०८७

सप्ताशीतितमः सर्गः ८७

शिखिध्वज उवाच ।

सर्गे स्फुरद्भिर्मत्पुण्यैर्मन्ये सम्प्रेषितो भवान् ।
अलक्ष्यैः सम्भृतैरद्रौ बृहद्वातैरिवाम्बुदः ॥ १ ॥

कुम्भप्रशंसा राज्ञोऽत्र निजदुःखनिवेदनम् ।
शिष्यत्वमुपदेश्यार्थे विश्वासश्चोपवर्ण्यते ॥

सर्गे जन्मपरम्परालक्षणे संसारे । सम्भृतैः सञ्चितैर्दैवाद्युगपत्परिपाकेन
फलदानाय स्फुरद्भिर्मत्पुण्यैर्भवानद्रावस्मिन् मन्दराचले सम्प्रेषित इति मन्ये
सम्भावयामि । बृहद्वातैः पुरोवातैः ॥ १ ॥

अद्य तिष्ठाम्यहं साधो धन्यानां धुरि धर्मतः ।
अमृतस्यन्दिवचसा यत्त्वयास्मि समागतः ॥ २ ॥

त्वदुपदेशान्ममावश्यम्भाविनी कृतार्थतेति सूचनाय सिद्धवत्कृत्याह##-

न केचन तथा भावाश्चेतः शीतलयन्ति मे ।
राज्यलाभादयोऽप्येते यथा साधुसमागमः ॥ ३ ॥

निरर्गलरसो यत्र सामान्येन विजृम्भते ।
मुक्तरागादिमननं तत्कल्पनसुखावहम् ॥ ४ ॥

राज्यलाभाद्यपेक्षया साधुसमागमे उत्कर्षं दर्शयति-निरर्गलेति । यत्र
यस्मिन्साधुसमागमे निरर्गलरसः अपरिच्छिन्नो ब्रह्मानन्दो मुक्तरागादिमननं
यथा स्यात्तथा सामान्येन दरिद्रादिसर्वजनसाधारण्येन विजृम्भते ।
तद्राज्यलाभादिकं तु कल्पनमात्रेण तुच्छसुखावहं न निरर्गलसुखावहं
साधारणं चेत्यर्थः ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

एवंवादिनि सैवास्य वाक्यमाक्षिप्य भूपतेः ।
भूयः प्रोवाच चूडाला मुनिदारकरूपिणी ॥ ५ ॥

आक्षिप्य निरुध्य । विवक्षितार्थसमाप्तेः पूर्वमेवेति यावत् ॥ ५ ॥

चूडालोवाच ।

आस्तामेषा कथा तावत्सर्वं ते वर्णितं मया ।
त्वं मे कथय हे साधो कस्त्वमद्रौ करोषि किम् ॥ ६ ॥

एषा मत्प्रशंसाकथा आस्ताम् । सर्वं त्वत्पृष्टमिति शेषः ॥ ६ ॥

कियत्पर्यवसानेयं भवतो वनवासिता ।
सत्यं कार्यं च नोऽसत्यं वक्तुं जानन्ति तापसाः ॥ ७ ॥

कियान्कालः पर्यवसानभवधिर्यस्याः सा कियत्पर्यवसाना । कार्यं
वनवाससाध्यं प्रयोजनं च सत्यं वद न प्रच्छादय । यतस्तापसास्त्वादृशा
असत्यं वक्तुं नो जानन्ति न जानन्ति ॥ ७ ॥

शिखिध्वज उवाच ।

देवपुत्रोऽसि जानासि सर्वमेव यथस्थितम् ।
लोकवृत्तान्ततज्ज्ञोऽसि किमन्यत्कथयाम्यहम् ॥ ८ ॥

संसारभयभीतत्वान्निवसामि वनान्तरे ।
जानतोपि हि मामार्य कथयाम्येव ते मनाक् ॥ ९ ॥

मनाक् ईषत् । सङ्क्षेपेणेत्यर्थः ॥ ९ ॥

शिखिध्वजोऽहं भूपालस्त्यक्त्वा राज्यमिहास्थितः ।
भृशं भीतोस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः ॥ १० ॥

