०८६

षडशीतितमः सर्गः ८६

चूडालोवाच ।

आत्मस्वभाववशतो जातं जगदिदं महत् ।
स्थितिं वासनयाभ्येत्य धर्मधर्मवशे स्थितम् ॥ १ ॥

कुम्भे कुम्भस्यजन्मात्र वृद्धिर्ब्रह्मसमागमः ।
तदा शिष्यस्य सार्वज्ञ्यमित्यादिरिह वर्ण्यते ॥

यथावर्णितलक्षणः स्वभावः सर्ववस्तुषु आप्रलयं प्रसिद्धस्तथा
मायाशबलस्यात्मनः सर्गादिस्वभावः श्रुत्यादिप्रसिद्धस्तद्वशत इत्यर्थः ।
भोगार्थं सृष्टिरित्येके क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य
का स्पृहा इतिभगवद्गौडपादाः ॥ १ ॥

वासनाह्रासमानीय धर्माधर्मैर्न गृह्यते ।
ततो न जायते जन्तुरिति नो दर्शनं मुने ॥ २ ॥

वासनानां ह्रासं ज्ञानाभ्यासेनापक्षयम् । नः दर्शनमनुभव इत्यशः ॥ २ ॥

शिखिध्वज उवाच ।

अत्युदारं महार्थं च वक्षि त्वं वदतां वर ।
अनुभूतिमुपारूढं गूढं च परमार्थवत् ॥ ३ ॥

इत्थमनुभवचमत्कारे कीर्तिते तत्प्रकारं श्रोतुकामो राजा तां प्रशंसमानः
प्रस्तुतकथाशेषं सङ्क्षिप्य समापयेत्याह-अत्युदारमित्यादिना ॥ ३ ॥

त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर ।
पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम् ॥ ४ ॥

तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे ।
ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव ॥ ५ ॥

तेन पद्मजपुत्रेण मुनिना नारदेन तत् ।
क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम् ॥ ६ ॥

क्व कस्मिकृतं स्थापितम् ॥ ६ ॥

चूडालोवाच ।

ततो निबध्नता तेन मनोमत्तमतङ्गजम् ।
विवेकविपुलालाने शुद्धया धीवरत्रया ॥ ७ ॥

आलाने गजबन्धस्तम्भे । धीलक्षणया वरत्रया चर्मरज्ज्वा ॥ ७ ॥

तद्वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् ।
रसानां पारदादीनां दिव्यानामनुरञ्जनम् ॥ ८ ॥

कल्पकालसम्बन्धिना अग्निना गलितस्येन्दोर्द्रव उपमा यस्य ।
पारदकाञ्चनरूप्यादीनां रसानां शम्भुवीर्याणामनुरञ्जनमनुकारि
सदृशमिति यावत् ॥ ८ ॥

मुनिना पार्श्वगे कुम्भे स्फाटिके विलसद्रुचौ ।
अद्भुते विद्रुताकारं चन्द्रे चन्द्र इवार्पितम् ॥ ९ ॥

तत्र शैले बृहत्कान्ते स्थूलः पार्श्वेषु चाभितः ।
गम्भीरकुक्षिः सुदृढश्चोपलाहननक्षमः ॥ १० ॥

तत्र शैले मेरौ । पार्श्वेष्वभितश्च स्थूलो विपुलः अत एव गम्भीरकुक्षिः ।
उपलेष्वाहननमास्फालनं तत्र क्षमः । आस्फाल्यमानोऽप्यस्फुटन्निति सुदृढत्वे
उपपत्तिः । ईदृशःइ स कुम्भस्तेन नारदेन सङ्कल्पजेन क्षीरेण पूरित इति
परेणान्वयः ॥ १० ॥

सङ्कल्पितेन क्षीरेण स कुम्भस्तेन पूरितः ।
अमृतापूरभिन्नेन विधिनेवामृतार्णवः ॥ ११ ॥

स्वसङ्कल्पसृष्टामृतापूरात्मना भिन्नेन विभक्तेन विधिना स्रष्ट्रा
अरण्यश्चार्णवाविति ब्रह्मलोके श्रुतिप्रसिद्धोऽमृतार्णवो यथा पूरितस्तद्वदित्यर्थः
॥ ११ ॥

