चतुर्नवतितमः सर्गः ९४
श्रीवसिष्ठ उवाच ।
एवं वदति वै कुम्भे चित्तत्यागं मुहुर्मुहुः ।
अन्तर्विचारयन्सौम्यो राजा वचनमव्रवीत् ॥ १ ॥
इह चित्तं परित्यक्तुं तन्मूलपरिशोधने ।
देहादिवेद्यबाधेन पूर्णचिच्छेष ईर्यते ॥
चित्तत्यागं चित्तत्यागोपायम् ॥ १ ॥
शिखिध्वज उवाच ।
हृदयाकाशविहगो हृदयद्रुममर्कटः ।
भूयोभूयो निरस्तं हि समभ्येत्येव मे मनः ॥ २ ॥
निरस्तं न ममेति त्यक्तमपि । अप्यर्थो हिशब्दः ॥ २ ॥
जानामि चैतदादातुं मत्स्यं जाल इवाकुलम् ।
त्यागमस्य न जानामि चित्तं द्रव्य इवोत्तम ॥ ३ ।
एतच्चित्तमादातुं ममतया स्वीकर्तुं जानामि द्रव्य इवास्मिन्मूर्तत्वाभावादस्य
त्यागं तु न जानामि । हे उत्तम ॥ ३ ॥
चित्तस्यादौ स्वरूपं मे यथावद्भगवन्वद ।
ततश्चित्तपरित्यागं यथावद्वद मे प्रभो ॥ ४ ॥
स्वरूपं त्यागार्हं पिण्डीकृतं सामान्यरूपम् ॥ ४ ॥
कुम्भ उवाच ।
वासनैव महाराज स्वरूपं विद्धि चेतसः ।
चित्तशब्दस्तु पर्यायो वासनाया उदाहृतः ॥ ५ ॥
कुम्भस्तदेवाह-वासनैवेति । रागवासनेत्यर्थः । उदाहृतो लोके । तथा च लौकिका
आहुरपूपेषु मम वासनास्ति मण्डकेष्वस्य चित्तमिति ॥ ५ ॥
त्यागस्तस्यातिसुकरः सुसाध्यः स्पन्दनादपि ।
राज्यादप्यधिकानन्दः कुसुमादपि सुन्दरः ॥ ६ ॥
सुकर इति । औदासीन्यमात्रेण तत्सिद्धिरिति भावः । राज्यादपीति । तथा चाहुः यच्च
कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः
षोडशीं कलाम् । इति । सुन्दरो हृद्यः ॥ ६ ॥
मूर्खस्य तु मनस्त्यागो नूनं दुःसाध्यतां गतः ।
पामरस्येव साम्राज्यं तृणस्येव सुमेरुता ॥ ७ ॥
कुतस्तर्हि स सर्वैर्न क्रियते तत्राह-मूर्खस्येति ॥ ७ ॥
शिखिध्वज उवाच ।
स्वरूपं वेद्मि चित्तस्य वासनामयमाकुलम् ।
त्यागः स मन्ये दुःसाध्यो वज्रनिर्गिलनादपि ॥ ८ ॥
वेद्मि त्वद्वचसेत्यर्थः । वज्रस्य निर्गिलनान्निगिरणादपि दुःसाध्यः । सति मौर्ख्ये
औदासीन्यस्यैव दुष्करत्वादिति भावः ॥ ८ ॥
संसृत्यामोदपुष्पस्य दुःखदाहानलस्य च ।
जगदब्जमृणालस्य मोहमारुतखस्य च ॥ ९ ॥
जगल्लक्षणं यदब्जं तन्मृणालस्य । जालेति पाठेऽपि जले भवं जालमिति व्युत्पत्त्या
अब्जमेवार्थः । सर्वपर्यायैः कारणमेवोपलक्ष्यते ॥ ९ ॥
शरीरयन्त्रवाहस्य हृत्पद्मभ्रमरस्य च ।
अयत्नाच्चेतसस्त्यागो यथा भवति तद्वद ॥ १० ॥
शरीरयन्त्रं वहति प्रवर्तयतीति कर्मण्यण् । यथा येनोपायेन भवति ॥ १० ॥
कुम्भ उवाच ।
सर्वनाशोऽस्य यः साधो चेतसः संसृतिक्षयः ।
स एव चित्तसन्त्याग इत्युक्तं दीर्घदर्शिभिः ॥ ११ ॥
सर्वस्य वक्ष्यमाणमूलाङ्कुरशाखापल्लवादेर्नाशः स एव संसृतेरपि क्षयः
स एव चित्तस्य सन्त्यागो न तु बाह्यार्थत्यागवन्ममतानिवर्तनमित्यर्थः ।
