नवतितमः सर्गः ९०
शिखिध्वज उवाच ।
मणिसाधकविन्ध्येभबन्धनाद्यमरात्मज ।
सूचितं यत्कथाजालं पुनर्मे प्रकटीकुरु ॥ १ ॥
मणिकाचशुभाख्यानतात्पर्यमिह विस्त्रात् ।
विवृणोति पुरो राज्ञश्चूडाला कुम्भरूपिणी ॥
हे अमरात्मज देवपुत्र त्वया यत् मणिसाधककथाजालं स्वचरित्रसममित्युक्त्या
मत्प्रतिबोधनोपाय इति सूचितं तत्प्रकटीकुरु ॥ १ ॥
चूडालोवाच ।
वाक्यार्थदृष्टेर्निष्पत्त्या हृद्गृहे चित्तभित्तिषु ।
शृणु स्वयं कथां चित्रां चित्रमुन्मीलयामि ते ॥ २ ॥
हृद्धृदयं तल्लक्षणे गृहे चितलक्षणासु भित्तिषु चित्रां कथामेवोन्मीलितं
रेखामात्रेण कृतं चित्रं व्याख्यावर्णवैचित्र्येणोन्मीलयामीत्यर्थः ॥ २ ॥
योऽसौ शास्त्रार्थकुशलस्तत्त्वज्ञाने त्वपण्डितः ।
रत्नसंसाधकः प्रोक्तः स त्वमेव महीपते ॥ ३ ॥
तत्रादावस्ति कश्चित् पुमान् श्रीमानित्यादिनोक्तो मणिसाधकः स त्वमेवेत्याह##-
तज्ज्ञो भवसि शास्त्रेषु रविर्मेरुतटेष्विव ।
तत्त्वज्ञाने तु विश्रान्तो न त्वं दृषदिवाम्भसि ॥ ४ ॥
त्वयि कलावान् शास्त्रकुशल इत्याद्युक्तलक्षणमस्तीत्याह-तज्ज्ञ इति ॥ ४ ॥
विद्धि चिन्तामणिं साधो सर्वत्यागमकृत्रिमम् ।
तमन्तं सर्वदुःखानां त्वं साधयसि शुद्धधीः ॥ ५ ॥
कोऽसौ चिन्तामणिर्यत्साधनेऽहं प्रवृत्तस्तमाह-विद्धीति ॥ ५ ॥
सर्वत्यागेन शुद्धेन सर्वमासाद्यतेऽनघ ।
सर्वत्यागो हि साम्राज्यं किं चिन्तामणितो भवेत् ॥ ६ ॥
तस्य चिन्तामणित्वमुपपादयति-सर्वत्यागेनेति । साम्राज्यमात्यन्तिकी पूर्णकामता ॥
६ ॥
सिद्धः सर्वपरित्यागः साधो संसाध्यतस्तव ।
खर्वीकृतजगद्भूतिर्विद्यास्वात्मोदयस्तथा ॥ ७ ॥
खर्वीकृता तुच्छीकृता हैरण्यगर्भपदान्ता जगत्प्रसिद्धा
भूतिरैश्वर्यपरम्परा येन तथाविधो विद्यालक्षणः स्वात्मोदयो
निरतिशयानन्दाभ्युदयो यस्मात्तथाविधश्च सर्वपरित्यागः । चार्थे तथाशब्दः ॥ ७
॥
सन्त्यक्तं भवता राज्यं सदारधनबान्धवम् ।
ब्रह्मणेव जगत्सर्गव्यापारः स्वनिशागमे ॥ ८ ॥
कथं सिद्धस्तदाह-सन्त्यक्तमिति । ब्रह्मणा वेधसा ॥ ८ ॥
स्वदेशस्यातिदूरस्थमागतोऽसि ममाश्रमम् ।
भुवोऽन्तमिव विश्रान्त्यै वैनतेयः सकच्छपः ॥ ९ ॥
कच्छपग्रहणं गजन्यग्रोधशाखयोरप्युपलक्षणम् । वैनतेयस्येयं कथा
भारतादौ प्रसिद्धा ॥ ९ ॥
केवलं सर्वसन्त्यागे शेषिताहम्मतिस्त्वया ।
मृष्टाखिलकलङ्केन स्वसत्तेवानिलेन खे ॥ १० ॥
