०८०

अशीतितमः सर्गः ८०

श्रीवसिष्ठ उवाच ।

एवमात्मनि विश्रान्तां वदन्तीं तां वराननाम् ।
अबुद्ध्वा तद्गिरामर्थं विहस्योवाच भूपतिः ॥ १ ॥

अज्ञेन राज्ञा तद्वाक्यस्यासम्बद्धत्ववर्णनम् ।
खेचरत्वादिसिद्धीनां बीजं चात्र निरूप्यते ॥

एवं वर्णितप्रकारेण स्वशोभातिशये निमित्तानि वदन्तीम् ॥ १ ॥

शिखिध्वज उवाच ।

असम्बद्धप्रलापासि बालासि वरवर्णिनि ।
रमसे राजलीलाभी रमस्वावनिपात्मजे ॥ २ ॥

बाला अप्रौढबुद्धिरसि । परबोधानुकूलवाक्योच्चारणे अकुशलेति यावत् ॥ २ ॥

किञ्चित्त्यक्त्वा न किञ्चिद्यो गतो प्रत्यक्षसंस्थितम् ।
त्यक्तप्रत्यक्षसद्रूपः स कथं किल शोभते ॥ ३ ॥

असम्बद्धप्रलापतामेव नाकिञ्चित्किञ्चिदित्याद्युक्तेर्दर्शयति-किञ्चिदिति ।
साकारस्यैव शोभा प्रसिद्धा । यस्त्वाकारसामान्यं त्यक्त्वा निराकारतां गतः स
शून्यप्रायः कथं शोभेतेत्यर्थः ॥ ३ ॥

भोगैरभुक्तैस्तुष्टोऽहमिति भोगान्जहाति यः ।
रुषेवासनशय्यादीन्स कथं किल शोभते ॥ ४ ॥

भोगैरभुक्तैस्तुष्यामीति यत्त्वयोक्तं तदप्यसम्बद्धमित्याह-भोगैरिति । रुषा
क्रोधेनेव ॥ ४ ॥

भोगाभोगे परित्यज्य खे शून्ये रमते तु यः ।
एक एवाखिलं त्यक्त्वा स कथं किल शोभते ॥ ५ ॥

एकैवाकाशसङ्काशे केवले हृदये रमे इति यत्त्वयोक्तं तदप्यसङ्गतमित्याह##-
मित्रभृत्यादीनामाभोजनमाभोगश्चेत्यनयोः समाहारं परित्यज्य तत्साधनं
वित्ताद्यखिलं च त्यक्त्वा य एक एव शून्ये खे पिशाचवद्रमते स किल शोभते इति
कथं सङ्गच्छतामित्यर्थः ॥ ५ ॥

वसनाशनशय्यादीन्सर्वान्सन्त्यज्य धीरधीः ।
यस्तिष्ठत्यात्मनैवैकः स कथं किल शोभते ॥ ६ ॥

धीरधीः अतिक्रोधादिव धैर्यमात्रबलेन शीतोष्णक्षुत्तृषादिदुःखानि सहमान
इत्यर्थः ॥ ६ ॥

नाहं देहोऽन्यथा चाहं नकिञ्चित्सर्वमेव च ।
एवं प्रलापो यस्यास्ति स कथं किल शोभते ॥ ७ ॥

इदं चाहमिदं नाहमिति यदुक्तं तदप्यसम्बद्धमित्याह-नाहमिति ॥ ७ ॥

यत्पश्यामि न पश्यामि तत्पश्याम्यन्यदेव यत् ।
प्रलाप इत्यसन्न्यस्य स कथं किल शोभते ॥ ८ ॥

पश्यामि यन्नयनरश्मिभिरिन्द्रियैर्वेत्यन्ते यदुक्तं तत्तु सुतरामसङ्गतमिति नैते
शोभाहेतव इत्युपसंहरति-यदिति ॥ ८ ॥

तस्माद्बालासि मुग्धासि चपलासि विलासिनि ।
नानालापविलासेन क्रीडामि क्रीड सुन्दरि ॥ ९ ॥

प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् ।
मध्याह्ने स्नातुमुत्थाय निर्जगामाङ्गनागृहात् ॥ १० ॥

कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् ।
राजेति खिन्ना चूडाला स्वव्यापारपराभवत् ॥ ११ ॥

कष्टमिति । न चेदिहावेदीन्महती विनष्टिः इत्यादिश्रुतेरिति भावः ॥ ११ ॥

तदा तथाङ्ग तत्राथ तादृगाशययोस्तयोः ।
ताभिः पार्थिवलीलाभिः कालो बहुतिथो ययौ ॥ १२ ॥

अङ्गेति रामसम्बोधने ॥ १२ ॥

एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् ।
चूडालाया बभूवेच्छा लीलया स्वगमागमे ॥ १३ ॥

खे गमागमो देववत्सञ्चारस्तद्विषये इच्छा बभूव ।
तादृशप्रारब्धशेषबलादिति भावः ॥ १३ ॥

खगमागमसिद्ध्यर्थमथ सा नृपकन्यका ।
सर्वभोगाननादृत्य समागम्य च निर्जनम् ॥ १४ ॥

एकैवैकान्तनिरता स्वासनावस्थिताङ्गिका ।
ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह ॥ १५ ॥

एकैवेति । अर्थाद्राज्ञः शत्रुजयाय द्वित्रिहायनं प्रवासकाले इति गम्यते । अन्यथा
तत्पराधीनायास्तस्या कान्तनिरतत्वाद्ययोगात् । ऊर्ध्वगस्य प्राणपवनस्य चिरं
खेचरसिद्ध्यनुकूलं भ्रूमध्यादिदेशे निरोधाभ्यासम् ॥ १५ ॥

श्रीराम उवाच ।

यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
स्पन्दच्युतं क्रियानाम्नः कथमित्यनुभूयते ॥ १६ ॥

