त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
अथोत्थाय ददाहासौ शुष्कं तत्तृणमन्दिरम् ।
अज्ञेन स्वेन मनसा वृथा सङ्कल्पकल्पितम् ॥ १ ॥
दग्ध्वोपकरणं देहं त्यक्तुकामः शिखिध्वजः ।
विनिवार्यात्र कुम्भेन चित्तत्यागाय बोध्यते ॥
स्वेन मनसा वृथा ममतासङ्कल्पेन कल्पितं समर्थितं तत् कुटीरूपं
तृणमन्दिरम् ॥ १ ॥
शिष्टं यत्किञ्चिदभवत्तत्सर्वं स शिखिध्वजः ।
असंरब्धमना मौनी क्रमेण समया धिया ॥ २ ॥
पिठरशरावकुशकाष्ठसञ्चयादि यत्किञ्चिदभवत्तत्सर्वं
ददाहेत्यादिपरेणान्वयः ॥ २ ॥
ददाह च स चिक्षेप तत्याज च बभञ्ज वा ।
भाण्डजातं स्ववसनं भोजनाद्यपि तुष्टवत् ॥ ३ ॥
स्वस्य वसनं कल्कलम् । भुज्यते यस्मिंस्तद्भोजनं पत्रपुटकाद्यपि ॥ ३ ॥
स बभूवाश्रमस्तस्य दृष्टनष्टजनस्थितिः ।
वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः ॥ ४ ॥
पूर्व दृष्टा पधान्नष्टा अदर्शनं प्राप्ता जनस्थितिर्यत्र । पूर्वकाल इति समासः ॥
४ ॥
आश्रमात्ते मृगगणास्त्यक्तरोमन्थमुद्ययुः ।
साग्निदाहात्पुरवराद्भीतभीतजना इव ॥ ५ ॥
तदेवोपपादयति-आश्रमादिति ॥ ५ ॥
भाण्डजातं दहत्यग्नौ सहशुष्केन्धनेन तत् ।
केवलाकृतिरस्नेहस्तुष्टिमानाह भूपतिः ॥ ६ ॥
केवलाकृतिर्देहमात्रावशिष्टः ॥ ६ ॥
शिखिध्वज उवाच ।
वासनां तत्र सन्त्यज्य सर्वत्यागी स्थितो ह्यहम् ।
अहो नु चिरकालेन देवपुत्र प्रबोधितः ॥ ७ ॥
वासनां ममताम् । तत्र सर्वोपकरणे । प्रबोधितस्त्वयेति शेषः ॥ ७ ॥
सम्पन्नः केवलः शुद्धः सुखेनोद्बोधवानहम् ।
किं नाम किल वस्त्वेतद्भवेत्साङ्कल्पिकक्रमम् ॥ ८ ॥
साङ्कल्पिको ममतासङ्कल्पप्रयुक्तः सङ्ग्रहक्रमो यस्य
तथाविधमेतदुपकरणजातं किं नाम न किचित्सारभूतमुपादानार्हमित्यर्थः ॥ ८ ॥
यावद्यावत्प्रहीयन्ते विविधा बन्धहेतवः ।
तावत्तावत्समायाति परमां निर्बृतिं मनः ॥ ९ ॥
तत्त्यागसुखमभिनयन्नाह-यावद्यावदिति ॥ ९ ॥
शाम्यामि परिनिर्वामि सुखितोऽस्मि जयाम्यहम् ।
विबन्धाः प्रक्षयं याताः सर्वत्यागो मया कृतः ॥ १० ॥
दिगम्बरो दिक्सदनो दिक्समोऽयमहं स्थितः ।
देवपुत्र महात्यागात्किमन्यदवशिष्यते ॥ ११ ॥
विविधा बन्धा बन्धहेतवो विषयाः ॥ १० ॥ ११ ॥
कुम्भ उवाच ।
सर्वमेव न सन्त्यक्तं त्वया राजन् शिखिध्वज ।
सर्वत्यागपरानन्दे मा मुधाभिनयं कुरु ॥ १२ ॥
बाह्योपकरणत्यागमात्रेण भ्रान्त्या बालस्येव तस्य
