पञ्चाशीतितमः सर्गः ८५
श्रीवसिष्ठ उवाच ।
एवं शिखिध्वजः पूर्णमठिकायां वने स्थितः ।
इदानीं शृणु चूडाला सा किं कृतवती गृहे ॥ १ ॥
राज्ञ्या प्रबुद्धया राज्ञोऽन्वेषणं पथि दर्शनम् ।
भाव्यर्थदर्शनं काले बोधनं चोपवर्ण्यते ॥
उक्तमनूद्य वक्ष्यमाणकथया सङ्गमयति-एवमिति ॥ १ ॥
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।
हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात् ॥ २ ॥
ग्रामसुप्तेवेति राजवियोगभीत्या सदा जाग्रत्यपि दैवान्निद्रया हृतेति द्योतनार्थम् ॥ २ ॥
अपश्यत्पतिनिर्हीना शयनं शून्यतां गतम् ।
अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम् ॥ ३ ॥
पत्या निर्हीना त्यक्ता ॥ ३ ॥
उत्तस्थौ किञ्चिदाम्लानवदना खेदशालिनी ।
कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा ॥ ४ ॥
कुत्सितेना क्षारकर्दमादिजलेन सिक्ता । विशेषणं साधारणं योज्यम् ॥ ४ ॥
न प्रसन्ना न विमला बभूवाकुलतां गता ।
दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत ॥ ५ ॥
क्षणं शय्योपविष्टैव चिन्तयामास चिन्तया ।
कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति ॥ ६ ॥
इति चिन्तया वक्ष्यमाणं चिन्तयामासेत्यर्थः ॥ ६ ॥
तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम् ।
भर्तैव गतिरुद्दिष्टा विधिना प्रकृता स्त्रियः ॥ ७ ॥
तदेवाह-तदिति । विधिना शास्त्रेण भर्तैव प्रकृता प्रथमा गतिः शरणं
उद्दिष्टा विहिता । असति हि भर्तरि पुत्रादयो गतिरिति भावः ॥ ७ ॥
इति सञ्चिन्त्य भर्तारमनुगन्तुं समुत्थिता ।
चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ ॥ ८ ॥
वातरन्ध्रं वातायनं तेन ॥ ८ ॥
बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।
कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम् ॥ ९ ॥
अन्येन्दुविभ्रमं द्वितीयचन्द्रभ्रान्तिम् ॥ ९ ॥
ददर्शाथ यथायातं रात्रौ खड्गधरं पतिम् ।
भ्रमन्तमेकमेकान्ते वेतालसमयोदितम् ॥ १० ॥
वेतालयोग्ये समये निशि उदितं प्रकाशमानम् ॥ १० ॥
तादृशं पतिमालोक्य स्थित्वा गगनकोटरे ।
भविष्यच्चिन्तयामास सर्वं भर्तुरखण्डितम् ॥ ११ ॥
भर्तुः भविष्यत् भाविपदार्थजातम् ॥ ११ ॥
यथा येन यदा यत्र यावत्कार्यन्न् यथोदयम् ।
यथा च निर्वृतिः स्फारा गन्तव्या तेन राघव ॥ १२ ॥
भविष्यदेवप्रकारनिमित्तकालदेशक्रियेयत्ताभ्युदयनिःश्रेयसपर्यन्तैर्विभज्य
चिन्तितवतीत्याह-यथेति । स्फारा निर्वृतिर्भूमानन्दविश्रान्तिः ॥ १२ ॥
अवश्यं भवितव्यं तद्भर्तुर्दृष्ट्वा पुरः स्थितम् ।
तदेव संवादयितुं गमनात्सा न्यवर्तत ॥ १३ ॥
पुरः स्थितमिव योगबलादपरोक्षं दृष्ट्वा संवादयितुम् । तदनुरूपमाचरितुमिति
यावत् ॥ १३ ॥
आस्तां ममाद्य गमनं काले नातिचिरेण हि ।
मयास्य पार्श्वे गन्तव्यं नियतेरेष निश्चयः ॥ १४ ॥
इति सञ्चिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।
सुष्वाप शयने शम्भोः शिरसीवन्दवी कला ॥ १५ ॥
केनचित्कारणेनासौ गतः सम्प्रति भूपतिः ।
इति पौरं जनं सर्वमाश्वास्यातिष्ठदङ्गना ॥ १६ ॥
राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शनत् ।
यथा कालेन केदारं पक्वं कलमगोपिका ॥ १७ ॥
कलमगोपिका शालिपालिका ॥ १७ ॥
तयोस्तदाऽवहत्कालो दम्पत्योः स्थितयोस्तथा ।
अदृष्टान्योन्यमुखयो राज्यकाननपालयोः ॥ १८ ॥
अवहत् अगमत् ॥ १८ ॥
जगामाथ दिनं पक्षो मासोऽथ ऋतुवत्सरः ।
शिखिध्वजस्य विपिने चूडालायाः स्वमन्दिरे ॥ १९ ॥
कथमगमत्तदाह-जगामेति । ऋतुसहितो वत्सरः ॥ १९ ॥
बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना ।
चूडालोवास सदने वनगुच्छे शिखिध्वजः ॥ २० ॥
अथ यातेषु बहुषु वेषेषु जरसा वृते ।
शिखिध्वजे महाशैलतटकोटरवासिनि ॥ २१ ॥
भर्तुः कषायपाकं तदालक्ष्य पालितं चिरात् ।
तदा तस्याथ यातेषु वर्षेषु जरसा वने [जरसा वृते इति पाठः । वने इति
पाठे जरसोपलक्षितस्येति । वृते इति पाठे शिखिध्वजे जरसा वृते सतीति चान्वयः
।] ॥ २२ ॥
कषायाणां रागादिवासनानां पाकमालक्ष्य तत्तावत्कालं तया पालितं
प्रतीक्षितमिति यावत् । तदेत्यादिरुक्तानुवादो वक्ष्यमाणार्थः ॥ २२ ॥
तदा तस्यात्मकार्यस्य भवितव्यतया तथा ।
भर्तुः समीपगमने मम कालोऽयमित्यथ ॥ २३ ॥
आत्मकार्यस्य स्वभर्तृबोधस्य तथा वक्ष्यमाणप्रकारेण स्वोपदेशेनैव
भवितव्यतया ॥ २३ ॥
सञ्चिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ।
चचारान्तःपुराद्रात्रौ ततार नभसः पथम् ॥ २४ ॥