खेचरसिद्धिप्रयोजकक्रियाप्रसङ्गेन रामः क्रियासामान्ये निमित्तं
जिज्ञासुराक्षिपति-यदिदमिति । यदिदं स्थावरं जङ्गमं च जगत्तत्सर्वं
स्पन्दच्युतं क्रियया निष्पादितं दृश्यते । विना कर्त्रादिकारकस्पन्दं
कस्याप्युत्पत्तेरदर्शनात् तत्रैवं सति क्रियानाम्नः स्पन्दस्य कथं निष्पत्तिः । किं
सक्रियादुत कूटस्थात् । आद्ये आत्माश्रयोऽनवस्था वा । द्वितीये व्याघातः अविरामः
फलानवस्था चेति कथं क्रियानाम्नो वस्तुन उत्पत्तिरनुभूयते अनुभवपथमारोहति
तद्वदेत्यर्थः ॥ १६ ॥

कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद ।
ब्रह्मन्खगमनाद्येतत्फलं यत्नैकशालिनः ॥ १७ ॥

एवमाक्षिप्य प्रस्तुतं पृच्छति-कस्येति । एतत्खगमनादिसिद्धिजातं कस्य
स्पन्दविलासस्य फलं तदपि वदेत्यर्थः ॥ १७ ॥

आत्मज्ञो वाप्यनात्मज्ञः सिद्ध्यर्थं लीलयाथवा ।
कथं संसाधयत्येतद्यथा तद्वद मे प्रभो ॥ १८ ॥

अनात्मज्ञः सिद्ध्यर्थं आत्मज्ञो लीलया वा एतत्सिद्धिजातं कथं केन क्रमेण
संसाधयति तदपि वदेत्यर्थः ॥ १८ ॥

श्रीवसिष्ठ उवाच ।

त्रिविधं सम्भवत्यङ्ग साध्यं वस्त्विह सर्वतः ।
उपादेयं च हेयं च तथोपेक्ष्यं च राघव ॥ १९ ॥

भवेदयमात्माश्रयानवस्थादिको दोषो यदि क्रियास्वरूपमात्रसिद्धये कारकापेक्षा
स्यात् । न तु तथा किन्तु क्रियासाध्यस्य फलस्य । फलनिष्पत्तये हि प्रवृत्तानि कारकाणि
नान्तरीयकतया क्रियामवलम्बन्ते । तया हि फलस्य साध्यता कारकाणां साधनता च
व्यपदेष्टुं शक्यते । तथा च साध्यसाधनोभयविलक्षणा क्रिया न
साध्यापेक्षितसाधनेभ्यः साधनान्तरमपेक्षत इति तस्यां सक्रियं कूटस्थं वा
कारणमिति विकल्पो निरवकाश एवेत्याशयेन वसिष्ठ उत्तरप्रश्नसमाघानानुकूलं
गौणमुख्यसाधारणं क्रियासाध्यं विभज्य दर्शयति-त्रिविधमिति ।
उपादानबुद्धिविषयीभूतं वस्तु उपादेयं प्रवृत्तिविषयः । हानबुद्धिवेद्यं
हेयं निवृत्तिविषयः । उपेक्षाबुद्धिगम्यमुपेक्ष्यं तच्चौदासीन्येऽपि
क्रियोपचारादनेनोपेक्षयायमनर्थः कृत इति लोके व्यवहारदर्शनाद्गौणं
साध्यम् ॥ १९ ॥

आत्मभूतं प्रयत्नेन उपादेयं च साध्यते ।
हेयं सन्त्यज्यते ज्ञात्वा उपेक्ष्यं मध्यमेतयोः ॥ २० ॥

तेषु फलवैलक्षण्यन्न् दर्शयति-आत्मभूतमिति । आत्मनः स्वस्य भूतमनुकूलम्
। एतयोर्हेयोपादेययोर्मध्यर्मान्तरालिकम् ॥ २० ॥

यद्यदाह्लादनकरमादेयन्न् तच्च सन्मते ।
तद्विरुद्धमनादेयमुपेक्ष्यन्न् मध्यमं विदुः ॥ २१ ॥

आह्लादनकरं साक्षात्परम्परया वा सुखानुकूलम् । दुःखनिवारणसाधनस्यापि
सुखानुकूलत्वादेव तत्साधनोपादानसिद्धेरिति भावः । तद्विरुद्धं सुखविघाति ।
दुःखस्यापि स्वास्थ्यसुखविघातित्वादेव द्वेष्यत्वादिति भावः ॥ २१ ॥

सन्मतेर्विदुषो ज्ञस्य सर्वमात्ममयं यदा ।
त्रय एते तदा पक्षाः सम्भवन्ति न केचन ॥ २२ ॥

त्रय एते साध्यभेदा अज्ञानामेवेत्याह-सन्मतेरिति ॥ २२ ॥

केवलं सर्वमेवेदं कदाचिल्लीलया तया ।
उपेक्षापक्षनिक्षिप्तमालोकयति वा न वा ॥ २३ ॥

विदुषस्तृतीयकल्पाभ्युपगमेऽपि न कश्चिद्दोष इत्याशयेनाह-केवलमिति ॥ २३ ॥

ज्ञस्योपेक्षात्मकं नाम मूढस्यादेयतां गतम् ।
हेयं स्फारविरागस्य शृणु सिद्धिक्रमः कथम् ॥ २४ ॥

एकमेव वस्तु एकस्यैव पुरुषस्य बोधरागवैराग्यावस्थाभेदेन
[मूढविरागावस्थेति पाठः ।] त्रेधा सम्पद्यत इत्याशयेनाह-ज्ञस्येति
। एवं सिद्ध्यर्थं लीलयाथवा इति प्रश्नांशयोरुपपत्तिमुक्त्वा कथं
संसाधयत्येतदित्यंशसमाधानं श्रावयति-शृण्वित्यादिना ॥ २४ ॥

देशकालक्रियाद्रव्यसाधनाः सर्वसिद्धयः ।
जीवमाह्लादयन्तीह वसन्त इव भूतलम् ॥ २५ ॥

तत्र सिद्धितारतम्ये चिराचिरयत्नापेक्षायां च निमित्तान्याह-देशेति ॥ २५ ॥

मध्ये चतुर्णामेवैषां क्रियाप्राधान्यकल्पना ।
सिद्ध्यादिसाधने साधो तन्मयास्ते यतः क्रमाः ॥ २६ ॥

