द्व्यशीतितमः सर्गः ८२
श्रीवसिष्ठ उवाच ।
अणुतां स्थूलतां वापि यथा गच्छति योगिनाम् ।
देहो नाम तथा सम्यग्वक्ष्यमाणमिदं शृणु ॥ १ ॥
अणुतास्थूलतोपाया ज्ञानसाध्यन्न् च योगिनः ।
परकायाप्तिभोगाश्च वर्ण्यन्त इह युक्तिभिः ॥
एवमग्नीषोमात्मकत्वं देहादेः परिज्ञाय
धारणात्रयाभ्यासपरिष्कृतप्राणमनःशरीरस्य सोमसूर्याग्निसङ्क्रमादिदर्शिनो
योगिनो देहस्याणिमादिसिद्धिप्राप्तिप्रकारान् वक्तुन्न् प्रतिजानीते-अणुतामिति ॥ १ ॥
हृद्यब्जचक्रकोशोर्ध्वं प्रस्फुरत्यानलः कणः ।
हेमभ्रमरवत्सान्ध्यविद्युल्लव इवाम्बुदे ॥ २ ॥
तत्रादावणुत्वप्राप्तये देहस्य विलापनाय नाभ्युपरिदेशे ज्वलतो जाठरानलस्य
हृत्पद्मनालसूक्ष्मच्छिद्रद्वारा प्रविश्य हृदयाकाशं हृत्पद्मकर्णिकायां
परमात्मन आसनभूतां शिखां दर्शयति-हृदीति । अब्जकोऽसस्योर्ध्वकर्णिकोपरि
। तथा च तैत्तिरीयाणामुपनिषदि तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः इति ।
जाठरानलं प्रस्तुत्य श्रूयते तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
नीलतोयदमध्यस्थाद्विद्यल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता
भास्वत्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः इति । विद्युल्लवस्य
सान्ध्य इति विशेषणन्न् पीतत्वप्रकर्षबोधनार्थम् ॥ २ ॥
स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते ।
संविद्रूपतया नूनमर्कवद्याति चोदयम् ॥ ३ ॥
स आनलः कणः प्रवर्धनस्य संवित्त्या सर्वं देहं व्याप्य यथा ज्वलति तथा
वर्धनोपायज्ञानेन । स च संवर्धितो नाग्निवद्देहं दहति किन्तु संविद्रूपतया
अर्कवदुदयं प्रकाशातिशयन्न् याति ॥ ३ ॥
सन्ध्याभ्रप्रथमार्काभो वृद्धिमभ्यागतः क्षणात् ।
गालयत्यखिलं साङ्गं देहं हेम यथानलः ॥ ४ ॥
सन्ध्यायां प्रत्यूषे अभ्रे आकाशे प्रथममुदितो योऽर्कस्तदाभः । गालयति गलितं
करोति । साङ्गं हस्तपादाद्यङ्गसहितं देहम् । पार्थिवं गन्धभागं काठिन्यं
च तदुपादानजलभागे उपसंहरतीत्यर्थः ॥ ४ ॥
जलस्पर्शासहो युक्त्या गलयेत्प्रपदादपि ।
बाह्य एवानलः स्पर्शात्स्वान्ते वस्तुविशेषतः ॥ ५ ॥
एवं प्रपदात्पादाग्रपर्यन्तमपि गलयेद्द्रवीकुर्यात् । ततः शोषणयुक्त्या
वस्तुविशेषतः अग्निस्वभावविशेषाज्जलस्य स्पर्शं शैत्यं न सहते इति
जलस्पर्शासहः सोऽनलः स्पर्शात्स्वौष्ण्यबलाद्द्रवत्वोपसंहारयुक्त्या जलमपि
गलयेत् शोषयेत् । एवंरीत्या देहाद्बाह्यः सन् स्वान्ते मनोरूपे
आतिवाहिकदेहमात्रेऽवतिष्ठते इति शेषः ॥ ५ ॥