दीर्घदर्शिभिरपरिच्छिन्नात्मदर्शिभिः ॥ ११ ॥
शिखिध्वज उवाच ।
चित्तत्यागादहं मन्ये चित्तनाशः सुसिद्धये ।
अभावः शतशो व्याधेः कथमस्यानुभूयते ॥ १२ ॥
उक्तमर्थ विमृश्यानुवादेनानुमोदमानः शिखिध्वजस्तत्रोपपत्तिमाह-चित्तेति ।
चित्तं हि व्याधिः । न हि व्याधेः शतशोपि ममतावर्जनलक्षणेन
त्यागेनाभावोऽनुभूयते किन्तु चिकित्सयोच्छेदेनैव । अतस्तदुच्छेदाय
तन्मूलशाखापल्लवादि वदेत्यर्थः ॥ १२ ॥
कुम्भ उवाच ।
अहम्बीजश्चित्तद्रुमः सशाखाफलपल्लवः ।
उन्मूलय समूलं तमाकाशहृदयो भव ॥ १३ ॥
अहमज्ञातात्मा बीजं यस्य । सशाखाफलपल्लवस्य द्रुमस्योन्मूलने
तत्स्थानाकाशमिव निरावरणविक्षेपं हृदयं यस्य तथाविधो भव ॥ १३ ॥
शिखिध्वज उवाच ।
चेतसः किं मुने मूलं कोऽङ्कुरः कोऽस्य सम्भवः ।
काः शाखाः के च वा स्कन्धाः कथमुन्मूल्यते च सः ॥
सम्भवत्यस्मिन्निति सम्भवः क्षेत्रम् ॥ १४ ॥
कुम्भ उवाच ।
अहमर्थोदयो योऽयं स चित्तावेदनात्मकः ।
एतच्चित्तद्रुमस्यास्य विद्धि बीजं महामते ॥ १५ ॥
अहमर्थादज्ञातात्मनः उदयो यस्य तथाविधो योऽयं स चित्तावेदनात्मकोऽभिमानी
प्रसिद्धः । एतदेवेति बीजलिङ्गेन निर्देशः । बीजं मूलम् ॥ १५ ॥
परमात्मपदं क्षेत्रं क्षेत्रं मायामयस्य तत् ।
एतस्मात्प्रथमोद्भिन्नादङ्कुरोऽनुभवाकृतिः ॥ १६ ॥
कोऽस्य सम्भव इति प्रश्नस्योत्तरमाह-परमात्मपदमिति । परमात्मनः पदं
नीडं माया सैव क्षेत्रम् । यतस्तत्सर्वस्यैव मायामयप्रपञ्चस्य
क्षेत्रमतश्चेतसोऽपि तदेव क्षेत्रमित्यर्थः । कोऽङ्कुर इत्यस्योत्तरमाह-एतस्मादिति ।
एतस्मात्प्रथमोत्पन्नान्मूलात्परिच्छिन्नोऽहमिति निश्चयात्मा
चिदाभासव्याप्तत्वादनुभवात्मकोऽङ्कुरो जायत इत्यर्थः ॥ १६ ॥
निश्चयात्मा निराकारो बुद्धिरित्येव सोच्यते ।
अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता ॥ १७ ॥
तस्यैवोपचयेन चित्तद्रुमात्मना परिणतिरित्याह-अस्येति ।
देहाद्याकृतिस्मरणाच्चित्तनाम तन्मननाच्च मन इत्यभिधा यस्यास्तथाविधा
पीनता जायत इति परेणान्वयः ॥ १७ ॥
सङ्कल्परूपिणी तस्याश्चित्तनाममनोभिधा ।
जीवो मिथ्योपलम्भात्मा शून्यात्मा ह्युपलोपमः ॥ १८ ॥
तस्य वृक्षस्य जीवमाह-जीव इति । परमार्थतो निर्विकारत्वात्सर्वविकारशून्यात्मा
अत एवोपलोपमो मिथ्याभूतचित्ततद्धर्मसम्बन्धोपलम्भात्मा साक्षीत्यर्थः ॥ १८ ॥
स्तम्भः कायोऽयमेतस्य स्नाय्वस्थिरसरञ्जितः ।
देशान्तरेऽङ्कुरोद्देशे कालस्पन्दोऽस्य वासना ॥ १९ ॥
स्तम्भो मूलाच्छाखापर्यन्तो मध्यप्रदेशः । अयं कायः शरीरमेव ।
मूलस्तम्भदेशाद्देशान्तरे अग्रदेशे
स्कन्धशाखादिप्ररोहार्थमङ्कुरोद्देशेऽङ्कुरारम्भे चिकीर्षिते वसन्तादिकाल इव