एषां देशादीनां चतुर्णां मध्ये श्रीशैलाद्युत्तमदेशादिचतुष्टयमेलने
शीघ्रं सिद्धिलाभाद्योगमन्त्रजपादिक्रियाया इतरदेशाद्यनुष्ठितक्रियापेक्षया
प्राधान्यस्योत्कर्षस्य कल्पना भवति । फलोत्कर्षोऽपि तदनुसार्येवेत्याह##-
तन्मयास्तादृशक्रियोत्कर्षानुसारिण इत्यर्थः ॥ २६ ॥

गुटिकाञ्जनखड्गादिक्रियाक्रमनिरूपणम् ।
तत्रासतां च दोषोऽत्र विस्तारः प्रकृतार्थहा ॥ २७ ॥

अस्त्वेवं किं ततस्तत्राह-गुटिकेति । तत्र खगमनादिसाधनानि
सिद्धगुटिकासिद्धाञ्जनसिद्धखड्गसिद्धपादुकादीन्यपि
उड्डामरतन्त्रयोगिनीकल्पादिविस्तृतबहुग्रन्थप्रसिद्धानि सन्ति । कथं
संसाधयन्त्येतद्यथावद्वद मे प्रभो इति त्वदीयप्रश्नस्य तत्क्रियाक्रमनिरूपणं
कर्तव्यमिति चेदभिप्रायस्तर्ह्यविस्तृतोक्त्या तदसम्भवात्तद्विस्तारः कार्यः । तेन तत्र
तासु सिद्धिषु विषये असतामजिज्ञासूनामतत्त्वविदां च त्वदतिरिक्तश्रोतॄणां
दैवादभिलाषोदये तत्रैव प्रवृत्त्या महान्दोषः स्यात्तवापि स विस्तारः
प्रकृतस्यात्मतत्त्वश्रवणार्थस्य विघ्नरूपत्वाद्विघात इति न
तन्निरूपणमत्रोचितमित्यर्थः ॥ २७ ॥

रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् ।
आस्तामेव किलैषोऽपि विस्तारः प्रकृतार्थहा ॥ २८ ॥

एष न्यायो मणिमन्त्रादिसाध्यसिद्धिक्रमनिरूपणे
श्रीशैलादिसिद्धदेशनिवाससाध्यसिद्धिक्रमनिरूपणे च योज्य इत्याह-रत्नेति
द्वाभ्याम् ॥ २८ ॥

श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः ।
सिद्धिरित्यपि विस्तारः कृतार्थ प्रकृतार्थहा ॥ २९ ॥

हे कृतार्थेति रामसम्बोधनं तासां सिद्धीनां त्वादृशदृष्ट्या तुच्छतेति
द्योतनार्थम् ॥ २९ ॥

तस्माच्छिखिध्वजकथाप्रसङ्गपतितामिमाम् ।
प्राणादिपवनाभ्यासक्रियां सिद्धिफलां शृणु ॥ ३० ॥

तर्हि मत्प्रश्नो व्यर्थः सम्पन्न इति रामस्य विषादो मा भूदिति
प्रस्तुतज्ञानदार्ढ्योपयोग्यानुषङ्गिकखगमादिसिद्धिसाधनं
वर्ण्यमानकथासम्बद्धमविस्तारं प्राणायामक्रमं श्रावयति-तस्मादिति ॥
३० ॥

अन्तस्था ह्यखिलास्त्यक्त्वा साध्यार्थेतरवासनाः ।
गुदादिद्वारसङ्कोचान्स्थानकादिक्रियाक्रमैः ॥ ३१ ॥

तत्रादौ यमनियमप्रतिष्ठे तद्बीजप्रदर्शनेन सङ्क्षिप्याह-अन्तस्था इति
साध्यार्था इतराः साधनार्थाश्च वासनास्त्यक्त्वा स्थानकानि सिद्धाद्यासनानि
आदिपदात्समकायशिरोग्रीवतानिश्चलतानासाग्रसम्प्रेक्षणमित्यादि##-

भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् ।
स्वाचारात्सुजनासङ्गात्सर्वत्यागात्सुखासनात् ॥ ३२ ॥

तमेव क्रियाक्रममवयुत्या प्रपञ्चयति-भोजनेति । साधु
सम्यग्योगशास्त्रार्थस्य भावनात्परिशीलनात् ॥ ३२ ॥

प्राणायामघनाभ्यासाद्राम कालेन केनचित् ।
कोपलोभादिसन्त्यागाद्भोगत्यागाच्च सुव्रत ॥ ३३ ॥

त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् ।
प्राणाः प्रभुत्वात्तज्ज्ञस्य पुंसो भृत्या इवाखिलाः ॥ ३४ ॥

त्यागे रेचने आदाने पूरके निरोधे कुम्भके च भृशमभ्यस्तेषु तज्ज्ञस्य योगिनः ।
प्रभुत्वात्प्राणस्वामित्वसम्पत्तेर्लौकिकस्य पुंसः प्रभोर्भृत्या इव अखिलाः प्राणा
विधेयतां स्वाधीनतां यान्तीत्यर्थः ॥ ३४ ॥

राज्यादिमोक्षपर्यन्ताः समस्ता एव सम्पदः ।
देहानिलविधेयत्वात्साध्याः सर्वस्य राघव ॥ ३५ ॥

प्राणानां स्वाधीनत्वे तत्सम्बद्धसिद्धीनामपि स्वाधीनता सिद्ध्यतीत्याह-राज्येति
। सर्वस्याधिकारिणः ॥ ३५ ॥

परिमण्डलिताकारा मर्मस्थानं समाश्रिता ।
आन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता ॥ ३६ ॥

इदानीं सर्वसिद्धीनां देहानिलविधेयत्वमुक्तमुपपादयितुं
सर्वदेहप्रसृतद्वासप्ततिसहस्रशाखप्रधाननाडीशताश्रितां
मूलाधारादारभ्य आब्रह्मरन्ध्रं सप्तसु चक्रेष्वनुप्रविश्य निर्गतां मूलाधारे
सार्धत्रिवलयवेष्टनान्तःसुप्तकुण्डलिनीशक्तिगर्भां सुषुम्नानाडीं वर्णयति##-
परिवेष्टितत्वात्परिमण्डलिताकारा अत एवान्त्राणामपि नाडीभिर्वेष्टनादान्त्रवेष्टनिका
नाम ॥ ३६ ॥

