०८४

चतुरशीतितमः सर्गः ८४

श्रीवसिष्ठ उवाच ।

ततः शिखिध्वजो राजा तत्त्वज्ञानपदं विना ।
आजगाम परं मोहं तमोन्धत्वमिवाप्रजाः ॥ १ ॥

शिखिध्वजस्य वैराग्यं चूडालाश्वासनं वने ।
निशि चैकस्य निर्याणं मन्दरे स्थितिरीर्यते ॥

तत्त्वज्ञानरूपं पदं विश्रान्तिस्थानं विना । अप्रजाः नष्टसन्ततिः पुमान्
शोकादितमसा अन्धत्वमिव ॥ १ ॥

दुःखाग्निदीपितमना मनागपि विभूतिषु ।
तास्वभीष्टोपनीतासु न रेमेऽग्निशिखास्विव ॥ २ ॥

अभीष्टैः सामन्तादिभिरुपनीतासु रत्नादिविभूतिषु ॥ २ ॥

एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च ।
आजगाम रतिं जन्तुर्मुक्तेषुर्व्याधतो यथा ॥ ३ ॥

मुक्त इषुर्यस्मै तथाविधो दैवादविद्धो जन्तुर्मृगादिर्व्याधतो भीतो यथा
एकान्तादिषु रतिमेति तद्वत् ॥ ३ ॥

राघव त्वमिवाशेषाः सान्त्वानुनयबोधनैः ।
प्रार्थितः कार्यते भृत्यैर्महीपो दिवसक्रियाः ॥ ४ ॥

अशेषा दिवसक्रियाः कार्यते हक्रोरन्यतरस्याम् इत्यणौ कर्तुर्णौ कर्मत्वे कर्मणि लः ॥
४ ॥

नित्यमुद्दामवैराग्यः परिव्राडिव शान्तधीः ।
खिद्यते च महाभोगान्स भोक्तुं च श्रियं स्थितः ॥ ५ ॥

परिव्राडिव स्थितः स महाभोगान् श्रियं च भोक्तुं खिद्यते । चः पूर्ववाक्यार्थेन
सहास्य समुच्चयार्थः ॥ ५ ॥

ददावतितरां दानं गोभूमिकनकादिकम् ।
देवेभ्यो ब्राह्मणेभ्यश्च स्वजनेभ्यश्च मानद ॥ ६ ॥

चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् ।
परिबभ्राम तीर्थानि वनान्यायतनानि च ॥ ७ ॥

देहमनःशोधनं कर्तुं कृच्छ्रचान्द्रायणादिकं तपश्चकार ॥ ७ ॥

स तथापि विशोकत्वं न मनागपि लब्धवान् ।
अनिधानां खनन्भूमिं निधानार्थी निधिं यथा ॥ ८ ॥

रात्रिन्दिवं महानेष शुष्यत्येव कृशानुना ।
चिन्तया चिन्तयामास संसारव्याधिभेषजम् ॥ ९ ॥

चिन्तया चिन्तालक्षणेन कृशानुना ॥ ९ ॥

चिन्तापरवशो दीनो राज्यन्न् स्वस्य विषोपमम् ।
महाविभवमप्यग्रे नापश्यत्खिन्नया धिया ॥ १० ॥

अथैकदैकान्तगतां चूडालामङ्कमागताम् ।
इदं मधुरया वाचा समुवाच शिखिध्वजः ॥ ११ ॥

शिखिध्वज उवाच ।

भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः ।
अधुनास्मि विरागेण युक्तो गच्छामि काननम् ॥ १२ ॥

विभवभूमयो वैभवपदानि ॥ १२ ॥

न सुखानि न दुःखानि नापदो न च सम्पदः ।
क्रोडीकुर्वन्ति तन्वङ्गि कुनिं मननिवासिनम् ॥ १३ ॥

क्रोडीकुर्वन्ति श्लिष्यन्ति ॥ १३ ॥

न देशभङ्गसम्मोहो न सङ्ग्रामे जनक्षयः ।
राज्यादप्यधिकं मन्ये सुखं वननिवासिनाम् ॥ १४ ॥

सुखाधिक्ये हेतून्दर्शयति-न देशेति ॥ १४ ॥

स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः ।
मञ्जरीजालहारिण्यो लोलशुभ्राम्बुदांशुकाः ॥ १५ ॥