ततार पुप्लुवे ॥ २४ ॥
जगाम वातस्कन्धेन गच्छन्ती खे ददर्श सा ।
कल्पवृक्षांशुकच्छन्नरत्नस्तबकभूषिताः ॥ २५ ॥
नन्दनोद्याननिलया रक्ताः सिद्धाभिसारिकाः ।
परामृष्टेन्दुशकलान्प्रालेयकणवर्षिणः ॥ २६ ॥
रक्ताः कान्तेष्वनुरक्ताः । परामृष्टानीन्दोः शकलानि कला यैः ॥ २६ ॥
सिद्धोत्तमात्तसौगन्ध्यान्स्पर्शयामास मारुतान् ।
चन्द्रबिम्बामृताम्भोधेर्महावीचिपरम्पराम् ॥ २७ ॥
सिद्धोत्तमेभ्यः आत्तानि गृहीतानि मन्दारमालाहरिचन्दनकस्तूर्यादिसौगन्ध्यानि
यैस्तथाविधान्मारुतान् स्पर्शयामास पस्पर्श ।
चन्द्रबिम्बलक्षणस्यामृताम्भोधेर्महावीचिपरम्पराभूतां निर्मलज्योत्स्नाम् ।
अम्बरस्य आन्तरतामन्तर्वर्तितां गता सती ददर्श ॥ २७ ॥
अपश्यन्निर्मलज्योत्स्नामम्बरान्तरतां गता ।
मेघान्तरेण गच्छन्ती मेघलग्नाश्च विद्युतः ॥ २८ ॥
अवियुक्ताः स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ।
उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् ॥ २९ ॥
स्वभर्त्रा मेघेन अवियुक्ताः विद्युतो व्यलोकयत् । आत्मना मनसैवोवाच । किमुवाच
तदाह-अहो इत्यादिना ॥ २९ ॥
न स्वभावः शमं याति ममाप्युत्कण्ठितं मनः ।
कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुनः ॥ ३० ॥
पश्यामि कान्तमित्युक्तं ममाप्युत्कण्ठते मनः ।
मञ्जरीजालवलितास्तरुं वल्ल्यः स्वकं पतिम् ॥ ३१ ॥
मम मनः उक्तं विवेकैर्बोध्यमानमपि इति उत्कण्ठते ॥ ३१ ॥
न मुञ्चन्ति क्षणमिति ममाप्युत्कण्ठते मनः ।
यथेयमग्रजा कान्तमेति सिद्धाभिसारिका ॥ ३२ ॥
अग्रे श्रेष्ठे देवयोतौ जाता अग्रजा ॥ ३२ ॥
तथा कदाहमेष्यामि ममापीति मनः स्थितम् ।
इमे मन्दाश्च मरुत एते च शशिनः कराः ॥ ३३ ॥
वनराजय एताश्च ममाप्युत्कण्ठयन्त्यहो ।
हे चित्ताज्ञमुधैवान्तः किं त्वं ताण्डवितं स्थितम् ॥ ३४ ॥
अज्ञ जड । मुधा व्यर्थमेव ताण्डवितं सत्किं स्थितमसीत्यर्थः ॥ ३४ ॥
सा व्योमनिर्मला साधो क्व ते याता विवेकिता ।
अथवा चित्त भर्तारं स्वं प्रत्युत्कण्ठसे सखे ॥ ३५ ॥
अथवा नायं दोष इति शेषः । कुतस्तत्राह-भर्तारमिति ॥ ३५ ॥
तिष्ठोत्कण्ठाभिवलितं किं समुत्कण्ठितेन मे ।
किं वृथोत्कण्ठसे वामे भर्ता यातो जरां भवेत् ॥ ३६ ॥
इदानीं देहं प्रत्याह-किमिति । वामे हे स्त्रीशरीर यदालिङ्गनाद्यर्थ
समुत्कण्ठसे स ते भर्ता जरां यातस्त्वन्निरपेक्ष एव भवेत् सम्भाव्यत् इत्यर्थः ॥ ३६
॥
तपस्वी कृशगात्रश्च भवेन्निर्वासनस्तथा ।
मनो राज्याद्यभोगेभ्यो मन्येऽस्यामूलतां गतम् ॥ ३७ ॥
राज्यादीनामभोगेभ्यः अभोगार्थं अस्य मनः अमूलतां निर्मूलतां गतं मन्ये
सम्भावये ॥ ३७ ॥
वासनालतिका प्रावृण्नदी नदगता यथा ।
एकान्तरत एकात्मा नीरसः शान्तवासनः ॥ ३८ ॥
तथा अस्य वासनालतिका यथा प्रावृण्नदी क्षुद्रा महानदगता सती न
पृथगवशिष्यते तथा सम्पन्नेति शेषः । एकान्ते रतः आसक्तः अत एव एकात्मा । नीरसो
निरिच्छः ॥ ३८ ॥
मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।
तथापि चित्त कोत्कण्ठा भवतोत्कण्ठयान्वितम् ॥ ३९ ॥
एवं नैराश्यप्रदर्शनान्निरुत्साहं मनः पुनरुज्जीवयन्तीवाह-तथापीति ।
अस्त्वेवंविधः सः तथापि हे चित्त का तवोत्कण्ठा । अहं योगेन वक्ष्यमाणोपायेन
भर्तुर्मतिमुद्बोध्य तत्त्वज्ञीकृत्य प्रारब्धशेषभोगोत्कण्ठया युतं पतिं
भवता सह श्लेषयिष्यामि न त्वयोत्कण्ठा कार्येति परेणान्वयः ॥ ३९ ॥
मतिमुद्बोध्य योगेन श्लेषयिष्याम्यहं पतिम् ।
प्रमृष्टकलनं भर्तुः समीकृत्य मनो मुनेः ॥ ४० ॥
तदेव स्पष्टमाह-प्रमृष्टेति ॥ ४० ॥
राज्य एव नियोक्ष्यामि निवत्स्यावः सुखं चिरम् ।
अहो नु चिरकालेन मनोरथमिमं शुभम् ॥ ४१ ॥
अहमासादयिष्यामि यद्भर्ता समचिन्तितः ।
समग्रानन्दवृन्दानामेतदेवोपरि स्थितम् ॥ ४२ ॥
यद्यस्माद्धेतोर्भर्ता तत्त्वबोधान्मया समं तुल्यरूपमन्तर्बाह्यार्थचिन्तितं यस्य
तथाविधः सम्पत्स्यत इति शेषः । तदेव प्रशंसन्त्याह-समग्रेति ॥ ४२ ॥
यत्समानमनोवृत्तिसङ्गमास्वादने सुखम् ।
इति चिन्तयती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् ॥ ४३ ॥
देशानब्दान्दिगन्तांश्च प्राप मन्दरकन्दरम् ।
अदृश्यैव नभःस्थैव प्रविवेश वनान्तरम् ॥ ४४ ॥
अब्दाम्मेघान् । वनान्तरं वनमध्यम् ॥ ४४ ॥
वात्येव पादपलतास्पन्दवेद्यगमागमा ।
वनैकदेशे कस्मिंश्चित्कृतपर्णोटजे पतिम् ॥ ४५ ॥
पादपानां लताना च स्पन्देन वेद्यावनुमेयौ गमागमौ यस्याः ॥ ४५ ॥
दृष्ट्वा योगेन बुबुधे देहान्तरमिवास्थितम् ।
हारकेयूरकटककुण्डलादिविभूषितः ॥ ४६ ॥