आस्थितस्तप इति शेषः । हे तत्त्वज्ञ पुनर्जन्मनो भीतः ॥ १० ॥

सुखं पुनः पुनर्दुःखं पुनर्मरणजन्मनी ।
भवतस्तेन तप्येऽहं तत्त्वज्ञ वनवीथिषु ॥ ११ ॥

भवतः जायेते । तप्ये सन्तप्तोऽस्मि तपश्चरामि च ॥ ११ ॥

भ्रमन्नपि दिगन्तेषु चरन्नपि परन्तपः ।
नासादयामि विश्रान्तिमेकां निधिमिवाधनः ॥ १२ ॥

अयत्नोऽप्यफलोऽप्येको ह्यपूर्णोऽप्यस्तसङ्गतिः ।
शुष्याम्यत्र वने साधो घुणक्षुण्ण इव द्रुमः ॥ १३ ॥

अयत्नः कुण्ठितप्रयत्नः । अफलः अप्राप्तफलः । एकोऽसहायः । अस्ता
राज्यकालप्रसिद्धा साधुसङ्गतिर्लतादिसङ्गतिश्च येन । घुणैः काष्ठकीतैः
क्षुण्णः क्षतः ॥ १३ ॥

इमामखण्डितां सम्यक् क्रियां सम्पादयन्नपि ।
दुःखाद्गच्छामि दुःखौघममृतं मे विषं स्थितम् ॥ १४ ॥

इमामुपवासदेवातिथिपूजादिरूपाम् । अखण्डितां नियतकालावच्छिन्नाम् । विद्यां
चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते
इत्यादिश्रुतेरमृतं अमृतत्वहेतुरिति विश्रान्तये परिगृहीतमपि
कर्मसमुच्चितमुपासनं मे विश्रान्त्यजननाद्विषमिव स्थितं तत्कस्य हेतोस्तद्वद्ति
भावः ॥ १४ ॥

चूडालोवाच ।

पितामहमहं पूर्वं कदाचित्पृष्टवानिदम् ।
यत्क्रियाज्ञानयोरेकं श्रेयस्तद्ब्रूहि मे प्रभो ॥ १५ ॥

कर्मसमुच्चितोपासनान्मुक्तिरिति राज्ञो भ्रमो यावन्न निवार्यते
तावदयमुपदिष्टमप्यात्मतत्त्वं न प्रतिपत्स्यत इति तन्निवारणाय स्वस्य
पितामहोपदिष्टं क्रमं श्रावयति-पितामहमिति । क्रियाज्ञानयोर्मध्ये यदेकं
मुक्तिकारणं तद्ब्रूहीत्यर्थः ॥ १५ ॥

ब्रह्मोवाच ।

ज्ञानं हि परमं श्रेयः कैवल्यं तेन वेत्त्यलम् ।
कालातिवाहनायैव विनोदायोदिता क्रिया ॥ १६ ॥

वेत्ति प्रत्यक्षमनुभवति । क्रिया तु स्वर्गादिभोगविनोदाय प्रवृत्तापि तस्य
फल्गुत्वादपुरुषार्थतया अनर्थानुपार्जनेनायुःकालापनोदनायैव श्रुत्या उदिता
उक्तेत्यर्थः । तथा च श्रुतिः कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि
नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति ॥ १६ ॥

अलब्धज्ञानदृष्टीनां क्रिया पुत्रपरायणम् ।
यस्य नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ ॥ १७ ॥

अत एवेयं श्रुतिः विद्यां चाविद्यां चेति श्रुतिश्च ज्ञानानधिकारिविषया । तत्र
मृत्युतरणं स्वाभाविकदुश्चेष्टाव्यावृत्तिरमृतत्वं
चापेक्षिकमभिप्रेतमित्याशयेनाह-अलब्धेति । पौत्रस्याप्यपत्यत्वात्पुत्रेत्युक्तिः ॥
१७ ॥

