अष्टाशीतितमः सर्गः ८८
चूडालोवाच ।
अस्ति कश्चित्पुमान् श्रीमान् स्थानं नित्यविरुद्धयोः ।
गुणलक्ष्म्योरशेषेण यथाब्धिर्वाडवाम्बुनोः ॥ १ ॥
मौर्ख्याच्चिन्तामणिं प्राप्तमुपेक्ष्य तपसा चिरात् ।
काचं कश्चिन्मणिभ्रान्त्या जग्राहेति कथोच्यते ॥
नित्या परस्परविरुद्धयोः औदार्यवैराग्यसर्वस्वत्यागादिगुणस्य लक्ष्म्याः
सम्पदश्च स्थानमावासभूतः । यथा अब्धिर्वडवानलस्य अम्बुनश्च्य विरुद्धयोः
स्थानं तद्वत् ॥ १ ॥
कलावानस्त्रकुशलो व्यवहारविचक्षणः ।
सर्वसङ्कल्पसीमान्तो न तु जानाति तत्पदम् ॥ २ ॥
तत्परमात्मपदं तु न जानाति ॥ २ ॥
अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने ।
प्रवृत्तो वाडवो वह्निरब्धिसंशोषणे यथा ॥ ३ ॥
सा किं चकार तदाह-अनन्तेति ।
अनन्तैस्तपोजपदेवताप्रार्थनान्वेषणादिगोचरैर्यत्नैः संसाध्ये चिन्तामणेः
साधने तप-आदौ प्रवृत्तः ॥ ३ ॥
तस्य यत्नेन महता कालेनाध्यवसायिनः ।
सिद्धश्चिन्तामणिः किंवा न सिद्ध्यत्युद्यतात्मनाम् ॥ ४ ॥
अध्यवसायिनो दृढनिश्चयवतस्तस्य महता तीव्रायासेन यत्नेनाल्पकालेनैव
चिन्तामणिः सिद्धोऽग्रे स्थितः । दृढोद्योगे फलावश्यम्भावनियम इति दर्शयति##-
प्रवृत्तिमुद्यमं प्रज्ञां प्रयुङ्क्ते चेदखेदवान् ।
अकिञ्चनोऽपि शक्तत्वं समवाप्नोत्यविघ्नतः ॥ ५ ॥
प्रज्ञामिति । आश्रित्येति शेषः ॥ ५ ॥
मणिमग्रे स्थितप्रायं हस्तप्राप्यं ददर्श सः ।
मेरावुदयशृङ्गस्थो मुनिरिन्दुमिवोदितम् ॥ ६ ॥
यथा कश्चिदुदयाचलशृङ्गस्थो मुनिस्तत्रैवोदितमिन्दुं हस्तप्राप्यमपि भ्रान्त्या
मेरावुदितं दूरतरस्थमिव दुष्प्रापं पश्यति तद्वद्ददर्शेत्यर्थः ॥ ६ ॥
बभूव मणिराजेन्द्रे न तु निश्चयवानसौ ।
राज्ये द्रागिति सम्प्राप्ते सुदीन इव पामरः ॥ ७ ॥
अत एव मणिराजानां इन्द्रे ईश्वरे तस्मिंश्चिन्तामणौ निश्चयवान्स न बभूव ।
सुदीनो दरिद्रतमः ॥ ७ ॥
इदं सञ्चिन्तयामास मनसा स्मयशालिना ।
सम्प्राप्तोपेक्षया दीर्घदुःखसम्भ्रमशालिना ॥ ८ ॥
स्मयो विस्मयस्तच्छालिना । सम्भ्रमशालिना भ्रान्तेन मनसा । इदं
वक्ष्यमाणप्रकारम् ॥ ८ ॥
अयं मणिर्मणिर्नायं मणिश्चेत्तद्भवेन्न सः ।
स्पृशामि न स्पृशाम्येनं कदाचित्स्पर्शतो व्रजेत् ॥ ९ ॥
अयं मणिरिति आपातज्ञानम् । नायं मणिरिति भ्रमः । मणिश्चेत्स्यात्तत्तर्हि स