इदानीन्न्ननराजीश्चूडालोपमात्वेन स्वीकृत्य वर्णयति-स्तबकेत्यादिपञ्चभिः ।
प्रायेण सर्वत्र रूपकाणि ॥ १५ ॥

स्वपरागाङ्गरागिण्यः कृतकौसुममण्डनाः ।
आसेव्यकाञ्चनशिलानितम्बतटशोभिताः ॥ १६ ॥

कृतानि कुसुमान्येव कौसुमानि मण्डनानि याभिः । आसेव्याः काञ्चनशिला एव
नितम्बतटास्तैः शोभिताः ॥ १६ ॥

तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः ।
लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः ॥ १७ ॥

तरङ्गलक्षणमौक्तिकैः प्रोताभिः सरिन्मुक्तालताभिरावृताः । मुग्धमुग्धा
भृगा एवात्मजाः शिशवो यासाम् ॥ १७ ॥

स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः ।
षट्पदश्रेणिनयनाः पुष्पापूरलताङ्गिकाः ॥ १८ ॥

क्षुधितेभ्यो वितीर्णादि दत्तानि फलभोजनानि याभिः । पुष्पैरापूर्यन्त इति पुष्पापूरा
लता एव बाह्वाद्यङ्गानि यासाम् ॥ १८ ॥

आस्वाद्यस्पन्दतां याताः शीतलामलगात्रिकाः ।
रमयन्ति त्वमिव मां वनवीथ्यो वरानने ॥ १९ ॥

त्वदधर इव आस्वाद्यः स्यन्दस्तरङ्गप्रस्नावो यासां तद्भावं याताः । वनवीथ्यो
वनराज्यः ॥ १९ ॥

यथा विविक्तमेकान्ते मनो भवति निर्वृतम् ।
न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु ॥ २० ॥

अस्मिन्सन्मन्त्रणे तन्वि न विघ्नं कर्तुमर्हसि ।
भर्तुर्विघटयन्तीच्छां न स्वप्नेऽपि कुलस्त्रियः ॥ २१ ॥

अस्मिन्वनगमनविषये सन्मन्त्रणे उत्तमविचारे ॥ २१ ॥

चूडालोवाच ।

प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् ।
वसन्ते राजते पुष्पं फलं शरदि राजते ॥ २२ ॥

तस्य वैराग्यदार्ढ्यं जिज्ञासमाना प्राक्तनीं कामासक्तिमेव
वयोनुरूपतावर्णनेनानुमन्यमानेव स्थूणाविचालनन्यायेन विचालयन्ती
चूडालोवाच-प्राप्तेत्यादिना ॥ २२ ॥

जराजरठदेहानां युक्तो वनसमाश्रयः ।
न यूनां त्वादृशामेव तेनैतन्मे न रोचते ॥ २३ ॥

यौवनेन महाराज न यावद्वयमुज्झिताः ।
पुष्पौघेणेव तरवस्तावच्छोभामहे गृहे ॥ २४ ॥

गृहे शोभामहे । वसावेति यावत् । अस्मदो द्वयोश्च इति बहुवचनम् ॥ २४ ॥

पुष्पधाना पुष्पमितजरसा सह काननम् ।
समं गृहाद्गमिष्यामो हंसा इव सरोवरात् ॥ २५ ॥

पुष्पाणि धीयन्ते धार्यन्ते यासु लतासु तदीयशिरोगतपुष्पैर्मितया तुलितया जरसा सह
पुष्पसिताभिर्लताभिर्मैत्री तत्साम्यदशायामेव युक्तेति भावः ॥ २५ ॥

अप्राप्तकालं नृपतेः प्रजापालनमुज्झतः ।
राजन्यस्यैव रन्ध्रस्य महदेनो भविष्यति ॥ २६ ॥

रन्ध्रस्य राज्यच्छिद्रस्य निमित्तमिति शेषः । एनः पापम् ॥ २६ ॥

अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः ।
रोधयन्ति ह्यकार्येभ्यः प्रभुं भृत्याः परस्परम् ॥ २७ ॥

रोधयन्ति निवारयन्ति ॥ २७ ॥

शिखिध्वज उवाच ।

अलमुत्पलपत्राक्षि विघ्नेनाभिमतस्य मे ।
विद्धि मां गतमेवेतो दूरमेकान्तकाननम् ॥ २८ ॥