अहम्मतिरभिमानरूपा अविद्या । मृष्टा अखिला अभ्रनीहारादिकलङ्का येन
शारदानिलेन ॥ १० ॥
मनोमात्रे हृदस्त्यक्ते जगदायाति पूर्णताम् ।
त्यागात्यागविकल्पैस्त्वं खमम्भोदैरिवावृतः ॥ ११ ॥
अहम्मतिपरित्यागे परिशिष्टः पूर्णानन्दात्मा परमपुरुषार्थः स्वत एव हृदि
साक्षात्स्फुरतीति सर्वत्याग एव मोक्षः पर्यवसितः परमानन्दश्चिन्तामणिर्न तल्लाभे
तदुपेक्ष्यान्यदन्वेषितव्यमित्याशयेनाह-मनोमात्रे इति । त्वं तु
त्यक्तृत्वाभिमानपरिशेषात्त्यागात्यागविकल्पैरावृत्त इति न पूर्णतां प्राप्त
इत्याह-त्यागात्यागविकल्पैरिति ॥ ११ ॥
नायं स परमानन्दः सर्वत्यागो महोदयः ।
कोऽप्युच्चैरन्य एवासौ चिरसाध्यो महानिति ॥ १२ ॥
विकल्पवशादेव प्राप्तेऽपि सर्वत्यागे अविश्वासस्तवाभूदित्याह-नायमिति ॥ १२ ॥
चिन्तयेति गते वृद्धिं सङ्कल्पग्रहणे शनैः ।
वात्ययेव वनस्पन्दे त्यागः प्रोड्डीय ते गतः ॥ १३ ॥
इति चिन्तया सङ्कल्पग्रहणे चिरं वृद्धिं गते सति स ते सर्वत्यागः प्रोड्डीय गतः ॥
१३ ॥
त्यागिता स्यात्कुतस्तस्य चिन्तामप्यावृणोति यः ।
पवनस्पन्दयुक्तस्य निःस्पन्दत्वं कुतस्तरोः ॥ १४ ॥
यश्चिन्तामपि आ ईषदपि वृणोति स्वीकरोति ॥ १४ ॥
चिन्तैव चित्तमित्याहुः सङ्कल्पेतरनामकम् ।
तस्यामेव स्फुरन्त्यां तु चित्तं त्यक्तं कथं भवेत् ॥ १५ ॥
चित्तत्याग एव मुख्यः सर्वत्यागः चिन्तायां तु सत्यां चित्तं दुस्त्यजम् चित्तेन तु
सङ्कल्पद्वारा जगदेव सङ्गृहीतमिति न कस्यापि त्यागस्ते प्रतिष्ठित इत्याशयेनाह##-
चित्ते चिन्तागृहीते तु त्रिजगज्जालके क्षणात् ।
कथमासाद्यते साधो सर्वत्यागो निरञ्जनः ॥ १६ ॥
सङ्कल्पग्रहणेनान्तस्त्यागः प्रोड्डीय ते गतः ।
शब्दसंश्रवणेनाङ्ग यथा ग्रामविहङ्गमः ॥ १७ ॥
ग्रामविहङ्गमः कपोतादिः ॥ १७ ॥
निश्चिन्तत्वं परं सर्वं त्याग आदाय ते गतः ।
आमन्त्र्यापूजितो जन्तुः स दुःखं न करोति किम् ॥ १८ ॥
सर्वत्यागस्य फलं निश्चिन्तत्वं त्यागेनापगच्छता नीतमिवेत्युत्प्रेक्षते##-
किं पुनः प्रार्थनासहस्रैरागतस्यापूजने इत्याशयेनाह-आमन्त्र्येति ॥ १८ ॥
सर्वत्यागमणावेवं गते कमललोचन ।
तपःकाचमणिर्दृष्टस्त्वया सङ्कल्पचक्षुषा ॥ १९ ॥
ततः कोऽसौ काचखण्डो यो मया मणिबुद्ध्या गृहीतस्तमाह-तप इति ॥ १९ ॥
त्वया तस्मिंस्तपस्येव दुःखे दृष्टिभ्रमोदिते ।
ग्राह्यैकभावना बद्धा जलेन्दौ शशिनो यथा ॥ २० ॥