तत्तद्बोगप्रदकर्मपरिपाककाले रागद्वेषप्रवृत्त्याद्यङ्कुरपल्लवाद्याकारेण
स्पन्दते यो रसः सोऽस्य वासनैवेत्यर्थः ॥ १९ ॥
शाखायाश्चित्तवृक्षस्य दीर्घा दूरगतास्तताः ।
इन्द्रियाण्यल्पभोगाश्च भावाभावात्मयोनयः ॥ २० ॥
अस्य चित्तवृक्षस्य या दीर्घा दूरगतास्तता विस्तृताश्च शाखास्ता इन्द्रियाणि
भावाभावा जन्ममरणानि तदात्मनोऽनर्थसहस्रस्य योनयः कारणीभूता
भोगाश्च अस्य महान्तो विटपौघा अवान्तरशाखासमूहा इति परेणान्वयः ॥ २० ॥
विटपौघा महान्तोऽस्य शुभाशुभफलाकुलाः ।
ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम् ॥ २१ ॥
शाखाविलवनं कुर्वन्मूलकाषे भरं कुरु ।
शिखिध्वज उवाच ।
चित्तद्रुमस्य शाखादेः कुर्वाणोऽहं विकर्तनम् ॥ २२ ॥
विषयभोगासङ्गच्छेदनलक्षणं शाखाविलवनं
कुर्वन्नसङ्गाद्वितीयात्मदर्शनलक्षणे मूलकाषे भरं यत्नातिशयं कुर्वित्यर्थः
। तत्र शाखालवने मूलकाषे चोपायं राजा पृच्छति-चित्तेति ॥ २२ ॥
कथं करोमि मूलस्य निःशेषकषणं मुने ।
कुम्भ उवाच ।
वासना विविधाः शाखाः फलस्पन्दादिनान्विताः ॥ २३ ॥
ततः शाखालवनोपायं कुम्भ आह-वासना इति ॥ २३ ॥
अभाविता भवन्त्यन्तर्लूनाः संविद्बलेन ते ।
असंसक्तमना मौनी शान्तवादविचारणः ॥ २४ ॥
अभाविता आसक्तित्यागेनानुभाविता अन्तर्विचारसंविद्बलेन लूना भवन्ति ।
उक्तमेवार्थं जीवन्मुक्तेषु लक्षणतया दर्शयति-असंसक्तेति ॥ २४ ॥
सम्प्राप्तकारी यः सोऽन्तर्लूनश्चित्तलतो भवेत् ।
चित्तद्रुमलताजालं पौरुषेण विकर्तयन् ॥ २५ ॥
शाखालवनाभ्यासे दृढे सति मूलकाषे योग्यो भवतीत्याह-चित्तद्रुमेति ।
लताजालं शाखासमूहम् ॥ २५ ॥
यस्तिष्ठति स मूलस्य योग्यो निकषणे भवेत् ।
गौणं शाखाविलवनं मुख्यं मूलविकर्तनम् ॥ २६ ॥
गौणमङ्गम् । मुख्यं प्रधानम् ॥ २६ ॥
चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव ।
मुख्यत्वेन महाबुद्धे मूलदाहमलं कुरु ॥ २७ ॥
मुख्यत्वेन प्राधान्येन । प्रधानासम्पादने यत्नप्रसाधितस्याप्यङ्गस्य
वैकल्यप्रसङ्गादिति भावः ॥ २७ ॥
चित्तकण्टकखण्डस्य भवत्येवमचित्तता ।
शिखिध्वज उवाच ।
अहम्भावात्मनश्चित्तद्रुमबीजस्य हे मुने ।
कोऽनलो दहनाख्येऽस्मिन्कर्मण्यर्थकरो भवेत् ॥ २८ ॥
त्वं चित्तलक्षणस्य कण्टकखण्डस्य करञ्जवनस्य अलं निरवशेषं मूलदाहं
कुर्विति पूर्वत्रान्वयः । एवं कृते अचित्तता भवति । तद्दाहस्य
प्रसिद्धेनानलेनासिद्धेरनलान्तरं जिज्ञासुः पृच्छति-अहम्भावात्मन इति ।
अर्थकरः समर्थः ॥ २८ ॥
कुम्भ उवाच ।
राजन्स्वात्मविचारोऽयं कोऽहं स्यामिति रूपधृक् ।
चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः ॥ २९ ॥