मत्प्रत्यक्षो न भवेत् तत्तर्हि परीक्षणाय स्पृशामि स्पृशेयमितीच्छाभिलाषः । न
स्पृशामि न स्पृशेयम् । यतः कदाचिन्मणिश्चेदभाग्यस्य मम
स्पर्शतोऽन्तर्धानं व्रजेत् ॥ ९ ॥
नैतावतैव कालेन मणीन्द्रः किल सिद्ध्यति ।
यत्नेन जीवितान्तेन सिद्ध्यतीत्यागमक्रमः ॥ १० ॥
इति शङ्कायां बीजमाह-नैताव्रतेति । आगमोऽत्रैतिह्यं तत्क्रमः ॥ १० ॥
कृपणः कूणितेनाक्ष्णा लोलालातलतोपमम् ।
रत्नालोकं प्रपश्यामि द्विचन्द्रत्वमिव भ्रमात् ॥ ११ ॥
कथं तद्वि प्रत्यक्षं रत्नालोकदर्शनं तत्राह-कृपण इति । कृपणोऽहं
स्वरार्पण्यवशात्कूणितेन भ्रान्तिसङ्कुचितेनाक्ष्णा लोलालातकल्पिपलतोपमं
रत्नालोकं भ्रमात्प्रपश्यामि ॥ ११ ॥
कुत एतावती स्फीता भाग्यसम्पन्ममागता ।
अधुनैव यदाप्नोमि मणीन्द्रं सर्वसिद्धिदम् ॥ १२ ॥
भाग्यं पुण्यन्न् तत्सम्पत् ॥ १२ ॥
केचिदेव महान्तस्ते महाभाग्या भवन्ति हि ।
येषामल्पेन कालेन भवन्त्यभिमुखाः श्रियः ॥ १३ ॥
अहमल्पतपाः साधुवराको मानुषः किल ।
सिद्धयः कथमायान्ति मामभाग्यैकभाजनम् ॥ १४ ॥
एवं विकल्पसङ्कल्पैश्चिरमज्ञः परामृशन् ।
न मणिग्रहणे यत्नमकार्षीन्मौर्ख्यमोहितः ॥ १५ ॥
न यदा येन लब्धव्यं न तत्प्राप्नोत्यसौ तदा ।
चिन्तामणिरवाप्तोऽपि दुर्धिया हेलयोज्झितः ॥ १६ ॥
कुतो नाकार्षीत्तत्राह-न यदेति । लब्धव्यं यदिति शेषः ॥ १६ ॥
इति तस्मिन्स्थिते यातो मणिरुड्डीय सिद्धयः ।
त्यजन्ति ह्यवमन्तारं शरो गुणमिवोज्झितः ॥ १७ ॥
किमर्थमुड्डीय गतस्तत्राह-सिद्धयः त्यजन्ति हीति । यथा मौर्व्या उज्झितः शरो
गुणं नोर्वी त्यजति तद्वत् ॥ १७ ॥
हत्वा प्राज्ञपदं पुंसः संयान्ति किल सिद्धयः ।
आगताः सम्प्रयच्छन्ति सर्वं यान्त्यसहृत्यलम् ॥ १८ ॥
ननु त्वया स पुरुषो व्यवहारविचक्षण इति कथोपक्रमे उक्तं तस्य सा विचक्षणता
मणिसिद्धिकाले क्व गता तत्राह-हत्वेति । सिद्धय आगताः सत्यः पुंसः
प्राज्ञपदं विचक्षणतां सम्प्रयच्छन्ति । असहति असहमाने उपेक्षके तु पुंसि अलं
यान्ति । अपगच्छन्त्यश्च । सर्व तस्य प्राक्तनमपि प्राज्ञपदं विचक्षणत्वं हत्वा
विनाश्य संयान्ति किलेत्यर्थः । यथाहुः न देवा दण्डमादाय
दण्डयन्त्यपराधिनम् । बुद्धिं तस्यापकर्षन्ति तेनासौ दण्ड्यते स्वतः इति ॥ १८ ॥
पुमान्भूयः क्रियायत्नं चक्रे रत्नेन्द्रसाधने ।
नोद्विजन्ते स्वकार्येषु जना अध्यवसायिनः ॥ १९ ॥