दुःखहेतुत्वाद्दुःखे ग्राह्यमित्येव भावना दृढनिश्चयः । जलेन्दौ
प्रतिबिम्बचन्द्रे सत्यशशिनो भावनेव बद्धेत्यर्थः ॥ २० ॥
अवासनमनासक्त्या कृतानन्ता सवासना ।
आद्यन्तमध्यविषमा दुःखायैव तपःक्रिया ॥ २१ ॥
पूर्वमवासनं यथा स्यात्तथा अनासक्त्या सर्वत्यागमुपक्रम्य पश्चादनन्ता
सवासना तपःक्रिया कृता सा च वृथा । गृहधनदारादित्यागादादौ विषमा अन्ते
फलासङ्ङ्गविषमा मध्ये वनवासशीतवातादिसहनाद्विषमेति दुःखायैवेत्यर्थः
॥ २१ ॥
अमितानन्दमुत्सृज्य सुसाध्यं यः प्रवर्तते ।
मिते वस्तुनि दुःसाध्ये स्वात्महा स शठः स्मृतः ॥ २२ ॥
अमितात्मानन्दं सुसाध्यं च सर्वत्यागमुत्सृज्य मिते दुःसाध्ये च तप आदिवस्तुनि
यः प्रवर्तते स शठः अमितात्मस्वरूपविघातित्वात्स्वात्महेत्यर्थः ॥ २२ ॥
सर्वत्यागं समारभ्य न चैष साधितस्त्वया ।
तथा दुःखैकताज्ञानबद्धेन वनसद्मनि ॥ २३ ॥
वनसद्मनि तथा वर्णितप्रकारतपोदुःखैस्तदेकताप्रयोजकाज्ञानेन च बद्धेन
त्वया एष प्राक् समारब्धः सर्वत्यागो न साधितः ॥ २३ ॥
राज्यबन्धाद्विनिष्क्रम्य प्रसरद्दुःखपूरितात् ।
वनवासाभिधैः साधो बद्धोऽसि दृष्टबन्धनैः ॥ २४ ॥
द्विगुणा एव ते चिन्ताः शीतवातातपादयः ।
बन्धनादधिकं मन्ये वनवासमजानताम् ॥ २५ ॥
वनवासमजानतां प्रागननुभूतवतां सुकुमाराणां वनवासं
बन्धनादधिकं दुःखं मन्ये ॥ २५ ॥
चिन्तामणिर्मया प्राप्त इत्यलं बुद्धवानसि ।
न लब्धवान्भवान्साधो स्फटिकस्यापि खण्डिकाम् ॥ २६ ॥
खण्डिकां शकलमपि ॥ २६ ॥
इत्येतदङ्ग मणियत्नकथासमानं सम्यङ्मया प्रकथितं तव पद्मनेत्र ।
तद्बोध्यमेवममलं स्वयमेव बुद्ध्वा यद्वेत्सि तत्परिणतिं नय चित्तकोशे ॥ २७
॥
उपपातिमणिसाधकचरित्रसाम्यमुपसंहरति-इत्थमिति । अङ्ग हे पद्मनेत्र मया
इत्येवं तव चरित्रं मणिप्रयत्नकथया समानं सम्यक् प्रकटितं स्फुटीकृतम् ।
तन्मणिकाचदार्ष्टान्तिकमेवं मदुक्तरीत्या त्वं स्वयमेव विचार्य तत्त्वतो बुद्ध्वा
सर्वत्यागं तपो वा यदेव चिन्तामणिवदमलं निर्दोषं वेत्सि तदेव स्वचित्तकोशे
निधाय फलप्राप्तिपर्यन्तां परिणतिं नयेत्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाण० पू० चू०
चिन्तामणिसाधकवृत्तान्तविवरणं नाम नवतितमः सर्गः ॥ ९० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चिन्तामणिसाधकवृत्तान्तविवरणं नाम नवतितमः सर्गः ॥ ९० ॥