०९५

पञ्चनवतितमः सर्गः ९५

शिखिध्वज उवाच ।

आब्र्ह्मस्तम्बपर्यन्तं यद्ययं भासते भ्रमः ।
अर्थक्रियासमर्थश्च तत्कथं दुःखकारणम् ॥ १ ॥

घनतातानवेनात्राविद्योपशमनक्रमः ।
शिखिध्वजस्य बोधेन विश्रान्तिश्चोपवर्ण्यते ॥

मृगतृष्णाम्बुवद्भ्रान्तिरूप एवावभासते इति यदुक्तं तत्र मृगतृष्णादेः
स्नानपानाद्यर्थक्रियासामर्थ्यादयदद्र्शनान्मज्जनमरणादिदुःखकारणत्वादर्स्
हनाच्च विषमो दृष्टान्त इति राजा शङ्कते-आब्रह्मेति । तत्तर्हि अर्थक्रियासमर्थो
दुःखकारणं चायं कथमित्यन्वयः ॥ १ ॥

कुम्भ उवाच ।

एवं जगद्भमस्यास्य भावनं तावदाततम् ।
शिलीभूतस्य शीतेन सलिलस्येव रुक्षता ॥ २ ॥

सत्यसङ्कल्पभावनादृढीकृतस्य मिथ्यार्थस्यार्थक्रियासामर्थ्यं
दुःखकारणत्वं च दैवासुरमायानिर्मितशास्त्रास्त्रहस्त्यश्वसेनादेः प्रसिद्धमेव
किं वाच्यं जगदीऽस्वरमायानिर्मितस्य प्रपञ्चस्येत्याशयेनोत्तरमाह-एवमिति ।
अस्य सर्गात्मकस्य जगद्भ्रमस्य प्राणिकर्मोपभोगार्थत्वात् एवं
त्वदुक्तप्रकारमर्थक्रियासामर्थ्यं दुःखादिकारणत्वं चास्ति ।
सत्यसङ्कल्पस्येश्वरस्य भावनमेव तत्तदर्थक्रियाद्यात्मना आततम् । यथा शीतेन
शिलीभूतस्य सलिलस्य चिरकालेन स्फटिकादिभावेन परिणामाद्रूक्षता
पीठपात्राद्यर्थक्रियासामर्थ्यमाततं तद्वदित्यर्थः ॥ २ ॥

अज्ञानं शिथिलीभूतमेवं नष्टं विदुर्बुधाः ।
न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः ॥ ३ ॥

अत एव मूलाज्ञानस्य ज्ञानाभ्यासपरिपाकक्रमेण शिथिलीभावे जगतः
सूक्ष्मतापत्तिक्रमादेव सहाज्ञानेन नाश इत्याह-अज्ञानमिति । अज्ञाननाशं
विना जगत्संस्थानबाधो नास्तीत्याह-नेति ॥ ३ ॥

तनुत्वं सर्वबोधस्य यत्तदेव हि कारणम् ।
सर्गोपशमसम्पत्तौ प्रतिपन्ने परे पदे ॥ ४ ॥

अज्ञानशिथिलीभावे च निरोधाभ्यासेन बाह्यधीवृत्तितानवं कारणमित्याह##-

तानवं दृश्यते यस्य तस्यानुक्रमतः स्वयम् ।
पूर्वसंस्थानविगमात्प्रशमोऽप्युपपद्यते ॥ ५ ॥

अत एव लोकेऽपि अपक्षयापरपर्यायतानवपूर्वक एव स्थूलभावानां विनाशः
प्रसिद्ध इत्याह-तानवमिति । यस्य देहादेः । प्रशमो नाशः ॥ ५ ॥

अनेनैव क्रमेणैवं त्वमादिपुरुषो नृपः ।
भ्रमाकारोदयं विद्धि मृगतृष्णाम्बुवत्स्थितम् ॥ ६ ॥

एवं दर्शितप्रकारेण अज्ञानशैथिल्यक्रमेण जगद्भाधादेव तव
नित्यसिद्धपूर्णतालक्षणपुरुषस्वभावस्थितिसिद्धिरित्याह-अनेनेति ।
मृगतृष्णाम्बुवद्भ्रान्तिरूप एवावतिष्ठते इति प्रागुक्तजगत्स्थितिरप्येवंरीत्यैव
बोद्धव्येत्याह-भ्रमाकारोदयमिति ॥ ६ ॥

एषा पितामहाभावेऽप्यसती भूतसन्ततिः ।
न कदाचन तत्सिद्धं यदसिद्धेन साध्यते ॥ ७ ॥

शङ्कोत्तरमुपसंहृत्य प्रस्तुतमेव निगमयन्नाह-एषेति ॥ ७ ॥

अयं भूतोपलम्भो हि मृगतृष्णाम्ब्विवोदितः ।
विचाराद्विलयं याति शुक्तौ रजतधीरिव ॥ ८ ॥