कोऽहं स्यामिति विचारादिसाक्षात्कारान्तरूपधृक् ॥ २९ ॥
शिखिध्वज उवाच ।
मुने मया स्वया बुद्ध्या बहुशः प्रविचारितम् ।
यावन्नाहं जगन्नोर्वीवनमण्डलमण्डितम् ॥ ३० ॥
मया स्वबुद्ध्यैव बाह्यार्था देहाद्यहङ्कारान्ता आध्यात्मिकार्थाश्च अनात्मानः
अनृताश्चेति ज्ञातास्तथाप्यन्तरात्मतत्त्वापरिचयाज्जडेऽप्यहङ्कारे
पुनःपुनरात्मताभ्रान्तिर्न निवर्तत एवेति न विश्राम्यामीत्याह-मुने
इत्यादिषड्भिः । यावदिति साकल्ये । सर्वं जगद्बहुशः प्रविचारितमित्यर्थः । तदेव
विशिष्याह-नाहमित्यादि । उर्व्या तदन्तर्गतवनमण्डलादिभिश्च मण्डितं
जगन्नाहमिति सङ्क्षिप्योक्तिः ॥ ३० ॥
नाद्रेस्तटं न विपिनः न पर्णस्पन्दनादि च ।
जडत्वान्न च देहानि न मांसास्थ्यसृगादि च ॥ ३१ ॥
तदेव विस्तरेणाह-नाद्रेरित्यादि । जडत्वादिति सर्वत्र हेतुः ॥ ३१ ॥
कर्मेन्द्रियाण्यपि न च न च बुद्धीन्द्रियाणि च ।
न मनो नापि च मतिर्नाहङ्कारश्च जाड्यतः ॥ ३२ ॥
कटकत्वं यथा हेम्नि तथाहन्त्वं चिदात्मनि ।
जडं त्वसद्रूपतया तेन तन्नास्ति हे मुने ॥ ३३ ॥
अहङ्कारे जडत्वं नास्तीति शङ्कां विवर्तत्वहेतुना वारयन् जडस्य स्वतः
सेद्धुमशक्त्या चित्यध्यासात्सिद्धौ मिथ्यात्वं पर्यवस्यतीत्याह-कटकत्वमिति ।
तथा अहन्त्वं विवर्त इति शेषः । जडं तु शुक्तिरजतमृगतृष्णादि असद्रूपतया
प्रसिद्धमिति शेषः । तेन जडत्वहेतुना तदहन्त्वादि नास्ति मिथ्यैवेत्यर्थः ॥ ३३ ॥
सन्निवेशनिवासात्मा सर्वार्थादिः परे पदे ।
विद्यते नान्यदन्यत्वान्नभसीव महाद्रुमः ॥ ३४ ॥
ब्रह्माण्डादेरुक्तजडवर्गायाधिष्ठानसद्रूपादन्यत्वादपि असत्त्वमित्याह##-
न विद्यते । तथात्वं कुत इति चेद्यतो
ब्रह्माण्डादिजडवर्गश्चतुर्दशभुवनादिसन्निवेशानां निवासात्मा आधारः
सर्वेषामर्थानां शब्दादिविषयाणामादिः कारणभूतः । न च चिदात्मा
विभक्तस्वभावो निर्विभागसत्तासामान्यरूपत्वादित्यर्थः ॥ ३४ ॥
जानन्नपीति भगवन्नहन्त्वमलमार्जनम् ।
अन्तर्यज्ज्ञं न जानामि तेन तप्ये चिरं मुने ॥ ३५ ॥
इति अनया रीत्या अहन्त्वलक्षणस्य मलस्य मार्जनं जानन्नपि अन्तः प्रत्यगेकरसं यत्
ज्ञं साक्षिचैतन्यं तन्न जानामि ॥ ३५ ॥
कुम्भ उवाच ।
एतावन्मात्रकं वृन्दं यदि न त्वं महीपते ।
जडत्वात्तन्महाबुद्धे योऽसि तद्वद मेऽनघ ॥ ३६ ॥
इदानीं परिशेषादेव साक्षिचैतन्यं परिचाययिष्यन्कुम्भ उवाच-एतावदिति ।
एतावन्मात्रकमहङ्कारपर्यन्तं दृश्यवृन्दम् ॥ ३६ ॥
शिखिध्वज उवाच ।
चिन्मात्रमहमच्छात्मवेदनं विदुषां वर ।
यत्र भावाः स्वदन्ते ते निर्णीयन्ते च येन वा ॥ ३७ ॥
अज्ञातृभोक्तृत्वादिना प्रसिद्धान्तरान्तरकोशपरम्परावधौ यत्रानन्दैकरसे
