०९२

द्विनवतितमः सर्गः ९२

चूडालोवाच ।

यदुक्तं नयशालिन्या तया विदितवेद्यया ।
तदा चूडालया ज्ञानं तत्कस्मान्नोररीकृतम् ॥ १ ॥

इह कुम्भवचः श्रुत्वा सर्वत्यागपरो नृपः ।
त्यक्त्वा वनादिवह्नौ स्वं सर्वं भाण्डमदीदहत् ॥

यदा त्वं वनं प्रस्थितस्तदैवाज्ञानं पतितं सन्न निहतमिति त्वयोक्तं तत्र इदानीं
मम मनस्त्यागोपायः केनोपदिष्टो यो मयोपेक्षित इति राजशङ्कां वितर्कयन्ती
चूडालोवाच-यदुक्तमिति ॥ १ ॥

सा हि तत्त्वविदां मुख्या यद्यद्वक्ति करोति च ।
तत्सर्वं सत्यमेवाङ्ग तदनुष्ठेयमादरात् ॥ २ ॥

तस्या अतत्त्ववित्त्वानृतवादिनीत्वादिशङ्कां वारयति-सा हीति । अनुष्ठेयमभूदिति
शेषः ॥ २ ॥

अथ चेद्वचनं तस्यास्त्वया नानुष्ठितं नृप ।
तत्सर्वसम्परित्यागः कस्मान्न निपुणीकृतः ॥ ३ ॥

यदि आत्मबुद्ध्या चिरं जीवेद्गुरुबुद्ध्या विशेषतः । परबुद्धिर्विनाशाय स्त्रीबुद्धिः
प्रलयङ्करी इति वचनात्स्त्रीबुद्धिमुपेक्ष्यात्मबुद्धिनिश्चितं सर्वत्यागमेव
बह्वमंस्थास्तर्हि स एव त्वया कुतो न स्थिरीकृत इत्याह-अथ चेदिति ॥ ३ ॥

शिखिध्वज उवाच ।

राज्यं त्यक्तं गृहं त्यक्तं देशस्त्यक्तस्तथाविधः ।
दारास्त्यक्तास्तथाप्यङ्ग सर्वत्यागो न किं कृतः ॥ ४ ॥

राज्यादिपरित्यागमात्रेण सिद्धः सर्वपरित्यागः साधो संसाध्यतस्तव ।
खर्वीकृतजगद्भूतिर्विद्या स्वात्मोदयस्तथा इति त्वयैवोक्तम् । न च मया त्यक्तं
राज्यादि पुनः स्वीकृतम् । तत्कथं मया सर्वत्यागो न निपुणीकृत इति शिखिध्वजः
पृच्छति-राज्यमिति ॥ ४ ॥

चूडालोवाच ।

धनं दारा गृहं राज्यं भूमिश्छत्रं च बान्धवाः ।
इति सर्वं न ते राजन्सर्वत्यागो हि कस्तव ॥ ५ ॥

केवलं सर्वसन्त्यागे शेषिताहम्मतिस्त्वया इति मया प्रागुक्तमेवास्योत्तरम् ।
विवेकाभावात्त्वसौ न प्रतिपन्नस्तदयं वनाश्रमकुटीकमण्डल्वादिपरिग्रहशेषेपि
निःशेषं त्याजिते कथञ्चिद्विवेकं प्राप्याहङ्कारग्रन्थिं परित्यज्य पूर्णो
भविष्यतीति मन्यमाना शनैस्तद्बुद्धिं विचारभवतारयन्ती गूढाभिसन्धिनैव
चूडालोवाच-धनमिति । यत्स्वसम्बन्धि सर्व च तत्त्यागे सर्वत्यागः सिद्ध्येत् । न च
राज्यादयस्ते स्वसम्बन्धिनः सर्व वा । अहङ्कारो हि राज्यादिकं ममेति
कल्पयंस्तत्स्वामितां मन्यते न त्वात्मेति प्राप्त्यभावान्न सर्वत्यागस्तव सिद्ध इति
भावः ॥ ५ ॥

तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषमायास्यसि विशोकताम् ॥ ६ ॥

यद्यहङ्कारे तादात्म्यारोपादात्मा राज्यादिस्वामितां प्रतिपन्न इत्युच्येत तर्हि
तत्त्यागादेव राज्यादित्यागः सिद्ध्येन्नान्यथा । स च त्वया न त्यक्त इत्याशयेनाह##-

शिखिध्वज उवाच ।

राज्यं चेन्मम नो सर्वं तत्सर्वं वनमेव मे ।
शैलवृक्षादिगुल्माढ्यं तदप्येतत्त्यजाम्यहम् ॥ ७ ॥

उक्ताशयमप्रतिपद्यमानः पूर्वं परित्यक्तत्वादेव राज्यादौ तवेदानीं
राज्यादिसम्बन्धो नास्तीति न त्यागार्हता । शैलवृक्षादीनां त्विदानीं परिग्रहान्न
तत्त्यागमन्तरेण तव सर्वत्यागसिद्धिरित्यस्याशय इति मन्यमानः शिखिध्वज
उवाच-राज्यमिति । एवमग्रेऽपि राज्ञस्तात्पर्यभेदभ्रम ऊह्यः ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

इति राम वदन्नेव कुम्भवाक्यप्रणोदितः ।
निमेषान्तरमात्रेण वशी वीरः शिखिध्वजः ॥ ८ ॥

प्रममार्ज वनास्थां तां कृतः सुदृढनिश्चयः ।
प्रावृडोघस्तटगतां रजोलेखामिवात्मना ॥ ९ ॥

प्रावृर्डोर्वो वर्षाप्रवाहः । रजोलेखां पांसुराजिमिव ॥ ९ ॥

शिखिध्वज उवाच ।

सवृक्षाद्रिवनश्वभ्राद्विपिनादपि वासना ।
परित्यक्ता मया नूनं परित्यागः स्थितो मम ॥ १० ॥

वासनाममता परित्यक्ता तेन मम त्यागः स्थितः सम्पन्नः ॥ १० ॥

कुम्भ उवाच ।

अद्रेस्तटं वनं श्वभ्रं सलिलं पादपस्थलम् ।
इत्यादि तव नो सर्वं सर्वत्यागः कथं तव ॥ ११ ॥

कुम्भाशयः पूर्ववत् ॥ ११ ॥

तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषं परामायास्यशोकताम् ॥ १२ ॥

शिखिध्वज उवाच ।

एतच्चेन्मम नो सर्वं तत्सर्वं स्वाश्रमो मम ।
वापीस्थलोटजयुतस्तमेवाशु त्यजाम्यहम् ॥ १३ ॥

त्यागाद्वनादि तव नो सर्वमित्यस्तु नाम तथापि तवाश्रमसद्भावात्कथं
सर्वत्यागः सिद्ध इति मामाहेति मन्यमानः शिखिध्वज उवाच-एतच्चेदिति ।
अप्यर्थक एवकारः ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

इति राम वदन्नेव कुम्भवाक्यप्रबोधितः ।
निमेषध्यानमात्रेण वशी वीरः शिखिध्वजः ॥ १४ ॥

प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि ।
स्फुरन्तीं स्फुरणेनैव रजोलेखामिवानिलः ॥ १५ ॥

आश्रमे आस्थां ममतां प्रममार्ज ॥ १५ ॥

शिखिध्वज उवाच ।

स वृक्षोटजवीरुत्काद्वासना स्वाश्रमादपि ।
परित्यक्ता मया नूनं सर्वत्यागः स्थितो मम ॥ १६ ॥

कुम्भ उवाच ।

वृक्षो वापी स्थलं गुल्ममुटजं व्रततीवृतिः ।
इति किञ्चिन्न ते सर्वं सर्वत्यागः कुतस्तव ॥ १७ ॥