योगेन समाहितचित्तेनेति यावत् । यो हारकेयूरादिभूषितः सन् मेरुकान्तिरभवत्तमेव
अत्र मन्दरोटजे कृशाङ्गत्वादिलक्षणं ददर्शेति परेण सम्बन्धः ॥ ४६ ॥
अभवन्मेरुकान्तिर्यस्तमेवात्र ददर्श सा ।
कृशाङ्गं कृष्णवर्णं च जीर्णपर्णमिव स्थितम् ॥ ४७ ॥
कज्जलाम्बुभरस्नातं भृङ्गीशमिव निस्पृहम् ।
चीराम्बरधरं शान्तमेकाकिनमवस्थितम् ॥ ४८ ॥
भृङ्गीशं प्रसिद्धं रुद्रद्वारपालमिव ॥ ४८ ॥
स्थलीनिषण्णं पुष्पाणि ग्रथयन्तं जटाङ्कितम् ।
तमालोक्यानवद्याङ्गी चूडाला पीवरस्तनी ॥ ४९ ॥
देवातिथिसमर्चनाय पुष्पाणि मालां ग्रथयन्तम् । जटाभिरङ्कितं चिह्नितम् ॥ ४९ ॥
किञ्चिज्जातविषादैवमुवाचात्मनि चेतसा ।
अहो नु विषमं मौर्ख्यं तदनात्मज्ञतात्मकम् ॥ ५० ॥
अनात्मज्ञता अज्ञानं तदात्मकम् ॥ ५० ॥
एवंविधाः समायन्ति दशा मौर्ख्यप्रसादतः ।
अयं स राजा लक्ष्मीवान्यतो मेऽतिप्रियः पतिः ॥ ५१ ॥
यतो यस्माद्धेतोर्मे अतिप्रियः पतिर्मोहघनेन हृदि क्षुण्णामभिहतामिमां
दशामभ्यागतस्तत्तस्माद्धेतोरिहास्मिन्नुटजे अद्यैव अवश्यं नाथं पतिं
विदितवेद्यतां तथा भोगमोक्षश्रियं नयामि प्रापयामीति परेणान्वयः ॥ ५१ ॥
हृदि मोहघनक्षुण्णामिमामभ्यागतो दशाम् ।
तदवश्यमिहाद्यैव नाथं विदितवेद्यताम् ॥ ५२ ॥
नयाम्यत्र न सन्देहो भोगमोक्षश्रियं तथा ।
इदं रूपं परित्यज्य रूपेणान्येन केनचित् ॥ ५३ ॥
सकाशमस्य गच्छामि बोधन्न् दातुमनुत्तमम् ।
बालेयं मम कान्तेति मदुक्तं न करोत्यलम् ॥ ५४ ॥
किमर्थमिदं रूपं परित्याज्यं तत्राह-बालेति ॥ ५४ ॥
तस्मात्तापसरूपेण बोधयामि पतिं क्षणात् ।
भर्ता कषायपाकेन परिपक्वमतिः स्थितः ॥ ५५ ॥
प्रागेव कुतस्तपस्विवेषेण स न बोधितस्तत्राह-भर्तेति ॥ ५५ ॥
चेतस्यस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति ।
इति सञ्चित्य चूडाला बभूव द्विजदारकः ॥ ५६ ॥
द्विजदारको ब्राह्मणपुत्रः ॥ ५६ ॥
ईषद्ध्यानाद्गतान्यत्वं क्षणादम्बुतरङ्गवत् ।
पपात विपिने तस्मिन्द्विजपुत्रकरूपिणी ॥ ५७ ॥
कथं बभूव तदाह-ईषदिति । प्रागुक्ताग्नीषोमधारणान्वितादीषद्ध्यानात् ।
अन्यत्वं पुंस्त्वम् ॥ ५७ ॥
भर्तुरध्याजगामाग्रं मन्दस्मितलसन्मुखी ।
ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः ॥ ५८ ॥
अग्रं पुरोदेशम् ॥ ५८ ॥
वनान्तरादुपायातं तपो मूर्तिमिवास्थितम् ।
द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् ॥ ५९ ॥
मूर्तिमास्थितं तप इव द्रवत्कनकमिव गौराणि पीतस्वच्छान्यङ्गानि यस्य ॥ ५९ ॥
शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम् ।
कमण्डलुधरं कान्तं पुरो यातं शिखिध्वजः ॥ ६० ॥
व्याप्तप्रकोष्ठद्विगुणेनाक्षसूत्रेण चारुणा ।
भूमावलग्नगात्रेण किष्कुमात्रेण च स्थितम् ॥ ६१ ॥
व्याप्तः प्रकोष्ठान्मणिबन्धाद्द्विगुणो बहिर्देशो येन । अतएव किष्कुमात्रेण
हस्तमात्रेण द्वैगुण्ये वितस्तिमात्रेण वा अत
एवानतिदैर्घ्याद्भूमावलग्नगात्रेणाऽक्षसूत्रेणाक्षमालया स्थितमुपलक्षितम् ॥ ६१ ॥
कुन्तलव्याप्तमूर्धानं सालिमालमिवाम्बुजम् ।
भासयन्तं प्रदेशं तं शारीरैर्दीप्तिमण्डलैः ॥ ६२ ॥
कुण्डलाभषितमुखं नवमर्कमिवोदितम् ।
शिखासम्प्रोतमन्दारं शृङ्गस्थेन्दुमिवाचलम् ॥ ६३ ॥
शृङ्गस्थः शृङ्गसंलग्नप्राय इन्दुर्यस्य तथाविधमचलं पर्वतमिव
स्थितम् ॥ ६३ ॥
कान्तोपशान्तवपुषमूर्जितं विजितेन्द्रियम् ।
हिमाभभस्मतिलकं भूषितालोकसुन्दरम् ॥ ६४ ॥
मेरुहेमतटीलीनपूर्णेन्दुमिव चञ्चलम् ।
तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः ॥ ६५ ॥
मेरुहेमतटीपदेन तत्रस्थो गङ्गाप्रवाहो लक्ष्यते । तत्र लीनः प्रतिबिम्बितः
पूर्णेन्दुस्तमिव चञ्चलम् ॥ ६५ ॥
देवपुत्रागमधिया सम्परित्यक्तपादुकः ।
देवपुत्र नमस्कार इदमासनमास्यताम् ॥ ६६ ॥
इत्यस्य दर्शयामास पाणिना पत्रविष्टरम् ।
ददौ च द्विजपुत्रस्य् पुष्पमुष्टिं करोत्करे ॥ ६७ ॥
पत्रनिर्मितं विष्टरमासनम् । करोत्करे करतले ॥ ६७ ॥
चन्द्रः कुमुदखण्डस्य प्रालेयमिव पल्लवे ।
हे राजर्षे नमस्तुभ्यमिति द्विजसुतोऽवदत् ॥ ६८ ॥
कुमुदखण्डस्य पल्लवे प्रालेयं हिमकणजालमिव ॥ ६८ ॥
गृहीत्वा कुसुमान्यस्माद्विवेश पत्रविष्टरे ।
शिखिध्वज उवाच ।
देवपुत्र महाभाग कुत आगमनं कृतम् ।
दिवसः सफलो मन्ये यत्त्वामद्यास्मि दृष्टवान् ॥ ६९ ॥
यद्यस्मात्त्वामद्यास्मिन्दिवसे दृष्टवानस्मि ॥ ६९ ॥
इदमर्घ्यमिदं पाद्यं पुष्पाणीमानि मानद ।
इमा प्रग्रथिता माला गृह्यन्तां भद्रमस्तु ते ॥ ७० ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा पाद्यमर्घ्यं च माला पुष्पाणि चानघ ।