वासनामात्रसारत्वादज्ञस्य सफलाः क्रियाः ।
सर्वा एवाफला ज्ञस्य वासनामात्रसङ्क्षयात् ॥ १८ ॥

ननु ज्ञानिनोपि स्ववर्णाश्रमोचितकर्मकुर्वाणा दृश्यन्ते
तत्कथमलब्धज्ञानदृष्टीनामेव क्रियाशरणं तत्राह-वासनेति ।
श्रद्धधानो रागी वा विहितनिषिद्धकर्मफलं भुङ्क्ते । न च
कर्तृत्वभोक्तृत्ववासनानाशे श्रद्धा सृष्टो वा सम्भवतीति भावः ।
मात्रशब्दः कार्त्स्न्यपरः ॥ १८ ॥

सर्वा हि वासनाभावे प्रयान्त्यफलतां क्रियाः ।
अशुभाः फलवन्त्योपि सेकाभावे लता इव ॥ १९ ॥

किमशुभा अपि क्रियास्तथैव । ओमित्याह-सर्वा हीति । फलवन्त्योऽपीति ।
यत्रारब्धफला अपि क्रिया बाधितानुवृत्तिमात्रेण सफलशुष्कलताप्राया भवन्ति
तत्रानारब्धफला नश्यन्तीति किं वाच्यम् । तरवो यत्र दह्यन्ते तृणानां तत्र का
कथा इति न्यायादिति भावः ॥ १९ ॥

ऋत्वन्तरे यथा याति विलयं पूर्वमार्तवम् ।
तथैव वासनानाशे नाशमेति क्रियाफलम् ॥ २० ॥

ऋत्वन्तरे ग्रीष्मशरदादौ । पूर्वमार्तवमृतुलिङ्गं नीहारजलधरादि ॥ २० ॥

न स्वभावेन फलति यथा शरलता फलम् ।
क्रिया निर्वासना पुत्र फलं फलति नो तथा ॥ २१ ॥

निर्वासनापि क्रिया कुतो न फलतीति चेत्काशलतावत्स्वभावादेवेत्याह-नेति ॥ २१ ॥

सयक्षवासनो बालो यक्षं पश्यति नान्यथा ।
सदुःखवासनो मूढो दुःखं पश्यति नान्यथा ॥ २२ ॥

सुखदुःखभोगयोग्योऽहमिति वासनैव वा तत्तदुद्भवबीजं यक्षभ्रान्तिफले
बालयक्षवासनावदित्याशयेनाह-सयक्षेति ॥ २२ ॥

आकारभासुराप्युच्चैर्न ददाति फलं क्रिया ।
शुभाशुभा वा तज्ज्ञस्य फुल्ला शरलता यथा ॥ २३ ॥

वासना चेह नास्त्येव साहङ्कारादिरूपिणी ।
असत्यैवोदिता मौर्ख्यान्मरुभूमाविवाम्बुधिः ॥ २४ ॥

ननु अज्ञदशायामर्थक्रियासमर्थत्वात्सत्याया वासनायाः कथं ज्ञानेन
बाधस्तत्राह-वासनेति । इह अज्ञदशायामपि ॥ २४ ॥

यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् ।
नोदेति वासना तस्य प्राज्ञस्येवाम्बुधिर्मरौ ॥ २५ ॥

प्राक्तनवासनानाशेऽपि ज्ञानोदयोत्तरमुत्पन्नया तया क्रिया फलतु तत्राह##-

वासनामात्रसन्त्यागाज्जरामरणवर्जितम् ।
पदं भवति जीवोऽन्तर्भूयो जन्मविवर्जितम् ॥ २६ ॥

पदं परमपुरुषार्थवस्तु ॥ २६ ॥

सवासनं मनो ज्ञेयं ज्ञानं निर्वासनं मनः ।
ज्ञानेन ज्ञेयमभ्येत्य पुनर्जीवो न जायते ॥ २७ ॥

पितामहोक्तिमुपसंहरति-ज्ञानेनेति ॥ २७ ॥

चूडालोवाच ।

ज्ञानमेव परं श्रेय इति ब्रह्मादयोऽपि ते ।
प्राहुर्महान्तो राजर्षे त्वं किमज्ञानवान्स्थितः ॥ २८ ॥