कुम्भाशयो राजाशयश्च प्राग्वत् ॥ १७ ॥

तवास्त्यन्योऽपरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषं परामायास्यशिकताम् ॥ १८ ॥

शिखिध्वज उवाच ।

एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे ।
चर्मकुड्यकुटीरादि तत्तावत्सन्त्यजाम्यहम् ॥ १९ ॥

कुड्यानि भित्तयः । अल्पा कुटी कुटीरः ॥ १९ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा स समुत्तस्थावविक्षुब्धमतिः शमी ।
विष्टरादवदातात्मा शृङ्गादिव शरद्घनः ॥ २० ॥

विष्टरादासनात् । वृक्षासनयोर्विष्टरः इति षत्वम् । अवदातात्मा शुद्धचित्तः ॥ २० ॥

कुम्भस्त्वालोकयन्नेव तत्क्रियाः सस्मितः स्वयम् ।
आसने लोककार्येषु स्वस्पन्दन इवांशुमान् ॥ २१ ॥

अंशुमान् सूर्यः स्वस्य स्पन्दने रथे इवासने आलोकयन्नेव स्थित इति शेषः ॥ २१ ॥

यत्करोति करोत्वेतदस्यैतत्पावनं परम् ।
इति तूष्णीं स्थितः कुम्भः शिखिध्वजमवैक्षत ॥ २२ ॥

शिखिध्वजस्तु तत्सर्वं भाण्डोपस्करमाश्रमात् ।
एकत्रैवानयामास भुवो वार्यब्धिभूरिव ॥ २३ ॥

अब्धिभूः समुद्गोदरनिम्नभूमिरुन्नतभुवो वृष्टिनद्यादिवारि यथा एकत्रानयति
तद्वत् ॥ २३ ॥

तत्संस्थाप्येन्धनैः शुष्कैर्ज्वालयामास पावकम् ।
करैः सञ्चारवानर्कः सूर्यकान्तपदं यथा ॥ २४ ॥

करैः किरणैः सञ्चारवान् सङ्क्रान्तोऽर्को यथा सूर्यकान्तशिलास्थानपावकं
ज्वालयति तद्वत् । अणौ ज्वलेरकर्मकत्वाण्णौ कर्तुः पावकस्य कर्मता ।
भाण्डोपस्करस्यापि तत्फलभस्मीभावाश्रयत्वात्कर्मता विवक्षिता ।
ज्वलेर्मित्त्वविकल्पादुपधाह्रस्वाभावः ॥ २४ ॥

भाण्डोपस्करजालं तदग्नौ त्यक्त्वा विवेश सः ।
ध्वंसिकायं जगद्धुत्वा मेरुशृङ्गे यथा रविः ॥ २५ ॥

विवेश बृस्यामिति शेषः । ध्वंसिका मन्वन्तरसन्धिप्रलयस्तत्र यथा रविः
स्वप्रदीपितेऽग्नौ जगद्धुत्वा मेरुशृङ्गे उपविशति तद्वत् ॥ २५ ॥

एतावन्तं मया कालं वृत्ता यत्त्वं पतिप्रिये ।
अजातबुद्धिभेदेन तेनैव कृतमस्तु ते ॥ २६ ॥

इदानीमक्षमालां त्यक्तुकामः कृतोपकारविवरणदोषं परिहरंस्तामाह##-
स्वार्थसाधनबुद्धेर्भेद उच्छेदो यस्य तथाविधेन मया त्वं यत् एतावन्तं कालं
वृत्ता परिवर्तनश्रमं प्रापिता तेनैव ते तव मत्सेवनं कृतं पर्याप्तमस्तु ॥ २६

भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि माम् ।
मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु ॥ २७ ॥

