०८१

एकाशीतितमः सर्गः ८१

श्रीवसिष्ठ उवाच ।

एतत्पञ्चकबीजं तु कुण्डलिन्यां तदन्तरे ।
प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा ॥ १ ॥

कुण्डलिन्याः प्रसङ्गेन रोगोद्भवशमक्रमाः ।
सिद्धिसिद्धेक्षणोपायाद्यशेषमिह वर्ण्यते ॥

यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् । तदा
संविदुदेत्यन्तर्भूततन्मात्रबीजभूः इति बुद्धिशक्तिजवप्रदत्वोपपादने
भूततन्मात्रबीजभूरित्यंशस्य स्फुटीकरणाय कृतं
स्थूलसूक्ष्मपञ्चकविचारं सङ्गमयन् खेचरादिसिद्धिबीजप्राणाभ्यासोपयुक्तं
प्रस्तुतकुण्डलिन्यां प्राणाद्युद्भवप्रकारं प्रदर्शयति-एतदिति । तस्य
स्थूलदेहात्मकस्य पञ्चकस्यान्तरे मूलाधारे तस्यां प्राग्वर्णितायां
कुण्डलिन्यामेतस्य लिङ्गात्मकपञ्चकस्य बीजमुपादानं भूतसूक्ष्मं प्रथमं
प्राणपञ्चकरूपेण स्फुरतीत्यर्थः ॥ १ ॥

सान्तःकुण्डलिनीस्पन्दस्पर्शसंवित्कलामला ।
कलोक्ता कलनेनाशु कथिता चेतनेन चित् ॥ २ ॥

सा प्राणरूपेणान्तःस्फुरिता कुण्डलिनी मारुतधर्मेण स्वधर्मेण च स्पन्दः
स्पर्शः संविदिति त्रिरूपकल्पना भूत्वा कला चिज्जीवो मनःसङ्कल्पो बुद्धिरहङ्कारः
पुर्यष्टकं लिङ्गमित्यादिनामानि कलनादिव्यापारोपाधिभिर्लभत इत्याह-सान्तरिति
त्रिभिः ॥ २ ॥

जीवनाज्जीवतां याता मननाच्च मनःस्थिता ।
सङ्कल्पाच्चैव सङ्कल्पा बोधाद्बुद्धिरिति स्मृता ॥ ३ ॥

अहङ्कारात्मतां याता सैषा पुर्यष्टकाभिधा ।
स्थिता कुण्डलिनी देहे जीवशक्तिरनुत्तमा ॥ ४ ॥

अपानतामुपागत्य सततं प्रवहत्यधः ।
समाना नाभिमध्यस्था उदानाख्योपरि स्थिता ॥ ५ ॥

तत्र स्पन्दशक्तेः प्रधानवृत्तितत्स्थानत्रैविध्यन्न् दर्शयति-अपानतामिति ॥ ५ ॥

अधस्त्वपानरूपैव मध्ये सौम्यैव सर्वदा ।
पुष्टाप्युदानरूपैव पुंसः स्वस्थैव तिष्ठति ॥ ६ ॥

वृत्तिभेदप्रयोजनान्याह-अध इति । अपानगमनाद्येव प्रयोजनमित्यर्थः ।
अपानोदानाभ्यामाकृष्यमाणापि स्वयन्न् सौम्या निश्चलैव । तदवष्टब्धत्वादेव
पुष्टा बलवत्यप्यूर्ध्ववृत्तिरुदानरूपैव सती स्वस्थैव तिष्ठति न लिङ्गं
बहिरुत्क्रामयतीत्यर्थः ॥ ६ ॥

सर्वयत्नमधो याति यदि यत्नान्न धार्यते ।
तत्पुमान्मृतिमायाति तया निर्गतया बलात् ॥ ७ ॥

एवमधोवृत्तेरपि सा विष्टम्भिकेत्याह-सर्वप्रयत्नमिति । यदि सामान्यवृत्त्या
न धार्यते तर्हि सा जीवसंविदपानवृत्त्या सर्वयत्नं यथा स्यात्तथा
आकृष्यमाणा अधोमार्गेण बहिर्याति । किं ततस्तदाह-तदिति ॥ ७ ॥

समस्तैवोर्ध्वमायाति यदि युक्त्या न धार्यते ।
तत्पुमान्मृतिमायाति तया निर्गतया बलात् ॥ ८ ॥

प्रागुक्तं स्पष्टमाह-समस्तैवेति ॥ ८ ॥

सर्वथात्मनि तिष्ठेच्चेत्त्यक्त्वोर्ध्वाधोगमागमौ ।
तज्जन्तोर्हीयते व्याधिरन्तर्मारुतरोधतः ॥ ९ ॥

अत एव प्राणापानगतिनिरोधाभ्यासेन सर्वाङ्गे समानवृत्त्येतरवृत्तिजये
सर्वव्याधिक्षयमृत्युजयसिद्धिरित्याह-सर्वथेति । आत्मनि देहे ॥ ९ ॥

सामान्यनाडीवैधुर्यात्सामान्यव्याधिसम्भवः ।
प्रधाननाडीवैधुर्यात्प्रधानव्याधिसम्भवः ॥ १० ॥

एकशतं प्रधाननाड्यस्तच्छाखास्तु सामान्यनाड्यस्तास्वन्नरसप्रापिकायाः
समानवृत्तेर्यत्रैव
कफपित्ताद्युपचयाद्वैदुर्यमव्यापारस्तत्रैवेतरवायुभिर्वैषम्येणान्नरसाकर्षण्
आदल्परोगाणां महारोगाणां च सम्भव इत्याह-सामान्येति ॥ १० ॥

श्रीराम उवाच ।

किंविनाशाः किमुत्पादाः शरीरेऽस्मिन्मुनीश्वर ।
आधयो व्याधयश्चैव यथावत्कथयाशु मे ॥ ११ ॥

कस्माद्विनाशो येषां ते किंविनाशाः । एवं किमुत्पादाः ॥ ११ ॥

श्रीवसिष्ठ उवाच ।

आधयो व्याधयश्चैव द्वयं दुःखस्य कारणम् ।
तन्निवृत्तिः सुखं विद्यात्तत्क्षयो मोक्ष उच्यते ॥ १२ ॥

तेषां निवृत्तिरौषधानुनयैस्तात्कालिकोपशमः । सुखरूपस्यात्मनः
परिशेषात्सुखम् । तेषां मूलतो ज्ञानेन नाशो मोक्ष इत्यर्थः ॥ १२ ॥

मिथः कदाचिज्जायेते कदाचित्सममेव च ।
पर्यायेण कदाचिच्च आधिव्याधी शरीरके ॥ १३ ॥

मिथः अन्योन्यनिमित्तकत्वात्क्रमसंलग्ने । कदाचिद्युगपदुत्पन्नाद्बाह्यनिमित्तात्समं
युगपत् । कदाचित्सुखान्तरिते पर्यायेण ॥ १३ ॥

देहदुःखं विदुर्व्याधिमाध्याख्यं वासनामयम् ।
मौर्ख्यमूले हि ते विद्यात्तत्त्वज्ञाने परिक्षयः ॥ १४ ॥

मौर्ख्यमज्ञानं तन्मूले ॥ १४ ॥

अतत्त्वज्ञानवशतः स्वेन्द्रियाक्रमणं विना ।
हृदि तानवमुत्सृज्य रागद्वेषेष्वनारतम् ॥ १५ ॥

तत्र आध्युद्भवनिमित्तान्याह-अतत्त्वज्ञानेति । आक्रमणं निग्रहस्तं विना ।
तदभावादित्यर्थः । हृदि चित्ते तानवं स्तिमितवायुप्रायां स्वास्थ्यहेतुं
सूक्ष्मतामुत्सृज्य रागद्वेषेषु प्रसक्तेरिति शेषः ॥ १५ ॥

इदं प्राप्तमिदं नेति जाड्याद्वा घनमोहदाः ।
आधयः सम्प्रवर्तन्ते वर्षासु मिहिका इव ॥ १६ ॥

इदं प्राप्तमिदं न प्राप्तमिति चिन्ताया इति शेषः । भयशोकनिमित्तप्राप्तौ
तत्प्रतीकारोपायापरिज्ञानलक्षणं घनं मोहं ददतीति घनमोहदाः ॥ १६ ॥

भृशं स्फुरन्तीष्विच्छासु मौर्ख्ये चेतस्यनिर्जिते ।
दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च ॥ १७ ॥

इदानीं शारीरव्याध्युद्भवहेतूनाह-भृशमित्यादिना । इच्छामौर्ख्ये आन्तरे
तद्धेतू । दुरन्नादयस्तु बाह्याः । दुर्देशाः श्मशानादयः ॥ १७ ॥

दुष्कालव्यवहारेण दुष्क्रियास्फुरणेन च ।
दुर्जनासङ्गदोषेण दुर्भाबोद्भावनेन च ॥ १८ ॥