चिन्मात्रे सति अनानन्दा जडरूपाश्च भावाः शब्दादिविषयाः स्वदन्ते । येन वा
बुद्धिवृत्त्युपारूढेन इष्टानिष्टविभागेन निर्णीयन्ते ॥ ३७ ॥
एवंरूपस्य मे लग्नं नूनं मलमकारणम् ।
सकारणं वाहमिति यत्पदं च न वेद्म्यहम् ॥ ३८ ॥
विवेकदृशा पर्यालोचने एवंरूपस्य मे मम देहादिकोइशगणे अहमिति
तादात्म्याभिमानलक्षणं मलं लग्नं इदं सकारणमकारणं वेति अहं न वेद्मि
यत्पदं ब्रह्म तच्च न वेद्मीत्यर्थः ॥ ३८ ॥
असदेतद्नात्मीयं प्रमार्ष्टुं मलमात्मनः ।
मुने यदा न शक्नोमि तेन तप्ये सुदारुणम् ॥ ३९ ॥
कुम्भ उवाच ।
ब्रूहि किं तन्महाबाहो लग्नं तव मलं महत् ।
स्थितोऽसि येन संसारी सता वाप्यथवाऽसता ॥ ४० ॥
सत्ता सत्येन असता मिथ्याभूतेन वा येन मलेन हेतुना संसारी स्थितोऽसि ॥ ४० ॥
शिखिध्वज उवाच ।
चित्तद्रुमस्य यद्बीजमहम्भावश्च मे मलम् ।
तच्च त्यक्तुं न जानामि त्यक्तं त्यक्तमुपैति माम् ॥ ४१ ॥
तत्सत्यं मिथ्येति वा न जानामि किन्तु चित्तद्रुमस्य सर्वानर्थफलस्य मूलमिति
सामान्यतोऽहम्भावश्चान्ममभावश्चेति विशेषतोपि जानामि । तच्च त्यक्तुं
निरसितुमुपायं न जानामि । ननु नाहं न ममेति बुद्धिरेव तत्त्यागोपायः प्रसिद्धः
प्राक्त्वयैव वनादिषु दर्शितः स कथमपलप्यते तत्राह-त्यक्तं त्यक्तमिति । तथा
पुनः पुनस्त्यक्तमपि मूलोच्छेदाभावात्पुनःपुनर्मामुपैति । अतस्त्न्मूलं
तदुच्छेदोपायं च वदेत्याशयः ॥ ४१ ॥
कुम्भ उवाच ।
कारणाज्जायते कार्यं यत्तत्सर्वत्र सम्भवेत् ।
अन्यत्त्वसद्द्विचन्द्राभं दृष्टमेतन्न विद्यते ॥ ४२ ॥
तत्र सत्यस्य कूटस्थत्वात्कारणता न सम्भवत्येव । असत्यस्य तु कारणतोक्तिरसत्येव
कारणे कार्यमुत्पन्नमित्यर्थे पर्यवसिता सती
कार्यस्यासत्यतामेवापादयतीत्यात्मैक्यपर्यवसितेति रहस्यं तद्बुद्ध्यनुसारेणैव
बोधयिष्यन् कुम्भो लोकप्रसिद्ध्यनुरूपमहङ्कारणं त्वं स्वबुद्ध्यैवान्विष्य
कथयेत्याह-कारणादिति द्वाभ्याम् । अन्यत्तु कारणं विनैव जातं कार्य
द्विचन्द्राभमसदेव । यत एतत्सम्यग्दृष्टं चेन्न विद्यत इत्यर्थः ॥ ४२ ॥
कारणाज्जायते कार्यमहम्भावाद्भवाङ्कुरः ।
इति कारणमन्विष्य कथयस्व ममाधुना ॥ ४३ ॥
यथा अहम्भावात्कारणान्मन-आदिलक्षणो भवाङ्कुरः कार्यं जायते इति
एवंविधमेवाहम्भावस्यापि कारणं स्वबुद्ध्याऽन्विष्य मम कथयस्वेत्यर्थः ॥
४३ ॥
शिखिध्वज उवाच ।
मुनेऽहमिति दोषस्य वेदनं वेद्मि कारणम् ।
तद्यथोपशमं याति तन्मे वद मुनीश्वर ॥ ४४ ॥
एवं पृष्टो राजा चिरं स्वबुद्ध्यान्विष्यासति देहाद्याकारवेदने
तत्राहन्ताभिमानायोगात्तद्वेदनमेव तत्कारणमिति निश्चित्य प्रत्युवाच-मुने इति ॥
४४ ॥
चितश्चेत्योन्मुखत्वेन दुःखायायमहंस्थितः ।