एवं विचालितोऽप्यविचलवैराग्यः शिखिध्वजस्तामनुनयति-अलमित्यादिना ॥ २८ ॥

बाला त्वमनवद्याङ्गि नागन्तव्यन्न् वनं त्वया ।
पुंसामपि हि मृद्वङ्गि दुर्विगाह्यो वनाश्रयः ॥ २९ ॥

वनाश्रयो वनप्रदेशो दुःखेन विगाह्यः प्रवेष्टुं शक्यः ॥ २९ ॥

समर्था न वनावासे योषितः कठिना अपि ।
कानने पुष्पमञ्जर्यः सोढुं शस्त्रालिमक्षमाः ॥ ३० ॥

कठिनाः कठोराङ्ग्योऽपि । यथा कानने जाता उपवनजाताभ्यः कठोरा अपि
पुष्पमञ्जर्यः शस्त्रालिं सोढुमक्षमास्तद्वदित्यर्थः । शक्तालिम् इति पाठे
शक्तानां बलवतां पक्षिणामालिं पङ्क्तिमिति व्याख्येयम् ॥ ३० ॥

भवत्या पालयन्त्येह राज्ये स्थातव्यमुत्तमे ।
कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः ॥ ३१ ॥

यत्त्वयोक्तं अप्राप्तकालं नृपतेः इति तस्यापि दोषस्य परिहारस्तयैव कार्य
इत्याशयेनाह-भवत्येति ॥ ३१ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा दयितां राजा तामिन्दुवदनां वशी ।
उत्तस्थौ स्नातुमखिलं दिनकार्यं चकार च ॥ ३२ ॥

अथोज्झितप्रजाचेष्टो रविरस्ताचलं ययौ ।
शिखिध्वजो वनमिव समस्तजनदुर्गमम् ॥ ३३ ॥

उपमेययोर्विशेषणे उपमानयोरपि योज्ये ॥ ३३ ॥

संहृत्य विततं रूपं तमेवानुययौ प्रभा ।
नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी ॥ ३४ ॥

आययौ यामिनी श्यामा भुवनं भस्मधूसरम् ।
धृतव्योमापगं शर्वं संश्लेषा यमुनेव सा ॥ ३५ ॥

धृता व्योमापगा स्वसखी गङ्गा येन तथाविधं शर्वं संश्लिष्यति स्वयमपि
कामादालिङ्गतीति संश्लेषा तथाविधा यमुनेवेत्युत्प्रेक्षा । श्याद्व्यधा इति श्लिषः
कर्तरि णः ॥ ३५ ॥

दिक्षु सन्ध्याब्ददन्तासु [सन्ध्याभ्रदन्तासु इति पाठः ।] स्थितासु
कृतमण्डलम् ।
तमालबालकाङ्कासु ज्योत्स्नाहासोदयाङ्कितम् ॥ ३६ ॥

तमाललक्षणबालका अङ्के यासां तासु दिक्षु यमुनाचरित्रदर्शनादिव
ज्योत्स्नाहासोदयाङ्कितं परितः कृतमण्डलं च यथा स्यात्तथा स्थितासु ।
इतःप्रभृति सर्वेषां सप्तम्यन्तानां तारागणो ददृशे इत्यत्र सम्बन्धः ॥ ३६ ॥

गच्छतोरपरं पारं दम्पत्योर्मैरवं पदम् ।
देवोद्यानमयं रन्तुं दिनश्रीदिननाथयोः ॥ ३७ ॥

दिनश्रीश्च दिननाथश्च तद्रूपयोर्दपत्योर्देवोद्यानप्रचुरं मैरवं
मेरुसम्बन्धि अपरं पारं उत्तरार्धं रन्तुं गच्छतोः सतोः ॥ ३७ ॥

आगच्छतोरिदं पारं ह्यघतीक्ष्णकरोज्झितम् ।
निशानिशानायकयोर्दम्पत्योर्मैरवं पुनः ॥ ३८ ॥

तथा अघैर्घर्मोपतापभोजकैः पापैस्तन्निमित्तैस्तीक्ष्णकरैश्चण्डातपैश्चोज्झितं
भैरवमिदं पारं निशानिशानायकलक्षणयोर्दम्पत्योः रन्तुमागच्छतोः सतोः ॥
३८ ॥

