०८३

त्र्यशीतितमः सर्गः ८३

श्रीवसिष्ठ उवाच ।

अणिमादिगुणैश्वर्ययुक्ता सा नृपभामिनी ।
एवं बभूव चूडाला घनाभ्यासवती सती ॥ १ ॥

चूडाला एवं प्रागुक्तरीत्या प्राणधारणादिघनाभ्यासवती सती
अणिमादिगुणैश्वर्ययुक्ता बभूव ॥ १ ॥

जगामाकाशमार्गेण विवेशाम्बुधिकोटरम् ।
चचार वसुधापीठं गङ्गेवामलशीतला ॥ २ ॥

तदैश्वर्यमेवावयुत्या प्रपञ्चयति-जगामेत्यादिना । मोहकालुष्यस्य
तापत्रयस्य चोपशमादमला शीतला च ॥ २ ॥

क्षणमप्यगता भर्तुर्वक्षसश्चेतसस्तथा ।
सर्वेषूवास राज्येषु लक्ष्मीरिव जगत्सु च ॥ ३ ॥

तस्याः कायव्यूहादिकल्पनैश्वर्यमाह-क्षणमपीति । अगता अवियुक्ता । राज्येषु
राष्ट्रेषु जगत्सु भुवनेषु चोवास ॥ ३ ॥

आकाशगामिनी श्यामा विद्युत्प्रारम्भभूषणा ।
बभ्राम मेघमालेव गिरिमाला महीतले ॥ ४ ॥

विद्युतां प्रारम्भा उन्मेषा इव द्योतमानानि भूषणानि यस्याः ॥ ४ ॥

काष्ठं तृणोपलं भूतं खं वातमनलं जलम् ।
निर्विघ्नमविशत्सर्वं तन्तुर्मुक्ताफलं यथा ॥ ५ ॥

मेरोरुपरि शृङ्गाणि लोकपालपुराणि च ।
दिग्व्योमोदररन्ध्राणि विजहार यथासुखम् ॥ ६ ॥

दिशां व्योम्नश्चोदरे यावन्ति भुवनरन्ध्राणि प्रसिद्धानि तानि सर्वाणीत्यर्थः ॥ ६ ॥

तिर्यग्भूतपिशाचाद्यैः सहनागामरासुरैः ।
विद्याधराप्सरःसिद्धैर्व्यवहारं चकार सा ॥ ७ ॥

सर्वभूतरुतज्ञतया सम्भाषणादिव्यवहारम् ॥ ७ ॥

यत्नेन तं च भर्तारमात्मज्ञानामृतं प्रति ।
बहुशो बोधयामास चूडाला न विवेद सः ॥ ८ ॥

बहुशः प्रतिबोधयामासेति व्यवहितेन सम्बन्धश्छान्दसः ॥ ८ ॥

कलाविदग्धा मुग्धा च बालेयन्न् गृहिणी मम ।
इत्येवं केवलं राजा स चूडालां विवेद ताम् ॥ ९ ॥

एतावतापि कालेन तामेवङ्गुणशालिनीम् ।
बालो विद्यामिव नृपश्चूडालां न विवेद सः ॥ १० ॥

यथा वेदाध्ययनकाले बालो वेदविद्यां
सर्वपुरुषार्थानुकूलार्थप्रकाशनादिगुणशालिनीं न वेद तद्वत् ॥ १० ॥

साप्यलब्धात्मविश्रान्तेस्तां सिद्धिश्रियमात्मनः ।
दर्शयामास नो राज्ञः शूद्रस्येव मखक्रियाम् ॥ ११ ॥

श्रीराम उवाच ।

महत्याः सिद्धयोगिन्यास्तस्या अपि शिखिध्वजः ।
यत्नेन प्राप नो बोधं बुध्यतेऽन्यः कथं प्रभो ॥ १२ ॥

सर्वसिद्धिशालिन्यास्तस्याश्चेद्भर्तृबोधने अशक्तिस्तर्ह्यन्येषां सिद्धिशून्यानां
गुरूणां शिष्यबोधने शक्तिर्दूरापास्तेति रामः शङ्कते-महत्या इति । तस्या अपि
यत्नेन उपदेशप्रयासेन ॥ १२ ॥