वीणाग्रावर्तसदृशी सलिलावर्तसन्निभा ।
लिप्यार्ध्ॐकारसंस्थाना कुण्डलावर्तसंस्थिता ॥ ३७ ॥

तां मूलाधारे स्वान्तर्गतकुण्डलिनीसंस्थानानुकूल्येन वर्णयति-वीणेति ।
वीणादन्डस्याग्रे मूलभागे प्रसिद्धो रेखात्मकस्तन्त्रीमूलपरिवर्तनरूपः
सलिलपरिवर्तनरूपो वा य आवर्तस्तत्सदृशी । लिप्या लेखनेन प्रदर्शने तु
ॐकारस्यार्धमर्ध्ॐकारस्तस्य संस्थानमिव संस्थानं यस्याः । द्रविडाक्षरे
पूर्वार्धमिव नागराक्षरे उत्तरार्धमिव वा तत्संस्थानं लेख्यमित्यर्थः । अर्ध
नपुंसकम् इत्येकदेशिना समासः । ओमाङोश्च इति पररूपम् ॥ ३७ ॥

देवासुरमनुष्येषु मृगनक्रखगादिषु ।
कीटादिष्वब्जजान्तेषु सर्वेषु प्राणिषूदिता ॥ ३८ ॥

इयं च न मनुष्येष्वेव किन्तु सर्वप्राणिशरीरेष्वित्याह-देवेति ॥ ३८ ॥

शीतार्तसुप्तभोगीन्द्रभोगवद्बद्धमण्डला ।
सिता कल्पाग्निविगलदिन्दुवद्बद्धकुण्डली ॥ ३९ ॥

शीतेनार्तः शीतार्तिनिवारणाय दृढबद्धमण्डल इति यावत् । तथाविधस्य सुप्तस्य
भोगीन्द्रस्य भोगः कायस्तद्वद्बद्धं मण्डलं यया । सिता शुभ्रा । कल्पाग्निना
विगलता अन्तर्वलयाकाररेखास्फुटितेनेन्दुना तुल्यं बद्धा कुण्डलीवलयाकृतिर्यया ।
अथवा कल्पते जरणसमर्थो भवतीति कल्पोऽग्निर्जाठराग्निस्तेन विगलन् यो मूर्ध्नि
योगशास्त्रप्रसिद्धश्चन्द्रः स एव विलीय मूलाधारे प्रसृतो घनीभूय तत्र
बद्धकुण्डलाकृतिस्तद्वत्स्थितेत्युत्प्रेक्षा ॥ ३९ ॥

ऊरोर्भ्रूमध्यरन्ध्राणि स्पृशन्ती वृत्तिचञ्चला ।
अनारतं च सस्पन्दा पवमानेन तिष्ठति ॥ ४० ॥

ऊरुपदेन ऊरुमूलसन्धिर्गुदं लक्षणयोच्यते । तत आरभ्य भ्रूमध्यपर्यन्तं
यानि रन्ध्राणि तानि स्पृशन्ती तेष्वनुस्यूता मनोवृत्तिभिरन्तश्चञ्चला बहिश्च
पवमानेन प्राणादिना सस्पन्दा ॥ ४० ॥

तस्यास्त्वभ्यन्तरे तस्मिन्कदलीकोशकोमले ।
या परा शक्तिः स्फुरति वीणावेगलसद्गतिः ॥ ४१ ॥

तस्या मूलेऽन्तःसार्धत्रिवलयाकारां कुण्डलिनीसञ्ज्ञां चिच्छक्तिं दर्शयति##-
पराख्या सर्वशब्दमूलभूता गतिः शब्दब्रह्मात्मिका स्फूर्तिः सैव
प्राणसङ्गान्नाभिहृदयकण्ठदेशेषूत्तरोत्तरं व्यक्ततरा पश्यन्ती मध्यमा
वैखरीत्यादिभेदान् भजते इति । तथाचोक्तं मन्त्रशास्त्रे चैतन्यं सर्वभूतानां
शब्दब्रह्मेति यद्विदुः । तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ।
वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः इति । साम्बेनाप्युक्तम् या सा
मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं वर्णानत्र प्रकटकरणैः
प्राणसङ्गात्प्रसूते । तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां
वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये ॥ इति ॥ ४१ ॥

सा चोक्ता कुण्डलीनाम्ना कुण्डलाकारवाहिनी ।
प्राणिनां परमा शक्तिः सर्वशक्तिजवप्रदा ॥ ४२ ॥

सर्वासां प्राणेन्द्रियबुद्ध्यादिशक्तीनामपि
सत्तास्फूर्तिप्रवृत्तिनिर्वाहकत्वाज्जवप्रदा ॥ ४२ ॥

अनिशं निःश्वसद्रूपा रुषितेव भुजङ्गमी ।
संस्थितोर्ध्वीकृतमुखी स्पन्दनाहेतुतां गता ॥ ४३ ॥

तत्र कथं प्राणशक्तिर्जवप्रदा तदाह-अनिशमिति । सैव
स्वमुखात्प्राणमूर्ध्वं क्षिपति अपानं चाध आकर्षतीत्यनिशं
निःश्वसद्रूपेत्यर्थः ॥ ४३ ॥

यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् ।
तदा संविदुदेत्यन्तर्भूततन्मात्रबीजभूः ॥ ४४ ॥

कथं बुद्धिशक्तिजवप्रदा तदाह-यदेति । यदा हृदि स्थितः प्राणः कुण्डलिन्या
आकृष्टः सन् अपानवृत्त्या कुण्डलिनीपदं याति तदा
भूततन्मात्राण्यपञ्चीकृतभूतान्येव बीजमुपादानं यस्य तथाविधे अन्तःकरणे
भवतीति भूर्जीवसंवित्
स्मृतिसङ्कल्पाध्यवसायाभिमानरागादिवृत्तिभेदैरन्तरुदेतीत्यर्थः ॥ ४४ ॥

यथा कुण्डलिनी देहे स्फुरत्यब्ज इवालिनी ।
तथा संविदुदेत्यन्तर्मृदुस्पर्शवशोदया ॥ ४५ ॥