स शरीरद्वयं पश्चाद्विधूय क्वापि लीयते ।
विक्षोभितेन प्राणेन नीहारो वात्यया यथा ॥ ६ ॥
एवं पार्थिवमाप्यं च शरीरद्वयं विधूय स्थितः सोऽग्निर्विक्षोभितेन
प्राणेनोपसंहृतः क्वापि लीयते यदा वा अग्निरुद्वायति वायुमेवाप्येति इति
श्रुतेरित्यर्थः ॥ ६ ॥
आधारनाडीनिर्हीना व्योमस्थैवावशिष्यते ।
शक्तिः कुण्डलिनी वह्नेर्धूमलेखेव निर्गता ॥ ७ ॥
तदानीं कुण्डलिनीशक्तिरपि मूलाधारस्थसुषुम्नानाडीहीना
तत्संस्कारशाल्यातिवाहिकदेहाकाशेऽवतिष्ठत इत्याह-आधारेति । वह्नेर्न्निर्गता
धूमलेखेव ॥ ७ ॥
क्रोडीकृतमनोबुद्धिमयजीवाद्यहङ्कृतिः ।
अन्तःस्फुरच्चमत्कारा धूमलेखेव नागरी ॥ ८ ॥
तत्र स्थिता च सा क्रोडीकृता सङ्कलिता मनोबुद्धिमये जीवादिघटितलिङ्गशरीरे
अहङ्कृतिर्यया तथाविधा । अन्तः स्फुरन् चित्प्रकाशचमत्कारः
स्वेच्छाविहारशक्तिचमत्कारश्च यस्यास्तथाविधा सती सूक्ष्मतमे विसनालच्छिद्रे
शैलादौ च यत्रैव प्रविश्य निर्गन्तुं युज्यते तत्र प्रविश्य निर्यातीत्याह##-
विसे शैले तृणे भित्तावुपले दिवि भूतले ।
सा यथा योज्यते यत्र तेन निर्यात्यलं तथा ॥ ९ ॥
संवित्तिः सैव यात्यङ्ग रसाद्यन्तं यथाक्रमम् ।
रसेनापूर्णतामेति तन्त्रीभार इवाम्बुना ॥ १० ॥
एवं सूक्ष्मीभावप्रकारमुक्त्वा
स्थूलीभावेनैच्छिकनानाशरीरकल्पनाप्रकारमाह-रसेनेत्यादिना । सा कुण्डलिनी
योगिनो जीवशक्तिर्वह्नौ प्रागुपसंहृतं जलभागं यदा मुञ्चति तदा रसेन
सर्वतः आपूर्णतामेति । यथा तन्त्रीं चर्मरज्जुं बिभर्तीति तन्त्रीभारो
भस्त्रारूपश्चर्मविशेषः कूपे क्षिप्तोऽम्बुना आपूर्णतामेति तद्वत् ॥ १० ॥
रसापूर्णा यमाकारं भावयत्याशु तत्तथा ।
धत्ते चित्रकृतो बुद्धौ रेखा राम यथा कृतिम् ॥ ११ ॥
एवं रसापूर्णा सती प्रागुपसंहृतं पार्थिवभागं यमाकारं कर्तु भावयति
तद्योगशक्त्या तथा कृत्वा धत्ते इत्यर्थः ॥ ११ ॥
दृढभाववशादन्तरस्थीन्याप्नोति सा ततः ।
मातृगर्भनिषण्णेषु सुसूक्ष्मेवाङ्कुरस्थितिः ॥ १२ ॥
तत्रास्थ्यादिकल्पनाप्रकारमाह-दृढेति । मातृगर्भनिषण्णेषु कललेषु
सुसूक्ष्मा बीजशक्तिरस्थिहस्तपादाद्यङ्कुरस्थितिरिव ॥ १२ ॥
यथाभिमतमाकारं प्रमाणं वेत्ति राघव ।
जीवशक्तिरवाप्नोति सुमेर्वादि तृणादि च ॥ १३ ॥
यथाभिमतं स्वेच्छानुसारि सुमेर्वादि महत् तृणाद्यल्पं वा आकारमवाप्नोति ॥ १३
॥
श्रुतं त्वया योगसाध्यमणिमाद्यर्थसाधनम् ।
ज्ञानसाध्यमिदानीं त्वं शृणु श्रवणभूषणम् ॥ १४ ॥
योगसिद्ध्यनुसारेण स्थूलसूक्ष्मभावप्राप्तिक्रममुक्तमुपसंहृत्य