तस्य फलं दर्शयति-अयमिति ॥ ८ ॥

कारणाभावतः कार्यमभूत्वा भवतीति यत् ।
मिथ्याज्ञानादृते तस्य न रूपमुपपद्यते ॥ ९ ॥

अत एव जगतो भ्रान्तिरेव स्वरूपं नान्यदित्याह-कारणेति ॥ ९ ॥

मिथ्यादृष्टिप्रेक्षितं तुन कदाचन विद्यते ।
मृगतृष्णाम्भसा केन घटकाः परिपूरिताः ॥ १० ॥

अत एव मिथ्येति दृष्टं सहार्थक्रियया निःस्वरूपतामेवापद्यत इत्याह##-

शिखिध्वज उवाच ।

स्रष्टुराद्यस्य परमं ब्रह्म कस्मान्न कारणम् ।
अनन्तमजमव्यक्तमम्बरं शान्तमच्युतम् ॥ ११ ॥

तर्हि पितामहस्य निर्विशेषं ब्रह्मैव कुतो न कारणम् । न च परिणामित्वेन
तस्यानित्यत्वापत्तिः । क्रमिकसर्वपरिणामानुवृत्तिबलादेव जातिवत्तस्य
नित्यत्वोपपत्तेरिति राजा शङ्कते-स्रष्टुरिति ॥ ११ ॥

कुम्भ उवाच ।

हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस्तथा ।
अद्वैतेनातिगन्तात्मा न च कार्यं न कारणम् ॥ १२ ॥

कुम्भः श्रुतियुक्त्यनुभवविरोधान्मैवमित्याह-हेतुत्वेति ।
तदेतद्ब्रह्मापूर्वमनपरम् इति श्रुत्या
पूर्वत्वलक्षणहेतुत्वस्यापरत्वलक्षणकार्यत्वस्य च निषेधात् नेह नानास्ति किञ्चन इति
श्रुत्या द्वैतमात्रनिषेधात् असङ्गो ह्ययं पुरुषः
इत्यादिश्रुतेश्चानुवृत्त्याद्यघटनात् कूटस्थस्य परिणामायोगाच्च
सर्वप्रपञ्चातिगन्ता आत्मा शुद्धं ब्रह्म न कार्यं नापि कारणमित्यर्थः ॥ १२ ॥

अकर्तृकर्मकरणमकारणमबीजकम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्म कर्तृ कथं भवेत् ॥ १३ ॥

कारकान्तराप्रसिद्धेस्तत्प्रयुक्तस्वातन्त्र्यलक्षणं कर्तृत्वं त्वस्य
दूरनिरस्तमित्याह-अकर्त्रिति । प्रयोज्यकर्तुरप्रसिद्धौ प्रयोजककर्तृताप्यस्य
दुर्लभेति द्योतनाय अकर्त्रिति । अकारणं निमित्तशून्यमबीजकमुपादानशून्यम् ॥ १३ ॥

अकारणत्वात्कार्यत्वरहितं तज्जगद्भवेत् ।
अद्वैतैक्यमनाद्यन्तं तदाद्यमुपलम्भनम् ॥ १४ ॥

निर्धर्मकत्वादेव तद्ब्रह्म अकारणत्वात्कार्यत्वलक्षणधर्माभ्यामपि रहितं
भवेदिति हेतोः कार्यकारणात्मकं जगत्सम्पन्नमिति यदि सम्भावयसि तर्हि तज्जगत्
द्वैतैक्यलक्षणेन वस्तुकृतपरिच्छेदेन
आद्यन्तलक्षणैर्देशकालकृतपरिच्छेदैश्च रहितं सदाद्यमुपलम्भनं
चिदेकरसं ब्रह्मैव सम्पन्नमित्यपि सम्भावय । तदा क्व जगद्भावः
कार्यकारण्यता वेति भावः ॥ १४ ॥

अप्रतर्क्यमविज्ञेयं यच्छिवं शान्तमव्ययम् ।
तत्कथं कस्य केनैव कर्तृ भोक्तृ कदा भवेत् ॥ १५ ॥

इत्थमेव तस्य जीवभावभ्रान्तिप्रसञ्जिते कर्तृत्वभोक्तृत्वे अपि निरसनीये इत्याह##-
॥ १५ ॥

अतो नेदं कृतं किञ्चिज्जगदादि न विद्यते ।
न कर्तासि न भोक्तासि सर्वं शान्तमजं शिवम् ॥ १६ ॥