सर्वत्यागसुखाभिनयमसहमानः कुम्भ उवाच-सर्वमेवेति । अभिनयं
व्यञ्जकचेष्टाविशेषम् ॥ १२ ॥
तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
यं परित्यज्य निःशेषं परामायास्यशोकताम् ॥ १३ ॥
तवेत्यादि प्राग्वत् ॥ १३ ॥
श्रीवसिष्ठ उवाच ।
इति श्रुतवता तेन किञ्चित्सञ्चिन्त्य भूभृता ।
इदमुक्तं महाबाहो राम राजीवलोचन ॥ १४ ॥
शिखिध्वज उवाच ।
इन्द्रियव्यालसङ्घातो रक्तमांसमयाकृतिः ।
शिष्यते सर्वसन्त्यागे देहो मे देवतात्मज ॥ १५ ॥
तदुत्थाय पुनर्देहं भृगुपातादविघ्नतः ।
विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्यहम् ॥ १६ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा देहमग्रस्थे श्वभ्रे त्यक्तुमसौ जवात् ।
करोति यावदुत्थानं तावत्कुम्भोऽप्युवाच ह ॥ १७ ॥
श्वभ्रे भृगौ ॥ १७ ॥
कुम्भ उवाच ।
राजन्किमिति देहं त्वं निरागस्कं महावटे ।
त्यजस्यज्ञो हि वृषभः कुपितो हन्ति तर्णकम् ॥ १८ ॥
निरागस्कं निरपराधम् । महावटे भृगौ । तर्णकं स्ववत्सम ॥ १८ ॥
जडो वराको मूकात्मा तपस्वी देहको ह्ययम् ।
न कश्चन तवैतस्मिन्मा [एकस्मिन् इति पाठः ।] मुधैव तनुं त्यज ॥ १९ ॥
निरागस्कतामेव दर्शयति-जड इति । तव अपराध इति शेषः ॥ १९ ॥
आत्मन्येवैष मूकात्मा ध्यानवानवतिष्ठते ।
सञ्चाल्यते परेणैव तरङ्गेणैव काष्ठकम् ॥ २० ॥
क्षोभयत्यन्य एवैनं निग्रहार्हो मुहुर्बलात् ।
तपस्विनं यथैकान्तं संस्थितं मत्ततस्करः ॥ २१ ॥
यस्यापराधस्तमन्यं दर्शयति क्षोभयतीति । स एव निग्रहार्हो दण्ड्यः ॥ २१ ॥
सुखदुःखादिभूत्या हि नापराधि शरीरकम् ।
नात्मनः फलवानात्मस्पन्दे वृक्षोऽपराधवान् ॥ २२ ॥
ननु सुखदुःखोद्भवस्थानत्वात्कुतः शरीरं नापराधि तदाह-सुखेति । भूत्या
उत्पत्तिस्थानतामात्रेण । तत्र दृष्टान्तमाह-नेति । यथा फलवांस्तरुर्वायुकृते
आत्मस्पन्दे फलादिपाते सति न तदभिमान्यात्मा अपराधवान् भवति ॥ २२ ॥
वातः फलशिरःपुष्पपातनं कुरुते स्फुरन् ।
तरुणा साधुना धीरापराद्धं किमात्मनः ॥ २३ ॥
यतः स्फुरन्वात एव फलानां शिरःपल्लवानां पुष्पाणां च बलात्पातनं कुरुते
इति स एवापराधी । तरुणा साधुना किमपराद्धं तद्वद्देहेनापि साधुनात्मनः
किमपराद्धमित्यर्थः ॥ २३ ॥
त्यक्तेनापि शरीरेण किल तामरसेक्षण ।
सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः ॥ २४ ॥