अज्ञानवान् ज्ञानं विहाय तप एव मोक्षहेतुरिति निश्चित्य किं स्थित इत्यर्थः ॥ २८ ॥

इतः कमण्डलुरितो दण्डकाष्ठमितो बृसी ।
इत्यनर्थविलासेऽस्मिन्रमसे किं महीपते ॥ २९ ॥

विवेकहीनस्य बहिर्मुखस्य दण्डकमण्डल्वाद्यल्पमपि ममतादिविषयतया
अनर्थायालमित्याशयेनाह-इत इति ॥ २९ ॥

कोऽहं कथमिदं जातं कथं शाम्यति चेति भोः ।
राजन्नावेक्षसे कस्मात्किमज्ञ इव तिष्ठसि ॥ ३० ॥

यदि तपोऽप्यनर्थो हेयस्तर्हि क उपादेयस्तमाह-कोऽहमिति । नावेक्षसे न विचारयसि ॥
३० ॥

कथं बन्धः कथं मोक्ष इति प्रश्नानुदाहरन् ।
पारावारविदां पादान्कस्माद्राजन्न सेवसे ॥ ३१ ॥

विचार इव गुर्वभिगमनसेवनपरिप्रश्नादयोऽप्युपादेया इति दर्शयति-कथमिति ।
संसारसमुद्रस्य पारं परतीरं सन्मात्ररूपः शोधिततत्पदार्थः ।
अवारमपरतीरं चिन्मात्ररूपः
शोधितत्वम्पदार्थस्तदखण्डैक्यलक्षणवाक्यार्थविदामित्यर्थः । अथवा
पारावारः परमानन्दसमुद्रस्तद्विदामित्यर्थः ॥ ३१ ॥

दुःस्पन्दसंविदा शैलकोटरे क्रिययानया ।
जीवितं क्षिपयन्किं त्वं शिलाकीटवदास्थितः ॥ ३२ ॥

दुःस्पन्दा व्रतोपवासशीतोष्णादिदुःखदप्रवृत्त्युन्मुखी आत्मसंविद्यस्यां
तथाविधया अनया तपःक्रियया जीवितमायः क्षिपयन् ॥ ३२ ॥

साधूनां समदृष्टीनां परिप्रश्नेन सेवया ।
सङ्गमेन च सा युक्तिर्लभ्यते मुच्यते यया ॥ ३३ ॥

सा त्वदभिलषितविश्रान्तिसुखप्रदा ज्ञानयुक्तिः ॥ ३३ ॥

साधुनैव समं ग्रासं भुञ्जानो वनकोटरे ।
तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत् ॥ ३४ ॥

तर्हि मयेदानीं कथं स्थेयं तदाह-साधुनैवेति । अवष्टब्धा
निरुद्धास्तपःक्लेशादिबहिर्मुखदुश्चेष्टा येन तथाविधः सन् साधुना गुरुणा
सममेव ग्रासमाहारं भुञ्जानस्तत्सेवापरस्तदुपदिष्टार्थे
धराविवरकीटवन्निश्चलस्तिष्ठेत्यर्थः ॥ ३४ ॥

श्रीवसिष्ठ उवाच ।

कान्तया देवरूपिण्या तयैवं प्रतिबोधितः ।
अश्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह ॥ ३५ ॥

शिखिध्वज उवाच ।

अहो नु बोधितोऽस्म्यद्य चिरात्सुरसुत त्वया ।
मौर्ख्यादार्यसमासङ्गं मुक्त्वाहमवसं वने ॥ ३६ ॥

अहो नु मे क्षयं यातं मन्ये पापमशेषतः ।
यत्त्वमेव समागत्य सम्प्रबोधयसीह माम् ॥ ३७ ॥

गुरुस्त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन ।
शिष्यो नमस्करोम्यद्य पादौ तव कृपां कुरु ॥ ३८ ॥

