०९१

एकनवतितमः सर्गः ९१

चूडालोवाच ।

इदानीं राजशार्दूल वस्तुसम्प्रतिपत्तये ।
शृणु विन्ध्येभवृत्तान्तविवृतिं स्मयकारिणीम् ॥ १ ॥

इह विन्ध्येभवृत्तान्तदार्ष्टान्तिकमुदीर्यते ।
कुम्भेन राज्ञश्चरितं बोधान्तत्यागसिद्धये ॥

वस्तुनस्तत्त्वस्य सम्यक् प्रतिपत्तये बोधाय । स्मयो विस्मयस्तत्कारिणीम् ॥ १ ॥

योऽसौ विन्ध्यवने हस्ती सोऽस्मिन्भूमितले भवान् ।
यौ वैराग्यविवेकौ तौ द्वौ तस्य दशनौ सितौ ॥ २ ॥

यौ तस्य द्वौ दशनौ तौ वैराग्यविवेकाख्यावित्यन्वयः ॥ २ ॥

यश्चासौ वारणाक्रान्तितत्परो हस्तिपः स्थितः ।
तदज्ञानं तवाक्रान्तितत्परं तव दुःखदम् ॥ ३ ॥

अतिशक्तोऽप्यशक्तेन दुःखाद्दुःखं भयाद्भयम् ।
हस्ती हस्तिपकेनेव राजन्मौर्ख्येण नीयसे ॥ ४ ॥

अतिशक्तो बलवानपि त्वमशक्तेन दुर्बलेनापि मौर्ख्येण दुःखाद्दुःखं
भयाद्भयं नीयसे ॥ ४ ॥

यल्लोहवज्रसारेण वारणः परियन्त्रितः ।
तदाशापाशजालेन भवानापदमावृतः ॥ ५ ॥

स बद्धो लोहजालेनेत्युक्तिं प्रकटयति-यदिति । परितो यन्त्रितो बद्ध इति यत् । भवान्
पादावभिव्याप्येत्यापदमावृतः । राज्यपलनकाले तदित्यर्थः ॥ ५ ॥

आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा ।
कालेन क्षीयते लोहं तृष्णा तु परिवर्धते ॥ ६ ॥

यद्द्वन्द्वं प्रेक्षते वैरी गजमारादलक्षितः ।
प्रेक्षते त्वां तदज्ञानं क्रीडार्थं बद्धमेककम् ॥ ७ ॥

रिपौ हस्तिपके दूरादपश्यतीत्यनेन सूचितं तद्दर्शनमुदाहरति-यदिति । द्वन्द्वे
रहस्ये । अज्ञानस्य चेतनत्वमारोप्य वादोऽयम् ॥ ७ ॥

यद्बभञ्ज गजः शत्रोः शृङ्खलाजालबन्धनम् ।
तत्तत्याज भवान्भोगभूमिं राज्यमकण्टकम् ॥ ८ ॥

दन्तभ्यां यत्नतस्ताभ्यामित्युक्तेस्तात्पर्यमाह-यदिति ॥ ८ ॥

कदाचित्सुकरं शस्त्रशृङ्खलाबन्धभेदनम् ।
न त्वस्य मनसः साधो भोगाशाविनिवारणम् ॥ ९ ॥

यदिभे पाटयत्युच्चैर्बन्धं हस्तिपकोऽपतत् ।
त्वयि त्यजति तद्राज्यमज्ञानं पतितं कृतम् ॥ १० ॥

स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः । पपातोर्व्यामिति यदुक्तं
तदप्यज्ञाने दर्शयति-यदिभे इति । पतितं यथा भवति तथा कृतं त्वया
पातितमिव जर्जरीकृतमित्यर्थः ॥ १० ॥

यदा विरक्तः पुरुषो भोगाशां त्यक्तुमिच्छति ।
तदा प्रकम्पतेऽज्ञानं छेद्ये वृक्षे पिशाचवत् ॥ ११ ॥

तदेव स्पष्टयति-यदेति ॥ ११ ॥

यदा विवेकी पुरुषो भोगान्सन्त्यज्य तिष्ठति ।
तदा पलायतेऽज्ञानं छिन्ने वृक्षे पिशाचवत् ॥ १२ ॥

भोगौघे नूनमुन्मुक्ते पतत्यज्ञानसंस्थितिः ।
पादपे क्रकचच्छिन्ने कुलायस्तद्गतो यथा ॥ १३ ॥

यदा वनं प्रयातस्त्वं तदाऽज्ञानं क्षतं त्वया ।
पतितं सन्न निहतं मनस्त्यागमहासिना ॥ १४ ॥