हि यस्मात्स सर्वत्यागः पुनरधिकारिदेहदौर्लभ्येन ज्ञानदौर्लभ्याद्विषमो
दुःसाध्य एव सम्पद्यत इत्यर्थः ॥ २४ ॥
भृगौ केवलमेतत्त्वं निरागस्कं शरीरकम् ।
मुधा क्षिपसि नो देहत्यागे तत्त्यागिता भवेत् ॥ २५ ॥
तस्य देहक्षोभकस्याहङ्कारस्य त्यागिता नो भवेन्न सिद्ध्येदित्यर्थः ॥ २५ ॥
येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः ।
तत्सन्त्यजसि चेत्पापं तन्महात्यागवान्भवान् ॥ २६ ॥
तस्मिंस्त्यक्ते भवेत्यक्तं सर्वं देहादि भूपते ।
नो चेन्निमग्नमप्येतद्भूयोभूयः प्ररोहति ॥ २७ ॥
एतद्देहादि निमग्नं जलमज्जनादिना नाशितमपि तस्माद्देहचालकादेव
जन्मकर्मबीजभूतात् प्ररोहति ॥ २७ ॥
शिखिध्वज उवाच ।
केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् ।
कस्मिंस्त्यक्ते [भवेत्त्यक्तं सर्वं देहादि सुन्दर इति पाठः ।]
परित्यक्तं सर्वं भवति सुन्दर ॥ २८ ॥
कुम्भ उवाच ।
साधो न देहत्यागेन न राज्यत्यजनेन च ।
न चोटजादिशोषेण सर्वत्यागो भवेन्नृप ॥ २९ ॥
यत्सर्वं सर्वतो यच्च तस्मिन्सर्वैककारणे ।
सर्वस्मिन्सम्परित्यक्ते सर्वत्यागः कृतो भवेत् ॥ ३० ॥
सर्ववासनास्पदत्वात्सर्वम् । सर्वविषयेषु प्रसृतत्वात्सर्वतः । सङ्कल्पेन
सर्वजनकत्वात्सर्वैककारणे ॥ ३० ॥
शिखिध्वज उवाच ।
सर्वं सर्वगतं सर्वहेयं त्याज्यं च सर्वदा ।
सर्वं किमुच्यते ब्रूहि सर्वतत्त्वविदां वर ॥ ३१ ॥
सर्वत्र हेयं सर्वदा च त्याज्यं त्यक्तुं योग्यं यत्सर्वं त्वयोच्यते तत्किमित्यर्थः ॥
३१ ॥
कुम्भ उवाच ।
साधो सर्वगताकारं जीवप्राणादिनामकम् ।
न जडं नाजडं भ्रान्तं चित्तं सर्वमिति स्मृतम् ॥ ३२ ॥
चित्प्राधान्येन जीवनामकं क्रियाप्राधान्येन प्राणादिनामकं चित्तं लिङ्गम् ॥ ३२ ॥
चित्तमेव भ्रमं विद्धि विद्धि चेतो नरं नृप ।
चित्तं विद्धि जगज्जालं चित्तं सर्वमिति स्मृतम् ॥ ३३ ॥
नरं व्यवहर्तृपुरुषम् ॥ ३३ ॥
राज्यादेरथ देहादेराश्रमादेर्महीपते ।
सर्वस्यैव मनो बीजं तरुबीजं तरोरिव ॥ ३४ ॥
सर्वस्य बीजे सन्त्यक्ते सर्वं त्यक्तं भवत्यलम् ।
सम्भवासम्भवाद्भूप सर्वत्यागो भवेदिति ॥ ३५ ॥
तत्त्यागे सर्वत्यागसम्भवात्तदत्यागे सर्वत्यागासम्भवात् ॥ ३५ ॥
सर्वधर्माद्यधर्म वा राज्यादि विपिनादि वा ।
सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम् ॥ ३६ ॥
सर्वे धर्मादयः अधर्मा वा राज्यादितत्फलभोगस्थानानि वा सचित्तस्य परं