श्रीवसिष्ठ उवाच ।

उपदेशक्रमो राम व्यवस्थामात्रपालनम् ।
ज्ञप्तेस्तु कारणं शुद्धा शिष्यप्रज्ञैव राघव ॥ १३ ॥

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् इत्यादिशास्त्रोक्तमर्यादा व्यवस्था
तन्मात्रपालनं गुरुकृत उपदेशक्रमो न त्वसावनधिकारिण्यपि ज्ञानं
बलाज्जनयितुं शक्नोतीत्यर्थः । प्रज्ञाग्रहणं साधनचतुष्टयसहितप्रज्ञापरम् ॥
१३ ॥

न श्रुतेन न पुण्येन ज्ञायते ज्ञेयमात्मनः ।
जानात्यात्मानमात्मैव सर्पः सर्पपदानि व ॥ १४ ॥

श्रुतेन अनात्मशास्त्रप्रावीण्येन । पुण्येन चित्तशुद्ध्यनङ्गेन काम्यकर्मवर्गेण ।
अथवा श्रुतेन शाब्देन परोक्षज्ञानेन । आत्मनस्तत्त्वभूतं ज्ञेयं ब्रह्म न
ज्ञायते इतरवस्तुवन्न विषयीक्रियते । पुण्येनापि स्वर्गभोगवन्न विनैव विचारं
ज्ञानं जन्यते किन्तु ताभ्यां विचारे जनिते चरमसाक्षात्कारवृत्त्या
रूढेनात्मनैवात्मा आत्मानं जानातीत्यर्थः । सर्पपदानि सर्प इव । इवार्थे वशब्दः
॥ १४ ॥

श्रीराम उवाच ।

एवंस्थिते वाथ मुने कथमेतज्जगत्स्थितौ ।
क्रमो गुरूपदेशाख्यः स्वात्मज्ञानस्य कारणम् ॥ १५ ॥

तर्हि गुरूपदेशाख्यः क्रमः कथं केन द्वारेण ॥ १५ ॥

श्रीवसिष्ठ उवाच ।

अत्यन्तकृपणः कश्चित्किराटो धनधान्यवान् ।
अस्ति विन्ध्याटवीकक्षे [कच्छे इत्यपि पाठः ।] कुटुम्बी ब्राह्मणो यथा ॥
१६ ॥

स्थूलारुन्धतीनिदर्शनन्यायेन शिष्यबुद्धेः प्रत्यक्प्रवणताव्यसनापादनद्वारा
गुरूपदेशादेर्ज्ञानकारणतेति वक्तुं वसिष्ठः किराटोपाख्यानमाह##-

तस्यैकदा निपतिता गच्छतो विन्ध्यजङ्गले ।
एका वराटिका राम तृणजालकसंवृते ॥ १७ ॥

कार्पण्यात्स प्रयत्नेन सर्वं तृणतुषादिकम् ।
कपर्दकार्थमभितो दुधाव दिवसत्रयम् ॥ १८ ॥

कार्पण्यात् स्वीयकृपणतास्वभावात् । दुधाव शोधयामास ॥ १८ ॥

कपर्दकाः स्युर्भवता चत्वारोऽष्टौ च कालतः ।
ततः शतं सहस्रं च सहस्रे चेति चेतसा ॥ १९ ॥

तस्यान्वेषणोद्योगहेतुमभिप्रायमाह-कपर्दका इति । लाभे सति मम हस्ते भवता
अनेन कपर्दकेन किञ्चित्क्रीत्वा तद्विक्रयाच्चत्वारः कपर्दकाः स्युस्ततोऽष्टौ ततः
शतं ततः सहस्रं ततो द्वे सहस्रे चेति चेतसा कलयंश्चिन्तयन्सन् ॥ १९ ॥

कलयञ्जङ्गले दीनो रात्रिन्दिवमतन्द्रितः ।
जनहाससहस्राणि बुबुधे न परं तु सः ॥ २० ॥

अल्पार्थमप्यारब्धो दृढोद्योगो
मूढजनहासदर्शनादिविघ्नैरखण्डितश्चेन्महाफलो भवतीति सूचयन्नाह##-