दुष्टेषु निशीथप्रदोषादिकालेष्वशनव्यवायादिव्यवहारेण । दुर्भावा
विषसर्पव्याघ्रतस्करादिशङ्कास्तेषां मनस्युद्भावनेन ॥ १८ ॥

क्षीणत्वाद्वा प्रपूर्णत्वान्नाडीनां रन्ध्रसन्ततौ ।
प्राणे विधुरतां याते काये तु विकलीकृते ॥ १९ ॥

नाडीनामन्नरसाप्रवेशेन क्षीणत्वाद्द्विगुणरसवातादिप्रवेशेन प्रपूर्णत्वाद्वा
विधुरतां कफपित्तादिप्रकोपेन व्याकुलताम् । आघातादिना विकलीकृते ॥ १९ ॥

दौःस्थित्यकारणं दोषाद्व्याधिर्देहे प्रवर्तते ।
नद्याः प्रावृण्निदाघाभ्यामिवाकारविपर्ययः ॥ २० ॥

दौःस्थित्यमस्वास्थ्यं तत्कारणं व्याधिः स देहस्याकारविपर्ययः ॥ २० ॥

प्राक्तनी चैहिकी वापि शुभा वाप्यशुभा मतिः ।
यैवाधिका सैव तथा तस्मिन्योजयति क्रमे ॥ २१ ॥

सा चाधिव्याधिसामग्री प्राक्तनैहिककर्मानुसारेण मिलतीत्याह-प्राक्तनीति ॥ २१ ॥

आधयो व्याधयश्चैवं जायन्ते भूतपञ्चके ।
कथं शृणु विनश्यन्ति राघवाणां कुलोद्वह ॥ २२ ॥

द्विविधो व्याधिरस्तीह सामान्यः सार एव च ।
व्यवहारस्तु सामान्यः सारो जन्ममयः स्मृतः ॥ २३ ॥

सामान्यः पेलवः सारो दृढतरश्च । व्यवह्रियत इति व्यवहारः
क्षुत्तृषास्त्रीपुत्रलालसादिस्तत्सम्भवश्च । जन्ममयो जन्मादिविक्रियामूलम् ॥ २३ ॥

प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः ।
आधिक्षयेणाधिभवाः क्षीयन्ते व्याधयोऽप्यलम् ॥ २४ ॥

अभिमतेनान्नपानस्त्रीपुत्रादिना ॥ २४ ॥

आत्मज्ञानं विना सारो नाधिर्नश्यति राघव ।
भूयो रज्ज्ववबोधेन रज्जुसर्पो हि नश्यति ॥ २५ ॥

आधिर्व्याधिः भूयो भूयसा लोकपरिशीलनाद्रज्जुतत्त्वप्रत्ययपर्यन्तेनावबोधेन ॥ २५

आधिव्याधिविलासानां राम साराधिसङ्क्षयः ।
सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम् ॥ २६ ॥

प्रावृण्नदी सर्वेषां तटवीरुधामिव सर्वेषामाधिव्याधिविलासानां
सारव्याधिसङ्क्षयो मूलहा मूलोच्छेदीत्यन्वयः ॥ २६ ॥

अनाधिजा व्याधयस्तु द्रव्यमन्त्रशुभक्रमैः ।
चिकित्सकादिशास्त्रोक्तैर्नश्यन्त्यन्यैरिहाथवा ॥ २७ ॥

सामान्यव्याधिष्वनाधिजव्याधयः सुचिकित्स्या इत्याशयेनाह-अनाधिजा इति ।
अन्यैर्वृद्धपरम्परोपदिष्टैश्चिकित्सनैः ॥ २७ ॥

स्नानमन्त्रौषधोपाया वक्तुश्चाधिगतानि च ।
त्वया चिकित्साशास्त्राणि किमन्यदुपदिश्यते ॥ २८ ॥

लोलार्कादितीर्थेषु स्नानम् । मन्त्रा औषधानीत्याद्युपायाः । वक्तुश्च
वृद्धजनादधिगतान्यौषधानि चिकित्साशास्त्राणि च त्वया ज्ञायन्त एवेति शेषः ॥ २८

श्रीराम उवाच ।

आधेः कथं भवेद्याधिः कथं च स विनश्यति ।
द्रव्यादितरया युक्त्या मन्त्रपुष्यादिरूपया ॥ २९ ॥

आधिभ्यो व्याधिजन्मप्रकारं तच्चिकित्सोपायं च रामः पृच्छति-आधेरिति ।
द्रव्यादौषधादितरया मन्त्रपुण्यादिरूपयेति स्वसम्भावनयोक्तिः ॥ २९ ॥

श्रीवसिष्ठ उवाच ।

चित्ते विधुरिते देहः सङ्क्षोभमनुयात्यलम् ।
तथाहि रुषितो जन्तुरग्रमेव न पश्यति ॥ ३० ॥

तत्र प्रथमं तदुद्भवप्रकारमाह-चित्ते इत्यादिना । विधुरिते आधिभिः क्षुब्धे ।
उक्तमर्थं दृष्टान्तेनोपपादयति-तथाहीति सार्धेन । अग्रं पुरोमार्गम् ॥ ३० ॥

अनवेक्ष्य पुरो मार्गममार्गमनुधावति ।
प्रकृतं मार्गमुत्सृज्य शरार्तो हरिणो यथा ॥ ३१ ॥

सङ्क्षोभात्साम्यमुत्सृज्य वहन्ति प्राणवायवः ।
देहे गजप्रविष्टेन पयांसीव सरित्तटे ॥ ३२ ॥

दार्ष्टान्तिकेऽपि तथैव आधिकृतात्सङ्क्षोभात्प्राणवायवः साम्यमुत्सृज्यामार्गेण
वहन्ति । यथा गजस्य प्रविष्टेन प्रवेशेन क्षुब्धानि पयांसि सरितस्तटे अमार्गे वहन्ति
तद्वत् ॥ ३२ ॥

असमं वहति प्राणे नाड्यो यान्ति विसंस्थितिम् ।
असम्यक्संस्थिते बूपे यथा वर्णाश्रमक्रमाः ॥ ३३ ॥

असमं विषमम् । विसंस्थितिं कफपित्तादिपूर्णताप्रयुक्तविषमसंस्थानताम् ॥ ३३ ॥

काश्चिन्नाड्यः प्रपूर्णत्वं यान्तिं काश्चिच्च रिक्तताम् ।
प्राणाऽऽविधुरिते देहे सर्वतः सरितो यथा ॥ ३४ ॥

तदेवाह-काश्चिदिति । प्राणैराविधुरिते सर्वतो विह्वलीकृते देहे । सरितो नाड्यः
स्रोतांसिव ॥ ३४ ॥

कुजीर्णत्वमजीर्णत्वमतिजीर्णत्वमेव वा ।
दोषायैव प्रयात्यन्नं प्राणसञ्चारदुष्क्रमात् ॥ ३५ ॥

यथा काष्ठानि नयति प्राचीदेशं सरिद्रयः ।
तथान्नानि नयत्यन्तः प्राणवातः स्वमाश्रयम् ॥ ३६ ॥

समानाख्यः प्राणवातः स्वमाश्रयं सर्वं शरीरं भुक्तान्यन्नानि रसीकृत्य
नयति । मध्ये तु समान एष ह्येतद्धुतमन्नं समं नयतीति श्रुतेरिति भावः ॥ ३६ ॥

यान्यन्नानि निरोधेन तिष्ठन्त्यन्तःशरीरके ।
तान्येव व्याधितां यान्ति परिणामस्वभावतः ॥ ३७ ॥

धातुवैषम्यपरिणामस्वभावतः ॥ ३७ ॥

एवमाधेर्भवेद्व्याधिस्तस्याभावाच्च नश्यति ।
यथा मन्त्रैर्विनश्यन्ति व्याधयस्तत्क्रमं शृणु ॥ ३८ ॥

उपसंहरति-एवमिति । अभावान्नाशात् ॥ ३८ ॥

यथा विरेकं कुर्वन्ति हरीतक्यः स्वभावतः ।
भावनावशतः कार्यं तथा यरलवादयः ॥ ३९ ॥

हरीतक्याः फलानि हरीतक्यः । फले लुकि हरीतक्यादिषु व्यक्तिः इति नियमान्न वचने
युक्तवद्भावः । तथा यरलवादयो वायुवह्निभूजलादिबीजात्मका मन्त्रवर्णा
मान्त्रिकभावनावशतो नाडीषु
व्याध्याकारपरिणतान्नरसानाभुत्सारणपाचनादिकार्यं कुर्वन्तीत्यर्थः ॥ ३९ ॥

शुद्धया पुण्यया साधो क्रियया साधुसेवया ।
मनः प्रयाति नैर्मल्यं निकषेणेव काञ्चनम् ॥ ४० ॥