तारागणोऽथ ददृशे विकीर्णो व्योमकुट्टिमे ।
मुक्तो मङ्गललाजानां दिग्वधूभिरिवाञ्जलिः ॥ ३९ ॥

दिग्वधूभिर्मुक्त उत्सृष्टो मङ्गललाजानामञ्जलिरिव व्योमलक्षणे कुट्टिमे
सौधतले तारागणो ददृशे ॥ ३९ ॥

चन्द्रानना तमःश्यामा श्रान्ता कुसुमहासिनी ।
यामिनी यौवनं प्राप सरोजमुकुलस्तनी ॥ ४० ॥

स्वनाथान्वेषणेन तदुदयप्रतीक्षया च श्रान्ता कुमुदादिकुसुमैर्हासवती । यौवनं
स्वयौवनफलमिति यावत् ॥ ४० ॥

कृतसन्ध्यासमाचारः सहचूडालयेष्टया ।
सुष्वाप शयने भूयो मैनाक इव सागरे ॥ ४१ ॥

अथार्धरात्रसमये देशे निःशब्दतां गते ।
घनन्निद्राशिलाकोशनिलीने सकले जने ॥ ४२ ॥

स तस्यां सम्प्रसुप्तायां शयने कोमलांशुके ।
भृशं निद्राविमूढायां भ्रमर्यामिव पङ्कजे ॥ ४३ ॥

सम्प्रसुप्तायां तस्यां चूडालायां भृशं निद्रया विमूढायां सत्याम् ॥ ४३ ॥

तत्याज दयितां सुप्तामङ्काद्राजा शिखिध्वजः ।
स्वैरं स्वैरं मुखं राहोर्दिशं चान्द्रप्रभामिव ॥ ४४ ॥

यथा राहोर्मुखं चन्द्रमोक्षकाले स्वैरं स्वैरं शनैः शनैश्चान्द्रप्रभां
प्राचीं दिशं प्रति त्यजति तद्वत् ॥ ४४ ॥

उत्तस्थौ शयनाल्लीनवधूकार्धाञ्चलांशुकात् ।
सलक्ष्मीकान्तिलोलोर्मेर्हरिः क्षीरार्णवादिव ॥ ४५ ॥

लीना वधूर्यस्मिंस्तल्लीनवधूकं तथाविधमर्धाञ्चलमर्धभागो यस्य
तथाविधमंशुकं प्रावरणवस्त्रं यस्मिंस्तथाविधाच्छयनात्पर्यङ्कात् ।
लक्ष्म्याः कान्तिभिः सहिताः सलक्ष्मीकान्तयो लोलाश्चोर्मयो
यस्मिंस्तथाविधात्क्षीणार्णवादिव ॥ ४५ ॥

वीरक्रमार्थं यामीति तत्रैवानुचरव्रजम् ।
योजयित्वा जगामासौ पुरान्निर्गत्य पूर्णधीः ॥ ४६ ॥

वीरक्रमश्चोरदुष्टनिग्रहार्था निशाचर्या तत्र वीरक्रम एवानुचरव्रजं योजयित्वा
नियुज्य । पूर्णधीर्निस्पृहः ॥ ४६ ॥

राज्यलक्ष्मि नमस्तुभ्यमित्युक्त्वा मण्डलाद्गतः ।
विवेशोग्रामरण्यानीमेको नद इवार्णवम् ॥ ४७ ॥

उग्रां भीषणाम् । अरण्यानीं महदरण्यम् । हिमारण्ययोर्महत्त्वे इत्यानुक् ॥ ४७ ॥

घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा ।
सारण्यानी निशा सार्धं समं तेनातिवाहिता ॥ ४८ ॥

घनैरन्धकारसदृशैरन्धकारलक्षणैश्च गुल्मैराढ्या सा अरण्यानी निशा च
तेनातिवाहिता उत्तीर्णा ॥ ४८ ॥

प्रातः शून्यामरण्यानीं स नीत्वा विततं दिनम् ।
सममर्केण कस्याञ्चिद्विशश्राम वनावनौ ॥ ४९ ॥

अर्केण समं विशश्रामेत्युक्त्या आसायं जगामैवेति गम्यते ॥ ४९ ॥

भानावदृश्यतां याते तत्र स्नानादिपूर्वकम् ।
किञ्चित्फलादिकं भुक्त्वा तां निनाय तमस्विनीम् ॥ ५० ॥