शिखिध्वजस्तदिष्टायै ददौ देव्यै यथाखिलम् ॥ ७१ ॥
अखिलं शास्त्रोक्तमनतिक्रम्येति यथाखिलम् । पदार्थानतिवृत्तौ
यथार्थेऽव्ययीभावः ॥ ७१ ॥
चूडालोवाच ।
सुबहूनि परिभ्रान्तो भूतलायतनान्यहम् ।
त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः ॥ ७२ ॥
न तथान्यतः प्राप्तेत्यनुषज्यते ॥ ७२ ॥
पेशलेनानुरूपेण प्रश्रयेणामुनानघ ।
मन्येऽहं नूनमत्यन्तचिरञ्जीवी भविष्यसि ॥ ७३ ॥
प्रश्रयेण विनयेन । एतैर्हि लक्षणैर्मनुजाश्चिरजीविनो भवन्तीति भावः ॥ ७३ ॥
शान्तेन मनसोदारमारादुन्मुक्तकल्पनम् ।
निर्वाणर्थं तपः साधो कच्चित्सम्भृतवानसि ॥ ७४ ॥
आरात् दूरे उन्मुक्ताः कल्पनाः फलसङ्कल्पा यस्मिन् । अत एवोदारं निर्वाणार्थं तपः
सम्भृतवान् सञ्चितवानसि । कच्चिदिति इष्टप्रश्ने निपातः ॥ ७४ ॥
असिधारासमं सौम्य शान्तव्रतमिदं तव ।
स्फीतं यद्राज्यमुत्सृज्य महावननिषेवणम् ॥ ७५ ॥
शान्तानामक्रोधनानां यतिवनस्थानां व्रतभूतमिदं
महावननिषेवणमसिधारासमं क्रूरमत्यन्तावधाननिर्वाह्यं चेत्यर्थः ॥ ७५ ॥
शिखिध्वज उवाच ।
जानासि भगवन्सर्वं देवस्त्वं कोऽत्र विस्मयः ।
श्रियैव लोकोत्तरया ज्ञायसे चिह्नरूपया ॥ ७६ ॥
राज्यत्यागनिर्वाणार्थतपश्चरणयोरज्ञातयोः प्रशंसनायोगात्तस्य तपसा
सर्वज्ञतां सम्भावयन् राजा द्विजसुतं रूपादिसम्पदा प्रशंसति##-
एतान्यङ्गानि ते चन्द्राद्घटितानीति मे मतिः ।
अथवा किं समालोकादमृतेनेव सिञ्चसि ॥ ७७ ॥
अथवा किं बहुना सम्यगालोकाद्वीक्षणाद्देहकान्तितश्चामृतेन सिञ्चसीव ॥ ७७ ॥
अस्ति मे दयिता कान्ता पाति मद्राज्यमद्य तत् ।
तवेव तस्या दृष्टानि तान्यङ्गानीह सुन्दर ॥ ७८ ॥
उपशान्तं च कान्तं च वपुरापादमस्तकम् ।
शृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना ॥ ७९ ॥
शृङ्गं मेरुशिखरम् । अमुना मद्दत्तमालारूपेण ॥ ७९ ॥
निष्कलङ्केन्दुसङ्काशमङ्गमादित्यतेजसा ।
मन्ये ते ग्लानिमायाति सुमनःपत्रपेलवम् ॥ ८० ॥
सुमनसां पुष्पाणां पत्रं दलमिव पेलवं सुकुमारं ते अङ्गम् ॥ ८० ॥
देवार्चनायोपचितमिदमित्थं सितं मया ।
अङ्ग त्वदङ्गसङ्गेन तत्प्रयातु कृतार्थताम् ॥ ८१ ॥
इदं पुष्पजातमित्थं दृश्यमानवैचित्र्येण सितं ग्रथितम् । षिञ् बन्धने कर्मणि
क्तः । अङ्गेति सम्बोधने । तत्तस्माद्देवस्य तवार्चनादित्यर्थः ॥ ८१ ॥
जीवितं याति साफल्यं स्वमभ्यागतपूजया ।
देवादप्यधिकं पूज्यः सतामभ्यागतो जनः ॥ ८२ ॥
देवार्चनादप्यतिथिपूजनमधिकमिति तदेकमपि जन्मसाफल्यहेतुः त्वत्पूजनेतु मे
द्वयमपि युगपत्सम्पन्नमिति सुतरां जीवितसाफल्यमित्यांशयेनाह-जीवितमिति ॥
८२ ॥
तत्कस्त्वं कस्य पुत्रस्त्वं किमायातोऽस्यनुग्रहात् ।
एतन्मे संशयं छिन्धि विमलेन्दुसमानन ॥ ८३ ॥
तत्तस्मान्मद्दत्तपूजाग्रहणद्भनन्तरमिति शेषः ॥ ८३ ॥
ब्राह्मण उवाच ।
राजन्मे शृणु वक्ष्यामि यथापृष्टमखण्डितम् ।
को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान् ॥ ८४ ॥
पुष्टमनतिक्रम्य यथापृष्टम् ॥ ८४ ॥
अस्त्यस्मिञ्जगतीकोशे शुद्धात्मा नारदो मुनिः ।
पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः ॥ ८५ ॥
पुण्यलक्ष्म्याः कान्ते रम्ये मुखे सुरभितरं यत्कर्पूरतिलकं तदुपमा यस्य । अनेन
नारदो गौराङ्ग इति गम्यते ॥ ८५ ॥
स कदाचिन्मुनिर्देवो गुहायां ध्यानमास्थितः ।
तत्र हेमतटे गङ्गा वहत्युरुतरङ्गिणी ॥ ८६ ॥
गुहायां मेरोरिति शेषः ॥ ८६ ॥
मेरुलक्ष्म्यां स्फुरद्रूपा भान्ति हारलता यथा ।
एकदा नारदमुनिर्ध्यानान्ते स सरित्तटे ॥ ८७ ॥
ध्वनद्वलयमश्रौषील्लीलाकलकलारवम् ।
किमेतदित्यसौ किञ्चिज्जातप्रायकुतूहलः ॥ ८८ ॥
ध्वनन्ति वलयानि यस्मिंस्तथाविधं लीलाकलकलारवं जलक्रीडाकोलाहलध्वनिम् ।
सम्भावनाप्राचुर्याद्यर्थः प्रायशब्दोऽप्यदन्तोऽस्ति । तदस्मिन्नन्नं प्राये
सञ्ज्ञायाम् प्रायभवः रूपात्प्रायादिति पाणिनिजैमिनिप्रभृतिभिः प्रयोगात् ॥ ८८ ॥
हेलयालोकयन्नद्यामपश्यल्ललनागणम् ।
रम्भातिलोत्तमाप्रायं निर्यातं जललीलया ॥ ८९ ॥
निर्यातं जलान्निर्गतम् । जललीलया जलसेचनादिक्रीडया ॥ ८९ ॥
क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ।
काञ्चनाम्भोजमुकुलसङ्काशैः स्तनमण्डलैः ॥ ९० ॥
परिवेल्लितमन्योन्यं फलकान्तं द्रुमं यथा ।
द्रुतहेमरसापूरनिर्भराभोगभासुरैः ॥ ९१ ॥
अन्योन्यं परिवेल्लितं वेष्टितम् । सङ्घट्टितमिति यावत् । द्रुतस्य हेमरसस्य य
आपूरनिर्भरः प्रवाहातिशयस्तादृशेन आभोगेन कान्तिसंस्थानेन