यदुदारतमं वेत्सि यस्मिन् ज्ञाते न शोच्यते ।
भवामि निर्वृतो येन तद्ब्रह्मोपदिशाशु मे ॥ ३९ ॥

निर्वृतः सुखविश्रान्तः ॥ ३९ ॥

घटज्ञानादयो ज्ञाने विभागाः सन्त्यनेकशः ।
ज्ञानानां परमं ज्ञानं कतरत्तारकं भवेत् ॥ ४० ॥

ज्ञानमेव परं श्रेय इति यत्त्वया परमं ज्ञानं तारकमुक्तं तदेतेषां
ज्ञानानां मध्ये कतरद्भवेत् । किमीदृशं तटस्थविषयमेव
तज्ज्ञानमुतान्यादृशमिति भावः ॥ ४० ॥

चूडालोवाच ।

यद्युपादेयवाक्योऽहं राजर्षे तद्वदामि ते ।
यथा ज्ञानमिदं किञ्चिन्न वक्ष्ये स्थाणुकाकवत् ॥ ४१ ॥

श्रद्धस्वसोम्येति श्रुतेरश्रद्दधानेषु कृतोऽप्युपदेशः स्थाणोरग्रे
काकरुतवद्व्यर्थो निन्द्यश्चेति प्रथमं श्रद्दधानो भवेत्याह-यदीति । तत्तर्हि
इदं त्वत्पृष्टं ज्ञानं यथा यादृशं तद्वदामि वक्ष्यामि ॥ ४१ ॥

अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया ।
व्रजन्त्यफलतां वाचस्तमसीवाक्षसंविदः ॥ ४२ ॥

लीलया अनास्थया पृष्टस्य वक्तुर्वाचः । अक्षसंविदश्चक्षुःसन्निकर्षाः ॥ ४२ ॥

शिखिध्वज उवाच ।

यद्वक्षि तदुपादेयं मया विधिरिव श्रुतेः ।
अविचारितमेवाशु सत्यमेतद्वचो मम ॥ ४३ ॥

श्रुतेः स्वर्गकामो यजेतेत्यादिविधिर्निर्दोषप्रामाण्येन निश्चितः
शिष्टैर्मुक्तसंशयमुपादीयते तद्वदुपादेयमित्यर्थः । अविचारितं
प्रामाण्यसंशयेनादिकल्पितम् ॥ ४३ ॥

चूडालोवाच ।

यथा बालः पितुर्वाक्यं मुक्तहेतूपपादनम् ।
आदत्ते हि तथैव त्वं गृहाणैतद्वचो मम ॥ ४४ ॥

मुक्तं हेतुभिरुपपादनं यस्य तथाविधमपि प्रमाणबुद्ध्या यथा आदत्ते ॥ ४४ ॥

श्रवणानन्तरं बुद्ध्या शुभमित्येव भावयन् ।
शृणु गीतमिव त्यक्त्वा हेत्वर्थित्वं वचो मम ॥ ४५ ॥

शुभं स्वहितमित्येव भावयन् । कर्णसुखावहं गीतं गानमिव प्रीत्या शृणु ॥ ४५

स्वचरितसदृशं तथोदयन्त्याश्चिरसमयेन विबोधनं च बुद्धेः ।
भवभयसुतरं महामतीनां शृणु कथयामि कथाक्रमं मनोज्ञम् ॥
४६ ॥

तत्रादौ देहाद्यभिमानत्याजनाय दुःखनिदानोपदर्शनाय च मणिकाचोपाख्यानं
हस्तिकाख्यानं च श्रावयितुमवतारयति-स्वचरितेति । स्वस्य तव चरितेन सदृशं
तथा मन्दमतीनामपि बुद्धेश्चिरसमयेन विचारोदयद्वारा उदयन्त्या
बुद्धेर्विबोधनं महामतीनां च सद्य एव भवभयं सुतरं यस्मात्तथाविधम् ।
विशेषणपरनिपातश्छान्दसः । ईदृशं कथाक्रमं कथयामि शृण्वित्यर्थः ॥
४६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० पू० चू०
शिखिध्वजावबोधो नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजावबोधो नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