आध्युपशमोपायानाह-शुद्धयेत्यादिना ॥ ४० ॥

आनन्दो वर्धते देहे शुद्धे चेतसि राघव ।
पूर्णेन्दावुदिते ह्यत्र नैर्मल्यं भुवने यथा ॥ ४१ ॥

सत्त्वशुद्ध्या वहन्त्येते क्रमेण प्राणवायवः ।
जरयन्ति तथान्नानि व्याधिस्तेन विनश्यति ॥ ४२ ॥

आधिव्याध्योरिति प्रोक्तौ नाशोत्पत्तिक्रमौ त्वयि ।
कुण्डलिन्याः कथायोगादधुना प्रकृतं शृणु ॥ ४३ ॥

प्रासङ्गिकप्रश्नोत्तरमुपसंहृत्य प्रकृतं सिद्धिहेतुनिरूपणं प्रस्तौति##-

पुर्यष्टकपराख्यस्य जीवस्य प्राणनामिकाम् ।
विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरीम् ॥ ४४ ॥

पुर्यष्टकाख्यस्य लिङ्गात्मनो जीवस्याधारभूताम् ॥ ४४ ॥

तां यदा पूरकाभ्यासादापूर्य स्थीयते समम् ।
तदैति मैरवं स्थैर्यं कायस्यापीनता तथा ॥ ४५ ॥

आपूर्य कूर्मनाड्यां प्राणमवष्टभ्येत्यर्थः । तथा च पतञ्जलेः सूत्रम्
कूर्मनाड्यां स्थैर्यम् इति । कण्ठकूपादध उरसि कूर्माकारा नाडी तस्यां
कृतसंयमः स्थैर्यं लभते यथा सर्पो गोधा वेति तद्भाष्यम् । कायस्यापीनता
गरिमाख्या सिद्धिरपि तथा तादृशी भैरवी सिद्ध्यतीत्यर्थः ॥ ४५ ॥

यदा पूरकपूर्णान्तरायतप्राणमारुतम् ।
नीयते संविदेवोर्ध्वं सोढुं घर्मक्लमं श्रमम् ॥ ४६ ॥

केन तर्ह्यूर्ध्वं नभोगतिसिद्धिस्तदाह-यदेत्यादिना । यदा पूरकेण पूर्णे
देहान्तरायतो मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं
दीर्घीकृत्योर्ध्वमाकृष्टः प्राणमारुतो यस्मिन्कर्मणि तद्यथा स्यात्तथा संवित्
कुण्डलिनी प्राणनिरोधोद्भूतमूष्माणं तत्प्रयुक्तं शारीरं क्लमं मानसं
श्रमं चाभ्यासपाटवेनामृताप्लावनेन च सोढुं सह्यं कर्तुमूर्ध्वं नीयते ॥
४६ ॥

सर्पीव त्वरितैवोर्ध्वं याति दण्डोपमां गता ।
नाडीः सर्वाः समादाय देहबद्धा लतोपमाः ॥ ४७ ॥

नीयमाना च सा आकर्षणाद्दण्डोपमां दीर्घतां गता सती सर्पीव
त्वरितैवोर्ध्वमभ्यासपाटवाद्याति । कथं याति तदाह-नाडीरिति ॥ ४७ ॥

तदा समस्तमेवेदमुत्प्लावयति देहकम् ।
नीरन्ध्रं पवनापूर्णं भस्त्रेवाम्बु ततान्तरम् ॥ ४८ ॥

तदा नाडीद्वारा नीरन्ध्रं निरवकाशं यथा स्यात्तथा पवनेनापूर्णं
लघुत्वमापन्नं समस्तमापादमस्तकमिदं देहकं
कूपादूर्ध्वमाकृष्यमाणा चर्मभस्त्रा ततं व्याप्तमान्तरमन्तःप्रदेशो येन
तथाविधमम्ब्विव उत् ऊर्ध्वं प्लावयति उड्डीनं करोति
तदेवास्याकाशगमनमित्यर्थः ॥ ४८ ॥

इत्यभ्यासविलासेन योगेन व्योमगामिना ।
योगिनः प्राप्नुवन्त्युच्चैर्दीना इन्द्रदशामिव ॥ ४९ ॥

इति एवंविधेनाभ्यासविलासेन योगेन कायाकाशसम्बन्धसंयमलक्षणेन । तथा च
भगवतः पतञ्जलेः सूत्रम् कायाकाशयोः
सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् इति तद्भाष्यं च यत्र
कायस्तत्राकाशं कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो योगी जित्वा
तत्सम्बन्धं लघुतूलादिषु आपरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो
लघुर्लघुत्वाच्च जले पदाभ्यां विहरति ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु
विहरति ततो यथेष्टमाकाशगतिरस्य भवति इति ॥ ४९ ॥

ब्रह्मनाडीप्रवाहेण शक्तिः कुण्डलिनी यदा ।
बहिरूर्ध्वं कपाटस्य द्वादशाङ्गुलमूर्धनि ॥ ५० ॥

इदानीं सिद्धदर्शनोपायमाह-ब्रह्मनाडीत्यादिना । यदा रेचकेन
प्रयोगेणोर्ध्वमाकृष्टा कुण्डलिनी शक्तिर्ब्रह्मनाडी सुषुम्ना तदन्तः
प्राणप्रवाहेण शीर्षकपालद्वयसन्धिलक्षणस्य कपाटस्य
बहिर्द्वादशाङ्गुलमिते मूर्धनि षोडशान्ताख्ये स्थाने मुहूर्तमात्रं स्थितिमाप्नोति
तदा व्योमगानां सिद्धानां दर्शनं भवतीति परेणान्वयः । तथा च भगवतः
पतञ्जलेः सूत्रम् मूर्धज्योतिषिसिद्धदर्शनम् इति । तद्भाष्यं च शिरःकपाले
अन्तश्छिद्रं प्रभास्वरत्वाज्ज्योतिस्तत्र संयमात्सिद्धानां
द्यावापृथिव्योरन्तरालचारिणां दर्शनमिति ॥ ५० ॥

रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना ।
मुहूर्तं स्थितिमाप्नोति तदा व्योमगदर्शनम् ॥ ५१ ॥

श्रीराम उवाच ।

दर्शनं कीदृशं ब्रह्मन्नयनांशुगणं विना ।
अदिव्यानामिन्द्रियाणां तत्त्वमेवं कथं भवेत् ॥ ५२ ॥

आदिव्यानामिन्द्रियाणामिति भावलक्षणे षष्ठी चानादरे इति षष्ठ्यौ ।
यदास्मदादीनामिन्द्रियाणामदिव्यानां सतां सत्यपि तत्सन्निकर्षे सिद्धानां तत्त्वं
तद्गोचरत्वं दुर्लभं तदा नयनांशुगणं चाक्षुषप्रभासन्निकर्षं विना
षोडशान्ते प्राणधारणमात्रेण सिद्धानां दर्शनं कथं भवेत्तच्च
कीदृशमित्यर्थः ॥ ५२ ॥

श्रीवसिष्ठ उवाच ।

न केचन महाबाहो भूचरेण नभस्वतः ।
अदिव्येनाश्रिता ज्ञानैर्दृश्यन्ते पुरुषेन्द्रियैः ॥ ५३ ॥

तत्र कथं भवेदित्यंशमिष्टापत्त्या वसिष्ठः परिहरति-न केचनेति । नभस्वतो
नभस्वन्तो वायुभूताः । सिद्धा आश्रिता ज्ञानैर्मलिनैः
पुरुषेन्द्रियैरदिव्येनोपायान्तरेण वा न दृश्यन्त इति सत्यमेव त्वयोक्तमित्यर्थः ॥ ५३

विज्ञानाद्दूरसंस्थेन बुद्धिनेत्रेण राघव ।
दृश्यन्ते व्योमगाः सिद्धाः स्वप्नवत्स्वार्थदा अपि ॥ ५४ ॥

केन तर्हि दृश्यन्ते तदाह-विज्ञानादिति ।
विज्ञानाद्योगाभ्याससंस्कृतमनसः ॥ ५४ ॥

स्वप्नावलोकनं यद्वत्तद्वत्सिद्धावलोकनम् ।
केवलोऽथ विशेषोऽयं सिद्धप्राप्तौ स्थिरार्थता ॥ ५५ ॥

कीदृशमिति प्रश्नांशस्योत्तरमाह-स्वप्नावलोकनमिति । स्थिरार्थता
संवादवरदानफलावाप्त्यादिव्यवहारक्षमार्थता स्वप्नापेक्षया विशेष इत्यर्थः
॥ ५५ ॥

मुखाद्बहिर्द्वादशान्ते रेचकाभ्यासयुक्तितः ।
प्राणे चिरं स्थितिं नीते प्रविशत्यपरां पुरीम् ॥ ५६ ॥

इदानीं परकायप्रवेशो येनोपायेन सिद्ध्यति तमाह-मुखादिति । द्वादशान्ते
द्वादशाङ्गुलिपरिमितप्रान्ते ॥ ५६ ॥