भासुरैरुरुभिः स्वात्मकस्य काममन्दिरस्य स्तम्भसञ्चयं कुर्वन्तमिति
परेणान्वयः ॥ ९१ ॥
कुर्वन्तमुरुभिः काममन्दिरस्तम्भसञ्चयम् ।
निर्मलीकृतचन्द्रेण व्याप्तां व्योमविलासिनीम् ॥ ९२ ॥
स्वजलनैर्मल्यान्निर्मलीकृतेन प्रतिबिम्बचन्द्रेण सर्वतो व्याप्तां
व्योमविलासिनीमापगां मन्दाकिनीं देहलावण्यरसप्रवाहेण तर्जयन्तं
न्यग्भावयन्तमिवेत्युत्प्रेक्षा ॥ ९२ ॥
लावण्यरसपूरेण तर्जन्यन्तमिवापगाम् ।
प्राकारैरमरोद्यानरथचक्रैर्मनोभुवः ॥ ९३ ॥
मनोभुवः कामस्य अमरोद्याने नन्दनवने क्रीडायां
रथचक्रभूतैर्नितम्बतटलक्षणैः सेतुभिर्निरोधादुत्पथे अर्पितं गङ्गाम्बु येन ॥
९३ ॥
उत्पथार्पितगङ्गाम्बु नितम्बतटसेतुभिः ।
सर्वत्र दृष्टसर्वाङ्गं विश्वरूपमिव स्थितम् ॥ ९४ ॥
यतः स्वच्छतमत्वादन्योन्यादर्शतां गतं अतः सर्वतः प्रतिबिम्बितसर्वाङ्गं
सर्वत्र दृष्टसर्वाङ्गं सत् सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् इति
प्रसिद्धकालात्मनः कल्पतरोर्भगवतः सकाशादुत्थितं विश्वरूपमिव
स्थितमित्यर्थः ॥ ९४ ॥
प्रतिबिम्बितसर्वाङ्गमन्योन्यादर्शतां गतम् ।
कालकल्पतरोर्वर्षविटपात्पक्षपल्लवात् ॥ ९५ ॥
विश्वरूपं दर्शयितुर्भगवतः कालात्मकत्वं च विश्व्रूपभीतेनार्जुनेन को
भवानुग्ररूपः इति पृष्टेन भगवता कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्यमाहर्तुमिह प्रवृत्तः इति स्ववचनेनैव दर्शितम् । अतस्तमेव काला त्मानं
सर्वकल्पनाफलदातृत्वात्कल्पतरुत्वेन रूपयति-वर्षविटपादित्यादिना । वर्षाणि
प्रभवादयः षष्टिसंवत्सरा विटपाः स्कन्धाः यस्य । एतेनायनद्वयस्य मासानां
च शाखात्वमर्थादुक्तमेव ॥ ९५ ॥
विविधर्तुलताजालाद्दिनश्रीकलिकाकुलात् ।
आलोकपुष्परजसो जाताद्गगनकानने ॥ ९६ ॥
विविधा भिन्नलक्षणा ऋतवो लताजालानि अवान्तरशाखासमूहा यस्य ।
गगनमव्यक्ताकाशस्तल्लक्षणे कानने नन्दने जातात् ॥ ९६ ॥
स्फुरज्जलखगप्रोतात्सप्ताब्ध्येकालवाडकात् ।
स्तनस्तबकवृन्देषु स्पर्धयातिरसान्वितम् ॥ ९७ ॥
स्फुरद्भिर्जलमयचन्द्रपरिणामशरीरत्वाज्जलखगैर्देवैः प्रोताद्व्याप्तात् ।
सप्ताप्यब्धय एकमालवाडकमालवालकं डलयोरभेदादालवालं यस्य
तथाविधात्कालकल्पतरोर्विष्णोरुद्भूतं विश्वरूपमिव स्थितमिति पूर्वत्रान्वयः ।
पुनर्ललनागणमेव विशिनष्टि-स्तनेति । परस्परस्तनस्तबकवृन्देषु
अम्भोजमुकुलेषु च सौन्दर्यसाम्यदर्शनप्रयुक्तस्पर्धया
नालादुद्धृत्योद्धृत्यास्फालनात्सम्पूर्णं दलितान्यम्भोजमुकुलपल्लवानि येनेति
परेणान्वयः ॥ ९७ ॥
उद्धृत्योद्धृत्य सम्पूर्णदलिताम्भोजपल्लवम् ।
आलोलालककेशाक्षितारकादिमधुव्रतम् ॥ ९८ ॥
अर्थान्मुखपद्मेषु आलोला अलकाश्चूर्णकुन्तलाः केशा दीर्घकुन्तला अक्षितारका
आदिपदाल्लालाटिकाखचितगूरुत्मतेन्द्रनीलमणयश्च मधुव्रता भ्रमरा यस्मिन् ॥ ९८ ॥
अमृतापद्विघाताय कोशसञ्चयकारिभिः ।
दुष्प्रापे भूतसङ्घानां विकसत्कनकाम्बुजे ॥ ९९ ॥
पुनः कीदृशं ललनागणं तदाह-अमृतेत्यादिना ।
अमृतकलाकोशसङ्ग्रहकारिभिः सुरैर्देवैरमृतस्य
राहुगरुडाद्यपहर्तृप्रयुक्तानामापदां विघाताय गुप्ते एकान्तभूते
मेरोर्गुहान्तरे एकत्रोपसंहृतं चन्द्रबिम्बकलापूरमिव स्थितम् । तत्र गुप्ते इति
यदुक्तं तदुपपत्तये विशिनष्टि-दुष्प्रापे इति । अन्यानि विशेषणानि
अमृतनिधानयोग्यस्थानताप्रदर्शनार्थानि ॥ ९९ ॥
पद्मिनीपल्लवाच्छन्ने गुप्ते मेरोर्गुहान्तरे ।
शीतले स्वर्धुनीतीरे तोयोन्मृष्टमले सुरैः ॥ १०० ॥
चन्द्रबिम्बकलापूरमेकत्रैवोपसंहृतम् ।
स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः ॥ १०१ ॥
ईदृशं कान्तं स्त्रैणं स्त्रीसमूहमालोक्य मुनेर्मनस्तदनन्तरमानन्दितं
प्रमत्तं सत् न आश्रितो विवेकांशो येन तथाविधं बभूवेति परेणान्वयः ॥ १०१ ॥
अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत् ।
आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते ॥ १०२ ॥
बभूव तस्य हृष्टस्य मदनस्खलितं तदा ।
फलं रसापूर्णमिव ग्रीष्मान्त इव तोयदः ॥ १०३ ॥
चित्ते विकारात्सर्वाङ्गे प्राणक्षोभस्तेन सर्वाङ्गसारस्य रेतसः स्खलनं
वृत्तमित्याह-बभूवेति । तत्र दृष्टान्तानाह-फलमित्यादिना ॥ १०३ ॥
प्रत्यग्रपादपश्छिन्नलतावृन्त इवोत्तम ।
अवश्यायकणस्पन्दी शशाङ्क इव वा मुनिः ॥ १०४ ॥
छिन्नं क्षतं लतावृन्तं शाखामूलस्थानं यस्य तथाविधः प्रत्यग्रस्तरुणः
पादपो वटादिरिव । उत्तमएति राजसम्बोधनम् ॥ १०४ ॥
बिसं द्विधापातमिव गलत्साररसोऽभवत् ।
शिखिध्वज उवाच ।