कथं चेन्द्रियशक्तिजवप्रदा तदाह-यथेति । एवं
प्राणबुद्ध्योराहितज्ञानक्रियास्वशक्तिः कुण्डलिनी देहे मृदुः स्पर्शो
विषयसन्निकर्षो येषां तेषां चक्षुरादीनां वशोदया सती देहे यथा यथा
यादृशभोजकादृष्टसामग्रीवैचित्र्येण स्फुरति तथा तथा
तत्तदिन्द्रियैरर्थविशेषस्फूर्तितत्फलभोगादिलक्षणा संविदुदेतीत्यर्थः ॥ ४५ ॥

स्पर्शनं मृदुनान्योन्यालिङ्गिका तत्र यन्त्रयोः ।
यथा संविदुदेत्युच्चैस्तथा कुण्डलिनी जवात् ॥ ४६ ॥

कथं मृदुस्पर्शवशानुगा तदाह-स्पर्शनमिति । कुण्डलिनी जवात्तथा स्फुरति
यथा मृदुना चक्षुरादिना विषयस्पर्शनं प्रथममुदेति । तथा च तत्र यन्त्रं
कार्यकरणसङ्घातं युनक्तीति यन्त्रयुः प्रमाता तस्य वृत्तिद्वारा बहिर्निर्गतस्य
बाह्यविषयेण सह अन्योन्यमालिङ्गनमन्योन्यालिङ्गिका । भावे ण्वुल् ।
वृत्तिव्याप्तिप्रयुक्ता व्याप्तिरुदेति । तया च यथा विषयावरणभङ्गे उच्चैः स्फुटतरा
संविद्घटादिप्रथा उदेति तथा तेन तेन प्रकारेणेत्यर्थः ॥ ४६ ॥

तस्यां समस्ताः सम्बद्धा नाड्यो हृदयकोशगाः ।
उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः ॥ ४७ ॥

तत्र मूलाधारस्थायाः कुण्डलिन्याश्चक्षुरादिप्रवर्तने नाड्यो
द्वारमित्याशयेनाह-तस्यामिति । उत्पद्यन्ते प्रसार्यन्ते [प्रतीयन्ते इति पाठः ।
] । विलीयन्ते सङ्कुचन्ति ॥ ४७ ॥

नित्यं पातोत्सुकतया प्रवेशोन्मुखया तया ।
सा सर्वसंविदां बीजं ह्येका सामान्युदाहृता ॥ ४८ ॥

कथमुत्पद्यन्ते विलीयन्ते च तदाह-नित्यमिति । प्राणात्मना ऊर्ध्वपातोत्सुकतया
अपानात्मना अधःप्रवेशोन्मुखया तया । उक्तमुपसंहरति-सेति । सामानी
साधारणी । समानशब्दाद्भावे स्वार्थे वा ष्यञि ङीषि हलस्तद्धितस्य इति यलोपः ॥ ४८

श्रीराम उवाच ।

आकल्पादनवच्छिन्ना चित्संवित्सर्वमस्ति हि ।
तस्मात्कुण्डलिनीकोशात्केनार्थेनोदयः स्फुटः ॥ ४९ ॥

अपरिच्छिन्नायाश्चितो मूलाधारे नाडीमूले
परिच्छिन्नकुण्डलिन्याख्यस्वांशादुद्भवः कथं किमर्थं चेति राम
पृच्छति-आकल्पादिति । कालतः सर्वमिति वस्तुतश्चापरिच्छिन्नः ।
देशकृतपरिच्छेदाभावस्यापि वस्तुकृतपरिच्छेदाभावऽन्तर्भाव
इत्याशयेनोभयोरेवोपादानम् ॥ ४९ ॥

श्रीवसिष्ठ उवाच ।

सर्वत्र सर्वदा सर्वं चित्संविद्विद्यतेऽनघ ।
किन्त्वस्या भूततन्मात्रवशादभ्युदयः क्वचित् ॥ ५० ॥

वसिष्ठस्तु तर्हि कालकृतपरिच्छेदाभावोऽपि तत्रान्तर्भूत एवेति पृथगुपादानं
व्यर्थम् यदि स्पष्टीकरणाय तस्य पृथगुपादानं तर्हि
देशकृतपरिच्छेदाभावेऽपि तत्समानमिति त्रितयानुवादव्याजेन दर्शयन्निराकाराया
निर्विषयायाश्च चितो जीवाकारेण घटादिगोचरतया वाभिव्यक्त्यर्थं तदा
संविदुदेत्यन्तर्भूततन्मात्रबीजभूरित्युक्तार्थं विस्तराद्विवरिष्यन्
स्थूलसूक्ष्मदेहद्वयाकारपरिणतभूतसापेक्षैव चितो विशेषाभिव्यक्तिरित्याह##-

सर्वत्र विद्यमानापि देहेषु तरलायते ।
सर्वगोऽप्यातपः सौरो भित्त्यादौ वै विजृम्भते ॥ ५१ ॥

ननु देशकृतपरिच्छेदाभावे संवित्सर्वत्र भासेतेत्याशङ्क्योपाधिवशादेव
तस्याः स्फुटीभाव इति सदृष्टान्तमाचष्टे-सर्वत्रेति ।तरलायते बुद्धौ
अवच्छेदप्रतिबिम्बनाभ्यां द्विगुणीकृत्य प्रवेशाद्बहलीभूता
जलसूर्यकवद्बुद्धिचाञ्चल्याच्चञ्चलीभवतीत्यर्थः । तत्रोपाधिकृतबहलीभावेन
स्फुटीभावे दृष्टान्तमाह-सर्वग इति ॥ ५१ ॥

क्वचिन्नष्टं क्वचित्स्पष्टं क्वचिदुच्छन्नतां गतम् ।
वस्तु वस्तुनि दृष्टं तत्तत्सद्भावैर्विजृम्भितम् ॥ ५२ ॥

तत्राप्युपाधिमालिन्यतारतम्येन चिदभिव्यक्तितारतम्यमित्याह-क्वचिदिति ।
मृच्छिलादिवस्तुनि तच्चिद्वस्तु अविद्याजाड्येनाभिभवात्तप्तवारिस्थशैत्यमिव
नष्टमदर्शनं गतम् । देवमनुष्यादिलिङ्गे तु स्पष्टमभिव्यक्तम् ।
वृक्षादिलिङ्गेषूत्कृष्टां छन्नतां बहिः संवेदनविवेकाक्षमतां गतं
दृष्टम् । चिदम्श इव न सत्तांशे तारतम्यमित्याह-तदिति । तेषां
त्रिविधोपाधीनां सर्वानुभवसिद्धैः सद्भावैरेव लिङ्गैस्तत्सर्वत्र
विजृम्भितमनभिभूतमित्यर्थः ॥ ५२ ॥