तत्र मासाद्गतो वृद्धिं मुनिमन्दाहुतिक्रमः ।
अमृताब्धौ शुभो गर्भ इन्दोरिन्दुरिवानुजः ॥ १२ ॥

तत्र क्षीरे स्नेहोत्सुकं मुनिं मन्दं अग्निकार्याहुतिषु क्रमयति प्रवर्तयतीति
मुनिमन्दाहुतिक्रमः अमृताब्धौ इन्दोरनुजः प्रतिबिम्बेन्दुरिव ववृधे ॥ १२ ॥

इन्दुं मास इवापूर्णं कालेन सुषुवे घटः ।
गर्भं कमलपत्राक्षं प्रसूनमिव माधवः ॥ १३ ॥

मासः आपूर्णमिन्दुमिव ॥ १३ ॥

परिपूर्णसमस्ताङ्गः कुम्भाद्गर्भो विनिर्ययौ ।
इन्दुः सूक्ष्मादिवाम्भोधेरपरः क्षयवर्जितः ॥ १४ ॥

सूक्ष्माद्घटपरिच्छिन्नादम्भोधेः क्षीरार्णवात्क्षयवर्जितोऽपर इन्दुरिव ॥ १४ ॥

दिनैः कतिपयैरेव वृद्धिमभ्याजगाम सः ।
अप्रमेयाङ्गसौन्दर्यः शुक्लपक्षे शशी यथा ॥ १५ ॥

सर्वसंस्कारसम्पन्ने स तस्मिन्नारदो मुनिः ।
भाण्डाद्भाण्ड इवाशेषं विद्याधनमयोऽजयत् ॥ १६ ॥

सर्वैर्जातकर्माद्युपनयनान्तैः संस्कारैः सम्पन्ने तस्मिन्पुत्रे ॥ १६ ॥

दिनैः कतिपयैरेव विज्ञाताशेषवाङ्मयम् ।
चकारैनं मुनिवरः प्रतिबिम्बमिवात्मनः ॥ १७ ॥

विज्ञातान्यशेषाणि वाङ्मयानि विद्यास्थनानि येन तथाविधम् ॥ १७ ॥

तेनाराजत पुत्रेण मुनिना मुनिनायकः ।
रत्नाद्रौ प्रतिबिम्बेन सन्ध्योदित इवोडुराट् ॥ १८ ॥

रत्नाद्रौ स्फटिकाचले । सन्ध्योदितः पूर्ण इति यावत् ॥ १८ ॥

अथैनं पुत्रमादाय ब्रह्मलोकं स नारदः ।
जगामाथ स्वपितरं ब्रह्माणं चाभ्यवादयत् ॥ १९ ॥

कृताभिवन्दनं ब्रह्मा पौत्रमादाय तं तदा ।
अभिवादितवेदादिं स्वयमङ्के न्यवेशयत् ॥ २० ॥

ग्रहणधारणसौष्ठवपरिष्टानाय अभिमुखं वादितं वादयित्वा परीक्षितं
वेदादिसर्वविद्यास्थानं यस्य तथाविधं प्रीत्याङ्के न्यवेशयेत् ॥ २० ॥

अथाशीर्वादमात्रेण सर्वज्ञं ज्ञानपारगम् ।
पौत्रं तं कुम्भनामानं चकार कमलोद्भवः ॥ २१ ॥

ज्ञानायां पारं परमावधिभूतं तत्त्वज्ञानं तत्र विश्रान्तं चकार ॥ २१ ॥

साधो सोऽहमयं कुम्भः पौत्रोऽहं पद्मजन्मनः ।
पुत्रोऽहं नारदमुनेः कुम्भनामास्मि कुम्भजः ॥ २२ ॥