तादृशोऽपि बहुज्ञोपि जीवन्मुक्तोऽप्यसौ मुनिः ॥ १०५ ॥
द्विधापातं सद्योद्विधाखण्डितं बिसं मृणालमिव वा गलन् सारभूतो रसः
शुक्रं यस्य । राजप्रश्नः स्पष्टः ॥ १०५ ॥
निरिच्छोऽपि निरागोपि न किञ्चिदुपमोऽप्यलम् ।
सबाह्याभ्यन्तरं नित्यमाकाशविशदोपि च ॥ १०६ ॥
नारदोपि कथं ब्रह्मन् मदनस्खलितोऽभवत् ।
चूडालोवाच ।
सर्वस्या एव राजर्षे भूतजातेर्जगत्त्रये ॥ १०७ ॥
तत्त्वज्ञानामपि प्रबलतरप्रारब्धेन
विवेकांशनिरोधात्कदाचिद्देहधर्मानुवर्तनमस्त्येवेत्युत्तरमाह-सर्वस्या
एवेत्यादिना ॥ १०७ ॥
देवादेरपि देहोयं द्वयात्मैव स्वभावतः ।
अज्ञमस्त्वथ तज्ज्ञं वा यावत्स्वान्तं शरीरकम् ॥ १०८ ॥
यावत्स्वान्तं स्वनाशपर्यन्तम् ॥ १०८ ॥
सर्वमेव जगत्यङ्ग सुखदुःखमयं स्मृतम् ।
तृप्त्यादिना पदार्थेन केनचिद्वर्धते सुखम् ॥ १०९ ॥
सुखदुःखमयत्वमेव दृष्टान्तैर्दर्शयति-तृप्त्यादिनेति ॥ १०९ ॥
आलोक इव दीपेन महाम्बुधिरिवेन्दुना ।
क्षुधादिना पदार्थेन दुःखं केनचिदेव हि ॥ ११० ॥
दुःखं वर्धत इत्यनुकृष्यते ॥ ११० ॥
तमो मेघपटेनेव स्वभावो ह्यत्र कारणम् ।
स्वरूपे निर्मले सत्ये निमेषमपि विस्मृते ॥ १११ ॥
यथा मेघलक्षणेन पटेन उपचितेन निशि तमो वर्धते तद्वत् । यत्र तत्त्वज्ञानामपि
क्षणं स्वरूपविस्मरणे ईदृशानर्थास्तत्राज्ञानां किं वाच्यमित्याशयेनाह##-
दृश्यमुल्लासमाप्नोति प्रावृषीव प्रयोधरः ।
अनारतानुसन्धानादप्युन्मेषमविस्मृते ॥ ११२ ॥
अत एव सदैव दृश्यानुल्लासाय सदैव समाधिना स्वरूपाविस्मरणशीलेन
भाव्यमित्याशयेनाह-अनारतेति । उन्मेषो निमेषद्वयान्तरालकालस्तावन्मात्रमपि
॥ ११२ ॥
स्वरूपे नोल्लसत्येष चित्ते दृश्यपिशाचकः ।
यथा तमःप्रकाशाभ्यामहोरात्रौ स्थितिं गतौ ॥ ११३ ॥
तथैव सुखदुःखाभ्यां शरीरं स्थितिमागतम् ।
एवं हि सुखदुःखे द्वे जन्मकारणदर्शनात् ॥ ११४ ॥
एवं ज्ञाज्ञयोः प्रारब्धफलभोगसाम्येपि रञ्जनारञ्जनकृतो विशेषोऽस्त्येवेति
दृष्टान्ताभ्यामुपपादयति-एवमित्यादिना । जन्मकारणस्य देहाद्यात्मभावस्य
दर्शनात् ॥ ११४ ॥
अज्ञस्य गाढतां याते पटे कुङ्कुमवद्दृढम् ।
तज्ज्ञस्य त्वङ्ग लगतो मनागपि न तद्वशात् ॥ ११५ ॥
तज्ज्ञस्य तु तद्वशात्तत्त्वज्ञानवशात् । मनागपि न लगतः ॥ ११५ ॥
यथा शुभाशुभौ रागादिनाक्रान्ततरौ मणेः ।
पुरःस्थवस्तुभावेन रञ्जनां स्फटिको यथा ॥ ११६ ॥
यथा मणेः स्फटिकस्यान्तः रागेण तादात्म्यानुरञ्जनेन ।
आदिपदात्तत्प्रयुक्तेन्द्रनीलपद्मरागाद्यध्यासेन आक्रान्ततरौ अतिशयेन
सङ्क्रान्तावपि शुभाशुभौ कुङ्कुमनील्यादिवर्णौ पटस्येव रागेण रञ्जनया
आदिपदाच्छुद्ध्यशुद्ध्यादिना च यथा मणेर्न लगतस्तद्वदित्यर्थः । इदानीं
स्फटिकादपि तस्य स्वच्छतरत्वाद्विशेषमाह-पुरःस्थेति । स्फटिकः
पुरःस्थजपाकुसुमादिवस्तुभावेन तात्कालिकीं रञ्जनामपि यायात् । तज्ज्ञस्तु तामपि
नैतीत्यर्थः ॥ ११६ ॥
तज्ज्ञस्तथा नैति बोधाज्जीवन्मुक्तमतिर्मुनिः ।
वस्तुनः श्लेषमात्रेण घनरञ्जितमेति धीः ॥ ११७ ॥
अज्ञस्य गाढतां याते इति यदुक्तं तद्विवृणोति-वस्तुन इत्यादिना । घनं
रञ्जितं रञ्जनम् । धीः अज्ञस्येति शेषः ॥ ११७ ॥
गतेऽपि वस्तुनि दृढं बुद्धिर्यत्परितापिता [] ।
गतेऽपि कुङ्कुमे वस्त्रं तदीयमनुरञ्जनम् ॥ ११८ ॥
तत्कुतस्तत्राह-गतेऽपीति । यद्यस्माद्धेतोः परितापिता भवतीत्यर्थः ॥ ११८ ॥
न जहाति यथा मूढस्तथा विषयरञ्जनम् ।
अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ ॥ ११९ ॥
विषयरञ्जनं न जहाति । तथा च बुद्धौ विषयरञ्जनवासनोपचय एव
बन्धस्तत्क्षय एव मोक्ष इति फलितमित्याह-अनेनेति ॥ ११९ ॥
भावनातानवं मोक्षो बन्धो हि दृढभावना ।
शिखिध्वज उवाच ।
स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा ॥ १२० ॥
दूरस्थानां पुत्रराज्यादीनाम् । अपिपदात्सन्निहितानां
चलाभनाशादिस्वोत्पत्तिकारणप्राप्तौ तदभिमानिनः सुखं दुःखं च केन क्रमेण
जायते तद्वदेति राजा पृच्छति-स्वोत्पत्तीति ॥ १२० ॥
अभ्युदेतीति वद मे दूरस्थानामपि प्रभो ।
अत्युदारमतीवाच्छं बह्वर्थं वचनं तव ॥ १२१ ॥
श्रोतुं तृप्तिं न गच्छामि मयूरोऽभ्ररवेष्विव ।
चूडालोवाच ।
स्वोत्पत्तिकारणं हृद्यं लब्ध्वा कायाक्षिपाणिभिः ॥ १२२ ।
तत्रादौ सुखोत्पत्तिप्रकारं वर्णयति-स्वेति । सन्निहितविषये
कायाक्षिपाणिभिर्दूरस्थविषये शब्दानुमानादिना च लब्ध्वा उपलभ्य ॥ १२२ ।
सुखसंविदियं बाला नूनमुल्लसति स्वतः ।
हृद्गता क्षोभमायाता जीवं कुण्डलिनीगतम् ॥ १२३ ॥
अपरिच्छिन्नस्वतत्त्वानभिज्ञत्वाद्बला इयं हृद्गता बुद्धिस्था