श्रीराम उवाच ।

वद स्वभावस्य कथं ब्रह्मन्नचलसंस्थितिः ।
वक्तारः सानुकम्पा हि दुष्प्रश्नेऽपि न खेदिनः ॥ ५७ ॥

विशेषोऽयं सिद्धप्राप्तौ स्थिरार्थता इति यदुक्तं तत्र स्वभाव एव हेतुर्वाच्यः
सर्वस्य जगतो मायामयत्वादनियतस्थितित्वं प्राग्बहुशस्त्वयैव घटस्य पटता
दृष्टा इत्यादिना व्युत्पादितं तत्र स्वभावस्यैकस्य नियतस्थितिः कथमिति रामः
पृच्छति-वदेति ॥ ५७ ॥

श्रीवसिष्ठ उवाच ।

शक्तिर्या तु स्वभावाख्या यथा स्फुरति चात्मनः ।
सर्गादिषु तथैवासौ स्थितिं यातीति निश्चयः ॥ ५८ ॥

सत्यसङ्कल्पस्येश्वरस्य सर्गादिकालसङ्कल्पप्रयुक्ता वस्तुस्वभावनियतिरपि
यावत्सर्गकालमेव न प्रलये सास्तीति न सर्वनियतिभङ्गवादविरोध इत्याशयेन
प्रागुक्तमेव स्मारयन् वसिष्ठस्तदुत्तरमाह-शक्तिरिति ॥ ५८ ॥

अवस्तुत्वादविद्याया वस्तुशक्तिरपि क्वचित् ।
भिद्यते दृश्यते ह्यङ्ग वसन्ते शारदं फलम् ॥ ५९ ॥

कालभेदेनेव देशभेदेनापि वस्तुशक्तेरनियतता दृष्टेत्याह-अवस्तुत्वादिति ।
क्वचित्कामरूपदेशादौ शारदं व्रीह्यादिफलम् ॥ ५९ ॥

सर्वमेवमिदं ब्रह्म नानाऽनानातया स्थितम् ।
जृम्भते व्यवहारार्थं केवलं कथितस्थिति ॥ ६० ॥

नानाऽनानातया अनियतस्वभावतया स्थितं सर्वमेवेदं ब्रह्म । ब्रह्म
स्वभावेनैव नियतैकरूपं नान्येनेत्यर्थः । कथं तर्हि
वेह्नेरूर्ध्वज्वलनादिनियतिस्तत्राह-जृम्भते इति ।
प्राणिकर्मतत्फलोपभोगव्यवहारार्थमज्ञातं ब्रह्मैव कञ्चित्कालं तथा तथा
नियतस्थिति भूत्वा जृम्भत इत्यर्थः ॥ ६० ॥

श्रीराम उवाच ।

सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा ।
अणुतां स्थूलतां वापि कायोऽयं नीयते कथम् ॥ ६१ ॥

इदानीमणिमाख्या महिमाख्या च सिद्धिः केनोपायेन सिद्ध्यतीति रामः पृच्छति##-

श्रीवसिष्ठ उवाच ।

काष्ठक्रकचयोः श्लेषाद्यथा छेदः प्रवर्तते ।
द्वयोः सङ्घर्षणादग्निः स्वभावाज्जायते तथा ॥ ६२ ॥

अस्य प्रश्नस्योत्तरमुत्तरसर्गे विस्तराद्वर्णयिष्यंस्तदुपोद्घाततया देहे
अग्नीषोमव्याप्तिं निरूपयिष्यन् प्राणापानयोः सङ्घर्षादन्तराले जाठराग्निनिष्पत्तौ
दृष्टान्तमाह-काष्ठेति । छेदो द्वैधीभावः । द्वयोः प्राणापानयोः ।
अग्निर्जाठरः ॥ ६२ ॥

मांसं कुयन्त्रजठरे स्थितं श्लिष्टमुखं मिथः ।
ऊर्ध्वाधःसम्मिलत्स्थूलद्व्यम्भःस्थैरिव वैतसम् ॥ ६३ ॥

प्राणापानयोः सङ्घर्षणोपपत्तये अन्योन्याकर्षकत्वे कारणमाह##-
नाभेरूर्ध्वमधश्च सम्मिलत् अत एव मिथः
श्लिष्टमुखमामाशयपक्वाशयभस्त्राद्वयरूपं स्थूलं मांसं
दिविस्थैरूर्ध्वमाकाशसंस्थैरम्भःस्थैरधो जले निमग्नैश्च भागैः
परस्परश्लिष्टैरुपलक्षितमधोऽम्भसा ऊर्ध्वं वायुना च विरुद्धदेशयोः
कृष्यमाणं वैतसं कुञ्जमिव कम्पमानं स्थितं वर्तत इत्यर्थः ॥ ६३ ॥

तस्य कुण्डलिनी लक्ष्मीर्निलीनान्तर्निजास्पदे ।
पद्मरागसमुद्गस्य कोशे मुक्तावली यथा ॥ ६४ ॥

अस्तु तत्किं ततस्तत्राह-तस्येति । तस्य मांसस्याधस्तनभस्त्राभागस्य
मूलभागरूपे निजे आस्पदे मूलाधारे प्रागुक्ता कुण्डलिनी सर्वस्य
कार्यकारणसङ्घातस्य प्राणप्रदत्वाल्लक्ष्मीः ॥ ६४ ॥

आवर्तफलमालेव नित्यं सलसलायते ।
दण्डाहतेव भुजगी समुन्नतिविवर्तिनी ॥ ६५ ॥

जपकाले आवर्त्यमाना रुद्राक्षादिफलमालेव नित्यमभीक्ष्णं
प्राणापानोद्गिरणनिगिरणाभ्यां सलसलायते कम्पेनाव्यक्तरवं जनयति ।
अव्यक्तानुकरणाड्डाचि बहुलग्रहणात् करोत्यर्थे क्यङ् । समुन्नतिरूर्ध्वमुखता
तया विवर्तिनी परिवर्तनशीला ॥ ६५ ॥

द्यावापृथिव्योर्मध्यस्था क्रियेव स्पन्दधर्मिणी ।
संविन्मधुविबोधार्को हृत्पद्मपुटषट्पदी ॥ ६६ ॥

द्यावापृथिव्योर्मध्ये प्राणिनामूर्ध्वाधोगतिहेतुर्विहितनिषिद्धक्रियेव
प्राणापानयोरूर्ध्वाधोगतिहेतुत्वात्स्पन्दधर्मिणी । चाक्षुषादिभविल्लक्षणानां
मधूनां रूपादिविषयास्वादानां विबोधे अर्क इव स्थिता ॥ ६६ ॥

तत्सर्वं शक्तिपद्मादि बाह्येनाभ्यन्तरैस्तया ।
हृदि व्याधूयते वातैः पत्रवृन्दमिवाभितः ॥ ६७ ॥

शक्तयो ज्ञानकर्मेन्द्रियादिशक्तयः । प्रागुक्तं हृत्पद्ममादिपदान्नाडीजालं च
हृदि आभ्यन्तरैर्वातैस्तया व्याधूयते कम्प्यते । यथा बाह्येन वातेन
तरुपत्रवृन्दं व्याधूयते तद्वदित्यर्थः ॥ ६७ ॥

यद्वद्व्योम स्फुरत्यङ्ग स्वभावात्तत्र वायवः ।
बलवन्मृदु यत्किञ्चिद्भृशं कवलयन्ति तत् ॥ ६८ ॥

बाह्यं व्योम यद्वद्विशालं स्फुरति तत्र च स्वभावादेव वायवो
बलवत्काष्ठपाषाणादिमृदपर्णतृणादि च कवलयन्तीव कालेन जरयन्ति
तद्वदन्तर्व्योम्न्यपि प्राणवायवो भुक्तमन्नादि जरयन्तीत्यर्थः ॥ ६८ ॥

वातैराहन्यमानं तत्पद्मादि तरलायते ।
हृद्यन्यान्यैति कार्येण पल्लवादि यथा तरोः ॥ ६९ ॥

जरणप्रकारमेवाह-वातैरिति । तत्प्रागुक्तं हृत्पद्मनाडीभस्त्रादि
प्राणवातैराहन्यमानं ध्मायमानं लोहकारभस्त्रेव तरलायते । तरलायमानस्य
तस्य हृदि अन्तःप्रविष्टस्यान्नस्य प्रथमं रसो रसाद्रक्तं रक्तान्मांसं
मांसात्त्वक् त्वचो मेदो मेदसो मज्जा मज्जाभ्योऽस्थीन्यस्थिभ्यः शुक्रमिति
विचित्रकार्येणान्यस्या अन्या परिणतिरेति । यथा वसन्ते तरोरन्तःप्रविष्टभौमरसस्य
पल्लवा मञ्जर्यः पुष्पाणि फलानीत्यादि एति तद्वदित्यर्थः ॥ ६९ ॥