ततो दिनत्रयस्यान्ते तेन तस्माच्च जङ्गलात् ।
पूर्णेन्दुबिम्बप्रतिमो लब्धश्चिन्तामणिर्महान् ॥ २१ ॥

तं प्राप्य तुष्टहृदयः समागम्य गृहं सुखम् ।
प्राप्ताखिलजगद्भूतिः शान्तसर्वतया स्थितः ॥ २२ ॥

प्राप्ता अखिला जगद्भूतयः सांसारिकभोगा येन । शान्ताः सर्वे दारिद्र्याद्यनर्था
यस्य तादृशतया स्थितः ॥ २२ ॥

एवं यथा किराटेन कपर्दान्वेषणेन तत् ।
रत्नं लब्धन्न् जगन्मूल्यमहोरात्रमखेदिना ॥ २३ ॥

जगदेव मूल्यं यस्य तथाविधं तद्रत्नम् ॥ २३ ॥

तथा श्रुतोपदेशेन स्वात्मज्ञानमवाप्यते ।
अन्यदन्विष्यते चान्यल्लभ्यते हि गुरुक्रमात् ॥ २४ ॥

तथा गुरूपदेशक्रमादन्यच्छाब्दं परोक्षप्रायमन्विष्यते । अन्यन्नित्यापरोक्षं
लभ्यते ॥ २४ ॥

ब्रह्म सर्वेन्द्रियातीतं श्रुतादीन्द्रियसंविदः ।
तेनोपदेशादनघ नात्मतत्त्वमवाप्यते ॥ २५ ॥

कथमन्यत्तदाह-ब्रह्मेति । श्रुतादि शब्दश्रवणतच्छाब्दबोधादि
इन्द्रियप्रयोज्याः संविदश्चित्तवृत्तयः । गुरूपदेशाच्च शाब्दवृत्तय एव जन्यन्ते ।
तासां मध्ये अत्यन्तस्वच्छतमायां चरमवृत्तौ नित्यापरोक्षब्रह्मस्फुरणं तु
शिष्यबुद्धिस्वच्छताब्रह्मस्वभावोभयप्रयुक्तमेव नोपदेशस्तत्कारणमित्यर्थः
॥ २५ ॥

गुरूपदेशं च विना नात्मतत्त्वागमो भवेत् ।
केन चिन्तामणिर्लब्धः कपर्दान्वेषणं विना ॥ २६ ॥

तथापि आचार्यवान्पुरुषो वेद इत्यादिश्रुतेर्गुरूपदेश आवश्यक इत्याह##-

तत्त्वस्यास्य महार्थस्य गुरूपकथनं गतम् ।
अकारणं कारणतां मणेरिव कपर्दकः ॥ २७ ॥

अन्वेषणद्वारा कपर्दक इव मननद्वारा
गुरूपकथनमकारणमप्यवश्यफलदर्शनात्कारणतां गतमित्यर्थः ॥ २७ ॥

पश्य राघव मायेयन्न् मोहिनी महतामपि ।
अन्यदन्विष्यते यत्नादन्यदासाद्यते फलम् ॥ २८ ॥

अन्यत्करोति पुरुषः फलमन्यदेव प्राप्नोति यत्त्रिषु जगत्स्ववलोक्यते च ।
तस्मादनन्तरभवस्य जगद्भ्रमस्य श्रेयोऽतिवाहनमसङ्गमनिच्छयैव ॥
२९ ॥

एवमकारणमेव गुरूपदेशाद्यात्मलाभस्य कारणम् लब्धे त्वात्मनि
प्रारब्धशेषोपनीतस्य जगद्भ्रमस्योपेक्षयैव क्षयः सिध्यतीति न
यत्नापेक्षेत्याह-अन्यदिति । त्रिषु जगत्सु यद्यस्माद्धेतोरेवमवलोक्यते श्रूयते च
तस्मादात्मलाभादनन्तरं भवस्य प्रारब्धशेषोपनीतस्य जगद्भ्रमस्य तु
असङ्गं यथा स्यातथा अनिच्छया उपेक्षणेनातिवाहनमेव श्रेय इत्यर्थः ॥ २९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० किराटोपाख्यानं नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
किराटोपाख्यानं नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