एतद्भूयः क्रमेणाहं शृणु वक्ष्यामि तेऽनघ ।
देहे स्वे च यथोदेति भृशं संविन्मयक्रमः ॥ ५३ ॥

उक्तमेवाभिव्यक्तितारतम्यं क्रमादासर्गसमाप्तेर्निरूपयितुं प्रतिजानीते-एतदिति ।
स्वे मनुष्यादिदेहे चात्पशुस्थावरादिदेहे यथा यादृशतारतम्येन ॥ ५३ ॥

चेतनाचेतनं भूतजातं व्योम तथाखिलम् ।
सर्वं चिन्मात्रसन्मात्रं शून्यमात्रं यथा नभः ॥ ५४ ॥

तदुपोद्घातेन सूक्ष्मस्थूलभूताध्यासप्रपञ्चनाय सर्वाधिष्ठानसच्चिदेकरसं
सर्वप्रपञ्चतद्धर्मशून्यमात्मतत्त्वमादौ निर्दिशति-चेतनेति । नभो
नभोवदसङ्गं विभु सूक्ष्मं च ॥ ५४ ॥

तद्धि चिन्मात्रसन्मात्रमविकारं स्वनामयम् ।
क्वचित्स्थितं संविदेव भूततन्मात्रपञ्चकम् ॥ ५५ ॥

तस्मिंस्तथैव स्थिते मायाकल्पितैकदेशे आकाशादिसूक्ष्मभूतानां
क्रमादध्यासात्तदेव भूतमात्रात्मरूपकं स्थितमित्याह-तद्धीति ॥ ५५ ॥

तत्पञ्चधा गतं द्वित्वं लक्षसे त्वं स्वसंविदम् ।
अन्तर्भूतविकारादि दीपाद्दीपशतं यथा ॥ ५६ ॥

तत् तन्मात्रपञ्चकं प्राणो मनोबुद्धिर्ज्ञानेन्द्रियं कर्मेन्द्रियमिति पञ्चधा
गतं लिङ्गशरीरं प्रतिबिम्बतया प्रविश्य दीपाद्दीपशतमिव सम्पन्नस्त्वं
स्वसंविदमन्तर्भूता जन्मादिविकारा आदिपदाज्जाग्रदाद्यवस्थाभेदाश्च
यस्मिंस्तथाविधं द्वित्वं जीवभावमिति यावत् । लक्षसे लक्षयसि । छान्दस
उपग्रहव्यत्ययः ॥ ५६ ॥

स्वसत्तामात्रकेणैव सङ्कल्पलवरूपिणा ।
पञ्चकानि व्रजन्तीह देहत्वं तानि कानिचित् ॥ ५७ ॥

कानिचिल्लि"ण्गारम्भपरिशिष्टानि पञ्चकानि जीवस्य
देवमनुष्याद्याकारवासनानुसारिसङ्कल्पलवरूपिणा स्वसत्तामात्रकेणैव
पञ्चीकरणद्वारा स्थूलदेहत्वं व्रजन्ति ॥ ५७ ॥

कानिचित्तिर्यगादित्वं हेमादित्वं च कानिचित् ।
कानिचिद्देशतादित्वं द्रव्यादित्वं च कानिचित् ॥ ५८ ॥

देहप्रकारणाद्धेमादित्वं धत्तूरादिस्थावरशरीरताम् । अथवा
तिर्यगादित्वमित्यादिपदादेव स्थावरदेहपरिग्रहः । हेमादित्वमित्यनेन
स्वर्णरजतखर्परोपलक्षितब्रह्माण्डत्वं तदन्तर्गतभुवनादिभोग्यतां चेत्यर्थः
॥ ५८ ॥

एवं हि पञ्चकस्पन्दमात्रं जगदिति स्थितम् ।
चित्संविदत्र सर्वत्र विद्यते रघुनन्दन ॥ ५९ ॥

अस्त्वेवं किं ततस्तत्राह-एवं हीति । स्थितं सिद्धम् । तर्ह्यधिष्ठानचैतन्यं
सर्वत्रास्तीति घटाद्यपि चेतनं किं न स्यात्तत्राह-चिदिति ॥ ५९ ॥

केवलं पञ्चकवशाद्देहादौ चेतनाभिधा ।
जडस्पन्दाभिधा क्वापि स्थावरादौ जडाभिधा ॥ ६० ॥

पञ्चकवशाच्चैतन्याभिव्यञ्जकप्राणादिपञ्चकघटितलिङ्गदेहप्राधान्यादेव
मनुष्यदेहादौ मुख्या चेतनाभिधा । क्वापि तिर्यक्षु लिङ्गस्थूलदेहयोः
समप्राधान्याज्जडस्पन्दाभिधा जडचेतनाभिधा । स्थावरादौ तु
लिङ्गस्यान्तःसंवेदनमात्रत्वेन बहिर्जनैश्चेतनत्वाविभावनाज्जडाभिधा
प्रसिद्धेत्यर्थः ॥ ६० ॥

यथा स्तब्धः स्थितो वीचिरिव स्थलमिवास्थितः ।
पञ्चकेषु तथैतच्चिल्लोलरूपा जडान्विता ॥ ६१ ॥

त्रिष्वपि चित्कथं तारतम्येन स्थितेत्यत्र दृष्टान्तमाह-यथेति । यथा दिवा विलीनो
धृतसमुद्रः सायं शिशिरपवनसम्पर्काद्वेलातटे क्रमाद्घनीभावात् स्तब्धो
निश्चलः स्थितः सन् द्रवप्रदेशे वीचिरिव चलः । ईषद्घनप्रदेशे ईषच्चलः ।
अत्यन्तघनप्रदेशे स्थलमिवाचलश्च स्थितः तथैवैषा
चिन्नरतिर्यकूस्थावरदेहरूपेषु पञ्चकेषु लोकरूपा ईषल्लोला अत्यन्तजाड्यान्विता च
स्थितेत्यर्थः ॥ ६१ ॥