देहेष्वाजरणं सर्वरसानां पवनोऽन्वहम् ।
जनयत्यग्निमन्योन्यसङ्घर्षाद्वनवेणुवत् ॥ ७० ॥

तत्र सप्तस्वपि धातुस्थानेषूत्तरोत्तरपरिणामसिद्धये
परस्परसङ्घर्षाज्जाठराग्नेरभिव्यक्तिरस्तीत्याशयेनाह-देहेष्विति । आजरणं
जरणपरम्परया चरमधातुपरिणामपर्यन्तमित्यर्थः ॥ ७० ॥

स्वभावशीतवातात्मा देहस्तेनौष्ण्यमेत्यथ ।
उदितेन स सर्वाङ्गे भुवनं भानुना यथा ॥ ७१ ॥

स देहः सर्वाङ्गे उदितेन प्रदीप्तेन तेन जाठराग्निना औष्ण्यमेति ॥ ७१ ॥

सर्वतो विचरेदस्मिंस्तत्तेजस्तारकाकृति ।
हृत्पद्महेमभ्रमरो योगिनां चिन्त्यतां गतम् ॥ ७२ ॥

तस्यैव सर्वदेहव्यापिनो जाठराग्नेर्हृत्पद्मे तारकाकारेण योगिभिरुपासनं क्रियत
इत्याह-सर्वत इति । अस्मिन् देहे ॥ ७२ ॥

तत्प्रकाशमयं ज्ञानं चिन्तितं सत्प्रयच्छति ।
येन योजनलक्षस्थं वस्तु नित्यं हि दृश्यते ॥ ७३ ॥

तदेव चिद्रूपेण चिन्त्यमानं व्यवहितविप्रकृष्टसर्वपदार्थदर्शनसिद्धिं
जनयतीत्याह-तदिति ॥ ७३ ॥

तस्याग्नेर्वाडवस्येव जलं संशुष्कमिन्धनम् ।
मांसपङ्कजखण्डाढ्यन्न् हृत्सरः कोशवासिनः ॥ ७४ ॥

तस्याग्नेरिन्धनमाह-तस्येति । वाडवस्याग्नेः सामुद्रं जलमिव मांसलक्षणैः
पङ्कजखण्डैराढ्यं यद्धृत्सरस्तत्कोशशायिनस्तस्य जाठरस्याग्नेरपि
शारीरमन्नरसरूपं जलं संशुष्कं ज्वलनयोग्यमिन्धनमित्यर्थः ॥ ७४ ॥

यदच्छन्न् शीतलत्वं च तदस्यात्मेन्दुरुच्यते ।
इतीन्दोरुत्थितः सोऽग्निरग्नीषोमौ हि देहकः ॥ ७५ ॥

देहे इन्धनभूतमिन्द्वंशं लक्षणेन विभज्य देहस्याग्नीषोमात्मकत्वमाह##-

सर्वं तूष्णात्मकं किञ्चित्तेजोऽर्काग्न्यभिधं विदुः ।
शीतात्मकं तु सोमाख्यमाभ्यामेव कृतं जगत् ॥ ७६ ॥

बहिरपि जगत्प्रकाशौष्ण्याभ्यां शैत्यजाड्याभ्यां चाग्नीषोमात्मकं
ज्ञेयमित्याह-सर्वमिति ॥ ७६ ॥

विद्याविद्यास्वरूपेण सर्वं सदसदात्मना ।
जगद्वा येन निर्वृत्तं तदेवैवं विभज्यते ॥ ७७ ॥

अथवा चिज्जडोभयघटितं सदसदात्मकमविद्याशबलं ब्रह्मैव जगदाकारेण
निर्वृत्तमिति तदेवैवं प्रकाशजाड्यात्मना अग्नीषोमरूपेण विभक्तमित्याह##-

संवित्प्रकाशं विद्यादि सूर्यमग्निं विदुर्बुधाः ।
असज्जाड्यं तमो विद्याद्याहुः सोमं मनीषिणः ॥ ७८ ॥

तं विभागमेव स्फुटमाह-संविदिति । विद्यां आत्मतत्त्वस्फूर्तिम् ।
आदिपदाद्बाह्यार्थप्रथां च ॥ ७८ ॥

श्रीराम उवाच ।

वह्निर्वाय्वात्मनः सोमादुदेतीति मुनीश्वर ।
सोमस्योत्पत्तिमधुना वद मे वदतां वर ॥ ७९ ॥

देहेष्वाजरणं सर्वरसानां पवनोऽन्वहम् ।
जनयत्यग्निमन्योन्यसङ्घर्षाद्वनवेणुवत् इति त्वदुक्त्या देहे बहिश्च
प्रत्यक्षेणाग्न्यादित्यादेर्वाय्वधीनोद्भवोदयादिदर्शनाद्वह्निर्वाय्वात्मनः
सोमादुदेतीत्ययमर्थो मया बुद्ध इति शेषः । शेषः स्पष्टः ॥ ७९ ॥

श्रीवसिष्ठ उवाच ।

अग्नीषोमौ मिथः कार्यकारणे च व्यवस्थिते ।
पर्यायेण समं चैतौ प्रजीषेते परस्परम् ॥ ८० ॥

परस्परं पर्यायेण प्रजीषेते जिगीषेते । जेः सनि द्वित्वकुत्वयोरभावश्छान्दसः ।
अज्झनगमाम् इति दीर्घः । प्रजीवेते इति पाठे तु परस्परमुपजीवत इत्यर्थः ॥ ८० ॥

जन्माङ्गबीजाङ्कुरवत्तथा दिवसरात्रिवत् ।
स्थितिश्छायातपसमा केवला सैतयोर्भवेत् ॥ ८१ ॥

अनयोर्जन्मबीजाङ्कुरवत्परस्परोपादानकं दिवसरात्रिवत्परस्परनिमित्तकं च ।
स्थितिस्तु छायातपसमा परस्परोपघातिनीत्यर्थः ॥ ८१ ॥

तुल्यकालोपलम्भासावित्थं छायातपस्थितिः ।
केवलैकोपलम्भाढ्या स्थितिर्दिवसरात्रिवत् ॥ ८२ ॥

दृष्टान्तभेदोपन्यासस्य तात्पर्यान्तरमाह-तुल्येति । युगपदुलम्भे
छायातपस्थितिः पर्यायेणोपलम्भे दिनरात्रिस्थितिर्दृष्टान्त इत्यर्थः ॥ ८२ ॥

कार्यकारणभावश्च द्विविधः कथितोऽनयोः ।
सद्रूपपरिणामोत्थो विनाशपरिणामजः ॥ ८३ ॥

दृष्टान्तयोः कार्यकारणभावद्वयपरत्वपक्षेऽप्यवान्तरभेदान्तरद्वयेऽपि
तात्पर्यमस्तीत्याह-कार्यकारणभावश्चेति ॥ ८३ ॥

एकस्माद्यद्द्वितीयस्य सम्भवोऽङ्कुरबीजवत् ।
कार्यकारणभावोऽसौ सद्रूपपरिणामजः ॥ ८४ ॥

तयोराद्यमुपपादयति-एकस्मादिति ॥ ८४ ॥

एकनाशे द्वितीयस्य यद्भावो दिनरात्रिवत् ।
कार्यकारणभावोऽसौ विनाशपरिणामजः ॥ ८५ ॥

द्वितीयमुपपादयति-एकेति । भाव उत्पत्तिः ॥ ८५ ॥

सद्रूपपरिणामस्य मृद्घटक्रमसंस्थितेः ।
अक्षोपलम्भादितरत्प्रमाणं नोपयुज्यते ॥ ८६ ॥

आद्ये कार्यदशायां कारणसत्त्वे मृदात्मकोऽयं घट इत्यादि प्रत्यक्षं
प्रमाणमित्याह-सद्रूपेति । यद्यप्यनुमानादीनामपि सम्भवोऽस्ति तथापि
प्रत्यक्षसिद्धेऽर्थे न ते मृग्यन्ते इत्यनुपयोगोक्तिः । तदुक्तं न्यायवाचस्पत्ये न हि
करिणि दृष्टे चीत्कारेण तमनुमिमते मिमातारः इति । सिद्धिसत्त्वेन
पक्षतारूपकारणाभावादित्याशयः ॥ ८६ ॥

विनाशपरिणामस्य दिनरात्रिक्रमस्थितेः ।
अभावोऽप्येकवस्तुस्थो गतो मुख्यप्रमाणताम् ॥ ८७ ॥

एवं द्वितीयेऽपि कार्यदशायां कारणासत्त्वे दिवारात्रिं नोपलभामहे इत्यनुपलब्धिः
प्रमाणमित्याह-विनाशेति । एकवस्तुस्थः एकवस्तुमात्रग्राहिप्रत्यक्षाविरुद्धः ॥
८७ ॥

