एकोननवतितमः सर्गः ८९
चूडालोवाच ।
अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप ।
परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः ॥ १ ॥
बद्धविन्ध्यगजेन्द्रस्य यत्नाच्छित्त्वापि बन्धनम् ।
अनिघ्नतो रिपुं प्राप्तं खाते पातोऽन्न वर्ण्यते ॥
अत्र हस्तिकाख्यानमपि निदर्शनमतस्तदपि शृण्वित्याह-अथेति ।
वृत्तान्तमाख्यानम् । आत्मनस्तव सदृशम् ॥ १ ॥
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।
आगस्त्या शुद्धया बुद्ध्या विन्ध्येनेवोदितः स्वतः ॥ २ ॥
अगस्त्यस्येयमागस्ती तया । सूर्यतिष्य-इति यलोपः । चिरस्याज्ञापरिपालनाच्छुद्धया
प्रसन्नया अनुग्रहबुद्ध्या विन्ध्येन [विन्ध्यात्मना स्वेन
प्राक्तनोन्नतरूपेणेत्यर्थः ।] स्वतः प्राक्तनोन्नतरूपेणोदितः प्रादुर्भूत
इवेत्युत्प्रेक्षा ॥ २ ॥
वज्रार्चिर्विषमौ दीर्घौ तस्यास्तां दशनौ सितौ ।
कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ ॥ ३ ॥
वज्रस्यार्चिषी ज्वाले इव विषमौ तीक्ष्णौ ॥ ३ ॥
स बद्धो लोहजालेन हस्तिपेन किलाभितः ।
मुनीन्द्रेणेव विन्ध्याद्रिरुपेन्द्रेणेव वा बलिः ॥ ४ ॥
लोहमयेन जालेन । मुनीन्द्रेण अगस्त्येन ॥ ४ ॥
निबद्धो यन्त्रणामाप शस्त्रकुम्भार्दितो गजः ।
तां जगाम व्यथां धीरो नवाग्नौ पुरमेति याम् ॥ ५ ॥
यन्त्रणां नियन्त्रणाम् । कदाप्यसम्भावितत्वादलौकिकत्वाच्च नवे अपूर्वे
हरशराग्नौ दह्यमानं त्रिपुरं यां व्यथामेति ताम् ॥ ५ ॥
रिपौ हस्तिपके दूरादपश्यति स वारणः ।
अयःसमुद्गके यस्मिन्निनाय दिवसत्रयम् ॥ ६ ॥
समुद्गके जालसम्पुटे ॥ ६ ॥
खेदान्निगडनिर्भेदे यत्नवान्स मतङ्गजः ।
चकार किङ्किणीक्वाणं मुखोद्घातैरथान्यदा ॥ ७ ॥
किङ्किणीनामिव क्वाणं ध्वनिम् ॥ ७ ॥
दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन सः ।
बभञ्ज शृङ्खलाजालं स्वर्गार्गलमिवासुरः ॥ ८ ॥
स्वर्गस्यामरावत्या अर्गलं कवाटविष्कम्भम् । असुरो बलिरिव ॥ ८ ॥
तं तस्य निगडच्छेदमपश्यद्दूरतो रिपुः ।
बलेः स्वर्गावदलनं हरिर्मेरुतलादिव ॥ ९ ॥
तस्य विच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।
पपात क्रमतः स्वर्गं हरिर्मेरोर्बलेरिव ॥ १० ॥
रिपुर्हस्तिपकः ॥ तालतरोस्तालतरुमारुह्य ततस्तस्य हस्तिनो मूर्ध्नि पपात । यथा
बलियज्ञे पदत्रयमितां भुवं प्रतिगृह्य प्रथमेन पदेन भुवं द्वितीयेन
स्वर्गमिति क्रमतस्तृतीयपादपूर्तये भेरोः सकाशाद्बलेर्मूर्ध्नि पपात
तद्वदित्यर्थः ॥ १० ॥
स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।
पपातोर्व्यां फलं पक्वं वाताहतमिवाकुलः ॥ ११ ॥
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।
स्फुरत्स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि ॥ १२ ॥
करुणादयाम् ॥ १२ ॥
पतितं दलयामीति किं नाम मम पौरुषम् ।
वारणोऽपीति कलयन्न जघान स तं रिपुम् ॥ १३ ॥
इति कलयंश्चिन्तयन्सन् ॥ १३ ॥
केवलं निगडव्यूहं विदार्याभिजगाम ह ।
विततं सेतुमुत्सार्य विपुलौघ इवाम्भसः ॥ १४ ॥
निगडव्यूहं शृङ्खलजालम् ॥ १४ ॥
दयामाश्रित्य मातङ्गो भङ्क्त्वा जालं जगाम ह ।
विदार्य मेघसङ्घातं नभसीव दिवाकरः ॥ १५ ॥
गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः ।
गजेनैव समं तस्य व्यथा दूरतरं गता ॥ १६ ॥
स्वस्थो देहो धीश्च यस्य तथाविधः सन् ॥ १६ ॥
प्रोच्चलत्तालशिखरात्स तथा पतितोऽपि सन् ।
न भेदमाप दुर्भेदा मन्ये देहा दुरात्मनाम् ॥ १७ ॥
भेदं शिरःपादादिभङ्गम् ॥ १७ ॥