अधुना तु तपोजपादिकर्तव्यताभ्रान्तौ विनिव्र्तिन्यामपगतायां सत्यां मां
नोपकरोषि अतो न त्वां श्रमेण योजयामीति विश्राम्येत्यर्थः । अहमपि त्वया सह
जपभ्रमेण नानामन्त्राटवीषु भ्रान्तः सम्प्रति विश्रमिष्यामीत्याह##-
॥ २७ ॥

दृष्टानि धर्मस्थानानि विश्राम्याम्यधुना सखि ।
इत्यक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः ॥ २८ ॥

धर्मस्थानानि तपोवनसिद्धिक्षेत्रादीनि ॥ २८ ॥

कल्पान्ताग्नाविव व्योम तारालीं पवनोऽमलाम् ।
मया नरमृगेण त्वं चिरं वनमृगाच्च्युतम् ॥ २९ ॥

यथा पवनः कल्पान्ताग्नौ व्योम्नस्तारालीं नक्षत्रमालां क्षिपति तद्वत् ।
अनेनाक्षमाला स्फाटिकीति गम्यते । मृगाजिनं प्रत्याह-मयेति ॥ २९ ॥

अबोधेन धृतं बृस्यामिदमेव मृगाजिनम् ।
इदानीं गच्छ तुच्छाय पन्थानः सन्तु ते शिवाः ॥ ३० ॥

वृस्यां कुशासने । इदमेव तवोपकृतमस्त्विति शेषः । तुच्छाय
मूलकारणमायास्वभावाय । पन्थानः अवान्तरकारणप्रविलयलक्षणा मार्गाः ॥
३० ॥

वह्निना व्योमतां गच्छ सतारं व्योम ते समम् ।
तद्बृस्यङ्गात्कराभ्यां स धृत्वा चर्माजहाविति ॥ ३१ ॥

सतारं व्योम ते सममित्युक्त्या पृषतस्य तच्चर्म शुक्लबिन्दुचित्रमिति गम्यते । तस्य
हि सतारव्योमताप्राप्तिरनुरूपैवेति ॥ ३१ ॥

नृपोऽग्नावम्बुधेर्वातो दववह्नाविवाचलात् ।
महावृत्तेन भवता त्वया वारि धृतं मम ॥ ३२ ॥

नृप इत्युक्त्वा बृस्यङ्गाच्चर्माकृष्य कराभ्यामग्नौ जहाविति पूर्वत्रान्वयः ।
यथा प्रलयवातः अचलानम्बुधेराकृष्य दववह्नौ त्यजति तद्वत् । इदानीं
कमण्डलुं त्यक्तुकामः कृतज्ञताख्यापनाय प्रशंसति##-
शतृप्रत्ययान्तोऽयं भवच्छब्दः ॥ ३२ ॥

साधो कमण्डलो सम्यङ् न ते प्रतिकृतं कृतम् ।
सौहृदस्य मनोज्ञस्य सौजन्यस्यस्थिरस्य च ॥ ३३ ॥

प्रतिकृतं प्रत्युपकरणं न कृतम् । सौहृदादिपदान्यपि यथासम्भवं
श्लेषेण योज्यानि ॥ ३३ ॥

साधुत्वस्य च सर्वस्य त्वमेव परमास्पदम् ।
येनैव वह्निना देहं संशोध्याभ्यागतोऽसि माम् ॥ ३४ ॥

येनैवेति । अनेन स कमण्डलुः पूर्वं कस्माच्चिच्छ्रोत्रियाच्छुद्ध्यर्थं वह्निदाहेन
संशोध्य स्वयं गृहीतः स्थितः स पुनर्दाहेन संशोध्यान्यस्मै श्रोत्रियाय दत्त
इति गम्यते ॥ ३४ ॥

तेनैव गच्छ हे मित्र पन्थानः सन्तु ते शिवाः ।
इत्युक्त्वा श्रोत्रियायैव कमण्डलुमदात्तदा ॥ ३५ ॥

अग्नये महते वापि दातव्यं साधु यद्भवेत् ।
मूर्खस्येव मतिर्गुप्ते नित्यमेव पतस्यधः ॥ ३६ ॥