अनास्था नास्ति कर्तृत्वमित्याद्याऽऽयुक्तिवादिनः ।
अवज्ञया बहिष्कार्याः स्वानुभूत्यपलापिनः ॥ ८८ ॥

ननु कार्यं कुर्वत् कारणमुच्यते । तत्कर्तृत्वं च कारणस्य
तदभिनिवेशलक्षणायामास्थायां दृष्तम् । न च प्रकाशनमात्रोपक्षीणस्य
दिनस्य रात्रिनिर्माणे आस्थास्तीति नास्ति कर्तृत्वम् । एवं रात्रेरपि दिनकर्तृत्वं
नास्तीत्यभावपरिणामेन कार्यकारणभावो निर्मलः । एवमचेतनस्य मृदादेर्न
घटादिजनने आस्था सम्भवति । तस्याश्चेतनधर्मत्वात् ।
किञ्चानुपमर्दितान्मृत्पिण्डान्न घटो निष्पद्यते । उपमर्दे तु मृत्पिण्डो
नश्यत्येवेति किं सद्रूपेण परिणमेत । न च पिण्डघटव्यतिरिक्ता उभयानुगता
मृन्नाम काचित्तत्र तृतीयास्ति । किं च बीजादिस्थितं निनङ्क्षु नश्यन्नष्टं वा
अङ्कुरं जनयेत् । नाद्यः । कुसूलादौ तत्प्रसङ्गात् । न द्वितीयतृतीयौ । तदा
स्वत्राणेऽप्यसमर्थं परमुत्पादयितुं समर्थमिति का वाचो युक्तिः । चतुर्थस्तु कल्पः
सर्वानुभवबाधित इति न कस्माच्चित्कस्यचिदुत्पत्तिर्विनाशो वा किन्तु स्वभावत एव
सर्वमुत्पद्यते विनश्यति च तत्र पौर्वापर्यदर्शनादविवेकिनां
कार्यकारणभावविकल्पा इत्यादिदुर्युक्तिवादिनः स्वानुभवविरोधोद्भावनेनैव
निरसनीया इत्याह-अनास्थेति । इत्यादिरायुक्तिर्दुर्युक्तिस्तद्वादिनः । अवज्ञया
अवमानेन । स्वानुभूत्यपलापिता च तेषामित्थं वर्णनीया ।
अनास्थादियुक्तिबुद्धिरकर्तृत्वादिबुद्धिं जनयति चेत्तयोरेव
कार्यकारणभावस्तवानुभवसिद्ध इति कथं तत्सामान्यापलापः । यदि न जनयति
तर्हि तथा स्वानुभववतस्तव परबुबोधयिषया युक्त्युपन्यासः स्वानुभवविरुद्धः
प्रलाप इति । एवं रात्रिरपि चरमभावविकारात्मना अभावपरिणामेन दिनस्य
कारणमिति स्वानुभवसिद्धमेव । न च नाशो न भावविकारः । उत्पत्त्यादेरिव तस्यापि
भावधर्मत्वानुभवात् । एवं बीजाङ्कुराद्यवस्थास्वनुगतं
द्रव्यमप्यबाधितप्रत्यभिज्ञानुभवसिद्धं नापलापार्हम् । तदेव स्थितं
निनङ्क्षु नश्यन्नष्टमित्याद्यवस्थाभेदं स्वात्मन्यनुभवदङ्कुरादेः कारणं
नावस्थाभेदेषु इति तत्र द्रव्यभेदांस्तेषां
निर्हेतुकोपेत्त्यादीन्निष्प्रमाणकानतिगौरवग्रस्तांश्च प्रलपन्तो मूर्खा अवज्ञयैव
बहिष्कार्या इत्यर्थः ॥ ८८ ॥

प्रत्यक्षवदभावोऽपि प्रमैव रघुनन्दन ।
अग्न्यभावोऽपि शीइतस्य प्रमाणं सर्वजन्तुषु ॥ ८९ ॥

अनुपलब्धेः प्रामाण्यसन्देहं वारयति-प्रत्यक्षवदिति । प्रमैव प्रमाणमेव ।
न चाभावे प्रभाकरणत्वमन्यत्र न दृष्टमिति भ्रमितव्यम् । तेजोऽभावस्य
शीतानुमितौ लिङ्गविधया करणत्वप्रसिद्धेरित्याह-अग्न्यभाव इति ॥ ८९ ॥

अग्निर्धूमतया भागाद्यां प्रयाति पयोदताम् ।
सद्रूपपरिणामेन तदग्निः सोमकारणम् ॥ ९० ॥

बहिरग्नेः सद्रूपपरिणामेन सोमकारणत्वमुदाहरति-अग्निरिति । तत् तत्र ॥ ९० ॥

अग्निर्नष्टतया [असौ नष्टतया शैल्याद्वायुतामेव याति यत् इति पाठः
अग्निर्नष्टतया इति मूलपाठे तु वायुभावमित्यध्याहारलब्धं ज्ञेयम् ।]
शैत्यादसावेव प्रयाति यत् ।
विनाशपरिणामेन तदग्निः सोमकारणम् ॥ ९१ ॥

अभावपरिणामेनापि तदुदाहारति-अग्निरिति । असौ अग्निर्यद्वायुभावं प्राप्नोति ।
यदा वा अग्निरुद्वायति वायुमेवाप्येति इति श्रुतेः ॥ ९१ ॥

सप्ताम्बुधिपयः पीत्वा धूमोद्गारेण वाडवः ।
पयोदतां प्रयातेन तदेव जनयत्यलम् ॥ ९२ ॥

सरूपपरिणामेनाग्नीषोमयोः परस्परकारणत्वमेकैकत्रोदाहरति-सप्तेत्यादिना ।
वाडवो वडवानलः पयोदतां प्रयातेन स्वेनैव तत्सप्ताम्बुधिपय एव जनयति ।
क्षीरदधिघृतादीनामपि रसात्मकसोमरूपत्वात्सर्वत्र पयोवाधः ॥ ९२ ॥

अर्कः पीत्वा निशानाथमामावास्यं पुनः पुनः ।
उद्गिरत्यमले पक्षे मृणालमिव सारसः ॥ ९३ ॥

आ अमावास्यामित्यामावास्यम् । आङ्मर्यादाभिविध्योः इत्यव्ययीभावे
नपुंसकह्रस्वः । कृष्णपक्षे अमावास्यापर्यन्तमित्यर्थः । अमले शुक्ले पक्षे ॥ ९३ ॥

पीत्वामृतोपमं शीतं प्राणः सोममुखागमे ।
अभ्रागमात्पूरयति शरीरं पीनतां गतः ॥ ९४ ॥

सोमो मुखमिव शोभमानो यत्र तथाविधवसन्तग्रीष्मागमे प्राणः सोष्मा
वायुर्भौमं पयः पीत्वा वर्षर्तावभ्रागमात्तद्वेषेण पीनतां गतः सन् वृष्ट्या
पुनर्जगच्छरीरं पूरयति । अथवा आध्यात्मिक एव प्राणः सोमस्यापानस्य
मुखादन्नपानादेरुदरे आगमने सति अमृतोपमं तद्रसं पीत्वा पीनतां गतः
सन्नभ्रवद्व्याप्तसर्वनाडीजालागमनाच्छरीरं पूरयत्याप्याययति । स एवास्य
पुनः सोमपरिणाम इत्यर्थः । तदपानेनाजिघृक्षत्तदावयत्सैषोऽन्नस्य ग्रहः इति
श्रुतेरिति भावः । सोमं सुखागमे इति पाठे तु प्राणोऽग्निभूतो यजमानप्राणोऽध्वरे
अमृतोपमं शीतं सोमरसं पीत्वान्ते धूमादिमार्गेण सुखस्य स्वर्गस्यागमे
अभ्रस्य चन्द्रसन्निहिताकाशलक्षणमार्गपर्वण आगमनाच्चन्द्रं प्राप्य
तद्भावं प्राप्तः कलाभिः स्वशरीरं पूरयति स एवास्य पौर्णमास्यां पीनतां
गतः पुनः सोमपरिणाम इत्यर्थः । धूमादिमार्गश्चन्द्रभावश्च श्रुत्यैव
दर्शितः । अथ यत्रेमे प्रातरिष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति
धूमाद्रात्रिं रात्रेरपरपक्षप्रपरपक्षाद्यान् षट्दक्षिणैति मासांस्तानैते
संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं
पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नम् इति ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति इति च
पञ्चाग्नि विद्यायाम् ॥ ९४ ॥

जलमप्युदपां भोगे प्रयात्यर्कस्य रश्मिताम् ।
सद्रूपपरिणामेन तज्जलं वह्निकारणम् ॥ ९५ ॥