दुःखमेव ॥ ३६ ॥
इदं विवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन बीजं वृक्षतया यथा ॥ ३७ ॥
विवर्तते परिणमते ॥ ३७ ॥
पादपः पवनेनेव भूकम्पेनेव पर्वतः ।
भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते ॥ ३८ ॥
भस्त्राध्मानदृतिः । भस्त्राभरेण कर्मारेण ॥ ३८ ॥
सर्वभूतोपभोगानां जरामरणजन्मनाम् ।
महामुनीनां सुदृढं चित्तं विद्धि समुद्गकम् ॥ ३९ ॥
सर्वभूतप्रसिद्धानामुपभोगानां जरामरणादीनां देहधर्माणाम् ।
महामुनिपदेन तद्धर्माः शमदमादयो लक्ष्यन्ते । तेषां च तत्र तत्र
निरूढवासनं चित्तमेवाश्रय इत्यर्थः ॥ ३९ ॥
इदं प्रवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन चित्तं जीवो मनोमयम् ॥ ४० ॥
अशान्तं चित्तमेव मननान्मनोमयमन्तः प्राणचेष्टया जीवश्च भूत्वा बहिः
स्थूलदेहतद्व्यवहाराद्याकारजालेन भवतीत्यर्थः ॥ ४० ॥
बुद्धिर्महदहङ्कारः प्राणश्चेत्यादिभिर्मुने ।
क्रियानुरूपैरभिधाव्यापारैः शान्तमुच्यते ॥ ४१ ॥
तदेवान्तः शान्तं महदहङ्कारः प्राणः प्राज्ञात्मा चेत्यादिभिः
क्रियानुरूपैरभिधाव्यापारैरुच्यत इत्यर्थः ॥ ४१ ॥
चित्तं सर्वमिति प्राहुस्तस्मिंस्त्यक्ते महीपते ।
सर्वाधिव्याधिसीमान्तः सर्वत्यागः कृतो भवेत् ॥ ४२ ॥
चित्तत्यागं विदुः सर्वत्यागं त्यागविदां वर ।
तस्मिन्सिद्धे महाबाहो सत्यं किं नानुभूयते ॥ ४३ ॥
सत्यं परमार्थभूतभूमानन्दरूपं किं नानुभूयते । अनुभूयत एवेत्यर्थः ॥
४३ ॥
चित्ते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः ।
शिष्यते परमं शान्तमच्छमेकमनामयम् ॥ ४४ ॥
द्वैतं कार्यविभागाविर्भावपरम्परा । ऐक्यं कारणे तिरोभावक्रमश्च लयं
बाधं याति ॥ ४४ ॥
अस्याश्चित्तं विदुः क्षेत्रं संसृतेः सस्यसन्ततेः ।
क्षेत्रे त्वक्षेत्रतां याते शालेः क इव सम्भवः ॥ ४५ ॥
चित्तमेव विचित्रेहं भावाभावविलासिना ।
विवर्ततेऽर्थभावेन जलमूर्मितया यथा ॥ ४६ ॥
अर्थभावेन पदार्थाकारेण ॥ ४६ ॥
चित्तोत्सादनरूपेण सर्वत्यागेन भूपते ।
सर्वमासाद्यते सम्यक् साम्राज्येनेव सर्वदा ॥ ४७ ॥
सर्वत्यागस्य विषयो यथैवान्योऽस्ति ते तथा ।
त्वमप्यन्यस्य भवसि त्यागिन्गृह्णासि वै नृप ॥ ४८ ॥
स चायं सर्वत्यागो न परिच्छिन्नात्मग्रहणे सिद्ध्यतीत्याशयेनाह-सर्वेति । हे
त्यागिन् नृप परिच्छिन्नस्य तव यथा अन्यः सर्वत्यागस्य विषयोऽस्ति तथा