आत्मसुखसंविद्बुद्धेः क्षोभात् क्षोभायाता सती प्राग्वर्णितरीत्या
कुण्डलिनीमुखप्रभवप्राणविधायकत्वात्कुण्डलिनीगतं जीवं भोक्तारं प्रति
स्वतः प्रत्यगात्मतत्त्वात्वेवाग्निविस्फुलिङ्गवदुल्लसति आविर्भवति ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेरिति भावः ॥ १२३ ॥
जीवस्य नियता नाड्यः पृथग्देहे स्थितिं गताः ।
प्राणावपूरिता नाडीर्जीव आक्रामति स्फुरन् ॥ १२४ ॥
हृत्स्थस्य भोक्तुर्नयनरसनश्रोत्रादिप्रतिनियतभोगस्थानागमने
मार्गभेदमाह-जीवस्येति ॥ १२४ ॥
संस्पर्शैकप्रबुद्धात्मा [प्रवाहात्मा इति पाठष्टीकानुगुणः ।] रसो
द्रुमलता इव ।
सुखप्रबोधसञ्चारे दुःखबोधागमे तथा ॥ १२५ ॥
तत्तद्विषयसंस्पर्शेन तदेकाग्रप्रवाहात्मा सन्निति पूर्वत्रान्वयः । जीवस्य
नाडीद्वारा सर्वदेहप्रवेशे दृष्टान्तमाह-रस इति । यथा मूले सिक्तो रसो जलं
नाडीद्वारा द्रुमलताः सर्वप्रदेशेष्वनुप्रविशति तद्वदित्यर्थः ॥ १२५ ॥
जीवस्य नियता नाड्यः पृथग्देहस्थितिं गताः ।
सुखिनः प्रस्फुरत्येषा धीरताशु न दुःखिनः ॥ १२६ ॥
पृथङ्नियता नैकरूपा इत्यर्थः । कुत एतज्ज्ञानं तत्राह-सुखिन इति । सुखिनः
सुखानुभवे प्रवृत्तस्य जीवस्य धीरता स्वस्थता प्रस्फुरति न तु दुःखिनो
दुःखानुभवे प्रवृत्तस्य । स हि अस्वस्थं तरलं
दन्दह्यमानमिवात्मानमनुभवतीत्यतस्तस्य
पित्तोष्मादिसन्तापकरसपूर्णस्तरलश्च नाडीमार्गोऽनुमीयते इत्यर्थः ॥ १२६ ॥
ये हि मार्गाः सुवेषस्य कुवेषस्य न ते शुभाः ।
यावत्प्रमाणं जीवोऽयं संशाम्यत्यपरिस्फुरन् ॥ १२७ ॥
अत एव लोकेऽपि सुवेषस्य भोगे प्रवृत्तस्य राजादेः सम्मृष्टाः
कर्पूरचन्दनोदकसिक्ताः कीर्णकुसुमा धूपकस्तूर्यादिसुरभिणो मार्गाः प्रसिद्धाः
कुवेषस्य नीचस्य तु तद्विपरीता इत्याह-ये हीति । एवं चायं जीवो यावत्कालं
तरलतरनाडीमार्गाननुप्रवेशेन अपरिस्फुरन् स्वयं तरलताशून्यो भवति तावदस्य
न दुःखप्रसक्तिः । तदास्य स्रक्चन्दनाद्याकारवृत्त्यालपं
स्वात्मसुख्कमभिव्यज्यते । ब्रह्माकारवृत्त्या तु पूर्णमित्यवान्तरवैलक्षण्येपि
विक्षेपाभावात्संशाम्यत्येवेति स्वग्र्यावस्थमेनं तावत्कालं मुक्तमेवावेहि ।
आविर्भूतसुखा स्वसतैव मुक्तिरिति तल्लक्षणसत्त्वादिति भावः ॥ १२७ ॥
तावत्प्रमाणमेवैनं मुक्तं मुक्तमवेहि वै ।
यावत्प्रमाणमधिकं स्फुरति क्षुब्धमारुतम् ॥ १२८ ॥
तावत्प्रमाणमेवैनं बद्धं बद्धमवेहि मे ।
सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः ॥ १२९ ॥
तर्हि विषयसुखानुभवकाले कृतो जीवस्य न मुक्ततानुभवस्तत्रा-सुखेति ।
दुःखग्रहणं दृष्टान्तार्थम् । दुःखस्यैव विषयसुखस्यापि कलनं
कलानुभवस्तदर्थं रागाद्यश्चित्तस्य बहिःस्पन्दो यश्च सुखविच्छित्तौ
तरलीभावस्तदुपायार्जनायानर्थसहस्रे स्पन्दः स एव जीवस्य बन्धो न त्वितरः
सुखविश्रान्त्यंशोऽपीति क्षणमात्रमपि सुखविश्रान्त्या तदभावे मोक्षः स्यादेवेति
संसरणासंसरणाभ्यां बन्धमोक्षयोर्द्वेधा व्यवस्थितिर्मयोक्तेति परेणान्वयः
॥ १२९ ॥
तदभावे हि मोक्षः स्यादिति द्वेधा व्यवस्थितिः ।
सुखदुःखदशे यावदानीते नेन्द्रियैः शठैः ॥ १३० ॥
उक्तमेवार्थं प्रपञ्चयति-सुखदुःखेत्यादिना ॥ १३० ॥
तावत्सुखसमः सौम्यो जीवस्तिष्ठति शान्तवत् ।
सुखमालोक्य वा दुःखमक्षातीतश्चलद्वपुः ॥ १३१ ॥
अक्षातीत इन्द्रियागम्यः स्वप्रकाश इति यावत् ॥ १३१ ॥
समुल्लसति जीवोऽन्तर्दृष्ट्वेन्दुमिव तोयधिः ।
जीवः क्षुभ्यति दृष्टेन संविदाङ्ग सुखादिना ॥ १३२ ॥
दृष्टेन सुखादिना सुखतत्साधन्विषयतदुपायधनादिना तद्रागसंविदा क्षुभ्यति
। अङ्गेति सम्बोधने ॥ १३२ ॥
आमिषेणेव मार्जारो मौर्ख्यमेवात्र कारणम् ।
शुद्धेन बोध्यबोधेन स्वात्मज्ञानमयात्मना ॥ १३३ ॥
मौर्ख्यं निरतिशयानन्दस्वतत्त्वाज्ञानमेवात्र क्षोभे कारणम् । केन तर्हि
तन्निवृत्त्या विश्रान्तिस्तदाह-शुद्धेनेत्यादिना । बोध्योऽवश्यबोद्धव्यः स्वात्मा
तद्बोधेन ॥ १३३ ॥
सुखदुःखादि नास्तीति तेनासौ याति सौम्यताम् ।
न तत्सुखादि नो तन्मे मुधा चायमहं स्थितः ॥ १३४ ॥
सौम्यतां विश्रान्तिम् ॥ १३४ ॥
इति जीवः प्रबुद्धो हि निर्वाणं याति शाम्यति ।
सुखाद्यवस्त्वतद्रूपमित्यन्तर्बोधसंविदा ॥ १३५ ॥
न तदुन्मुखतां याति जीवः शाम्यति केवलम् ।
सर्वमेव चिदाकाशं ब्रह्मेति घननिश्चये ॥ १३६ ॥
स्थितिं याते शमं याति जीवो निःस्नेहदीपवत् ।
दीपवच्छममायाति सुखादिस्नेहसङ्क्षये ॥ १३७ ॥
सुखादिषु स्नेहो रागस्तत्सङ्क्षये ॥ १३७ ॥
सर्वमेवमिति ज्ञानाज्जीवोऽद्वित्वविभावनात् ।