ज्ञानसिद्ध्या तद्विलक्षणं तं वक्तुं परमप्रकृतं श्रावयति-श्रुतमिति ॥
१४ ॥
एकं चिन्मात्रमस्तीह शुद्धं सौम्यमलक्षितम् ।
सूक्ष्मात्सूक्ष्मतरं शान्तं न जगन्न जगत्क्रिया ॥ १५ ॥
तच्चिनोत्यात्मनात्मानं सङ्कल्पोन्मुखतां गतम् ।
यदा तदा जीव इति प्रोक्तमाविलतां गतम् ॥ १६ ॥
चिनोत्यध्यासेनोपचिनोति ॥ १६ ॥
असत्यमेव सङ्कल्पभ्रमेणेदं शरीरकम् ।
जीवः पश्यति मूढात्मा बालो यक्षमिवोद्धतम् ॥ १७ ॥
जीवः पश्यति स एवास्य स्थूलभाव इति भावः ॥ १७ ॥
यदा तु ज्ञानदीपेन सम्यगालोक आगतः ।
सङ्कल्पमोहो जीवस्य क्षीयते शरदभ्रवत् ॥ १८ ॥
सौक्ष्म्यप्राप्तिक्रममाह-यदा त्वित्यादिना ॥ १८ ॥
शान्तिमायाति देहोऽयं सर्वसङ्कल्पसङ्क्षयात् ।
तदा राघव निःशेषं दीपस्तैलक्षये यथा ॥ १९ ॥
शान्तिं बाधम् ॥ १९ ॥
निद्राव्यपगमे जन्तुर्यथा स्वप्नं न पश्यति ।
जीवो हि भाविते सत्ये तथा देहं न पश्यति ॥ २० ॥
भाविते साक्षात्कृते ॥ २० ॥
अतत्त्वे तत्त्वभावेन जीवो देहावृतः स्थितः ।
निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात् ॥ २१ ॥
अनात्मनि शरीरादावात्मभावनमङ्ग यत् ।
सूर्याद्यालोकदुर्भेदं हार्दं तद्दारुणं तमः ॥ २२ ॥
लौकिकसूर्याद्यालोकैर्दुर्भेदं नाशयितुमशक्यम् ॥ २२ ॥
आत्मन्येवात्मभावेन सर्वव्यापि निरञ्जनम् ।
चिन्मात्रममलोऽस्मीति ज्ञानादित्येन नश्यति ॥ २३ ॥
केन तर्ह्यादित्येन तन्नाशस्तमाह-आत्मन्येवेति ॥ २३ ॥
अन्ये च विदितात्मानो भावयन्ति यथैव यत् ।
तत्तथैवाशु पश्यन्ति दृढभावनया तया ॥ २४ ॥
अस्यां ज्ञानसिद्धावपि दृढायां जीवन्मुक्तानामैच्छिकं विनोदाय
स्थूलसूक्ष्मप्रातिभासिकदेहकल्पनं सिद्ध्यतीत्याह-अन्ये चेति ॥ २४ ॥
दृढभावानुसन्धानाद्विमूढा अपि राघव ।
विसं नयन्त्यमृतताममृतं विषतामपि ॥ २५ ॥
विमूढा विषकीटादयः । अमृतताममृतवदाहारताम् । अमृतं
पयोन्नादिविषमिश्रितमिदमिति दृढभ्रान्त्या विषताम् ॥ २५ ॥
एवं यथा यदेवेह भाव्यते दृढभावनात् ।
भूयते हि तदेवाशु तदित्यालोकितं मुहुः ॥ २६ ॥
इति ईदृशं तदुदाहरणं मुहुर्बहुशो लोके आलोकितमित्यर्थः ॥ २६ ॥
सत्यभावनदृष्टोऽयन्न् देहो देहो भवत्यलम् ।
दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः ॥ २७ ॥
व्योमतां ब्रह्माकाशताम् ॥ २७ ॥
अणिमादिपदप्राप्तौ ज्ञानयुक्तिरिति श्रुता ।
भवता साधुना राम युक्तिमन्यामिमां शृणु ॥ २८ ॥
सैवास्य निरतिशया अणिमादिसर्वसिद्धय इत्याशयेनोपसंहरति-अणिमादीति अन्यान्न्