चेत्योपशमनं ब्रूहि मुने तदुपशान्तये ॥ ४५ ॥
चितश्चेत्योन्मुखत्वेन हेतुना अयं देहादिरहम्भावेन स्थितः सन् दुःखाय
सम्पन्नोऽतश्चेत्यदेहादिरेव चितस्तद्वेदनाभावेपि हेतुरित्यभिप्रेत्य तदुपशान्तये
चेत्योपशमनोपायं ब्रूहीत्याह-चेत्येति ॥ ४५ ॥
कुम्भ उवाच ।
कारणं कारणज्ञोऽसि वेदनस्य वदाशु मे ।
ततस्त्वां बोधयिष्यामि कारणाकारणक्रमम् ॥ ४६ ॥
यदि वेदनस्य वेद्योन्मुखत्वे वेद्यमेव कारणमिति कारणज्ञोऽसि तर्हि
तत्स्वाभिप्रेतमाशु वद । ततस्त्वदुक्त्यनन्तरं त्वदभिप्रेतं कारनमकारणमेव
येन क्रमेण सम्पद्यते तं क्रमं त्वां बोधयिष्यामीत्यर्थः ॥ ४६ ॥
वेद्यवेदनरूपस्य चेत्यसञ्चेतनस्य मे ।
अकारणं कारणतां यद्यातं तव तद्वद ॥ ४७ ॥
पृष्ठमेवार्थं स्फुटीकर्तुं पुनरनुवदति-वेद्येति । सामान्यतो
वेद्यवेदनरूपस्य विशेषतश्चेत्यसञ्चेतनस्य मिथ्यात्वादकारणं
कारणत्वाक्षममेव वेद्यं कारणतां यातमिति यत्तवाभिप्रेतं तद्वदेत्यर्थः ॥ ४७
॥
शिखिध्वज उवाच ।
चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः ।
इयं पदार्थसत्तेह देहादिः कारणं मुने ॥ ४८ ॥
शिखिध्वजः पृष्टं स्वाभिप्रेतं स्फुटमाह-चेत्येति ।
देहादिर्बाह्याध्यात्मिकपदार्थसत्ता ॥ ४८ ॥
शरीरादितयोदेति वेदनं वस्तुसत्तया ।
असत्याभासया स्पन्दो यथा पवनलेखया ॥ ४९ ॥
वेदनस्य देहादिसत्ता कथं कारणं तत्राह-शरीरेति । यतो वेदनं
शरीरादिवस्तुसत्तया निमित्तभूतया स्वयमपि मूषानिषिक्तधातुद्रव इव
शरीराद्याकारेणोदेति । अमूर्ते वेदने मूर्तदेहाद्याकारताया
वास्तवत्वायोगाद्विशिनष्टि-असत्याभासयेति ॥ ४९ ॥
असत्तां वस्तुसत्ताया नावगच्छाम्यहं यथा ।
अहन्त्ववेदनं चित्तबीजं समुपशाम्यति ॥ ५० ॥
यथा चित्तबीजमहन्त्ववेदनं समुपशाम्यति तथा देहादिवस्तुसत्ताया असत्त्वं
नावगच्छामि । अतस्तदसत्त्वं यथावगम्यते तथोपदिशेति भावः ॥ ५० ॥
कुम्भ उवाच ।
विद्यते यदि देहादिवस्तुसत्ता तदस्ति ते ।
अभावाद्देहसत्तादेः किन्निष्ठं तव वेदनम् ॥ ५१ ॥
एवं पृष्ट्ः कुम्भो वेदनस्य विषयाकारेणोत्पत्तिभ्रमवारणाय
देहादिदृश्यासत्त्वं प्रतिजानीते-विद्यते इति । देहादिवस्तुसत्ता यदि विद्यते तत्तर्हि ते
तवाभिमतं वेदनस्य तन्निमित्तं तदाकारत्वं स्यात् तदेव दुर्लभमिति वेदनं
किनिष्ठं किंविषयम् । निर्विषयमेवेत्यर्थः ॥ ५१ ॥
शिखिध्वज उवाच ।
यस्योपलभ्यते किञ्चित्स्वरूपं कलनात्मकम् ।
असद्रूपं कथं तत्स्यात्प्रकाशः स्यात्कथं तमः ॥ ५२ ॥
प्रत्यक्षमुपलभ्यमानस्य देहादेः कथमपलाप इति राजा पृच्छति-यस्येति ।
सत्त्वेवोपलभ्यमानस्यासत्त्वप्रतिज्ञा विरुद्धेति दृष्टान्तेनाप्याह-प्रकाश इति ॥
५२ ॥
हस्तपादादिसंयुक्तः क्रियाफलविलासवान् ।