यदुपकरणं साधु प्रतिपत्त्यर्हं भवेत्तदग्नये महते वापि दातव्यं दानेन
प्रतिपाद्यमिति नियमादित्यर्थः । बृसीं धक्ष्यंस्तस्यां तदुचितं दोषमाह##-
त्वमपि सदा स्वप्रच्छन्ने अधोदेशे पतसि ॥ ३६ ॥

उचिता ते गतिः सैव बृसिके भस्मतां व्रज ।
इत्युक्त्वादाय बृसिकामग्नावेव स मृद्विकाम् ॥ ३७ ॥

अतो हे बृसिके मूर्खमतेरिव ते सैव दाहसन्तापगतिरुचिता अतो भस्मतां
व्रजेत्यर्थः । इत्युक्त्वा मृद्विकां मृदुतमां बृसीं भासुरे अग्नावेव तत्याजेति
परेणान्वयः ॥ ३७ ॥

शुद्ध्यर्थमासनार्थं वै चिति तत्याज भासुरे ।
यत्त्याज्यमचिरेणैव त्यक्तत्वं किल तत्सदा ॥ ३८ ॥

किमर्थं सर्वं तत्याज तदाह-शुद्ध्यर्थमिति । चित्तशुद्ध्यर्थं चिति
ब्रह्मचैतन्ये । आसनार्थम् । विश्रान्त्यर्थं चेत्यर्थः । कुम्भं प्रत्याह##-
विलम्बितव्यमित्यर्थः ॥ ३८ ॥

विस्तरः क्रियते सद्भिरुपादेये इति स्थितिः ।
शीघ्रमग्नाविदं सर्वं भाण्डजातं त्यजाम्यहम् ॥ ३९ ॥

तत्कुतस्तत्राह-विस्तर इति । यतः सद्भिर्विद्यमानैस्तैर्भाण्डैरुपादेय
सङ्ग्रहयोग्ये उपकरणान्तरेपि विस्तरः क्रियते इति लोके वस्तुस्थितिः प्रसिद्धा ।
अतोऽहमिदं सर्वं भाण्डजातं शीघ्रमेवाग्नौ त्यजामि ॥ ३९ ॥

एकवारं दहत्यग्निर्दाह्यं भवति तुष्टये ।
साधो क्रियोपकरणं निष्क्रियाय त्यजाम्यहम् ।
न खेदस्तत्र कर्तव्यो नन्वयोग्यं बिभर्ति कः ॥ ४० ॥

यतः सर्वदाह्यं भाण्डमेकवारं युगपदेव दहति चेन्मम तुष्टये
सर्वत्यागसन्तोषाय भवतीत्यर्थः । ननु हे कुम्भ तत्र मत्कृतसर्वत्यागविषये
त्वया खेदो न कर्तव्यः । यतो लोकेपि अयोग्यं को बिभर्ति धारयति । तथा चाक्रियस्य
मम क्रियोपकरणमयोग्यमेवेति न धारणयोग्यमिति भावः ॥ ४० ॥

इत्युक्तवान्झटिति भोजनभाजनाद्यं सर्वं जुहाव वनवासविलासयोग्यम् ।
तद्भाण्डजालमनले सममेव राजा कल्पान्ततेजसि जगज्ज्वलतीव कालः ॥ ४१ ॥

राजा शिखिध्वज इति उक्तवान्सन्सर्वं भोजनभाजनमाद्यं प्रधानं यस्य
तथाविधं तत्सर्वं वनवासविलासयोग्यं भाण्डजालं समं युगपदेव अनले
झटिति जुहाव । यथा कालो ज्वलति कल्पान्ततेजसि जगद्युगपदेव जुहोति तद्वदित्यर्थः ॥ ४१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० सर्वत्यागकरणं नाम द्विनवतितमः सर्गः ॥ ९२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
सर्वत्यागकरणं नाम द्विनवतितमः सर्गः ॥ ९२ ॥