सर्वमाकाशमेवेति बुद्ध्वा क्षोभं न गच्छति ॥ १३८ ॥
सर्वं जगत् एवं चिन्मात्रमेवेति ज्ञानात् । अद्वित्वमैक्यं तद्विभावनात् । आकाशं
शून्यम् ॥ १३८ ॥
जीवस्यानेन शून्यस्य कः किल क्षोभविभ्रमः ।
जीवेनेदृग्विधेनैव यथा प्रथमसर्गतः ॥ १३९ ॥
अनेन ब्रह्मैक्यविभावनेन हेतुना पृथक्ताशून्यस्य बन्धशून्यस्य वा । कथं
तर्ह्यस्य क्षोभविभ्रम आगतस्तत्राह-जीवेनेति । ईदृग्विधेन कल्पितेनैव आद्यजीवेन
हिरण्यगर्भेण एव सर्वजीवात्मनाहं संसरिष्याम्येवं स्वतत्त्वबोधादहं
क्रमेण मुक्तो भविष्यामीति स्वकल्पनयैव बन्धमोक्षमार्गौ कल्पयित्वा स
एवानुवर्त्यत इत्यर्थः ॥ १३९ ॥
स्वयं संविदितो मार्गस्तेनैवाद्यापि गच्छति ।
शिखिध्वज उवाच ।
सुखसञ्चारयोग्यासु जीवे सरति नाडिषु ॥ १४० ॥
प्रश्नः स्पष्टः ॥ १४० ॥
देवपुत्र भवत्येव तद्वीर्यच्यवनं कथम् ।
चूडालोवाच ।
जीवः क्षोभयति क्षुब्धः प्राणादिपवनावलिम् ॥ १४१ ॥
स्त्रीपिण्डदर्शनाद्रागवासनोद्बोधेन क्षुब्धः सन् ॥ १४१ ॥
संविदा ज्ञांशमात्रेण सेनामिव महीपतिः ।
वातस्पन्देन भेदोऽन्तर्मज्जासारश्च संस्थितः ॥ १४२ ॥
कथं क्षोभयति तत्राह-संविदा ज्ञांशमात्रेणेति । प्रवृत्तिस्वभावानां
प्राणादीनामधिष्ठात्र्या जीवसंविदः अङ्कुरितरागादिवृत्त्यनुरोध
एवाभ्यनुज्ञारूपा आज्ञा तदंशमात्रेणेत्यर्थः । भेदोस्त्याद्यन्तःसञ्चारिणो
व्यानवातस्य स्पन्देन प्रेरणेन सर्वाङ्गसंस्थितो भेदोन्तर्गतः सारो मज्जासारश्च
आशु प्रकृष्टसौगन्ध्यमिवानुगतं रजः स्वं सूक्ष्मांशं त्यजति । यथा
छिन्नवृन्तं पत्रफलादिकं स्वान्तर्गतजलांशमन्तर्वातस्पन्देन त्यजति
तद्वदित्यर्थः ॥ १४२ ॥
त्यजत्याशु प्रसौगन्ध्यं रजः पत्रफलादिकम् ।
चलितं तत्त्वधो याति गर्जादिव घनादि खे ॥ १४३ ॥
तत्तु त्यक्तं रजः सर्वाङ्गेभ्यश्चलितं सन्नाडीद्वारा अधो मूलाधारस्थानं याति ।
यथा सर्वतः खे प्रसृतं जलं गर्जयतीति गर्जः पुरोवातस्तस्मान्निमित्तादेकीभूय
घनमभ्रं आदिपदान्मेघाद्यवस्थं भूत्वा वर्षणोन्मुखं
सधधोऽसन्निहितदेशं याति तद्वदित्यर्थः ॥ १४३ ॥
देहनाडीप्रणालेन याति शुक्रं बहिः स्वतः ।
शिखिध्वज उवाच ।
देवपुत्र महाज्ञोऽसि वेत्सि पूर्वां च तत्स्थितिम् ॥ १४४ ।
स्वतः स्वभावतः । देवादेरपि देहोऽयं द्वयात्मैव स्वभावतः इति यत्त्वयोक्तं तत्र
स्वभावशब्दार्थः क इति राजा पृच्छति-देवपुत्रेति । महांश्चासौ ज्ञश्च
महाज्ञः आत्मतत्त्वविदसि । आत्मज्ञानात् पूर्वं सांसारिकपदार्थसंस्थितिं च
तर्कादिकौशल्येन वेत्सि ॥ १४४ ॥
ज्ञायसे वचनादेव स्वभावो हि किमुच्यते ।
चूडालोवाच ।
आद्यसर्गे यथा सद्यः स्फुरितं ब्रह्म ब्रह्मणि ॥ १४५ ॥
कथमहमीदृक्तया ज्ञातस्तत्राह-ज्ञायसे इति । सर्गादिकाले सर्गोन्मुखं
ब्रह्म प्राक्तनप्राणिकर्मानुसारेण यादृग्यादृग्धर्मकं यद्यत्पदार्थात्मना
स्वात्मनि स्फुरितं तस्य पदार्थस्य आप्रलयं तादृग्धर्मकत्वनियतिः
स्वभावशब्दार्थ इत्याह-आद्यसर्गे इति ॥ १४५ ॥
घटावटपटाद्यात्म तथैवाद्यव्यवस्थितम् ।
काकतालीयवद्वारिबुद्बुदोत्पत्तिनाशवत् ।
घुणाक्षरवदुच्छूनं तं स्वभावं विदुर्बुधाः ॥ १४६ ॥
साम्प्रतिकघटादिस्वभाववैचित्र्यं दृष्टसामग्रीवैचित्र्यादपि सम्भाव्येत ।
सर्गादौ तु तन्निरूपणासम्भवात्काकागमनक्षणे दैवात्तच्छिरसि तालप्तनमिव तेन
तस्य मरणमिव चादृष्टमात्रप्रयुक्तमिति
बोधनायाद्यसर्गानुधावनमित्याशयं दर्शयति-काकेति । समासाच्च तद्विषयात्
इतीवार्थद्वयविषयात्समासात्तृतीये इवार्थे च्छप्रत्ययः । साम्प्रतिकेऽपि
प्रतिवस्तुदेशकालनियते स्वभाववैचित्र्ये न दृष्टसामग्रीयत्ता निरूपयितुं
शक्येत्याशयेन दृष्टान्तान्तरमाह-वारिबुद्बुदेति । मायामात्रत्वादाकस्मिको
वासोऽस्त्वित्याशयेन दृष्टान्तान्तरमाह-घुणाक्षरवदिति ॥ १४६ ॥
अस्मिन्स्वभाववशतो जगति प्ररूढे देहा भ्रमन्ति परितो विविधा विकाराः ।
प्रक्षीणवासनतया न भवन्ति केचिद्भूयो भवन्ति च पुनस्त्वितरे घनास्थाः ॥
१४७ ॥
उक्तलक्षणस्वभाववशतः प्ररूढे अस्मिन् जगति विविधविकारात्मका
अण्डजादिचतुर्विधा देहा भ्रमन्ति । तेषु केचिज्ज्ञानदेहास्ते प्रक्षीनवासनतया भूयो
जन्मने न भवन्ति । इतरे अज्ञानदेहास्तु भूयो जन्मने भवन्ति । यतस्ते भोगेष्वेव
घनास्था इत्यर्थः ॥ १४७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू०
सुखविचारयोगोपदेशो नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
सुखविचारयोगोपदेशो नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