परकायन्न् प्रविश्य भोगप्राप्तिलक्षणाम् ॥ २८ ॥
रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।
उद्धृत्य योज्यते यावदामोदः पवनादिव ॥ २९ ॥
तत्रादौ पूर्वदेहपरित्यागोपायमाह-रेचकेति । उद्धृत्य बहिर्निःसार्य परदेहे
यावद्योज्यते तावदयं देहस्त्यज्यत इति परेणान्वयः । यथा बाह्यपवनसङ्क्रान्तः
पुष्पामोदः पवनादाकृष्य घ्राणे योज्यते तद्वत् ॥ २९ ॥
त्यज्यते विरतस्पन्दो देहोऽयन्न् काष्ठलोष्टवत् ।
देहेऽपि जीवेऽपि मतावासेचक इवादरः ॥ ३० ॥
विरतस्पन्द उपरतचेष्टः काष्ठलोष्टवद्भवति । परेषां देहे जीवे मतावपि
तत्सम्पदं भोक्तुमयं स्वजीवो विनिवेश्यते । यथा आसेचकः पुरुषः
करस्थकुम्भोदकेन यमेव तरुं लतां वा आसेक्तुमिच्छति तमेवासिञ्चति तद्वदन्नापि
यथाभिमतयेच्छया आदर इत्यन्वयः ॥ ३० ॥
स्थावरे जङ्गमे वापि यथाभिमतयेच्छया ।
भोक्तुं तत्सम्पदं सम्यग्जीवोऽन्तर्विनिवेश्यते ॥ ३१ ॥
इति सिद्धिऽस्रियं भुक्त्वा स्थितं चेत्तद्वपुः पुनः ।
प्रविश्यते स्वमन्यद्वा यद्यत्तात विरोचते ॥ ३२ ॥
इति उक्तरीत्या परदेहे सिद्धिश्रियं भुक्त्वा स्थितेन योगिना तत् पूर्वतनं स्वं वपुः
स्थितं चेत्पुनस्तत्प्रविश्यते नो चेदन्यद्वा यद्यद्यावद्विरोचते तत्तत्तावत्कालं
प्रविश्यत इत्यर्थः ॥ ३२ ॥
देहादयस्तथा बिम्बान्व्याप्तवत्याखिलानथ ।
संविदा जगदापूर्य सम्पूर्ण स्थीयतेऽथवा ॥ ३३ ॥
अथवा योगिना अथ परकायभोगानन्तरं स्वान्तःकरणवैपुल्यापादनेन जगदापूर्य
देहादयः । व्यत्ययेन द्वितीयार्थे प्रथमा ।
स्थावरजङ्गमसर्वदेहादिप्रतिबिम्बोपाधींस्तत्प्रतिबिम्बजीवांस्तथा
तद्बिम्बोपाधिसत्त्वादिगुणांस्तदवच्छिन्नचिल्लक्षणान्बिम्बांश्चेत्यखिलानपि
व्याप्तवत्या स्वात्मसंविदा सम्पूर्णं यथा स्यात्तथा स्थीयत इत्यर्थः ॥ ३३ ॥
ज्ञात्वा सदाभ्युदितमुज्झितदोषमीशो यद्यद्यथा समभिवाञ्छति
चित्प्रकाशः ।
प्राप्नोति तत्तदचिरेण तथैव राम सम्यक्पदं विदुरनावरणत्वमेव ॥ ३४ ॥
उपसंहरति-ज्ञात्वेति । ईशो योगैश्वर्यसम्पन्नो जीवचित्प्रकाशः सदाभ्युदितं
नित्यस्वप्रकाशमुज्झितसर्वदोषं स्वतत्त्वं ज्ञात्वा यद्यथा समभिवाञ्छति
तत्तदचिरेण तथैव प्राप्नोति । एवं सति तत्त्वविदो नाल्पसिद्धीर्बहुमन्यन्ते
किन्त्वनावरणत्वमेव निरतिशयानन्दं सम्यक्पदं विदुरित्यर्थः ॥ ३४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० च०
अणिमादिलाभयोगोपदेशो नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अणिमादिलाभयोगोपदेशो नाम द्व्यशीतित्तमः सर्गः ॥ ८२ ॥