त्वमप्यन्यस्य त्वत्त्यागिनस्त्यागविषयो भवसि । तथा च त्याज्यमेवात्मतया गृह्णासीति
न ते सर्वत्यागः सिध्यतीत्यर्थः ॥ ४८ ॥
सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालकम् ।
सर्वमन्तः कृतं तेन येन सर्वं समुज्झितम् ॥ ४९ ॥
अपरिच्छिन्नात्मग्रहणे तु त्वमेव सर्वस्यात्मेति तवान्येन
त्यागायोगात्त्याज्यकोट्यनिविष्टेन त्वया सर्वत्यागे सर्वं स्वायत्तीकृत्य
लब्धमित्याह-सूत्रमिति ॥ ४९ ॥
येन सर्वं परित्यक्तं तस्मिञ्छ्रून्येऽपि संस्थितम् ।
जगत्सर्वं त्रिकालस्थं तन्तौ मुक्तावली यथा ॥ ५० ॥
ननु सर्वं त्यजता सर्वशून्यतैवावलम्बिता तत्कथं सर्वं स्वायत्तं लब्धं
स्यात्तत्राह-येनेति । यद्यपि सर्व त्यक्त्वा स सर्वशून्यतामापन्नस्तथापि तेन
त्यक्तं जगदाश्रयान्तरालाभात्तमेवाश्रित्य यावद्व्यवहारं सत्तास्फूर्ती लभत इति
स एव व्यवहर्तृदृशा त्रिकालस्थसर्वलब्धेत्युच्यत इति भावः ॥ ५० ॥
अस्नेहेनेव दीपेन येन सर्वं समुज्झितम् ।
सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम् ॥ ५१ ॥
अत एव सर्वत्यागे सर्वबाधादव्यवहार्यदृशा
आत्यन्तिकस्नेहक्षयान्निर्वाणदीपदृष्टान्तं सर्वगतस्वरूपज्योतिषैव
सर्वव्यवहारप्रकाशनाद्व्यवहारदृशा सस्नेहदीपदृष्टान्तं चाह##-
स्थितं सर्वं परित्यज्य यः शेतेऽस्नेहदीपवत् ।
स राजते प्रकाशात्मा समः सस्नेहदीपवत् ॥ ५२ ॥
तदेव स्फुटयति-स्थितमिति ॥ ५२ ॥
समस्तवस्तुनिष्कासे यथा त्वमवशिष्यसे ।
सर्वत्यागे कृते तादृग्विज्ञानमवशिष्यते ॥ ५३ ॥
सर्वत्यागे शून्यतापत्तिं वारयति-समस्तेति । समस्तानां वस्तूनां
राज्यारण्योपकरणानां निष्कासे त्यागे ॥ ५३ ॥
समस्तवस्तुदाहेऽपि यथा त्वं नेतरो नृप ।
सर्वत्यागत एवाङ्ग तथा निर्वाणमुच्यते ॥ ५४ ॥
परिशिष्टचितः स्वातिरिक्तत्वात्स्वस्य ततः कः पुरुषार्थस्तत्राह-समस्तेति । यथा
निर्वाणं परमपुरुषार्थोपि त्वत्तो नेतरदित्यर्थः ॥ ५४ ॥
सर्वत्यागो हि शून्यात्मा आश्रयः सर्वसंविदाम् ।
अनन्तानामुदाराणां खमिवेदं दिवौकसाम् ॥ ५५ ॥
तस्य त्यक्तसर्वप्रपञ्चशून्यत्वेपि सर्वसंविदां तदन्तर्भावोऽस्त्येवेति न
जाड्यसिक्तिरित्याह-सर्वत्यागो हीति । दिवौकसां सूर्यचन्द्रनक्षत्रादीनाम् ॥ ५५ ॥
सर्वत्यागरसापाने जरामरणभीतयः ।
न काश्चन प्रबाधन्ते खस्येव व्योमलेखिकाः ॥ ५६ ॥