ददर्शाथ कचद्रूपं काचखण्डमखण्डितम् ।
हसद्भिर्वञ्चकैः सिद्धैः पुरस्कृतमलक्षितैः ॥ २० ॥
हसद्भिः परिहासपरैरत एव वञ्चकैः सिद्धैः पुरस्कृतमग्रे स्थापितम् ॥ २० ॥
अयं चिन्तामणिरिति मूढस्तस्मिन्स वस्तुताम् ।
बुबुधे मोहितो ह्यज्ञो मृदं हेमेति पश्यति ॥ २१ ॥
वस्तुतां उपादेयताम् ॥ २१ ॥
अष्टौ षष्ठं द्विषं मित्रं रज्जुं सर्पं स्थलं जलम् ।
चन्द्रौ द्वौ कुरुते चित्तगतो मोहोऽमृतं विषम् ॥ २२ ॥
मोहस्यान्यथाकारितां प्रसिद्धामुदाहरति-अष्टाविति । अष्टौ
पदार्थान्कदाचित्सङ्ख्याव्यामोहात् षष्ठं षट् कुरुते । एवं द्विषं मित्रं कुरुते
इत्यादि योज्यम् ॥ २२ ॥
तं दग्धमणिमादाय प्राक्तनीं च श्रियं जहौ ।
सर्वं चितामणेरस्मात्प्राप्यते किं धनैरिह ॥ २३ ॥
दग्धशब्दो निन्दापरः । श्रियं धनधान्यादिसम्पदम् ॥ २३ ॥
देशोऽयमसुखो रूक्षो जनैः पापिभिरावृतः ।
किं तद्गेहं गतप्रायं किं नाम मम बन्धवः ॥ २४ ॥
एवं देशगृहवन्ध्वादीनपि भ्रमात्स जहावित्याह-देश इति । रूक्षः
स्निग्धजनशून्यः । गतप्रायं जीर्णमिति यावत् ॥ २४ ॥
दूरं गत्वा यथाकामं सुखं तिष्ठामि सम्पदा ।
इत्यादाय मणिं मूढः शून्यकाननमाययौ ॥ २५ ॥
मणिं काचखण्डम् । ॥ २५ ॥
तत्र काचकणेनासौ तेन तामाप्दं ययौ ।
कज्जलाद्रेरिव निभा मौर्ख्यस्यैवाङ्ग या समा ॥ २६ ॥
या आपत् कज्जलाद्रेर्निभा कान्तिरिव गाढनीला । मौर्ख्यस्यैव या समा अनुरूपा ।
मृत्युरूपेति यावत् ॥ २६ ॥
दुःखानि मौर्ख्यविभवेन भवन्ति यानि नैवापदो न च जरामरणेन तानि ।
सर्वापदां शिरसि तिष्ठति मौर्ख्यमेकं कृष्णं जनस्य वपुषामिव
केशजालम् ॥ २७ ॥
तस्मान्मौर्ख्यमेव दुःखहेतुषु पराकाष्ठेत्युपसंहरति-दुःखानीति ।
मौर्ख्यविभवेन यानि दुःखानि प्रसिद्धानि तानि सर्वस्वनाशादेरापदः
सकाशान्नापि जरया मरणेन वा भवन्ति मौर्ख्यापगमे
तत्त्वविदामापदादिसहस्रेभ्योऽपि दुःखादर्शनात् हेमपर्यङ्के शयानस्यापि सति
मौर्ख्ये दुःखसहस्रदर्शनाच्च । अतः सर्वापदां शिरसि मौर्ख्यमेवैकं तिष्ठति
। यथा जनस्य सर्वस्य शिरसि कृष्णं केशजालं तिष्ठति तद्वदित्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चूडा०
मणिकाचोपाख्यानं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मणिकाचोपाख्यानं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