क्षतं शिथिलीभूतमपि मनस्त्यागतत्त्वज्ञानेन निर्मनस्कता तल्लक्षणेन महासिना
न निहतं तदानीमेव ते चूडालोक्तिश्रवणात्तत्त्वबोधावसरोऽभूदिति भावः ॥ १४ ॥

तेन भूयः समुत्थाय स्मृत्वा परिभवं कृतम् ।
तपःप्रपञ्चखातेऽस्मिन्गहने त्वं नियोजितः ॥ १५ ॥

तेन त्वदुपेक्षिताज्ञानेन ॥ १५ ॥

तदैवाघातयिष्यस्त्वं यद्यज्ञानं तथागतम् ।
राज्यत्यागविधौ तत्त्वां नाहनिष्यत्क्षयं गतम् ॥ १६ ॥

राज्यत्यागविधौ तदैव तथागतं पतितमज्ञानं यद्यघातयिष्यस्तत्तदैव क्षयं
गतं सत्त्वां तपःखातपातेन नाहनिष्यदित्यर्थः ॥ १६ ॥

यत्खातवलयस्तेन वैरिणा हस्तिनः कृतः ।
तत्तपोदुःखमखिलमज्ञानेन तवार्पितम् ॥ १७ ॥

सखातवलयं चक्रे इत्युक्तेस्तात्पर्यमाह-यदिति ॥ १७ ॥

या तस्य राजराजश्रीर्गजारेर्नृपसत्तम ।
सा त्ववज्ञाननृपतेश्चिन्ताभ्यन्तरचारिणी ॥ १८ ॥

परया राजसामग्र्या गजलम्पटभूमयेत्यत्रोक्तां राजसामग्रीं स्फुटयति-या
तस्येति । तस्य गजारेर्हस्तिपकस्य राजप्रयुक्ता श्रीःखातसामग्री सम्पत् या उक्ता सा तु
अवज्ञानं विचारानादरस्तल्लक्षणस्य हस्तिपकनृपतेः अभ्यन्तरचारिणी
अन्तरङ्गैश्वर्यभूता । चिन्तैव ह्यविवेकस्य सर्वस्वमिति भावः ॥ १८ ॥

त्वं गजेन्द्रस्त्वयं साधो दीर्घे वनेऽगजोऽपि सन् ।
अज्ञानवैरिणा तेन निक्षिप्तस्तरसाभितः ॥ १९ ॥

हे साधो त्वमगजोऽपि सन्नयमुक्तविवेकसम्पन्नो गजेन्द्रः अनेनाज्ञानलक्षणेन
वैरिणा अभितः खाते तरसा निक्षिप्तः ॥ १९ ॥

यत्ख्नातवलयो बाललताभिरवगुण्ठितः ।
आवृतं तत्तपोदुःखमीषत्सज्जनवृत्तिभिः ॥ २० ॥

उपर्यस्थगयद्बाललतौघेन स तं शठः इत्यस्य तात्पर्यं स्फुटयति-यदिति ।
सज्जनवृत्तिभिः शान्तिक्षान्त्यादिगुणैः साधुजनसमागमैश्च ईषदावृतम् ॥ २० ॥

इत्यद्यापि तपःखाते दुःखे ह्यस्मिन्सुदारुणे ।
स्थितोऽसि पातालतले नृप बद्धो यथा बलिः ॥ २१ ॥

इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः । तिष्ठत्यद्यापि दुःखेन भूसद्मनि
यथा बलिः इत्युपसंहारस्य तात्पर्यं वर्णयन्नुपसंहरति-इत्यद्यापीति ॥ २१ ॥

गजस्त्वमाशा निगडानि वैरी मोहो निखातः पुनरुग्रबन्धः ।
महीतलं विन्ध्य उदन्त इत्थं त्वदीय उक्तः कुरु यत्करोषि ॥ २२ ॥

उक्तमनुक्तं च पिण्डीकृत्याह-गज इति । त्वं गजः । आशास्तव निगडानि । मोहो
वरी हस्तिपकः । उग्रे तपसि निर्बन्ध एव निखातः । महीतलं विन्ध्यः । इत्थं तवदीय
उदन्तो वृत्तान्तो मया हस्तिकाख्यानेनोक्तः । एवं परिज्ञाय तपःखातादुद्गम्य
तस्य रिपोर्नाशाय यत्करोषि तत्कुरु मा विलम्बस्वेत्यर्थः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० पू० चू०
हस्तिकाख्यानतात्पर्यविवरणं नामैकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
हस्तिकाख्यानतात्पर्यविवरणं नामैकनवतितमः सर्गः ॥ ९१ ॥