इतः सौम्य इतो लोलः किमब्धिरिति नो यथा ।
विकल्पादौ तथैवैतत्पञ्चकं हि जडाजडम् ॥ ६२ ॥

यथा क्वचिद्घनीभावेन लोलत्वाभावेऽपि तस्य नाब्धित्वव्याघातस्तथा
स्थावरादिभावेऽपि न चिद्रूपताक्षतिरित्याह-इति इति । नो इति काकुः । किमब्धिरिति
व्यपदेशो न भवति किन्तु भवत्येव यथा तथैवैतत्सुरनरतिर्यग्विकल्पादौ
चैतन्यमक्षतमित्यर्थः । अथवा यं जडाजडविकल्पोऽध्यस्तपञ्चकधर्म एव न
चिद्धर्मस्तस्यानिर्धर्मकत्वादित्याशयेनाह-पञ्चकं हीति ॥ ६२ ॥

देहादिपञ्चकं जीवः स्पन्दः शैलादिकं जडम् ।
स्थावराद्यनिलस्पन्दि स्वभाववशतोऽनघ ॥ ६३ ॥

पञ्चके स्वभाववशत ईदृशा बहवो विकल्पा दृष्टा इत्याह-देहादीति ।
देहाद्याकारपरिणतं पञ्चकं प्राणधारणाधीनस्पन्दचैतन्याभ्यां
जीवश्चेतनस्तत्प्रयोजकः स्पन्दः शैलादिकं जडमेव । स्थावरादिशरीरं तु
बाह्यानिलाधीनस्पन्दि अन्तश्चेतनमित्यादिव्यवस्थितविकल्पाः स्वभाववशतो दृष्टा
इत्यर्थः ॥ ६३ ॥

वाचः पर्यनुयोक्तव्याः स्वभावाद्रघुनन्दन ।
शीतोष्णादि हिमाग्न्यादि वाक्चेति परिदृश्यते ॥ ६४ ॥

ननु स्वः स्वात्मको भावः स्वभावः स कथं विरुद्धविकल्पात्मकः स्यात् । विरोधो हि
परसापेक्षः । स्वो भावस्त्वनन्यापेक्षः । यदि स्वीयो भावः स्वभावस्तथाप्यसौ
स्वमात्रसापेक्षो न परसापेक्ष इति कथं परसापेक्षस्य विकल्पस्य स्वरूपं निमित्तं
वा स्यादिति यदि पर्यनुयुज्यते तर्हि त्वया स्वभावं विहाय वाचः पर्यनुयोक्तव्याः । ता
एव हि चिज्जडादिशब्दरूपाः । स्वाः पुनरुक्तायै स्वार्थं व्यावर्तयन्त्यश्चैतन्यजाड्ये
विरुद्धे गमयतः । एवं शीतोष्णादिधर्मपरा हिमाग्न्यादिधर्मिपरा वाक्च सर्वापि
इति एवं प्रकारैव सर्वत्र परिदृश्यत इत्यर्थः । स्वभावादिति ल्यब्लोपे कर्मणि
पञ्चमी ॥ ६४ ॥

गृहीतवासनांशानां पुष्टाभावविकारिणाम् ।
स्थितयः पञ्चकानां हि योज्याः पर्यनुयोजने ॥ ६५ ॥

अथवा वागपि न पर्यनुयोज्या तस्या वासनाकल्पितविकल्पवत्पञ्चकार्थानुवादित्वेन
तत्पराधीनत्वात् । किन्तु गृहीतवासनांशानां तत्तद्विरुद्धविकल्पभावेन
विकारिणां लिङ्गात्मनां पञ्चकानां स्थितय एव पर्यनुयोजने योज्या इत्याह##-

वासनास्तु विपर्यस्ता इतो नेतुमितश्च ताः ।
पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजितुम् ॥ ६६ ॥

अथवा न तासामप्यपराधः । पूर्वपूर्वविरुद्धविकल्पसहस्रवासनानुसारित्वात् । अतः
प्राज्ञेन विरुद्धविकल्पनामूलमन्विष्यता पुंसा चित्तमित इतश्च
विरुद्धविकल्पसहस्रेषु नेतुं विपर्यस्ता विक्षिप्ता वासना एव पर्यनुयोजितुं शक्यन्ते
न स्वभावादय इत्याह-वासना इति ॥ ६६ ॥

अशुभे वा शुभे वापि तेन पर्यनुयोज्यते ।
प्रबुद्धवासनं चान्यत्पञ्चकं सुप्तवासनम् ॥ ६७ ॥

पुंसामशुभे तिर्यक्स्थावरादिभावे शुभे देवादिभावे वा प्रबुद्धवासनं
सुप्तवासनं च पञ्चकं तिष्ठति । तेन वासनैव तद्धेतुः पर्यनुयोज्यत इत्यन्वयः ॥
६७ ॥

यत्र पर्यनुयोगस्य फलं समनुभूयते ।
तत्र तं सम्प्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत् ॥ ६८ ॥

किं च वासनापर्यनुयोगस्य तत्क्षयोपाये प्रवर्तकत्वेन सफलता ।
स्वभावादिपर्यनुयोगस्य न किञ्चित्फलमस्तीत्याह-यत्रेति ॥ ६८ ॥

तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः ।
विवेकनिष्ठाः कीटाद्या एते स्थावरजङ्गमाः ॥ ६९ ॥

अत एव वासनाक्षये पूर्णात्मलाभान्मेर्वाद्याः स्वर्णराशयोऽपि तृणाग्रस्ये
निष्ठेव निष्ठा तुच्छता येषां ते तृणाग्रनिष्ठाः सम्पद्यन्ते । विवेकनिष्ठा
देवादिभोगशालिदेहा अपि कीटाद्या इव तुच्छतराः सम्पद्यन्त इत्याह-तृणाग्रेति ॥
६९ ॥

प्रसुप्तवासनाः केचिद्यथा स्थावरजातयः ।
प्रबुद्धवासनाः केचिद्यथा नरसुरादयः ॥ ७० ॥

अत एव वासनास्वापप्रबोधतारतम्यादेव पञ्चकेषु
स्थावरादिवैचित्र्यमित्युदाहृत्य दर्शयति-प्रसुप्तेति द्वाभ्याम् ॥ ७० ॥