वर्धते प्रावृषीवाभ्रं कुकार्येष्वसतां बलम् ।
आसीदधिकमुत्साही स च चङ्क्रमणे तदा ॥ १८ ॥
चक्रमणे पद्भ्यां चलने ॥ १८ ॥
वारणारिरसिद्धाङ्गो गतेभो दुःखमाययौ ।
आगत्योपगतेऽन्तर्धिं निधान इव वर्धनः ॥ १९ ॥
न सिद्धे अङ्गे स्वप्रयुक्तोपायौ यस्य । अत एव गतेभः ॥ १९ ॥
सोऽन्वियेष गजं यत्नाद्गुल्मकान्तरितं वने ।
पयोदपिण्डितं भोक्तुं राहुरिन्दुमिवाम्बरे ॥ २० ॥
पयोदैः पिण्डितं छन्नम् ॥ २० ॥
चिरेणालभतेभेन्द्रं कस्मिंश्चित्कानने स्थितम् ।
विश्रान्तं तं तरुतले समरादिव निर्गतम् ॥ २१ ॥
अथ यत्र स्थितो नागस्तत्र तद्बन्धनक्षमम् ।
परया राजसामग्र्या गजलम्पटभूमया ॥ २२ ॥
तत्र सन्निधौ । गजे लम्पटानामासक्तजनानां भूमा बाहुल्यं यस्यां तथाविधया
राजप्रयुक्तया खातसामग्र्या ॥ २२ ॥
स खातवलयं चक्रे हस्तिपः काननेऽभितः ।
सर्वदिक्कं विधिर्भूमौ समुद्रवलयं यथा ॥ २३ ॥
विधिः स्रष्टा ॥ २३ ॥
उपर्यस्थगयद्बाललतौघेन स तं शठः ।
शून्यतातन्तुजालेन शरत्काल इवाम्बरम् ॥ २४ ॥
शठो वञ्चकः । शून्यतापिधायकतन्तुजालप्रायेण शुभ्राभ्रपटलेन
शरत्कालोऽम्बरमिव तं खातमुपरि बाललताजालेनास्थगयत् आच्छादितवान् ॥ २४ ॥
दिनैः कतिपयैरेव वारणो विहरन्वने ।
तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः ॥ २५ ॥
व्रजन्पर्याकृतौ कूपे पातालतलभीषणे ।
खातशुष्काब्ध्यधोभागे गजरत्नसमुद्गके ॥ २६ ॥
पर्याकृतौ वलयाकारे तस्मिन् कूपे खातशुष्काब्ध्यधोभागे व्रजन्नपि स गजः इति
अनया रीत्या गजरत्नसमुद्गके भूयो दृढं बद्धः सन्नद्यापि तिष्ठतीति
परेणान्वयः ॥ २६ ॥
इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः ।
तिष्ठत्यद्यापि दुःखेन भूसद्मनि यथा बलिः ॥ २७ ॥
अहनिष्यत्पुरैवासौ यद्यग्रे पतितं रिपुम् ।
तन्नालप्स्यत्ततो दुःख गजः खातनिबन्धनम् ॥ २८ ॥
यद्यहनिष्यत् ततस्तदा खातनिबन्धनं दुःखं नालक्ष्यत ॥ २८ ॥
मौर्ख्यादागामिन कालं वर्तमानक्रियाक्रमैः ।
अशोधयन्नरो दुःखं याति विन्ध्यगजो यथा ॥ २९ ॥
अत एव बुद्धिमानागामिकालमिदानीमेव
शास्त्रीयपुरुषप्रयत्नैर्दुःखबीजसम्मार्जनेन शोधयेदित्याह-मौर्ख्यादिति ॥ २९
॥
मुक्तोऽस्मि शस्त्रनिगडादिति तुष्टो हि वारणः ।
दूरस्थोऽपि पुनर्बद्धो मौर्ख्यं क्व च न बाधते ॥ ३० ॥
यावत्सर्वदुःखनिदानमज्ञानं नोच्छिन्नं तावत्प्रयत्नसहस्रैः कृतोऽपि
दुःखोपशमो व्यर्थ एवेत्याशयेनाह-मुक्तोऽस्मीति । किलार्थे चशब्दः ॥ ३० ॥
मौर्ख्यं हि बन्धनमवेहि परं महात्मन्बद्धो न बद्ध इति चेतसि
तद्विमुक्त्यै ।
आत्मोदयं त्रिजगदात्ममयं समस्तं मौर्ख्ये स्थितस्य सहसा ननु
सर्वभूमिः ॥ ३१ ॥
तस्मादज्ञानमेव मूलबन्धस्तन्निवृत्तिरद्वितीयात्मतत्त्वज्ञानदेवेति
दर्शयन्नुपसंहरति-मौर्ख्यमिति । हे महात्मन् न बद्धा सदा बन्धशून्यः
स्वयं बद्ध इति चेतसि यन्मौर्ख्यं तदेव परं बाधनमतस्त्वं तद्विमुक्त्यै
आध्यात्मिकाधिदैविकाधिभौतिकत्रिविधपरिच्छेदात्मना आत्मबन्धनभूतं
त्रिजगदात्मनः सकाशादेवोदयो जन्म यस्य तथाविधं समस्तमात्ममयं विद्धि ।
तहा वेदने आत्मव्यतिरिक्तापरिशेषादात्मा नित्यमुक्त एव भवति । ईदृशवेदनाभावे
तु मौर्ख्ये स्थितस्य पुम्स आत्मैव सहसा सर्वबन्धादिदुःखबीजानां भूमिः
प्ररोहक्षेत्रं भवतीत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चू०
हस्तिकोपाख्यानं नामैकोननवतितमः सर्गः ॥ ८९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
हस्तिकोपाख्यानं नामैकोननवतितमः सर्गः ॥ ८९ ॥