॥ ५१ ॥

शान्तं जगत्प्रसररूपतया स्वभावशब्दार्थमुक्तमिदमव्यपदेश्यमेकम्

वस्तु स्थितं निजचमत्करणावलोकरूपं जगत्स्वरहितानुभवात्मतत्त्वम् ॥ ५२ ॥

उक्तमुपसंहरति-शान्तमिति । एवमुक्तरीत्या शान्तं स्वभावतः
शब्दार्थाभ्यां नामरूपाभ्यां मुक्तमत एवाव्यपदेश्यं स्वप्रकाशो
योऽनुभवस्तदात्मतत्त्वमेकं वस्तु निजचमत्करणं मायातदवलोकरूपं सत् जगत्
प्रसररूपतया जगदिव भूत्वास्थितमित्यर्थः ॥ ५२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० चू०
शिखिध्वजावबोधनं नाम षण्णवतितमः सर्गः ॥ ९६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधनन्न् नाम षण्णवतितमः सर्गः ॥ ९६ ॥