सर्वत्यागरसस्य आपाने ईषदप्यास्वादने कृते यथा असङ्गोदासीनस्य खस्य
व्योमलेखिकाश्छिद्रकारिकाष्टङ्किकाः काश्चिदपि न प्रबाधन्ते तद्वत् ॥ ५६ ॥
सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः ।
सर्वं त्यजसि चेद्यस्माद्बुद्धिस्थैर्यं बृहत्तमम् ॥ ५७ ॥
निर्मला द्युतिः स्वरूपस्फूर्तिर्यस्मात्तथाविधस्य महत्त्वस्य । तत्कुतस्तत्राह##-
सर्वत्यागः परानन्दो दुःखमन्यत्सुदारुणम् ।
इत्योमित्युररीकृत्य यदिच्छसि तदाचर ॥ ५८ ॥
इति विमृश्येति शेषः । ॐमित्यस्य विवरणं-उररीकृत्येति ॥ ५८ ॥
सर्वं त्यजति यस्तस्य सर्वमेवोपतिष्ठते ।
यथैवाम्बु विशत्यग्नौ तथैवायाति वारिधौ ॥ ५९ ॥
सर्वत्यागे वैभवहानिं वारयति-सर्वमिति । सर्वं विभवजातं
प्रारब्धोपनीतमुपतिष्ठते । वारिधौ अम्बु यथा यथा वडवाग्नौ विशति तथा तथा
नदीभ्य आयात्येव तद्वदित्यर्थः ॥ ५९ ॥
सर्वत्यागान्तरेवास्ति ज्ञानमात्मप्रसादकम् ।
यच्छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति ॥ ६० ॥
सर्वस्याज्ञानतत्कार्यस्य यस्त्यागस्तदन्तरेवात्मप्रसादकं ज्ञानमवश्यमस्ति ।
भाण्डस्य मध्ये यद्रत्नादिशून्यं स्थलं तत्रैव रत्नादि तिष्ठतीति किल
प्रसिद्धमित्यर्थः ॥ ६० ॥
सर्वस्यागवशादेव हतकाले कलावपि ।
शाक्येन विगताशङ्कं मुनिना मेरुवत्स्थितम् ॥ ६१ ॥
कलौ पापिष्ठतमेऽपि काले वेदबाह्यत्वादतिनीचेनापि शाक्येन
सर्वत्यागवशान्मेरुवत्स्थितं यदा तदा पुण्ये द्वापरकाले वेदमार्गावलम्बिना
पुण्यतमेन त्वया विगताशङ्कं व्योमवत्स्थेयमिति किं वाच्यमिति द्योतनाय हतेति ॥
६१ ॥
सर्वत्यागो महाराज सर्वसम्पत्समाश्रयः ।
न गृह्णाति हि यत्किञ्चित्सर्वं तस्मै प्रदीपते ॥ ६२ ॥
सर्वासां सम्पदा समाश्रयो निवासस्थानम् ॥ ६२ ॥
कृत्वा सर्वपरित्यागं शान्तः स्वस्थो वियत्समः ।
सौम्यो भवसि यद्रूपस्तद्रूपो भव भूपते ॥ ६३ ॥
सर्वं परित्यज्य महास्वभाव त्यजस्यथो येन च तद्विहाय ।
त्यागाभिमानं च मलं विमुच्य विमुक्तरूपो भव भूमिपाल ॥ ६४ ॥
हे महास्वभा भूमिपाल त्वं प्रथमं त्याज्यं सर्व मन्सा परित्यज्य अथो अनन्तरं
येन त्यजसि तन्मनश्च विहाय तदनन्तरं त्यागाभिमानलक्षणमहङ्कारमलं च
विमुच्य जीवन्मुक्तरूपो भवेत्यर्थः ॥ ६४ ॥
इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू०
शिखिध्वजावबोधनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