यदि मन्यसे न वायुर्भौमं रसं शोषयति किं त्वर्करश्मय एव तं पिबन्ति
रात्रावप्यूष्मरूपेण तेषां सत्त्वादिति तदा त एवोदाहरणमित्याशयेनाह##-
रश्मितां सरूपपरिणामेन याति । शुक्लरूपेण तत्रापामनुगमदर्शनात् ।
यदादित्यस्य लोहितं रूपं तेजस्तद्रूपं यच्छुक्लं तदपाम् इति श्रुतेरिति भावः ॥ ९५ ॥

नाशात्मकतया तोयमौष्ण्यत्वादेति ह्यग्निताम् ।
विनाशपरिणामेन तत्तोयं वह्निकारणम् ॥ ९६ ॥

यस्तु तत्र शैत्यद्रवत्वयोर्नाश औष्ण्यरौक्ष्ययोश्चोद्भवस्तदंशे
विनाशपरिणामिताप्यस्तीति सङ्कीर्णोदाहरणमिदमित्याह-नाशत्मकतयेति ॥ ९६ ॥

अग्नेर्विनाशे सद्रूपपरिणामो निशाकरः ।
इन्दोर्विनाशे सद्रूपपरिणामो हुताशनः ॥ ९७ ॥

सर्वत्राग्नीषोमात्मके परिणामे उभयरूपसङ्कीर्णतापि सूक्ष्मदृशा लक्षयितुं
शक्येत्याशयेनाह-अग्नेरिति द्वाभ्याम् ॥ ९७ ॥

हुताशो नाशमागत्य सोमो भवति वै तथा ।
दिवसो नाशमागत्य रात्रिर्भवति वै यथा ॥ ९८ ॥

तमःप्रकाशयोश्छायातपयोर्दिनरात्रयोः ।
मध्ये विलक्षणं रूपं प्राज्ञैरपि न लभ्यते ॥ ९९ ॥

तर्हि तमःप्रकाशयोश्छायातपादौ च किमनुगतं रूपं येन सद्रूपपरिणामता
तत्र स्यादिति चेत् तद्ब्रह्मैव तच्चाभिज्ञतमैरपि शृङ्गग्राहिकया न लभ्यत
इत्याह-तम इति । मध्ये अनुगतं व्यावृत्ततमःप्रकाशविलक्षणं
सन्मात्ररूपम् । अथवा मध्ये सन्धौ उभयविलक्षणम् । दिनरात्रयोरिति
समासान्तश्छान्दसः ॥ ९९ ॥

सन्धिरप्यविलोपः स्यादेतयोरेव तद्वपुः ।
भावाभावैर्यथैकास्थानिष्ठावेतौ तथैव हि ॥ १०० ॥

ननु तमःप्रकाशयोः सन्धिरुभयविलोपात्मा शून्यरूपस्तत्र नोभयविलक्षणं
किञ्चिद्रूपमस्तीत्याशङ्क्याह-सन्धिरिति । अनयोः सन्धिरपि अवलोपः
अशून्यरूपः स्यात् । यतस्तत्सन्धिरूपमेतयोरेव वपुः परस्परसंलग्नं स्वरूपम् ।
न हि शून्ययोः सन्धिर्नाम भवति । न वा निर्निमित्ता सतोः शून्यता कथं तर्हि तौ
सन्धौ वर्तेते इति चेत् । यथा पूर्वोत्तरकालयोर्भावाभावैः ।
उदाहरणबाहुल्याद्बहुवचनम् । परस्परनिरपेक्षनिरूपणेन भावरूपेण
सापेक्षनिरूपणेनाभावरूपेण च तम इदं प्रकाशाभावरूपमेकमेव वस्तु
प्रकाशश्चायं तमोऽभावरूपमेकमेव वस्त्विति सर्वानुभवादेतावेकास्थानिष्ठौ
स्थितौ तथैव हि सन्धावपि वर्तेते । नाणुमात्रमप्यन्यथाभूतावित्यर्थः ॥ १०० ॥

द्वाभ्यां चैतन्यजाड्याभ्यां भूतानि प्रस्फुरन्ति हि ।
यथा तमःप्रकाशाभ्यामहोरात्रा महीतले ॥ १०१ ॥

चिद्रूपजडरूपाभ्यामारब्धेयं जगत्स्थितिः ।
जलामृताभ्यां मिश्राभ्यां शीता तनुरिवन्दवी ॥ १०२ ॥

यथा विरुद्धाविरुद्धतमःप्रकाशघटिता अहोरात्रास्तथा चिज्जडोभयघटिताः
सर्वव्यवहारा इत्याह-चिद्रूपेति । जलमये बिम्बे सूर्यकरद्वारा
सूर्यबिम्बस्थितामृतात्मककलाभिः क्रमेण पूरणादुभयारब्धा ऐन्दवी तनुरिव ॥
१०२ ॥

प्रकाशमनलं सूर्यन्न् चिद्रूपं विद्धि राघव ।
जडात्मकं तमोरूपं विद्धि सोमशरीरकम् ॥ १०३ ॥

चिज्जडोभयांशशाभ्यामेव प्रकाशाप्रकाशतया आविर्भूताभ्यां
जगतोऽग्नीषोमात्मकतेत्याह-प्रकाशमिति ॥ १०३ ॥

चित्सूर्ये निर्मले दृष्टे नाम नश्येद्भवोदयम् ।
व्योमसूर्ये बहिर्दृष्टे यथा कृष्णनिशातमः ॥ १०४ ॥

बहिः सूर्योदयात्तम इवान्तश्चरमवृत्त्या
चिदादित्योदयाज्जगन्मूलतमोनिवृत्तिरित्याह-चित्सूर्ये इति । भवस्योदयो
यस्मात्तद्भवोदयन्न् तमः ॥ १०४ ॥

सोमदेहे जडे दृष्टे चिन्निजे सत्यवद्भवेत् ।
निशीथे विलसत्यब्जे यथा सौरप्रभाभरः ॥ १०५ ॥

निजे प्रत्यगात्मनि जडे सोमदेहे दृष्टे सति तत्तादात्म्येन स्फुरन्त्यपि
चित्तद्गुणत्वमिवापन्ना गुणान्तरवत्तत्सत्तयैव सती भूत्वा स्वसत्तया असत्यवद्भवेत् ।
यथा निशीथे अर्धरात्रेऽब्जे चन्द्रे विलसति तदनुप्रवेशेन स्फुरन्
सौरप्रभाभरश्चन्द्रधर्मचन्द्रिकात्वेन सम्पन्नश्चन्द्रसत्तया सन्निव भूत्वा
स्वसत्तया असत्यवद्भवति तदानीं सौरप्रभाभरो नास्तीति सर्वजनानुभवादिति
भावः ॥ १०५ ॥

सोमं प्रकटयत्यग्निश्चिद्देहस्य चिरं प्रभाम् ।
स्वसंविन्मयमिन्दुश्चिद्देहस्थं रूपमर्कजम् ॥ १०६ ॥

दृष्टान्तदार्ष्टान्तिकयोरुपपत्तिं फलं चाह-सोममिति । चन्द्रमण्डले
प्रविष्टः सूर्यप्रभारूपोऽग्निः सोमं जलमयं चन्द्रबिम्बं प्रकटयति
स्फुरद्रूपं करोति । देहे तु जीवभावेनानुप्रविष्टा चिद्देहस्य चिरं
यावदायुःप्रभामहम्भावादिना प्रथां करोति यथा प्रकाशयत्येकः कृत्स्नं
लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ इति
भगवद्वचनात् । एवमन्योन्यमेलने तादात्म्याध्यासादर्कजं रूपं
प्रभामण्डलमिन्दुर्भवति । चिच्च स्वसंविन्मयं मनुष्योऽहं चेतन
इत्यादिस्वानुभवानुसारिदेहस्थं रूपं भवतीत्यन्वयः ॥ १०६ ॥

चिन्निष्क्रिया त्वनामा सा केवला नोपलभ्यते ।
आलोक इव दीपेन देहेनैवावगम्यते ॥ १०७ ॥

इतोऽपि तस्या देहधर्मत्वभ्रम इत्याह-चिदिति । नमयति सङ्कोचयतीति नाम
उपाधिस्तच्छून्या ॥ १०७ ॥

चितश्चेत्योन्मुखत्वेन लाभः सैव च संसृतिः ।
निश्चेत्यायाः शोभो लाभो निर्वाणं वा तदेव हि ॥ १०८ ॥

अज्ञानावृतायाश्चितश्चेत्योपाध्युन्मुखप्रथानियमादेवानर्थप्राप्तिरित्याह##-

अन्योन्यलब्धसद्वाक्यावेवं कुड्यप्रकाशवत् ।
अग्नीषोमाविमौ ज्ञेयौ सम्पृक्तौ देहदेहिनौ ॥ १०९ ॥

एवमुक्तरीत्या कुड्यसौरप्रकाशवदन्योन्यसंवलनाधीनसद्रूपेण
वाग्व्यवहारविषयत्वादिमौ देहदेहिनावप्यग्नीषोमात्मकौ ज्ञेयौ ॥ १०९ ॥