तमस्विनीं रात्रिम् ॥ ५० ॥

पुनः प्रातः पुराण्युच्चैर्मण्डलानि गिरीन्नदीः ।
जवादुल्लङ्घयामास राजा द्वादशशर्वरीः ॥ ५१ ॥

ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् ।
प्राप काननमत्यन्तदूरस्थजनतापुरम् ॥ ५२ ॥

अत्यन्तदूरस्था जनता जनसमूहाः जनपदा इति यावत् पुराणि च यस्मात् ॥ ५२ ॥

रटत्प्रणालसलिलवापीबलितपादपम् ।
शीर्णवेद्यालयज्ञातभूतपूर्वद्विजाश्रमम् ॥ ५३ ॥

रटन्ति सशब्दं प्रवहन्ति वंशप्रणालद्वारा सलिलानि
याभ्यस्तथाविधाभिर्वापीभिर्बलिता बलवत्तराः कृताः पादपा यस्मिन् । पूर्वं
भूता भूतपूर्वा द्विजाश्रमा यस्मिन् ॥ ५३ ॥

क्षुद्रप्राणिविनिर्मुक्तसिद्धसेव्यलतालयम् ।
आपूर्णपादपलतं प्राणवृत्तिकरैः फलैः ॥ ५४ ॥

तत्रैकस्मिन्समे शुद्धे स्थले सलिलमालिते ।
शीतले शाद्बलश्यामे स्निग्धे सफलपादपे ॥ ५५ ॥

शाद्वलैर्हरिततृणवत्प्रदेशैः श्यामे । नडशादाड्ड्वलच् ॥ ५५ ॥

समञ्जरीभिर्वल्लीभिः स चकारोटजालयम् ।
प्रावृट्कालः सविद्युद्भिर्नीलाभ्रैरिव पञ्जरम् ॥ ५६ ॥

उटजः पर्णशाला तद्रूपमालयम् ॥ ५६ ॥

मसृणं वैणवं दण्डं फलभोजनभाजनम् ।
अर्घपात्रं पुष्पभाण्डमक्षमालां कमण्डलुम् ॥ ५७ ॥

कन्थां शीतापनोदाय बृसीं चैवमृगाजिनम् ।
आनीयायोजयत्तस्मिन्मठिकामन्दिरे नृपः ॥ ५८ ॥

यत्किञ्चिदन्यद्वा वस्तु योग्यं तापसकर्मणि ।
तत्तत्र स्थापयामास जगतीव क्रमं विधिः ॥ ५९ ॥

विधिर्धाता जगति स्वसृष्टब्रह्माण्डे क्रमं व्यवहारसाधनजातमिव ॥ ५९ ॥

सन्ध्यापूर्वं जपं प्रातः प्रहरे स तदाकरोत् ।
पुष्पोच्चयं द्वितीये तु स्नानं देवार्चनं ततः ॥ ६० ॥

पुष्पाणामुच्चयं सञ्चयम् । फलमूलकुशकाष्ठादीनामप्युपलक्षणमेतत् । ततः
तृतीये इत्यर्थः ॥ ६० ॥

पश्चाद्वनफलं किञ्चिद्वनकन्दं विसादि च ।
भुक्त्वा जप्यपरो भूत्वा निनायैको निशां वशी ॥ ६१ ॥

इति दिवसमखेदं मन्दरोपान्तकच्छे विरचित उटजेऽन्तर्मालवेशो निनाय ।
नवनृपतिविलासं तं न सस्मार कं वा स्फुरति हृदि विवेके राज्यलक्ष्म्यो
हरन्ति ॥ ६२ ॥

उक्तमनूद्योपसंहरति-इतीति । मलवेशः शिखिध्वज इति वर्णितप्रकारेण
मन्दरोपान्तकच्छे विरचिते उटजे अन्तःस्थितः सन्नखेदं दिवसं बहून्
दिवसान्निनाय । तं प्रागनुभूतं नवं नृपतिविलासं न सस्मार । तत्कुतस्तत्राह##-
वाञ्छाजननेन वशीकर्तुं शक्नुवन्ति । न कञ्चिदपीत्यर्थः ॥ ६२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० शिखिध्वजप्रव्रज्या नाम चतुरशीतितमः सर्गः ॥ ८४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजप्रव्रज्या नाम चतुरशीतितमः सर्गः ॥ ८४ ॥