सदानुभूयमानोऽयं देहो नास्ति कथं मुने ॥ ५३ ॥
कुम्भ उवाच ।
कारणं यस्य कार्यस्य भूमिपाल न विद्यते ।
विद्यते नेह तत्कार्यं तत्संवित्तिस्तु विभ्रमः ॥ ५४ ॥
नोपलम्भनमात्रेण दृश्यसत्तानिर्णयौ । भ्रान्तोपलम्भेषु व्यभिचारात् । किन्तु
सत्सु कारणेषु यस्य कार्यस्योपलम्भस्तस्य सत्त्वम् । तानि चास्य न सन्तीत्याह##-
कारणेन विना कार्यं शरीरं न कदाचन ।
विद्यते यस्य नो बीजं तद्द्रव्यं क्वेव जायते ॥ ५५ ॥
अकारणं तु यत्कार्यं सदिवाग्रेऽनुभूयते ।
तद्द्रष्टुर्विभ्रमाद्विद्धि मृगतृष्णाजलोपमम् ॥ ५६ ॥
अविद्यमानमेव त्वं विद्धि मिथ्याभ्रमोदितम् ।
नातियत्नवतोऽप्येतन्मृगतृष्णाम्बु लभ्यते ॥ ५७ ॥
शिखिध्वज उवाच ।
असतो द्वीन्दुबिम्बादेर्न युक्तं कारणेक्षणम् ।
वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते ॥ ५८ ॥
तर्हि किमसौ देहादिर्वन्ध्यापुत्रदेहादिवत्यन्तासन्नेव स्यादिति राजा शङ्कते-असत
इति ॥ ५८ ॥
कुम्भ उवाच ।
कारणेन विना कार्यं शरीराद्यस्थिपञ्जरम् ।
अविद्यमानमेवेदं विद्ध्यसम्भवतो नृप ॥ ५९ ॥
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् इत्यादिश्रुतेस्तथैव
विद्वदनुभवात्कारणानिरूपणाचेष्टापत्तिरेवेयमिति कुम्भ आह-कारणेनेति ॥ ५९ ॥
शिखिध्वज उवाच ।
हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर ।
नित्यमालक्ष्यमाणस्य पिता कस्मान्न कारणम् ॥ ६० ॥
ऐतिह्यानुमानाप्तोक्त्यनुगतसंस्थानसाम्यलिङ्गादिना पितास्य कारणं निर्ज्ञातः स
कथमपलप्यत इति राजा शङ्कते-हस्तेति ॥ ६० ॥
कुम्भ उवाच ।
कारनाभावतो राजन्पिता नाम न विद्यते ।
असतो यत्तु सञ्जातमसदेव तदुच्यते ॥ ६१ ॥
तस्याप्यसत्त्वे तुल्यो न्याय इति गूढाभिसन्धिस्तदेवोत्तरं पुनर्वर्णयति##-
पदार्थानां च कार्याणां कारणं बीजमुच्यते ।
सम्भवत्यङ्ग जगति न बीजेन विनाङ्कुरः ॥ ६२ ॥
तस्मान्न कारणं यस्य कार्यस्येहोपपद्यते ।
बीजाभावे हि तन्नास्ति तत्संवित्तिस्तु विभ्रमः ॥ ६३ ॥
अवश्यं खलु यन्नास्ति निर्बीजं तन्मतिभ्रमः ।
द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदशासमम् ॥ ६४ ॥
शिखिध्वज उवाच ।
पितामहानां पुत्राणां पितॄणां च जगत्त्रये ।
आद्यः पितामहः कस्मात्पूर्वोत्पत्तौ न कारणम् ॥ ६५ ॥
गूढाभिसन्धिमजानानो राजा शङ्कते-पितामहानामिति । आद्यः पितामहो
हिरण्यगर्भः । स सूक्ष्मभूतलिङ्गसमष्ट्यात्मा
पुत्रपितृपितामहादिसर्वव्यष्टिसमष्टिस्थूलानामुत्पत्तौ कारणं किं न
स्यादित्यर्थः । पूर्वेषां प्रजास्रष्तृणां मनुमरीचिदक्षादीनां पूर्वस्य
स्वकार्येभ्यः पूर्वस्य ब्रह्माण्डस्य वा उत्पत्तौ ॥ ६५ ॥