अतिशायिनि निर्वाणे जाड्ये चैवातिशायिनि ।
अग्नीषोमस्य चैवाङ्ग स्थितिर्भवति केवला ॥ ११० ॥

तयोरसंवलिता प्रत्येकं स्थितिः क्व प्रसिद्धा तदाह-अतिशायिनीति ।
निर्वाणमुपाधिनिवृत्त्या आनन्दाविर्भावस्तस्मिन्नतिशायिनि आत्यन्तिके सिद्धे अग्नेः
केवला स्थितिर्भवति । जाड्ये त्वतिशायिनि जलशिलादिभावे सोमस्य केवला
स्थितिर्भवतीत्यर्थः ॥ ११० ॥

प्राणोऽग्निरुष्णप्रकृतिरपानः शीतलः शशी ।
छायातपवदित्येतौ संस्थितौ मुखमार्गगौ ॥ १११ ॥

प्राणापानयोरप्यग्नीषोमात्मकत्वं प्रागुक्तं प्रकृतोपयोगाय स्मारयति##-

अपाने शीतले सत्तामेत्युष्णः प्राणपावकः ।
प्रतिबिम्बमिवादर्शे स च तस्मिंस्तथैव हि ॥ ११२ ॥

तयोः कुड्यालोकवदन्योन्यतादात्म्यस्थितिं दर्शयति-अपाने इति ॥ ११२ ॥

चिदग्निः पद्मपत्रस्थं सोमं वाचात्मकं त्विषा ।
जनयत्यनुभूत्येह कुड्यालोकं यथा बहिः ॥ ११३ ॥

मूलप्राणकुण्डलिनीरूपश्चिदग्निराधारादिकण्ठान्तचतुर्दलादिपद्मपत्रस्थं
परादिवैखरीपर्यन्तवाचात्मकम् । त्विषा अर्थप्रकाशनशक्त्या । अनुभूत्या
विवक्षापक्षे त्वर्थप्रथारूपया स्फूर्त्या । यथा बहिः सूर्य इति शेषः ॥ ११३ ॥

संसृत्यादौ यथा काचित्संविच्छीतोष्णरूपिणी ।
अग्नीषोमाभिधां प्राप्ता सैव सर्गे नृणामिह ॥ ११४ ॥

यथा सर्गादौ मायाशबलं ब्रह्म संविच्छीतोष्णरूपिणी
ब्रह्माण्डाकारेणग्नीषोमाभिधां प्राप्ता तथा नृणां व्यष्टिदेहानां
सर्गेऽपीत्यर्थः ॥ ११४ ॥

यत्र सोमकला ग्रस्ता क्षणं सूर्येण षोडशी ।
मुखाद्वितस्तिमात्रं स्यात्तत बद्धपदो भव ॥ ११५ ॥

अस्त्वेवं ब्रह्माण्डमिव शरीरमप्यग्नीषोमात्मकं किं ततः कार्य तत्राह##-
प्रतिपदादितिथिषु क्रमेण ग्रसति एकां ध्रुवाख्यां चिद्रूपां परिशेषयति ततः
शुक्लपक्षे क्रमेणोष्णा उद्गिरति ताभिः क्रमेण पूर्यमाणा ध्रुवा कला पूर्णः सोमो
जायते । तथा हृदि स्थितः प्राणसूर्योऽपानरूपस्य सोमस्य मुखनासिकाद्वारा
प्रविष्टाः शीताः पञ्चदशकला ग्रसित्वा मुखाद्बहिर्ध्रुवाख्यामेकां कलां
परिशेष्य पुनस्ता उष्णा उद्गिरति । ताभिः सा पूर्यमाणा बहिरपानाख्यः सोमो जायते ।
तत्र बहिःप्राणापानसन्धिकालः पूर्णमासी हृदि त्वमावास्या । अन्तरालदेशे
इडापिङ्गलयोः प्रत्येकमूर्ध्वाधोभागप्रतिशाखानाडीषट्के प्राणसूर्यस्य
प्रवाहाद्द्वे अयने मेषादयो द्वादश मासास्तदन्तराले सङ्क्रान्तौः । अपानसोमस्य
प्रवाहाच्चैत्रादयो मासा विष्कम्भादयो योगा अन्यानि च पर्वाणि निष्पद्यन्ते इति
योगिनां प्रत्यक्षम् । अन्यैस्तु स्वरोदयादिशास्त्रतो ज्ञेयम् । एवं स्थिते
वक्ष्यमाणदेहाणुतास्थौल्याद्युपयोगिधारणाभेदाः प्रथमं त्रिभिः
श्लोकैरुपदिश्यन्ते । यत्र मुखाद्बहिर्देशे सूर्येणाग्रस्ता ध्रुवाख्या
सोमस्यापानस्य षोडशी कला प्राणेनोद्गीर्णाभिः कलाभिः पूर्यमाणा क्षणं
प्राच्यां पूर्णमासीचन्द्र इव वितस्तिमात्रं स्यात्तत्र
भुशुण्डोपाख्यानोक्तबाह्यकुम्भकेन मनोधारणया बद्धपदः स्थिरो
भवेत्यर्थः ॥ ११५ ॥

नूनं सूर्यपदं प्राप्तो यत्र सोमो हृदम्बरे ।
नूनं केवलया स्थित्या तत्र बद्धपदो भव ॥ ११६ ॥

तथा यत्र हृदम्बरे कलाग्रासेन क्रमाद्ग्रस्यमानोऽपानाख्यः
सोमोऽमावास्यायामिव केवलया शुद्धचिद्रूपध्रुवाख्यकलात्मिकया स्थित्या तिष्ठति
तत्रान्तः कुम्भकेन बद्धपदो भव ॥ ११६ ॥

उष्णमग्निश्चिदादित्यः शैत्यं सोम उदाहृतम् ।
यत्रैतौ प्रतिबिम्बस्थौ तत्र बद्धपदो भव ॥ ११७ ॥

इदानीमर्धरेचकेनार्धपूरकेण वा अन्तराले प्राणस्योभयतो निरोधेन
बिम्बप्रतिबिम्बवत्तुल्यरूपतामापाद्य धारणामाह-उष्णमिति ॥ ११७ ॥

शरीरे सोमसूर्याग्निसङ्क्रान्तिज्ञो भवानघ ।
तत्र सङ्क्रान्तिकाला हि बाह्यास्तृणसमाः स्मृताः ॥ ११८ ॥

यथा वसन्तग्रीष्मवर्षाशरत्सु क्रमेण शीतस्यौष्ण्येन ग्रासात्सोमस्याग्निसङ्क्रान्तिः
। शरद्धेमन्तशिशिरेषु क्रमादौष्ण्यस्य शैत्येन ग्रासादग्नेः सोमसङ्क्रान्तिस्तयोः
सन्धी विषुवतौ सूर्यस्य च मेषादिषु सङ्क्रान्तिस्तथा शरीरेऽपि अपानशैत्यस्य
जठराग्निना ग्रासे सोमस्याग्निसङ्क्रान्तिः । प्राणौष्ण्यस्य बहिःशैत्येन ग्रासादग्नेः
सोमसङ्क्रान्तिः । सूर्यस्य सङ्क्रान्तयस्तु प्रागुक्तास्ता जानातीति तज्ज्ञो भवेति
पूर्वोक्तधारणाङ्गं विधिः । प्रासङ्गिकं तज्ज्ञानस्य
प्रसिद्धसङ्क्रान्तिस्नानदानादिफलेभ्य उत्कृष्टतमफलकीर्तनं प्रधानफलेन
स्तुतिर्वा ॥ ११८ ॥

सङ्क्रान्तिमुत्तरमथायनमङ्ग सम्यक्कालं तथा विषुवतौ यदि देहवातैः ।
अन्तर्बहिष्ठमिव वेत्सि यथानुभूतं तच्छोभसेऽत्र न पुनः परमभ्युपेतः
॥ ११९ ॥

उक्ताङ्गज्ञानमनूद्य तत्राधिकारिप्रवृत्तये प्ररोचयति-सङ्क्रान्तिमिति । कालं
अयनद्वयात्मकं संवत्सरं देहवातैः ।
प्राणापानयोर्द्वादशनाडीशाखानुसारिगतिभेदाद्बहुवचनम् । बहिःप्रसिद्धे
संवत्सरे स्थितमिवान्तरमपि योगाभ्यासाद्यथानुभूतं प्रत्यक्षमनुभूतं
घटादीव स्फुटं यदि वेत्सि तत्तर्हि अत्र योगिकथासु शोभसे । परं
मदुपदिष्टादन्यदभ्युपेतो व्यासङ्गान्तरे प्रवृत्तस्तु शोभसे इति
तदेकप्रवणताविधिः ॥ ११९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० अग्नीषोमविचारणं नामैकाशीतितमः सर्गः ॥ ८१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अग्नीषोमविचारणं नामैकाशीतितमः सर्गः ॥ ८१ ॥