हे साधो स कुम्भः अयं त्वत्पुरस्थोऽहम् । ननु स्त्रीणां परदैवतस्य स्वभर्तुः
समक्षं धर्मज्ञया वैदर्भ्या चूडालया कथमिदमनृतमुच्यते ।
शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः
पुरुषानृते ॥ इति हि पूर्वरामायणे श्रीरामवचनम् । योऽन्यथा
सन्तमात्मानमन्यथा प्रतिपादयेत् । किं तेन न कृतं पापं चोरेणात्मापहारिणा इति
महाभारते भरतं प्रति शकुन्तलावचनं चेत्थं कुप्येतेति चेत् । नैष दोषः ।
उपदेक्ष्यमाणब्रह्मविद्याप्ररोचनार्थस्य तद्वाक्यस्य
तात्पर्यविषयार्थाबाधेनानृतत्वाभावात् बबरः प्रवाहणिरकामयत । स्तेनं
मनोऽनृतवादिनी वाक् । ग्रावाणः प्लवन्ते
इत्यादिवैदिकार्थवादवाक्यवत्प्रामाण्योपपत्तेः । तत्त्वज्ञानबलेन
सार्वात्म्यप्राप्तेर्वा अहं मनुरभवं सूर्यश्च इत्यादिवामदेवोक्तिवत्सोऽहमयं
कुम्भ इत्याद्युक्तिर्नानृता । न च भर्तृवञ्चनादोषः । कर्मणा मनसा वाचा सदा
भर्तुर्हितं चरेत् इति वचनाद्भर्तुर्विद्याविश्वासजननेन परमहितस्यास्य वाक्यस्य
वञ्चनात्वाभावादिति ॥ २२ ॥

निवसाम्यब्जजपुरे पित्रा सह यथासुखम् ।
चत्वारः सुहृदो वेदा मम लीलाविलासिनः ॥ २३ ॥

मातृष्वसा मे गायत्री मम माता सरस्वती ।
ब्रह्मलोके मम गृहं पौत्रस्तत्रास्मि सुस्थितः ॥ २४ ॥

साक्षान्मातुरभावात्पितुर्मात्रादय एव स्वस्य मात्रादय इत्याशयेनाह##-

यथाकाममशेषेण जगन्ति विहराम्यहम् ।
लीलया परिपूर्णत्वान्न तु कार्येण केनचित् ॥ २५ ॥

धरां पतति मे पादौ पततो न महीतले ।
रजः स्पृशन्ति नाङ्गानि ग्लानिं नायाति मे वपुः ॥ २६ ॥

उक्तार्थविश्वासार्थं स्वस्यां देवलिङ्गानि दर्शयति-धरामिति । मयि धरां
पतति भूलोके सञ्चरति सति मे पादौ महीतले न पततः ॥ २६ ॥

अद्याकाशपथा गच्छन्दृष्टवांस्त्वामहं पुरः ।
इह तेनागतोऽस्म्यङ्ग सर्वं कथितवानिति ॥ २७ ॥

एषोऽहमित्यखिलमेव यथानुभूतं ते वर्णितं ननु मया वनवासतज्ज्ञ ।
सन्तो हि सङ्कथनमार्यजनोत्तमेषु निर्मान्त्यलं सुभगसंव्यवहारदक्षाः ॥
२८ ॥

उक्तिमुपसंहरति-एष इति । हे वनवासतज्ज्ञ वनवासगुणांस्तत्फलं
चित्तशुद्धिं च जानन् अहमेष उक्तप्रकारजन्मादिमानित्यखिलमेव त्वत्पृष्टं ते
यथानुभूतं मया वर्णितम् । पादादौ ते इत्यादेशश्छान्दसः । आर्यजनोत्तमेषु
पृच्छत्सु सन्तः सङ्कथनं निर्मान्ति कुर्वन्त्येव । यतस्ते सुभगैः सद्भिः सह
प्रश्नोत्तरकथनसंव्यवहारे दक्षा अतस्त्वं यद्यदभीप्सितं तत्तत्कामं पृच्छ
अहं तद्वक्तुं दक्षोऽस्मीति भावः ॥ २८ ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥
२९ ॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो निर्वाणप्रकरणे पू० चूडालोपाख्याने
कुम्भजननकथनं नाम षडशीतितमः सर्गः ॥ ८६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
कुम्भजननकथनं नाम षडशीतितमः सर्गः ॥ ८६ ॥

अष्टादशो दिवसः