कुम्भ उवाच ।
आद्यः पितामहो यः स्यात्सोऽपि नास्त्येव भूपते ।
कारणाभावतो नित्यं यदा भावो न कस्यचित् ॥ ६६ ॥
तस्यापि कारणं दुर्वचमित्यसत्त्वे तुल्यो न्याय इति गूढाभिसन्धिरेवोत्तरमाह##-
नास्त्येवेत्यर्थः ॥ ६६ ॥
कारणस्य स्वबीजस्य नित्याभावात्पितामहः ।
अन्यः स दृश्यमानोपि भ्रमादन्यो न विद्यते ॥ ६७ ॥
ननु यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भं
पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति इत्यादिमन्त्रवर्णेषु
तदुत्पादको जायमानं तं कृपादृष्ट्या पश्यन्नीश्वरस्तत्कारणं प्रसिद्ध एव
स कथमपलप्यत इत्याशङ्कां परिहरन् गृहाभिसन्धिमुद्घाटयति##-
भेदकल्पनया भ्रमान्माययान्यो दृश्यमानोऽपि स पितामहस्तस्मादन्यो न विद्यते ।
तत्कुतस्तत्र सत्यस्य चिदंशस्यापरिणामितया अकारणत्वस्य वक्ष्यमाणत्वात्
परिशेषान्मायाम्श एव जडस्तत्कारणं वाच्यस्तस्य चाविद्यारूपस्य बीजस्य
कारणस्य नित्योदितविद्याबाधितत्वेनेश्वरे नित्यमेवाभावादित्यर्थः ॥ ६७ ॥
मृगतृष्णाम्बुवद्भ्रान्तिरूप एवावभासते ।
पितामहार्थकारित्वमपि तस्य भ्रमात्मकम् ॥ ६८ ॥
एतेन पितामहस्य भुवनादिसर्गार्थक्रियाकारिताप्रतिभासोऽपि व्याख्यात इत्याह##-
पितामहोदरे तस्य मिथ्याप्रत्ययतः स्थितिः ।
घना तव निवृत्तैव मार्जयिष्याम्यथेतरत् ॥ ६९ ॥
इत्थं मदुक्तयुक्त्या तव पितामहादेः स्वशरीरान्तस्यैतस्य
कार्यपरम्पराप्रबन्धस्य मिथ्येति यौक्तिकप्रत्ययतो घना
सत्यत्वेनायन्तदृढीकृता स्थितिर्निवृत्तैव । अथ
इतरत्प्रतिभासमात्रावशिष्टांशमपि तत्त्वसाक्षात्कारपर्यन्तेनोपदेशेन
मार्जयिष्यामीत्यर्थः ॥ ६९ ॥
तस्माच्चिदात्मकतयात्मनि चित्ततोऽयं नित्यं स्वयं कचति भूमिप देवदेवः ।
तेनैव पद्मज इति स्वयमात्मनात्मा प्रोक्तः स्वरूप इति शान्तमिदं समस्तम् ॥
७० ॥
उक्तमेवार्थं सङ्गृह्योपसंहरति-तस्मादिति । हे भूमिप
तस्माच्चिद्व्यतिरिक्तस्योक्तयुक्त्या असत्त्वाच्चिदेवायं देवदेवः प्रागुक्त ईश्वरो
हिरण्यगर्भादिस्तम्बपर्यन्तसर्गपरम्परात्मना नित्यं यत्कचति तदात्मा
चिदात्मकतया आत्मन्येव कचति नान्यदणुमात्रमपि सम्पादयति सम्पद्यते वा । तेन
स्वयमात्मना आत्मैव स्वरूपः पद्मज इत्यादिनामरूपकल्पनेन प्रोक्तः सर्वाणि
रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इत्यादिश्रुतिभिः इति एवं
पर्यालोचने इदं समस्तं द्वैतं शान्तं ब्रह्मैवेत्यर्थः ॥ ७० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
शिखिध्वजावबोधनं नाम चतुर्नवतितमः सर्गः ॥ ९४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधनं नाम चतुर्नवतितमः सर्गः ॥ ९४ ॥