फलितमाह-अत इत्यादिना ॥ १६ ॥

कारणाभावतः कार्यं न कस्यचिदिदं जगत् ।
अकारणत्वात्कार्यत्वं भ्रमाद्विद्धि त्विदं जगत् ॥ १७ ॥

अकार्यत्वाच्च नास्त्येतत्सर्ग इत्थं न विद्यते ।
यदा न कस्यचित्कार्यं कारणस्य जगत्तदा ॥ १८ ॥

उपक्रान्तं प्रस्तुतोपयोगितया स्मारयति-यदेति ॥ १८ ॥

पदार्थाभावसंसिद्धिस्तत्सिद्धौ कस्य वेदनम् ।
एवं तु वेदनाभावे नास्त्यहन्त्वस्य कारणम् ॥ १९ ॥

प्रस्तुतं निगमयति-एवं त्विति ॥ १९ ॥

अतः शुद्धो विमुक्तोऽसि कैवोक्तिर्बन्धमोक्षयोः ।

शिखिध्वज उवाच ।

बुद्धोऽस्मि भगवन्युक्तियुक्तमुक्तं त्वयोत्तमम् ॥ २० ॥

एवमहन्तानिरासोपायमुपदिश्य परिशिष्टमात्मतत्त्वमनुभावयति-अत इति ।
उपदिष्टार्थं स्वानुभवेनानुमोदमानो राजा युक्ततमं
त्वयोपदिष्टमित्यनुवदति-बुद्धोऽस्मीत्यादिना ॥ २० ॥

कारणाभावतः कर्तृनेदं ब्रह्मेति वेद्म्यहम् ।
कर्त्रभावाज्जगन्नास्ति तेन नास्ति पदार्थदृक् ॥ २१ ॥

पदार्थदृक् नामरूपदृष्टिः ॥ २१ ॥

नातश्चित्तादि तद्बीजं नातोऽहन्तादि किञ्चन ।
एवंस्थिते विशुद्धोऽस्मि विबुद्धोस्मि शिवोस्मि वा ॥ २२ ॥

नमो मह्यं परं चेत्यन्न् न किञ्चिदिति बोधितः ।
पदार्थवेदनादित्थमसदेवावभासते ।
अहमाद्यन्तमेतेन शान्तमासे खकोशवत् ॥ २३ ॥

चित्स्वरूपात्परमन्यच्चेत्यं न किञ्चिदिति त्वयाहं बोधितः । इत्थं त्वदुपदिष्टयुक्त्या
सर्वपदार्थानां विमर्शेन वेदनादध्यारोपे अहमादिविवेकेनापवादे अहमन्तं
दृश्यजातमसन्नास्त्येवेत्यवभासते इति परेणान्वयः । एतेन सर्वद्वैतबाधेन
खकोशवत् शान्तं निर्विक्षेपमासे ॥ २३ ॥

जगत्पदार्थप्रविभागदृष्टिः सदेशदिक्कालकलाक्रियौघा ।
अहो नु कालेन चिरेण शान्ता ब्रह्मैव शान्तं स्थितमव्ययात्म ॥ २४ ॥

तामेव स्थितिमभिनयन्नुपसंहरति-जगदिति द्वाभ्याम् ।
देशदिक्कालकलाक्रियौघैः सहिता जगत्पदार्थप्रविभागदृष्टिर्मम चिरेण कालेन
शान्ता । अहो इत्याश्चर्ये । तथा च शान्तमव्ययात्म निर्विकारं ब्रह्मैव स्थितं
परिशिष्टमित्यर्थः ॥ २४ ॥

शाम्यामि निर्वामि परिस्थितोऽस्मि न यामि नोदेमि न चास्तमेमि ।
तिष्ठामि तिष्ठ स्वयथास्थितात्मा [स्वयथास्थितात्मेत्यादिः कर्मधारयः ।
] शिवं शुभं पावनमौनमस्मि ॥ २५ ॥

परितः पूर्णभावेन स्थितोऽस्मि । अहमेवं तिष्ठामि त्वमपि स्वः प्रत्यगेकरसो
यथास्थितात्मा तिष्ठेति अभयं त्वा गच्छताद्याज्ञवल्क्य यत्नोभगवन्नभयं
वेदयसे इति जनकोक्तिवत्कुम्भं प्रति राजोक्तिः । एवं स्थितौ त्वदात्मैवाहं शुभं
परमपुरुषार्थरूपं पावनं शुद्धं मौनं वागगम्यं शिवं
निरतिशयसुखमेव सदास्मीत्यर्थः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजविश्रान्तिर्नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजविश्रान्तिर्नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