सवासनाविलाः केचिद्यथैते तिर्यगादयः ।
प्रक्षिप्तवासनाः केचिद्यथैते मोक्षगामिनः ॥ ७१ ॥

वासनाभिराविलेनास्वच्छेन चित्तेन सहिताः सवासनाविलाः ।
प्रक्षिप्तवासनास्त्यक्तवासनाः ॥ ७१ ॥

अथ स्वास्वेव संवित्सु मनोबुद्ध्यादिकाः कृताः ।
हस्तपादादिसंयुक्तैः सञ्ज्ञाः पञ्चकराशिभिः ॥ ७२ ॥

वासनावैचित्र्यादेव देवनरादिपञ्चकराशिराकाशभूमिगमनादिविचित्रव्यवहार##-
स्वासु संवित्स्वेव नरादियोग्यव्यवहारोचिता
मनोबुद्ध्यहङ्कारचित्तचक्षुःश्रोत्रप्राणरसनस्पर्शादिका अन्तर्बाह्यकरणरूपाः
सञ्ज्ञाः सङ्केताः कृताः अत एव ताः प्रतिप्राणिविचित्रस्वभावा दृश्यन्त इति
भावः ॥ ७२ ॥

तिर्यगादिभिरप्यन्यैरन्याः सञ्ज्ञाः प्रकल्पिताः ।
स्थावरादिभिरप्यन्यैरन्यान्याः संविदः कृताः ॥ ७३ ॥

तिर्यग्भिः पश्वादिभिस्तु चत्वारः पादाः शृङ्गे पुच्छं चेति । पक्षिभिस्तु चञ्चुः
पक्षौ पुच्छं पादौ चेति । सर्पैस्तु फणा भोगः पुच्छमिति ।
कृमिकीटैर्दंशमशकादिभिश्च स्वस्ववासनानुरूपव्यवहारयोग्या
अवयवादिसङ्केताः कल्पिता इत्यर्थः ॥ ७३ ॥

इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः ।
रूपैराद्यन्तमध्येषु चलाचलजडाजडैः ॥ ७४ ॥

आद्यन्तमध्येषु चलैर्विकारिभिर्जडैश्च । अधिष्ठानसद्रूपेण तु अचलैरजडैश्च ॥ ७४

एषामेकोऽभिसङ्कल्पः परमाणुर्महीपते ।
बीजमाकाशवृक्षाणां सर्गाणां तेष्विमानि तु ॥ ७५ ॥

एवं पञ्चकाख्यलिङ्गभेदाननन्तानुपवर्ण्य तेष्वेकतमस्य
कस्यचित्कर्मोपासनसमुच्चयानुष्ठानफलसमष्ट्यहम्भावं प्राप्तस्य
कश्चिदेकः सङ्कल्पपरमाणुरस्य संसारनभोवृक्षस्य बीजमित्याह-एषामिति ।
समष्टिगोचरत्वादभिव्याप्तः सङ्कल्पोऽभिसङ्कल्पस्तल्लक्षणः परमाणुः
सर्गरूपाणामाकाशवृक्षाणां बीजं तेषु च सर्गाकाशवृक्षेषु इमानि
पञ्चकानीत्यहो मायेत्यर्थः ॥ ७५ ॥

इन्द्रियाणि च पुष्पादि विष्यामोदवर्ति हि ।
इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश्चञ्चलक्रियाः ॥ ७६ ॥

सर्गाणामाकाशवृक्षत्वं यदुक्तं तत्पुष्पतदामोदादिकल्पनयोपपादयति##-
विषयलक्षणेष्वामोदेषु वर्तनशीलं तत् प्रधानमिति यावत् । चञ्चलानां
कर्मेन्द्रियाणां क्रियाः ॥ ७६ ॥

लोकान्तराणि स्वच्छानि गुल्मा मूलं समेरवः ।
पल्लवा नीलजलदा लता लोला दिशो दश ॥ ७७ ॥

स्वच्छानि स्वर्गादिलोकान्तराणि गुल्मा विटपाः । समेरवो मेरुसहिताः सर्वे पर्वता
मूलम् ॥ ७७ ॥

वर्तमानानि भूतानि भविष्यन्ति च यानि तत् ।
जयन्ति तान्यसङ्ख्यानि फलानि रघुनन्दन ॥ ७८ ॥

भूतानि चतुर्विधशरीराणि । तत्तस्य वृक्षस्य ॥ ७८ ॥

पञ्चबीजास्त एते हि राम पञ्चकपादपाः ।
स्वयन्न् स्वभावाज्जायन्ते स्वयन्न् नश्यन्ति कालतः ॥ ७९ ॥

स्वभावात्स्वविवेकशून्यादात्मनः ॥ ७९ ॥

स्वयन्न् नानात्वमायान्ति चिरं जाड्यात्स्फुरन्ति च ।
स्वविविक्ताः शमं यान्ति तरङ्गा इव वारिधौ ॥ ८० ॥

स्वस्माद्विविक्ता विवेकदृष्ट्या दृष्टाः ॥ ८० ॥

इतो यान्ति समुत्सेधमितो यान्ति शमं स्वयम् ।
एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधौ ॥ ८१ ॥

श्लोकद्वयोक्तमेव सङ्गृह्याह-इत इति । इतः पराग्दृष्टेः । इतः प्रत्यग्दृष्टेः
॥ ८१ ॥

ये विवेकवशमालयं गता राम पञ्चकविलासराशयः ।
तेन भूय इह यान्ति संस्थितिं प्रभ्रमन्ति जगतीतरे मुहुः ॥ ८२ ॥

हे राम ये पञ्चकविलासराशयः आलयं निर्वासननाशपर्यन्तं विवेकवशं
गतास्ते इह संसारे भूयो जन्ममरणदेहधारणादिसंस्थितिं न यान्ति । इतरे तु जगति
यथापूर्वं प्रभ्रमन्त्येवेत्यर्थः ॥ ८२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० पञ्चकविलासो नामाशीतितमः सर्गः ॥ ८० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
पञ्चकविलासो नामाशीतितमः सर्गः ॥ ८० ॥